पुरुषसूक्त ऋग्वेद

॥ पुरुष सूक्तं ॥ ऋग्वेद १०.९०

ओं तच्छंयो रावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवीस्स्वस्तिरस्तुनः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजं। शं न्नो अस्तु द्विपदे। शं चतुष्पदे। ओं शांतिः शांतिः शांतिः॥ सहस्रशीर्षा पुरुषः। सहस्राक्ष सहस्रपात्। स भूमिं विश्वतो वृत्वा। अत्यसिष्ठद्दशांगुलम्। पुरुष एवेदगुं सर्वम्। यद्भूतं यच्च भव्यम्। उतामृतत्वस्येशानः। यदन्नेनातिरोहति। एतावानस्य महिमा। अतो ज्यायागुंश्च पूरुषः॥ पादोस्य विश्वा भूतानि। त्रिपादस्यामृतं दिवि। त्रिपादूर्ध्व उदैत्पुरुषः। पादोस्येहाभवात्पुनः। ततो विष्वङ् व्यक्रामत्। साशनानशने अभि। तस्माद्विराडजायत। विराजो अधि पूरुषः। स जातो अत्यरिच्यत। पश्चाद्भूमिमथो पुरः॥ यत्पुरुषेण हविषा। देवा यज्ञमतन्वत। वसंतो अस्यासीदाज्यम्। ग्रीष्म इध्मश्शरद्धविः। सप्तास्यासन् परिधयः। त्रिस्सप्त समिधः कृताः। देवा यद्यज्ञं तन्वानाः। अबध्ननं पुरुषं पशुम्। तं यज्ञं बर्हिषि प्रौक्षन्। पुरुषं जातमग्रतः॥ तेन देवा अयजंत। साध्या ऋषयश्चये। तस्माद्यज्ञाथ्सर्वहुतः। संभृतं पृषदाज्यम्। पशूगुंस्तागुंश्चक्रे वायव्यान्। आरण्यान् ग्राम्याश्च ये। तस्माद्यज्ञाथ्सर्वहुतः। ऋचस्सामानि जज्ञिरे तस्मात्। यजुस्तस्मादजायत॥ तस्मादश्वा अजायंत। ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्। तस्माज्जाता अजावयः। यत्पुरुषं व्यदधुः। कतिधा व्यकल्पयन्। मुखं किमस्य कौ बाहू। कावूरू पादावुच्येते। ब्राह्मणोस्य मुखमासीत्। बाहू राजन्यः कृतः॥ ऊरु तदस्य यद्वैश्यः। पद्भ्यागुं शूद्रो अजायत। चंद्रमा मनसो जातः। चक्षोस्सूर्यो अजायत। मुखादिंद्रश्चाग्निश्च। प्राणाद्वायुरजायत। नाभ्या आसीदंतरिक्षम्। शीर्ष्णो द्यौस्समवर्तत। पद्भ्यां भूमिर्दिशश्य्रोत्रात्। तथा लोकागुं अकल्पयन्॥ वेदाहमेतं पुरुषं महांतम्। आदित्यवर्णं तमसस्तु पारे। सर्वाणि रूपाणि विचित्य धीरः। नामानि कृत्वाभिवदन् यदास्ते। धाता पुरस्ताद्यमुदाजहार। शक्रः प्रविद्वान् प्रदिशश्चतस्रः। तमेवं विद्वानमृत इह भवति। नान्यः पंथा अयनाय विद्यते। यज्जेन यज्ञमयजंत देवाः। तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानस्सचंते। यत्र पूर्वे साध्यास्संति देवाः॥ अद्भ्यस्संभूतः पृथिव्यै रसाच्च। विश्वकर्मणस्समवर्तताधि। तस्य त्वष्टा विदधद्रूपमेति। तत्पुरुषस्य विश्वमाजानमग्रे। वेदाहमेतं पुरुषं महांतम्। आदित्यवर्णं तमसः परस्तात्। तमेवं विद्वानमृत इह भवति। नान्यः पंथा विद्यतेयनाय। प्रजापतिश्चरति गर्भे अंतः। अजायमानो बहुधा विजायते। तस्य धीराः परिजानंति योनिम्। मरीचीनां पदमिच्छंति वेधसः। यो देवेभ्य आतपति। यो देवानां पुरोहितः। पूर्वो यो देवेभ्यो जातः। नमो रुचाय ब्राह्मये। रुचं ब्राह्मं जनयंतः। देवा अग्रे तदब्रुवन्। यस्त्वैवं ब्राह्मणो विद्यात्। तस्य देवा असन्वशे॥ ह्रीश्चते लक्षीश्चपत्न्यौ। अहोरात्रे पार्श्वे। नक्षत्राणि रूपम्। अश्विनौ व्यात्तम्। इष्टं मनिषाण। अमुं मनिषाण। सर्वं मनिषाण॥ ओं तच्छंयो रावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। दैवीस्स्वस्तिरस्तुनः। स्वस्तिर्मानुषेभ्यः। ऊर्ध्वं जिगातु भेषजं। शं न्नो अस्तु द्विपदे। शं चतुष्पदे। ओं शांतिः शांतिः शांतिः॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!