प्रज्ञा विवर्धन स्तोत्र
प्रज्ञा विवर्धन स्तोत्र
अस्य श्री प्रज्ञा विवर्धन स्तोत्र मन्त्रस्य सनत्कुमार ऋषि: स्वामी कार्तिकेयो देवता अनुष्टुप छन्द: मम सकल विद्या सिद्ध्यर्थे , प्रज्ञा वृद्ध्यर्थे प्रज्ञा विवर्धन स्तोत्र जपे विनियोग:
स्कंद उवाच
योगीश्वरो महासेनः कार्तिकेयोऽग्निनन्दनः ।
स्कंदः कुमारः सेनानी स्वामी शंकरसंभवः ॥ १ ॥
गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः ।
तारकारिरुमापुत्रः क्रोधारिश्च षडाननः ॥ २ ॥
शब्दब्रह्मसमुद्रश्च सिद्धः सारस्वतो गुहः ।
सनत्कुमारो भगवान् भोगमोक्षफलप्रदः ॥ ३ ॥
शरजन्मा गणाधीशः पूर्वजो मुक्तिमार्गकृत् ।
सर्वागमप्रणेता च वांछितार्थप्रदर्शनः ॥ ४ ॥
अष्टाविंशतिनामानि मदीयानीति यः पठेत् ।
प्रत्यूषं श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥ ५ ॥
महामंत्रमयानीति मम नामानुकीर्तनात्।
महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥ ६ ॥
।। इति श्री रुद्रयामले प्रज्ञा विवर्धन स्तोत्रं सम्पूर्णम ।।