रेवा खंड स्कंद पुराण 1

रेवा खंड स्कंद पुराण    01 to 30

अध्याय १

मज्जनमातङ्गगण्डच्युतमदमदिरामोदमत्तालिजालम्  ।

स्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्  ॥ १.१ ॥

सायं प्रातर्मुनीनां कुशकुसुमचयाच्छन्नतीरस्थनीरम्  ।

पायाद्वो नर्मदाम्भः करिकरभकराक्रान्तरहस्तरङ्गम्  ॥ १.२ ॥

 

मार्कण्डेय उवाच –

हिमवच्छिखरे रम्ये सिद्धगन्धर्वसेविते  ।

यक्षविद्याधराकीर्णे नानागणसमन्विते  ॥ १.३ ॥

ब्रह्मविष्णुसुराः सर्वे स्कन्दनन्दिगणेश्वराः  ।

चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्  ॥ १.४ ॥

वायुश्च वरुणश्चैव कुबेरोऽथ यमस्तथा  ।

इन्द्राद्या देवतास्सर्वे गन्धर्वगण एव च  ॥ १.५ ॥

ब्राह्म्याद्या मातरश्च ऋषयश्च तपोधनाः  ।

मूर्तिमन्तश्च तीर्थानि चण्डभृङ्गिमहाबलाः  ॥ १.६ ॥

दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः  ।

सूर्यकोटिसमप्रख्यं मणिमाणिक्यशोभितम्  ॥ १.७ ॥

रत्नवैदूर्यसोपानवापीकूपसहस्रकम्  ।

पद्मनीलोत्पलोपेतं नानावृक्षसमन्वितम्  ॥ १.८ ॥

काम्यकामफलैर्वृक्षैः पुष्पितैः फलितैर्युतम्  ।

हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम्  ॥ १.९ ॥

कोककोकिलसंघुष्टं नानापक्षिसमाकुलम्  ।

स्थानं सर्वे हरस्यापुः सिद्धैश्च परिसेवितम्  ॥ १.१० ॥

तत्रासीनं महादेवं शङ्करं लोकशङ्करम्  ।

स्तुवन्तः केऽपि देवेशं केचिन्नृत्यन्ति चाग्रतः  ॥ १.११ ॥

दिव्यसिंहासनासीनमुमया सहितं हरम्  ।

तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् ॥ १.१२ ॥

कृताञ्जलिपुटो भूत्वा साष्टाङ्गं प्रणिपत्य च  ।

सृष्टिसंहारकर्त्तारं सुरासुरनमस्कृतम्  ॥ १.१३ ॥

ब्रह्मविष्ण्विन्द्रवरदं भक्तानां भक्तवत्सलम्  ।

त्र्यम्बकसितकण्ठाय ज्ञाताज्ञातस्वरूपिणे  ॥ १.१४ ॥

ईश्वरायाविनाशाय गजचर्मावगुण्ठिने  ।

कपालमालाभरणद्वीपिचर्मधराय च  ॥ १.१५ ॥

भस्मोद्धूलितदेहाय नमस्तेऽस्तु पिनाकिने  ।

अनन्तानन्तरूपाय कालाय परमेष्ठिने  ॥ १.१६ ॥

सद्यो वामस्तथा घोरस्तत्पुरुषाय ते नमः  ।

ईशानाय परेशाय सदाशिव नमोऽस्तु ते  ॥ १.१७ ॥

ऋग्यजुः सामरूपाय अथर्वाय नमोऽस्तु ते  ।

नमः कालाग्निरूपाय सर्वलोकनिवासिने  ॥ १.१८ ॥

नमः कान्तार्द्धदेहाय वर्षिष्ठाय च ते नमः  ।

ओं नमः शिवाय रूपाय भीमाय भवरूपिणे  ॥ १.१९ ॥

शिवाय भवरूपाय भीमरूपकपर्दिने  ।

त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं सचराचरम्  ॥ १.२० ॥

जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो  ।

क्षमस्व मम ईशान अज्ञानाञ्ज्ञानतोऽपि वा  ॥ १.२१ ॥

 

ईश्वर उवाच –

वरं वृणीष्व भद्रं ते स्तवेनानेन सुव्रत  ।

ददामि ते न सन्देहो वरं मनसि काङ्क्षितम्  ॥ १.२२ ॥

 

स्कन्द उवाच –

यदि तुष्टोऽसि मे देव वरं दातुममेच्छसि  ।

उत्तरे तु दिशाभागे हर्म्या हेममयाः शुभाः  ॥ १.२३ ॥

सप्तभौमास्तु विस्तीर्णहेमप्राकारतोरणाः  ।

नानामणिसमुक्ताद्या वज्रवैदूर्यमण्डिताः  ॥ १.२४ ॥

तत्रैव मधुरा वाणी वेणुवीणाः सहस्रशः  ।

प्रेक्षणीयैर्नृत्यगीतैर्दिव्यकान्तिमनोहरैः  ॥ १.२५ ॥

कस्यैतानि गृहाणीति मेरोरुत्तरतः शिव  ।

त्वत्प्रसादात्तु पृच्छामि परं कौतूहलं हि मे  ॥ १.२६ ॥

 

ईश्वर उवाच –

शृणु स्कन्द सुरश्रेष्ठ कथ्यमानं निबोध मे  ।

भृगुस्थाने पुरे ये वै राहुसूर्व्यसमागमे  ॥ १.२७ ॥

कुरुक्षेत्रे प्रभासे च मोक्षे रुद्रपदे तथा  ।

केदारक्षेत्रके स्थाने रुद्रे कनखले तथा  ॥ १.२८ ॥

भैरवे ललिताक्षेत्रे शिव ध्यात्वा च पुत्रक  ।

ये पृताः शिवनद्यां तु शिवध्यानपरायणा  ॥ १.२९ ॥

तेषां गृहाणि रम्याणि स्वयं कर्मफलार्जितैः  ।

सप्तभौमैर्गृहैर्दिव्यैर्वस्त्रभोगाश्च पुष्कलाः  ॥ १.३० ॥

दत्तानि च मयैतेषां हर्म्यभोगसुखानि च  ।

 

स्कन्द उवाच –

सहस्रशतभौमाश्च वैदूर्यमाणमण्डिताः  ॥ १.३१ ॥

कूटैः कपाटकैर्नद्धसिद्धद्वाराण्यनेकशः  ।

नित्योत्सवैर्नृत्यगीतैः काम्यैर्दिव्यैर्मनोहरैः  ॥ १.३२ ॥

असंख्याता गृहा रम्याः सूर्यकोटिसमप्रभाः  ।

कस्यैतानीह हर्म्याणि पूर्वभागे महेश्वर  ॥ १.३३ ॥

दक्षिणे पश्चिमे चैव नानाभोगाः सहस्रशः  ।

सुरेन्द्रभवने भोगाः कलां नार्हन्ति षोडशीम्  ॥ १.३४ ॥

केन कर्म्मविपाकेन शूभेनाप्यशुभेन वा  ।

कूष्माण्डवासिनश्चक्रे घोरे मज्जन्ति तामसे  ॥ १.३५ ॥

पूयशोणितकूपेषु कृमिकीटपतङ्गिनः  ।

तिर्यग्योनिगताः पापैः पीड्यमानास्तु मानुषाः  ॥ १.३६ ॥

दारिद्र्यदुःखिता दीनाः पच्यमाना बुभुक्षिताः  ।

केन कर्म्मविपाकेन शूभाशुभगति प्रभो  ॥ १.३७ ॥

एतत्सर्वं यथान्यायं कथयस्व प्रसादतः  ।

 

ईश्वर उवाच –

ये मृता नर्मदातीरे सङ्गमे तिग्मदार्शिते  ॥ १.३८ ॥

तेषां गृहाणि रम्याणि पूर्वभागे च षण्मुख  ।

ओंकारदक्षिणे भागे पूर्वतोऽमरकण्टके  ॥ १.३९ ॥

नर्मदाकोटितीर्थे च ये मृताः स्कन्दमानुषाः  ।

हर्म्ये मनोरमे रम्ये ते वसन्ति नरोत्तमाः  ॥ १.४० ॥

भृगावग्नौ जले वापि रेवाकपिलसङ्गमे  ।

दानं दत्तं तपस्तप्तं ते वसन्ति गृहैरिमैः  ॥ १.४१ ॥

गोदावर्य्यां पयस्विन्यां तपत्यां चैव सङ्गमे  ।

त्र्यम्बके धौतपापे च हिमाद्रौ विन्ध्यपर्वते  ॥ १.४२ ॥

महेश्वरमये सह्ये गोकर्णे च महाबले  ।

हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तके  ॥ १.४३ ॥

कृष्णायां ससमुद्रायामेकादश्यां महानदे  ।

कार्तिके योनिकुण्डे च ये म्रियन्ते च पुत्रक  ॥ १.४४ ॥

याम्ये हर्म्ये हेममये तेषां श्रेष्ठास्स्वयम्भुवः  ।

नाना भोगांश्च भुञ्जन्ति यथा शक्रस्त्रिविष्टपे  ॥ १.४५ ॥

सरस्वत्यां त्यजेत्प्राणान् प्रभासे शशिभूषणे  ।

पारियात्रे महाकाले प्रयागे च महापथे  ॥ १.४६ ॥

तेषां गृहाणि रम्याणि नानाभोगाश्च पुष्कलाः  ।

मणिमाणिक्यदीप्ताभाः सौम्ये कोटित्रयोदश  ॥ १.४७ ॥

एवं तथैकाविंशत्या भूर्वे चैवोपवेशिताः  ।

दक्षिणे नवकोट्यस्तु भृता हर्म्या हिरण्मयाः  ॥ १.४८ ॥

गृहा मौक्तिकसंकाशाः कोट्यः षोडश वारुणे  ।

तीर्थयात्राविशेषेण दानधर्मविशेषतः  ॥ १.४९ ॥

भुञ्जन्ति विविधान् भोगान्मया तुष्टेन पुत्रक  ।

मेरोरुत्तरतो भागे दक्षिणे वारुणे तथा  ॥ १.५० ॥

क्रीडन्ति च मनोहारिमन्दिरे देवनिर्मिते  ।

देवानां वार्द्धकिस्तत्र कर्ता विश्वस्य कर्मणः  ॥ १.५१ ॥

सर्वरत्नमयं हर्म्यं भुवनोपरि पश्यसि  ।

पूर्वभागे महासेन नार्मदः फलमश्नुते  ॥ १.५२ ॥

एतत्ते कथितं स्कन्द परिपृष्टं त्वया च यत् ।

देवानां च हितार्थाय तुभ्यं सर्वं मयानघ  ॥ १.५३ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे प्रथमोऽध्यायः ॥

 

 

अध्याय २

 

स्कन्द उवाच –

श्रोतुकामा इमे सर्वे ब्रह्मविष्णुसुरोत्तमाः  ।

प्रभावमीदृशं यस्य तीर्थस्याऽस्य महत्फलम्  ॥ २.१ ॥

नर्मदायास्तथोत्पत्तिं सङ्गमं लिङ्गपूजनम्  ।

पर्वकाले च देवानां पर्वतेऽमरकण्टके  ॥ २.२ ॥

आख्यानसहितं देव कथयस्व यथार्थतः  ।

तीर्थयात्राफलं सम्यग्वंशो मन्वन्तराणि च  ॥ २.३ ॥

भक्त्या युक्तं च यत्किंचित्कथयस्व प्रसादतः  ।

 

सूत उवाच –

श्रुत्वाऽख्यानमिदं पुण्य पुराणं स्कन्दकीर्तितम्  ॥ २.४ ॥

भविष्यभूततत्त्वज्ञः सप्तकल्पानुवर्तकः  ।

आजगामाऽथमार्कण्डऋषिभिः सहितस्तदा  ॥ २.५ ॥

सर्वकामसमृद्धात्मा श्रेयान् त्वेनैव पूजितः  ।

सपादलक्षमधिकमृषीणां चोग्रतेजसाम्  ॥ २.६ ॥

ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे  ।

एतैः परिवृतः श्रीमान्मध्येऽरण्याश्रमं प्रति  ॥ २.७ ॥

तीर्थयात्राफलं प्राप्य नर्मदातटमाश्रितः  ।

श्रुत्वा महान्तं मार्कण्डप्रभावं लोमहर्षणः  ॥ २.८ ॥

आजगाम ततो द्रष्टुमृषिं कल्मषनाशनम्  ।

नर्मदाप्रवाहे पुण्ये सिद्धगन्धर्वसेविते  ॥ २.९ ॥

यक्षविद्याधराकीर्णे किन्नरैरुपशोभिते  ।

नानादेवगणाकीर्णे नानागणनिषेविते  ॥ २.१० ॥

रेवावतरणं श्रुत्वा प्रभावं पुण्यसङ्गतम्  ।

ननृतुर्देवतास्तत्र सिद्धविद्याधरा नराः  ॥ २.११ ॥

कह्लारैः शतपत्रैश्च पुन्नागैर्नागचम्पकैः  ।

आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा  ॥ २.१२ ॥

निम्बजम्बीरनारङ्गैः कदलीषण्डमण्डितैः  ।

कुमुदैर्नागवल्ल्याद्यैः शालेयैश्च तमालकैः  ॥ २.१३ ॥

बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः  ।

बिल्वचन्दनपील्वाद्यैः कदम्बकुटजैस्तथा  ॥ २.१४ ॥

सर्वकामफलैर्वृक्षैः फलितं पुष्पितं भृशम्  ।

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम्  ॥ २.१५ ॥

कोकिलाबर्हिणशुकैर्नानापक्षिविनादितम्  ।

जातिस्मरा पक्षिणश्च व्याजह्रुर्मानुषीङ्गिरम्  ॥ २.१६ ॥

गन्धर्वकिन्नरयुतैर्यक्षविद्याधरोरगैः  ।

क्रीडते मिथुनं दिव्यं शनैर्गिरिवरोत्तमे  ॥ २.१७ ॥

दिव्यगन्धर्वनृत्यैश्च वेणुवीणासहस्रशः  ।

दिव्योद्भवैः प्रेक्षणीयैः शोभितैर्गिरिगह्वरे  ॥ २.१८ ॥

गीतध्वनिनिनादेन दिवं भूमिं व्यनादयन्  ।

ब्रह्मर्षयो देवर्षयस्तथा राजर्षयः परे  ॥ २.१९ ॥

वेदध्वनितयज्ञानामग्निहोत्रप्रकाशतः  ।

ऋग्यजुःसामाथर्वाणि चातुर्वर्ण्या द्विजोत्तमाः  ॥ २.२० ॥

पुलस्त्यश्च वसिष्ठश्च पुलहश्च क्रतुस्तथा  ।

भृगुरत्रिर्मरीचिश्च भारद्वाजोऽथ काश्यपः  ॥ २.२१ ॥

मनुर्यमोऽङ्गिराश्चैव शातातपपराशरौ  ।

आपस्तम्बोऽथ शम्बश्च काव्यः कात्यायनो मुनिः  ॥ २.२२ ॥

गौतमः शङ्खलिखितौ दक्षः कात्यायनिस्तथा  ।

जामदग्न्यो याज्ञवल्क्य ऋष्यशृङ्गो विभाण्डकः  ॥ २.२३ ॥

गर्गशौनकदाल्भ्या व्यास उद्दालकः शुकः  ।

नारदः पर्वतश्चैव दुर्वासाश्चोग्रतापसः  ॥ २.२४ ॥

शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा  ।

विश्वामित्रः कौशिकश्च ऋषयो देवसम्मताः  ॥ २.२५ ॥

तथा धर्मशतानन्दवैशम्पायनवैष्णवाः  ।

शाकलायनवार्द्धक्यौ जुहुतिश्चावसुस्तथा  ॥ २.२६ ॥

बालखिल्या महात्मानो भूमिमण्डलवासिनः  ।

ब्रह्मदण्डं समारुहा देवलोकं व्रजन्ति ये  ॥ २.२७ ॥

एते चान्येऽव्रजंस्तत्र ऋषयो धार्मिकाः परे  ।

ज्वलन्तस्तेजसा सर्वे निर्धूमा इव पावकाः  ॥ २.२८ ॥

मासोपवासिन केचित्केचित्पक्षोपवासिनः  ।

त्रिरात्रकाः सान्तपना निराहारास्तथा परे  ॥ २.२९ ॥

केचित्पुष्पफलाहाराः शान्ता वाताशनिस्तथा  ।

केचिद्गोमयभक्ष्याश्च जलाहारास्तथापरे  ॥ २.३० ॥

साग्निहोत्राश्च विद्वांसो मोक्षवेदार्थचिन्तकाः  ।

इतिहासपुराणादि श्रुतिस्मृतिविशारदाः  ॥ २.३१ ॥

एते चान्ये च बहवो मार्कण्डेयं प्रियया तपस्विनः  ।

एतैश्च संतिष्ठनृक्षैरिव निशाकरः  ॥ २.३२ ॥

तीर्थयात्राफलं श्रुत्वा धर्मपुत्रो युधिष्ठिरः  ।

अभिज्ञैर्ब्राह्मणैः सार्धं द्रौपद्या प्रियया सह  ॥ २.३३ ॥

विद्वद्भिर्वेदविद्भिश्च ब्रह्मिष्ठैर्ब्रह्मचिन्तकैः  ।

नर्मदातीरमायाते मार्कण्डेयाश्रमं प्रति  ॥ २.३४ ॥

प्रदक्षिणत्रिः प्रणम्य साष्टाङ्गं च पुनः पुनः  ।

उपविष्टस्तदा तत्र भ्रातृभिस्सह धर्मजः  ॥ २.३५ ॥

उपविष्टं नृपं दृष्ट्वा मार्कण्डेयो महामुनिः  ।

उवाच वचनं देवं धर्मपुत्रं युधिष्ठिरम्  ॥ २.३६ ॥

कुशलं नृपशार्दूल भ्रातृभिर्ब्राह्मणैः सह  ।

प्रहस्य सोऽब्रवीद्वाक्यं मार्कण्डं मुनिसत्तमम्  ॥ २.३७ ॥

अद्य मे सफलं जन्म जीवितं च सुजीवितम्  ।

कृतकृत्योऽभवं त्वद्य त्वत्पादाम्बुजदर्शनात् ॥ २.३८ ॥

अद्य मेऽन्तर्मलं नष्टं पापोच्छेदननिर्म्मलम्  ।

दृष्ट्वा तपोवनं सर्वं ज्वलन्तं सूर्यवर्चसम्  ॥ २.३९ ॥

निर्मुक्तः किल्बिषादस्मात्सप्तजन्मान्तराद्विभो  ।

रन्त्वा चोत्तरदिग्भागे देवभूमिं मनोहराम्  ॥ २.४० ॥

गङ्गां त्रिपथगां देवीं यमुनां च सरस्वतीम्  ।

गङ्गाद्वारं हिमस्थानं कुब्जाग्रं ब्रह्मयोनिकम्  ॥ २.४१ ॥

उग्रं कनखलञ्चैव केदारं भैरवं तथा  ।

नैमिषं च गयातीर्थं कुरुक्षेत्रं च पुष्करम्  ॥ २.४२ ॥

वाराणसीं प्रयागं च गङ्गासागरसङ्गमम्  ।

कालञ्जरं चाप्यतीर्थं प्रभासं शशिभूषणम्  ॥ २.४३ ॥

पुण्यान्येतानि चान्यानि त्यक्त्वा क्षेत्राणि सुव्रत  ।

सेव्यते केन कार्व्येण नर्मदैव महानदी  ॥ २.४४ ॥

भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदिक  ।

श्रोतुकामा इमे सर्वे कथयस्व प्रसादतः  ॥ २.४५ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाबाहो ब्राह्मणैर्भ्रातृभिः सह  ।

तत्तेऽहं कथयिष्यामि पुराणं स्कन्दकीर्तितम्  ॥ २.४६ ॥

स्वायम्भुवेऽथ मुनय आदिकल्पे कृते युगे  ।

देवानां सङ्गमे तत्र कैलासे च शिवालये  ॥ २.४७ ॥

कार्तिक्यां देवदेवेशं हरं द्रष्टुं समाययुः  ।

प्राक्पृष्टं कार्त्तिकेयेन धर्माधर्मनिदर्शनम्  ॥ २.४८ ॥

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  ।

विष्णुब्रह्मादिदेवानां शृण्वतां यक्षरक्षसाम्  ॥ २.४९ ॥

अष्टलक्षाणि सार्द्धानि शिवलोके च गीयते  ।

तदर्द्धं वैष्णवे लोके चार्द्धार्द्धं ब्रह्मणः पुरे  ॥ २.५० ॥

चतुरशीतिसहस्राणि मर्त्यलोके च गीयते  ।

आराधितः शिवः पूर्वं ब्रह्माद्यैश्च सुरासुरैः  ॥ २.५१ ॥

ततस्तुष्टः सुरेशानो वरं दातुं यथेप्सितम्  ।

 

देवा ऊचुः॒

यदि तुष्टोऽसि देवेश देवानां वरदो भव  ॥ २.५२ ॥

सप्तद्वीपा वसुमती वसुधा कर्म्मभागिनी  ।

नवमद्वीपपर्य्यन्तं जम्बूद्वीपं प्रचक्षते  ॥ २.५३ ॥

वापी कूपसहस्राणि नवार्णः सरितो नहि  ।

न सृताश्चापगाः शर्वपितृघोरावतारिणीः  ॥ २.५४ ॥

तिलोदकप्रदानेन पितॄन् पातुं हि साम्प्रतम्  ।

तारिणी सर्वलोकानामवतारय नर्मदाम्  ॥ २.५५ ॥

 

ईश्वर उवाच –

दुष्प्राप्यं त्रिदशैः सर्वैरयाच्यं याच्यते सुराः  ।

वेगं शक्नोति कः सोढुं तत्तोयभ्रमणस्य च  ॥ २.५६ ॥

तोयं भूतं जगत्सर्वं निपतिष्यज्जवेन तु  ।

याचध्वमन्यां सरितं सुखसाध्यान्तरङ्गिणीम्  ॥ २.५७ ॥

 

देवा ऊचुः॒

काऽन्या तारयितुं शक्ता पुण्या सोढुं सरिद्वरा  ।

मुक्त्वा त्रिनयनेशानीं नर्मदां शोकतारिणीम्  ॥ २.५८ ॥

देवानां वचनं श्रुत्वा समाहूता सरिद्वरा  ।

आगता च ततो देवी सर्वाभरणभूषिता  ॥ २.५९ ॥

प्रत्यक्षा मकरारूढा देवदेवस्य चाज्ञया  ।

देव मे देहि वक्तव्यं कर्तव्या तु कृपा मयि  ॥ २.६० ॥

निशम्य तद्वचसौम्यं नर्मदायास्त्रिलोचनः  ।

उवाच वचनं श्लक्ष्णं मर्त्यलोकेऽद्य गम्यताम्  ॥ २.६१ ॥

लोकानां च हितार्थाय मर्त्यानां च विशेषतः  ।

 

नर्मदोवाच –

तवाज्ञां च करिष्येऽहं निराधारा कथं विभो  ॥ २.६२ ॥

को मां धर्तुं च शक्नोति मही यास्यति विप्लवम्  ।

आदिदेश ततः सर्वान् पर्वतान् परमेश्वरः  ॥ २.६३ ॥

आदिश्यैतांश्च तान् सर्वांस्ततो देवः स्वयं शिवः  ।

 

पर्वता ऊचुः॒

न शक्नुमो वयं सर्वे धर्तुं वेगं च नार्मदम्  ॥ २.६४ ॥

भेदमाप्नोति वै पृथ्वी शतधा यान्ति भूभृतः  ।

ऋक्षवानब्रवीद्देवं देह्याज्ञा त्रिदशेश्वर  ॥ २.६५ ॥

धारयामि च सत्येन त्वत्प्रसादादुमापते  ।

ततोऽवतारिता देवी जम्बूद्वीपे नराधिप  ॥ २.६६ ॥

दारयित्वा महीं सर्वां सशैलवनकाननाम्  ।

ततो देवगणैरुक्ता मर्यादां वह सुव्रते  ॥ २.६७ ॥

एकविंशत्सहस्राणि योजनानां प्रमाणतः  ।

सभित्त्वा सप्तपातालान् रसातलतलं ययौ  ॥ २.६८ ॥

देवलोकं जगामाऽथ प्रलये समुपस्थिते  ।

प्रथमा कथिता राजन्नवतारस्य कल्पना  ॥ २.६९ ॥

स्वारोचिषे द्वितीये तु आदिकल्पे युगेऽनघ  ।

न सागरा न सरितो न तीर्थानि न सङ्गमः  ॥ २.७० ॥

त्रेतायुगेऽवतीर्णा तु पुरा भागीरथी सरित् ।

जह्नुना चुलुकेनैव हृदि मध्ये व्यवस्थिता  ॥ २.७१ ॥

सा कथं सेव्यते राजस्त्यक्त्वा चैव तु कल्पगाम्  ।

अज्ञानतमसाछन्ना विष्णुमायाविमोहिताः  ॥ २.७२ ॥

त्यक्त्वा वै नर्मदां राजन् सेवन्तेऽन्यां नदीं सुराः  ।

यावृशं सूर्यदेवानां मणिरत्नप्रभासु च  ॥ २.७३ ॥

अन्तरं तादृशं राजन्नर्मदाऽन्यापगासु च  ।

श्रुत्वाख्यानमिदं पुण्यं शङ्करस्य प्रभावतः  ॥ २.७४ ॥

सेव्यते सप्तगा तत्र पुराणं स्कन्दकीर्तितम्  ।

एतत्ते कथितं राजन् यथादृष्टं यथा श्रुतम्  ॥ २.७५ ॥

कृतकृत्यः सर्वकामान् ब्राह्मणैर्वेदपारगैः  ।

प्राप्नोषि परमं स्थानं वंशक्षयविवर्जितम्  ॥ २.७६ ॥

श्रुत्वाख्यानमिदं पुण्यं पवित्रमघनाशनम्  ।

ये शृण्वन्ति सदा नित्यं गोहत्या च प्रणश्यति  ॥ २.७७ ॥

 

इति श्रीरेवाखण्डे आदिकल्पकथनं द्वितीयोऽध्यायः ॥

 

 

अध्याय ३

 

युधिष्ठिर उवाच –

रेवाऽवतरणं पुण्यं सङ्गमं लिङ्गमर्चितम्  ।

तीर्थयात्राप्रमाणश्च युगमन्वन्ताराणि च  ॥ ३.१ ॥

पर्वतस्यतु माहात्म्यं तत्र नद्यां यथोचितम्  ।

पर्वकालस्तु देवानां तीर्थे तीर्थे विशेषतः  ॥ ३.२ ॥

पत्तनस्य तु माहात्म्यं तत्र वासं यथोचितम्  ।

भृगोस्तु कीर्तनं पुण्यं ब्रह्महत्याविमोचनम्  ॥ ३.३ ॥

केनाऽवतीर्य कार्येण जम्बूद्वीपे सरिद्वरा  ।

शिवलोकं गता सा तु तन्मे वद महामुने  ॥ ३.४ ॥

उक्तानुक्ताश्च यत्किंचित्कथयस्व प्रसादतः  ।

 

मार्कण्डेय उवाच –

श्रूयतां राजराजेन्द्र कथ्यमानं निबोध मे  ॥ ३.५ ॥

हिरण्यकशिपुश्चासीद्युगे चाद्ये महाऽसुरः  ।

शिवप्रसादसम्पन्नो ह्यलं मातृबलोत्कटः  ॥ ३.६ ॥

निर्जिता देवतास्तेन पलायनपरायणाः  ।

जग्मुः शरणमुद्विग्ना भयार्ता भयविह्वलः  ॥ ३.७ ॥

शङ्खचक्रधरं देवं ससारार्णवतारणम्  ।

शरणश्च प्रपन्नाः स्मो माधवं मधुसूदन  ॥ ३.८ ॥

अग्निहोत्राश्च वेदाश्च न देवानां च याजनम्  ।

न स्वाध्यायो न यज्ञाश्च न हुतं पितृतर्पणम्  ॥ ३.९ ॥

व्यावितं दानवैर्दुष्टैर्धर्मकर्म च नाशितम्  ।

एतस्मिन्नन्तरे राजन् विष्णुना प्रभविष्णुना  ॥ ३.१० ॥

दैत्याश्च निहतास्सर्वे नृसिंहवपुषा तु ते  ।

पुनःप्रवर्तते धर्मो देवब्राह्मणयाजनम्  ॥ ३.११ ॥

क्षयिता दानवास्सर्वे पापकर्म्मरताऽधमाः  ।

गता तेनैव कार्येण नर्मदा लोकधारिणी  ॥ ३.१२ ॥

स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ।

अवतारं पुनर्मर्त्ये देवी त्रिदशपूजिता  ॥ ३.१३ ॥

करिष्यति नरश्रेष्ठलोकानां हितकाम्यया  ।

धर्मकर्मरतं ज्ञात्वा मर्त्यं सुरगणार्चितः  ॥ ३.१४ ॥

 

मार्कण्डेय उवाच –

आसीत्पुरा चक्रवर्ती सोमवंशे पुरूरवाः  ।

शशास पृथिवीं सर्वां यथाशक्रस्त्रिविष्टपम्  ॥ ३.१५ ॥

एकदा स नृपश्रेष्ठः सभामध्ये पुरूरवाः  ।

पप्रच्छ ब्राह्मणान् वृद्धान् वृद्धसेवी धृतव्रतः  ॥ ३.१६ ॥

यज्ञादिभिर्विना केन मानवाः पापमोहिताः  ।

स्वर्गं प्रापुरुपायेन तन्मे वद यथातथम्  ॥ ३.१७ ॥

 

ब्राह्मणा ऊचुः॒

आस्ते स्वर्गे महाराज नर्मदा लोकपावनी  ।

अवतारयतां स्वर्गाल्लोकानां पापहारिणीम्  ॥ ३.१८ ॥

तेषां तद्वचनं श्रुत्वा द्विजानां विधृतामनाम्  ।

आराधयामास देवमयुतं साग्रमेव च  ॥ ३.१९ ॥

कन्दमूलफलैः शाकैर्जलाहारैस्तथापि सः  ।

शिवभक्तिपरो नित्यं विशुद्धेनान्तरात्मना  ॥ ३.२० ॥

ततस्तुष्टो महादेवो वरं वरय पुत्रक  ।

ददामि ते न सन्देहो यथेष्टं मनसेप्सितम्  ॥ ३.२१ ॥

 

पुरूरवा उवाच –

यदि तुष्टो महादेव वरं दातुं ममेच्छसि  ।

हिताय सर्वलोकानामवतारय नर्मदाम्  ॥ ३.२२ ॥

नवखण्डास्सप्तद्वीपास्त्वापगास्सरितः तथा  ।

निमग्नं नरके घोरे जगत्सर्वं मया श्रुतम्  ॥ ३.२३ ॥

लक्षयोजनपर्य्यन्तं जम्बूद्वीपं निराश्रयम्  ।

न देवास्तृप्तिमायान्ति न मातृपितृमानुषाः  ॥ ३.२४ ॥

एतच्छ्रुत्वा महादेवो नरदेवस्य भाषितम्  ।

 

हर उवाच –

उवाच दुर्लभं देवैरयाच्यं याच्यते नृप  ॥ ३.२५ ॥

वरमन्यं प्रयच्छामि वर्जयित्वा तु नर्मदाम्  ।

 

पुरूरवा उवाच –

नान्यं वरं महादेव प्राणत्यागेऽपि प्रार्थये  ॥ ३.२६ ॥

ज्ञात्वा तु निश्चयं राज्ञस्तपसोग्रेण साधनम्  ।

आज्ञापिता मेकला साऽवतर त्वं सुरेश्वरि  ॥ ३.२७ ॥

पुरूरवाविपाकेन मर्त्यलोकहितं कुरु  ।

आज्ञापितागता सा च शिवस्याग्रे व्यवस्थिता  ॥ ३.२८ ॥

कृताञ्जलिपुटा भूत्वा ममादेशोऽद्य दीयताम्  ।

 

हर उवाच –

स्वर्गात्प्रयाहि रेवे त्वं मर्त्यलोकं ममाज्ञया  ॥ ३.२९ ॥

पुरूरवस्तपः सत्यं कुरु कल्याणि साम्प्रतम्  ।

 

नर्मदोवाच –

कथमीश निराधारा स्वर्गाद्यास्याम्यहं धराम्  ॥ ३.३० ॥

ततस्तद्वचनं श्रुत्वा देवदेव उमापतिः  ।

आवाहयामास सर्वानष्टौ कुलनगोत्तमान्  ॥ ३.३१ ॥

उवाच पर्वतान् देवः कः सरिद्धारणे क्षमः  ।

 

पर्वता ऊचुः॒

शतधा भेदमायान्ति जलाघातान्महाद्रयः  ॥ ३.३२ ॥

अभाषत ततो विन्ध्यो धर्तुमुत्सहते नदीम्  ।

मम पुत्रः सुरेशाग्र्य त्वत्प्रसादान्न संशयः  ॥ ३.३३ ॥

पर्यङ्क इति विख्यातः कन्दर्पदृढविक्रमः  ।

ज्येष्ठः सर्वगणैर्युक्तो मान्यः सर्वमहीभृताम्  ॥ ३.३४ ॥

देवैरपि च दुर्ज्ञेयः शिवायाश्चर्चने रतः  ।

सन्त्येव पर्वतास्सर्वे यद्यपीह महेश्वर  ॥ ३.३५ ॥

तथापि धारणे शक्तः स एवेह न संशयः  ।

अशक्ता विकला वृद्धास्सर्व एव महीधराः  ॥ ३.३६ ॥

अनुज्ञां देहि पर्यङ्कः क्षमस्तां धर्तुमापगाम्  ।

अनुज्ञातश्च देवेन पर्यङ्कः स नगोत्तमः  ॥ ३.३७ ॥

उवाच धारयिष्येऽहं त्वत्प्रसादान्महेश्वर  ।

ततः प्रचलिता देवी मूर्ध्नि पर्यङ्कभूभृत  ॥ ३.३८ ॥

जलौघवेगभ्रमणात्सशैलवनकानना  ।

प्लाविता वसुधा सर्वा अकालकलितं जगत् ॥ ३.३९ ॥

स्तुता देवगणैः सर्वैस्तदा मेकलकन्यका  ।

मर्यादां वह कल्याणि लोकानां हितकारिणी  ॥ ३.४० ॥

त्वया व्याप्तमिदं सर्व त्रैलोक्यं सचराचरम्  ।

ततः संवृतरूपेण शिवाज्ञातश्च मेकला  ॥ ३.४१ ॥

प्रमाणतो योजनानां सहस्राण्येकविंशति  ।

रसातलं सा विविशे तर्पयित्वा पितामहान्  ॥ ३.४२ ॥

स्पृश मां त्वं स्वहस्तेन इत्युक्तः स पुरूरवाः  ।

पीत्वा च सलिलं दत्ते पितृभ्यश्च तिलोदकम्  ॥ ३.४३ ॥

अगमन् परमं स्थानं यत्सुरैरपि दुर्लभम्  ।

पवित्रं परितस्सर्वं त्रैलोक्यं सचराचरम्  ॥ ३.४४ ॥

सेव्यते तेन कार्य्येण नर्मदा सप्तकल्पगा  ।

एतत्ते कथितं राजन्नाख्यानं च शिवोदितम्  ॥ ३.४५ ॥

वैवस्वतमिदानीं तु द्वापरान्ते समुद्यते  ।

त्वं राजा भ्रातृभिः सार्द्धं सत्यसंधो दृढव्रतः  ॥ ३.४६ ॥

त्रेतायाः प्रथमे पादे गङ्गा भागीरथी स्मृता  ।

अदहत्कपिलश्चास्य पितॄणामयुतानि षट् ॥ ३.४७ ॥

मोहितामायया विष्णोर्गता सप्तरसातलम्  ।

एव मन्दाकिनी नाम त्वन्या गङ्गा सरिद्वरा  ॥ ३.४८ ॥

मेकलातोयसम्पूर्णास्सागरास्सप्तयन्त्रिताः  ।

तृतीये च तथा पादे अवतीर्णा सरस्वती  ॥ ३.४९ ॥

स्थानेश्वरगता सा तु पुनर्गङ्गा समागमे  ।

गङ्गाकनखले पुण्या गङ्गासागरसङ्गमे  ॥ ३.५० ॥

ऊर्ध्वतीर्थे प्रयागे च वाराणस्यां विशेषतः  ।

प्राची सरस्वती यत्र कुरुक्षेत्रे च पुण्यदा  ॥ ३.५१ ॥

प्रणष्टे द्वावशादित्ये प्रलये समुपस्थिते  ।

सप्तकल्पक्षये वृत्ते न मृता तेन नर्मदा  ॥ ३.५२ ॥

सरितश्च क्षयं यान्ति गङ्गाद्याश्च सहस्रशः  ।

नर्मदा तिष्ठते देवी सप्तकल्पानुगामिनी  ॥ ३.५३ ॥

ब्राह्मी सरस्वती मूर्तिवैष्णवी त्रिपथा स्मृता  ।

नर्मदा शाङ्करी मूर्तिर्नद्यस्तिस्रस्त्रिदेवताः  ॥ ३.५४ ॥

गङ्गा च यमुना चैव सरयूश्च सरस्वती  ।

शतभागा चन्द्रभागा रम्या सिन्धुर्महानदी  ॥ ३.५५ ॥

इरावती च कपिला नर्मदा सवितस्तिका  ।

दण्डकी गण्डकी चैव घर्घरा च महानदी  ॥ ३.५६ ॥

शोणो महानदश्चैव वेदिका च तरङ्गिणी  ।

ब्रह्मवाहा विष्णुवाहा सारङ्गा गौतमी तथा  ॥ ३.५७ ॥

विश्ववाहा धेनुमती अपारा अपरा तथा  ।

वेत्रवती च कुमुदा महातापी पयोष्णिका  ॥ ३.५८ ॥

वेणा च दुग्धिका शिप्राऽजहासाऽभ्रमती तथा  ।

कृष्णा भीमरथी चैव तुङ्गभद्रा महानदी  ॥ ३.५९ ॥

गोदावरीति विख्याता गङ्गा सा दक्षिणा स्मृता  ।

नद्यश्चैव तथा चान्यास्सर्वतीर्थानि सागराः  ॥ ३.६० ॥

सर्वास्ताः प्रलयं यान्ति वर्जयित्वा तु कल्पगाम्  ।

गङ्गा किं वर्ण्यते देवी हरेण शिरसा धृता  ॥ ३.६१ ॥

गौरी वार्द्धशरीरस्था शिवस्य परमेष्ठिनः  ।

नर्मदा वर्ण्यते देवी सप्तकल्पानुगामिनी  ॥ ३.६२ ॥

ते देशाः पर्वताः पुण्यास्ते ग्रामास्तेऽपि चाश्रमाः  ।

यत्र याता सरिच्छ्रेष्ठा नर्मदा सप्तकल्पगा  ॥ ३.६३ ॥

त्रिभिः सारस्वतं पुण्यं सप्ताहेन तु यामुनम्  ।

सद्यः पुनाति गाङ्गेयं दर्शनादेव नर्मदा  ॥ ३.६४ ॥

रेवातटेषु ये वृक्षाः पतिताः कालपर्यये  ।

नर्मदातोयसंस्पृष्टास्तेऽपि यान्ति पराङ्गतिम्  ॥ ३.६५ ॥

रेवाया यत्र कुत्रापि सङ्गमे भरतर्षभ  ।

स्नानं दानं जपो होमः स्वाध्यायः पितृपूजनम्  ॥ ३.६६ ॥

देवताराधनं दीक्षा न्यासो देहविसर्जनम्  ।

यत्किंचित्क्रियते मर्त्यैस्तदनन्तफलं स्मृतम्  ॥ ३.६७ ॥

गोसहस्रशतं धेनु महादानानि कृत्स्नशः  ।

वैशाख्यामथवा माध्यां कार्त्तिक्यां ग्रहणायने  ॥ ३.६८ ॥

विषुवे संक्रमे भानोर्व्यतीपाते च वैधृतौ  ।

दर्शे दिनक्षये वृद्धौ मन्वादिषु युगादिषु  ॥ ३.६९ ॥

कल्पादौ च युगादौ च मातापित्रोः क्षयेऽहनि  ।

ओंकारे वा भृगौ क्षेत्रे विशेषादुपसङ्गमे  ॥ ३.७० ॥

रेवायां स्नानदानानि जपहोमार्चनादिकम्  ।

यः कुर्यान्मनुजश्रेष्ठः सोऽश्वमेधफलं लभेत् ॥ ३.७१ ॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नाऽत्र संशय  ।

कुलानां शतमागामि समतीतं तथा शतम्  ॥ ३.७२ ॥

उद्धरेदात्मना सार्द्धं रेवातीर्थावगाहनात् ।

ग्रामार्द्धं ग्राममेकं वा यो दद्यान्नर्मदातटे  ॥ ३.७३ ॥

स लभेद्विपुलां लक्ष्मीमत्यन्तफलमश्नुते  ।

नर्मदातीरसम्भूतां मृदं मूर्ध्नि बिभर्ति यः  ॥ ३.७४ ॥

बिभर्ति मूर्तिमर्कस्यतमोनाशाय केवलम्  ।

यत्र यत्र नरः स्नायात्नर्मदाया युधिष्ठिर  ॥ ३.७५ ॥

प्राप्नुयादश्वमेधस्य फलमेतच्छिवोदितम्  ।

नर्मदातोयपानस्य स्नानस्य प्रेक्षणस्य च  ॥ ३.७६ ॥

अपि चान्द्रायणशत तुल्यं भवति वा न वा  ।

नर्मदा कीर्तयेद्यस्तु प्रातरुत्थाय मानवः  ॥ ३.७७ ॥

सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति  ।

सङ्गमेन समायुक्ता नर्मदालिङ्गसङ्गता  ।

हयमेधफलं तत्र स्नात्वा शिवपुरं व्रजेत् ॥ ३.७८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाद्वितीयाऽवतारकथनं नाम तृतीयोऽध्यायः ॥

 

 

अध्याय ४

 

युधिष्ठिर उवाच –

हिरण्यतेजसा पूर्व राज्ञा वै नर्मदा कथं  ।

मर्त्येऽवतारिता देवी तत्सर्वं वक्तुमर्हसि  ॥ ४.१ ॥

 

मार्कण्डेय उवाच –

हिरण्यतेजा राजर्षिः सोमवंशे महीपते  ।

सर्वधर्मभृतां श्रेष्ठः प्रजापतिसमोऽभवत् ॥ ४.२ ॥

एकछत्रां शशासोर्वीं सशैलवनकाननाम्  ।

ख्याता चन्द्रपुरी तस्य शक्रस्येवामरावती  ॥ ४.३ ॥

निराबाधाः प्रजास्तत्र भयदारिद्र्यवर्जिताः  ।

चिरायुषो नरास्तत्र समालक्षं तु जीविनः  ॥ ४.४ ॥

स्वयं कामदुघा धेनुर्धरणी सस्यशालिनी  ।

कौशेयपट्टवस्त्राश्च वृक्षे वृक्षे समुद्भवा  ॥ ४.५ ॥

एतस्मिन्नन्तरे प्राप्ते ह्यमावास्यां रविग्रहे  ।

सत्कारोऽत्रास्ति देवानां पितॄणां च विशेषतः  ॥ ४.६ ॥

वापीकूपसरो दिव्यं जम्बूद्वीपः प्रकीर्तितः  ।

स्रवन्ती निम्नगा काचित्तस्मिन् द्वीपे न विद्यते  ॥ ४.७ ॥

गवां शतसहस्राणि हेमरत्नं मणींस्तथा  ।

कोशं हयानसंख्यातान्मत्तांश्च वरदन्तिनः  ॥ ४.८ ॥

ग्रस्ते च राहुणा सूर्ये ब्राह्मणान् प्रददौ नृपः  ।

पुरो धर्मसहस्राणि हेमरत्नमणींस्तथा  ॥ ४.९ ॥

अतर्पयत्पितॄंश्चापि हव्यकव्येन भारत  ।

कश्मलं जलपानं चापश्यत्पितृजुगुप्सितम्  ॥ ४.१० ॥

क्षुत्क्षामकण्ठताल्वोष्ठान् कश्मलांश्च मृदम्भसा  ।

नग्नान्मलिनवस्त्रांश्च शतशोऽथ सहस्रशः  ॥ ४.११ ॥

हिरण्यतेजा राजर्षिः पश्यति स्म तदा पितॄन्  ।

 

हिरण्यतेजा उवाच –

के यूयं विकृताकाराः प्रेतभूता बुभुक्षिताः  ॥ ४.१२ ॥

मज्जन्ते नरके घोरे रौरवे लोमहर्षणे  ।

कथयध्वं यथान्यायं कर्म्मणा केन पाविताः  ॥ ४.१३ ॥

 

पितर ऊचुः॒

शृणु राजन्महाभाग कथ्यमानं निबोध च  ।

सरिद्धीनमिदं द्वीपं धर्मकर्मविनाशितम्  ॥ ४.१४ ॥

न देवास्तृप्तिमायान्ति पितरो वा कथञ्चन  ।

पितॄन्मोचयितुं शक्ता दुराराध्या सुरैरपि  ॥ ४.१५ ॥

आगमिष्यति द्वीपेऽस्मिन् रेवा मुक्तिर्भविष्यति  ।

एतत्ते कथित राजन् यथेष्टं कर्तुमर्हसि  ॥ ४.१६ ॥

 

हिरण्यतेजा उवाच –

पितॄणां मोक्षणं कार्यं यथा यान्ति पराङ्गतिम्  ।

मया राज्येन किं कार्यं जीवितश्च निरर्थकम्  ॥ ४.१७ ॥

एवमुक्त्वा ययौ राजा ह्युदयं सिद्धिपर्वतम्  ।

कन्दमूलफलाहारः शिवध्यानपरायणः  ॥ ४.१८ ॥

दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थित  ।

राज्ञस्तु परमां भक्तिं ज्ञात्वा वै तत्र त्र्यम्बकः  ॥ ४.१९ ॥

वृषारूढस्त्रिनेत्रश्च देवदेवो महेश्वर  ।

प्रत्यक्ष तस्य राज्ञश्च तदात्मानमदर्शयत् ॥ ४.२० ॥

स दृष्ट्वा तादृशं रूपं देवदेवस्य भारत  ।

त्रिः प्रदक्षिणमावृत्य साष्टाङ्गं प्रणिपत्य च  ॥ ४.२१ ॥

स्तोत्रं चकार देवस्य शम्भोरमिततेजसः  ।

नमस्तेऽस्तु सुरेशान शूलपाणे नमोऽस्तु ते  ॥ ४.२२ ॥

पृथिव्यापश्च तेजश्च वायुराकाशमेव च  ।

शब्दं स्पर्शश्च रूपश्च रसो गन्धश्च पञ्चमः  ॥ ४.२३ ॥

बुद्धिर्मनस्त्वहङ्कारः प्रकृतिश्च गणास्त्रयः  ।

सर्वाक्षः सर्वगो देवसकलो निष्कलोऽव्यय  ॥ ४.२४ ॥

जिह्वाचापल्यभावेन क्लेशितोऽसि मया प्रभो  ।

ब्रह्मविष्ण्वादि देवैश्च तवाद्यन्त न लभ्यते  ॥ ४.२५ ॥

कथं तु मानुषा पापाः स्तोतुं शक्ता उमाधवम्  ।

हिरण्यतेजसः स्तोत्रं श्रुत्वा देवो जगत्पतिः  ॥ ४.२६ ॥

वरं वृणु महाभाग यत्ते मनसि रोचते  ।

उवाच वचनं राजा शूलपाणिं महेश्वरम्  ॥ ४.२७ ॥

यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि  ।

सप्तकल्पवहां देवीं नर्मदामवतारय  ॥ ४.२८ ॥

पितॄणां मज्जतां घोरे नरके दारुणे भृशम्  ।

मुच्यन्ते ते यथा प्रेतास्तृप्ता यान्ति पराङ्गातिम्  ॥ ४.२९ ॥

एवं वरमहं मन्ये त्वत्प्रसादादुमापते  ।

 

ईश्वर उवाच –

अयाच्यं याचितं तात ब्रह्मविष्णुसुरासुरैः  ॥ ४.३० ॥

नावतारयितुं शक्या तथान्यैरल्पजीविभिः  ।

अन्यं याचस्व भद्रं ते वरं दास्येऽधुना तव  ॥ ४.३१ ॥

 

राजोवाच –

ततो राजा महाभागः प्रोवाच शशिभूषणम्  ।

त्वयि तुष्टे महादेवे लोकनाथे जगद्गुरौ  ॥ ४.३२ ॥

साध्यासाध्यं न वक्तव्यं त्रिषु लोकेषु किंचन  ।

जन्मान्तरसहस्रेण वर नान्य वृणोम्यहम्  ॥ ४.३३ ॥

त्यक्त्वा चैव सरिच्छ्रेष्ठां नर्मदां सप्तकल्पगाम्  ।

दीयतां मम देवेश भृत्यभृत्योऽस्मि शाधि माम्  ॥ ४.३४ ॥

हिरण्यतेजसो ज्ञात्वा निश्चयं मानसं तदा  ।

आहूता च ततो देवी नर्मदा लोकपावनी  ॥ ४.३५ ॥

मकरासनमारूढा दिव्याभरणभूषिता  ।

श्यामवर्णा महातेजा शिवस्याग्रे व्यवस्थिता  ॥ ४.३६ ॥

उमामहेश्वरौ नत्वा पादग्रहणपूर्वकम्  ।

उवाच वचनं देवीं किमर्थं देव संस्मृता  ॥ ४.३७ ॥

आदेशं देव मे देहि त्वदादेशे स्थिता ह्यहम्  ।

 

ईश्वर उवाच –

हिरण्यतेजा नृपतिस्त्यक्त्वा राज्य च नर्मदे  ॥ ४.३८ ॥

चतुर्दशं तपस्तेपे घोररूपं सुदारुणम्  ।

दिव्यं वर्षसहस्रं तु उग्रे तपसि संस्थितः  ॥ ४.३९ ॥

कन्दमूलफलाहारः शिवध्यानपरायणः  ।

जम्बूद्वीपेऽवतारं त्वं कुरुष्व धरणीतले  ॥ ४.४० ॥

क्षिप्रं याहि वरारोहे संसारार्णवतारिणि  ।

प्रेतरूपान् पितॄन् सर्वान्नरकस्थान् समुद्धर  ॥ ४.४१ ॥

मुच्यन्ते येन चाघौघाद्धूतपापा यथेप्सितम्  ।

 

नर्मदोवाचा॒

महेश्वरं शूलपाणिमेवमस्त्विति चाब्रवीत् ॥ ४.४२ ॥

निराधारा कथं देव जम्बूद्वीपे समाश्रये  ।

आहूतास्ते ततस्तत्र पर्वताश्च कुलाकुलाः  ॥ ४.४३ ॥

क्षणमात्रं तु तिष्ठध्वं येन याति सरिद्वरा  ।

ऊचुश्च पर्वतास्तं च अशक्ता धारणे वयम्  ॥ ४.४४ ॥

 

नर्मदोवाचा॒

अशक्तान् धारणे चैनान् प्रपश्यामि जगत्पते  ।

मम तोयौघपातेन कल्लोलप्रवणावृताः  ॥ ४.४५ ॥

शतधा भेदमायान्ति गिरयो वज्रदारिताः  ।

तेषां मध्ये समुत्थाय प्राब्रवीदुदयाचलः  ॥ ४.४६ ॥

शिवप्रसादसम्पन्नो ह्यहं धारयितुं क्षमः  ।

ततः प्रचलिता देवी दत्त्वा पादं नगोपरि  ॥ ४.४७ ॥

गगनात्प्रच्युता देवी पपात धरणीतले  ।

वायुवेगा पुनर्भूत्वा वारुणीं दिशमाश्रिता  ॥ ४.४८ ॥

अकालपीडिते लोके जम्बूद्वीपे चराचरे  ।

हाहाकारो महानासीत्त्रिषु लोकेषु भारत  ॥ ४.४९ ॥

श्रुत्वा च कल्कलाशब्दं भीषणं लोमहर्षणम्  ।

पातालादुत्थितं लिङ्गं ज्वलितं दीप्ततेजसम्  ॥ ४.५० ॥

हुङ्कारेणैव तद्भद्रे नर्मदामब्रवीद्वच  ।

सर्वपापहरे देवि मर्यादां वह सुव्रते  ॥ ४.५१ ॥

त्वद्धारणार्थमीशेन निसृष्टाः पर्वतास्त्रयः  ।

विन्ध्यश्चतुर्थकस्तत्र श्रेष्ठः सर्वमहीभृताम्  ॥ ४.५२ ॥

मेरुश्च हिमवांस्तत्र कैलासश्च तृतीयकः  ।

तदा भित्त्वा त्रिशूलेन कीलिता वसुधातले  ॥ ४.५३ ॥

द्वात्रिंशत्तु सहस्राणि प्रवाह पूर्वपश्चिमे  ।

सहस्रार्द्धश्च विस्तारं दक्षिणोत्तरमानतः  ॥ ४.५४ ॥

नृत्यन्ति देवतास्सर्वाः शङ्खवादित्रनिस्वनैः  ।

सिद्धा विद्याधरा यक्षा गन्धर्वा किन्नरा नराः  ॥ ४.५५ ॥

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः  ।

स्तुवन्ति परया भक्त्या नर्मदां सप्तकल्पगाम्  ॥ ४.५६ ॥

हिरण्यतेजा राजर्षिर्नर्मदां चेदमब्रवीत् ।

अनुग्रहः कृतो देवि पितॄणां तारणाय मे  ॥ ४.५७ ॥

उवाच कल्पगा राजंस्त्वत्तोऽन्यः को नु वै भुवि  ।

प्रभाव ईदृशो यस्य राज्ञश्चामिततेजसः  ॥ ४.५८ ॥

तपस्तप्त्वा महेशस्य ममार्थं त्वं यतोऽनघ  ।

मातृकाः पैतृका ये ये सान्तः पुरपरिग्रहाः  ॥ ४.५९ ॥

मम प्रभावात्नृपते उमामाहेश्वरं पुरम्  ।

नमस्कृत्य सुरश्रेष्ठां पुत्रोऽहं ते वरानने  ॥ ४.६० ॥

स्नानं कृत्वा च विधिवत्पितॄन्देवांश्च तर्पयन्  ।

श्राद्धं पिण्डप्रदानं च तत्र सर्वमकल्पयत् ॥ ४.६१ ॥

नरकादुद्धृतास्सर्वे देवयानपथे स्थिताः  ।

कृमिकीटपतङ्गाश्च पक्षिणश्चाण्डजाश्च ये  ॥ ४.६२ ॥

भूतग्रामः समग्रश्च रेजे विद्याधरे पुरे  ।

एतत्ते कथितं राजन्नादिसर्गावकल्पनम्  ॥ ४.६३ ॥

कीर्तितानि मया रेवावताराणि विशाम्पते  ।

आगता येन मार्गेण लोकानुग्रहकाम्यया  ॥ ४.६४ ॥

एषोऽवतारः प्रथम आदिकल्पे कृते युगे  ।

द्वितीयस्तु तथा स्कन्ददक्षसावर्णिकेऽन्तरे  ॥ ४.६५ ॥

तृतीयः पुरूरवसा तथा वैष्णवकेऽन्तरे  ।

एतत्ते कथितं राजन् यथा दृष्टं पुरातनम्  ॥ ४.६६ ॥

स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि  ।

अनेकभाविकं घोरमघं नश्यति तत्क्षणात् ॥ ४.६७ ॥

 

युधिष्ठिर उवाच –

कैलासो हिमवान्मेरुः केन कार्य्येण सुव्रत  ।

नर्मदातीरमासाद्य निक्षिप्ताः पर्वतास्त्रयः  ॥ ४.६८ ॥

 

मार्कण्डेय उवाच –

उन्मार्गगामिनीं रेवां विन्ध्यो वै धर्तुमक्षमः  ।

आपगा तोयपूरेण प्लावितं जगतीतलम्  ॥ ४.६९ ॥

कृत्वा व्रजन्तीं दृष्ट्वा वै शङ्करो लोकशङ्करः  ।

भित्त्वा भूमि त्रिशूलेन कीलिताः पर्वतास्त्रयः  ॥ ४.७० ॥

अत्रान्तरे च वैदूर्य्यगिरौ वै पर्यकल्पत  ।

एतत्सर्वं समासेन शंसितं च मयानघ  ॥ ४.७१ ॥

कथयिष्ये तथैवान्यद्यद्यदिच्छसि भारत  ॥ ४.७२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे चतुर्थोऽध्यायः ॥

 

 

अध्याय ५

 

युधिष्ठिर उवाच –

राज्ञाऽवतारिता रेवा कथं वै पुरुकुत्सुना  ।

तत्सर्व श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर  ॥ ५.१ ॥

 

मार्कण्डेय उवाच –

शृणु राजन् कथां दिव्यां पुरा स्कन्दस्य कीर्तिताम्  ।

तत्तेऽहं कथयिष्यामि शिवेनोक्तं श्रुतं मया  ॥ ५.२ ॥

क्षत्रियस्य कुलोत्पन्नः पुरुकुत्सुर्महायशाः  ।

तेन वर्षसहस्रं वै पूर्वमाराधितो हरः  ॥ ५.३ ॥

तपसा च भवेनोक्तं कस्त्वया प्रार्थितो वरः  ।

ददामि ते वरं ह्येतद्येन त्वं सुखमेधसे  ॥ ५.४ ॥

एवमुक्तस्तदा राजा प्रार्थयेऽहं तवाज्ञया  ।

यदि तुष्टोऽसि मे देव कार्यं तत्कथयाम्यहम्  ॥ ५.५ ॥

आस्ते नदी महाभागा नर्मदा नाम विश्रुता  ।

अवतारयतां शम्भो कुमारीं दिव्यरूपिणीम्  ॥ ५.६ ॥

तस्य तद्वचनं श्रुत्वा शम्भुर्विस्मयमागतः  ।

सुचिरं क्लिश्यमानेन क्षत्रियेण महात्मना  ॥ ५.७ ॥

अप्रार्थ्यं प्रार्थितं स्कन्द दुःसाध्यं त्रिदशैरपि  ।

उक्ताशयः स राजर्षिः साध्यं किंचिन्निषेवय  ॥ ५.८ ॥

मम वाक्यं तु तच्छ्रुत्वा क्षत्रियस्तु स विह्वलः  ।

अपतत्स महाभागो मूर्छितो धरणीतले  ॥ ५.९ ॥

आश्वासितो मया तत्र स्वस्थो भव विशाम्पते  ।

मर्त्यलोके सरिच्छ्रेष्ठां नर्मदामवतारये  ॥ ५.१० ॥

तस्यास्त्वागमनं श्रुत्वा त्रस्ता देवाः सवासवाः  ।

कः शक्नुयादिमं भारं सोढुं वेगश्च नार्मदम्  ॥ ५.११ ॥

धरणी भारभूता च नष्टा भ्रष्टाश्च पर्वताः  ।

अशक्तास्तोयवर्षस्य धारणे सरितस्तथा  ॥ ५.१२ ॥

अस्ति सिद्धो महापुण्यः पर्यङ्को नाम पर्वतः  ।

स सहेत महाभारं वोढुं वेगश्च नार्मदम्  ॥ ५.१३ ॥

सर्वे देवाऽगतास्तत्र प्रार्थितुं तं नगोत्तमम्  ।

पृष्टास्तु पर्वतेन्द्रेण केन कार्य्येण चागता  ॥ ५.१४ ॥

 

देवा ऊचुः॒

इक्ष्वाकुवंशसम्भूतः पुरुकुत्सुर्नराधिपः  ।

तेनावतारिता पुण्या नदी नामा तु नर्मदा  ॥ ५.१५ ॥

तेजः शब्दं च भारं च तस्याः पातं रयं तथा  ।

असमर्था नगा वोढुं त्वामृते गिरिसत्तम  ॥ ५.१६ ॥

 

पर्यङ्क उवाच –

आगच्छतु महादेवी धारयामि न संशयः  ।

आगच्छन्तीं महापुण्यां धारयामि च साम्प्रतम्  ॥ ५.१७ ॥

चलिता नर्मदा शीघ्रं वेगेन समुपस्थिता  ।

कृत्वा तस्योत्तमाङ्गेषु पर्यङ्कस्यैव भूभृतः  ॥ ५.१८ ॥

राज्ञा तु सहिता देवी त्रिदशैरपि संयुता  ।

वैन्येन तु पुरा चेष्टमश्वमेधेन भूभुजा  ॥ ५.१९ ॥

मखस्थाने च वैन्यस्य वेणस्तम्बो महानभूत् ।

यं दृष्ट्वा विस्मयं प्राप्तास्सर्वे देवास्सवासवाः  ॥ ५.२० ॥

वेणोस्तस्यैव मूलात्तु निर्गता सा महानदी  ।

कृताञ्जलिपुटा देवास्थिताः सर्वेऽत्र संस्थिताः  ॥ ५.२१ ॥

जय शब्दं प्रकुर्वन्तस्त्रिदशा ब्रह्मवादिनः  ।

गणगन्धर्वयक्षाश्च मरुतश्च तथाऽश्विनौ  ॥ ५.२२ ॥

पिशाचा राक्षसा नागा ऋषयश्च तपोधनाः  ।

सर्वे पाद्येन चार्ध्येण भीतास्ते किङ्करा इव  ॥ ५.२३ ॥

पाद्योपसंग्रहं कृत्वा नर्मदां शरणं गताः  ।

अद्यः नः सफलं जन्म तपोऽद्य सफलश्च नः  ॥ ५.२४ ॥

कृतार्था देवताः सर्वा देवि त्वद्दर्शनादिह  ।

तमेव पुरुषं मन्ये येनैषा ह्यवतारिता  ॥ ५.२५ ॥

वदन्ति देवतास्सर्वा मर्त्यलोकः परं गतः  ।

ऋषिभिर्दैवतैः प्रोक्ता स्पृश हस्तेन देवताः  ॥ ५.२६ ॥

येन पूतत्वमायान्ति नर्मदे नष्टकिल्विषाः  ।

नर्मदा तु वदत्येवं न स्पृशामि सुरान् गणान्  ॥ ५.२७ ॥

कुमारी ह्यहमद्याऽपि मम भर्ता न विद्यते  ।

अहो कष्टं तु देवाश्च चिन्तया विह्वलीकृताः  ॥ ५.२८ ॥

त्वतुल्यो रूपसम्पन्नः कुतः प्राप्यो वरोत्तमः  ।

येन त्वं दर्शिता लोके स ते भर्ता भविष्यति  ॥ ५.२९ ॥

ब्रह्मणस्तु पुरा शापात्समुद्रः पुरुकुत्सुकः  ।

गतो मर्त्ये महाबाहुरिक्ष्वाकुकुलनन्दनः  ॥ ५.३० ॥

पुरुकुत्सुर्वरस्तेऽस्तु क्षत्रियो देवसन्निभः  ।

उद्वाहिता तदा तेन क्षत्रियेण तु नर्मदा  ॥ ५.३१ ॥

उवाच वचनं देवान्नर्मदा सप्तकल्पगा  ।

देवत्वमीदृश यस्य प्रजा धर्मे व्यवस्थिताः  ॥ ५.३२ ॥

किमन्यत्तस्य वाच्यं स्यात्पुरुकुत्सोर्महात्मनः  ।

स्वयम्भुवो यथा पुत्रो मानसः परिकीर्तितः  ॥ ५.३३ ॥

पुरुकुत्सुस्तथा चाऽयं सर्वधर्मपरायणः  ।

उवाच वचनं राजा पुरुकुत्सुश्च नर्मदाम्  ॥ ५.३४ ॥

नर्मदे देवकन्या त्वं प्रसादः क्रियतां मयि  ।

यान्तु मे पितरः स्वर्गं मम चाऽस्तु महद्यशः  ॥ ५.३५ ॥

 

नर्मदोवाच –

एव भवतु राजेन्द्र मत्तस्त्वं यद्यदिच्छसि  ।

तत्सर्वं भवतश्चाद्य मत्प्रसादाद्भविष्यति  ॥ ५.३६ ॥

एवमुक्त्वा ययौ देवी वारुणीं च दिशां तदा  ।

निष्क्रान्ता पर्वतात्तस्मात्पर्यङ्कात्सरितां वरा  ॥ ५.३७ ॥

याति वेगात्तथा देवी धनुर्मुक्तः शरो यथा  ।

विदार्य मेदिनीं सर्वा पर्वतां छिखराणि च  ॥ ५.३८ ॥

चूर्णयित्वा च तान् सर्वान् वज्राशनिहतानिव  ।

यत्र यत्र गता विन्ध्ये तत्र तत्रावगाह्यते  ॥ ५.३९ ॥

तत्र गङ्गासहस्रस्य फल स्यात्तीर्थवर्जिते  ।

तदा स्तुता महादेवी नर्मदा लोकपावनी  ॥ ५.४० ॥

ऋषिभिर्वैदिकैः सर्वैः सुखसन्तानकारिका  ।

वेदा धर्मस्य मूलानि स्मृतिपुष्पफलानि च  ॥ ५.४१ ॥

भक्षयन्ति द्विजाः पुण्या अग्निहोत्रपरायणाः  ।

सेवन्ते नर्मदा तेऽपि स्वर्गसोपानपद्धतिम्  ॥ ५.४२ ॥

यत्र यत्र गता स्कन्द तत्र तत्रैव दुर्लभा  ।

दर्शने नर्मदायास्तु अग्निष्टोमफल लभेत् ॥ ५.४३ ॥

ये तु संस्नान्ति सेवन्ते नर्मदामप्यकामतः  ।

फलं बहु सुवर्णस्य तेऽपि प्राप्स्यन्ति मानवाः  ॥ ५.४४ ॥

यत्र यत्र गता पुण्या शिवस्यायतने शुभे  ।

गङ्गास्नानस्य लक्षेण तत्र स्नाने सम भवेत् ॥ ५.४५ ॥

अग्निहोत्रेण यत्पुण्य पितृश्राद्धेन यत्फलम्  ।

सर्वं सम्पद्यते तस्य नर्मदाया जलेन तु  ॥ ५.४६ ॥

यत्किंचिद्वैदिकं कर्म्म ब्राह्मणाः कुर्वते सदा  ।

नर्मदायास्तटे शूद्धिर्नात्र कार्य्या विचारणा  ॥ ५.४७ ॥

नर्मदासङ्गमो यत्र शिवक्षेत्रं विनिर्दिशेत् ।

गङ्गाया लक्षमात्रेण तत्स्थानन् तु विशिष्यते  ॥ ५.४८ ॥

कीर्तनं नर्मदायास्तु दानं तीर्थस्य सङ्गमे  ।

न तेन सदृशं राजन् सत्यमेतद्ब्रवीम्यहम्  ॥ ५.४९ ॥

नर्मदां प्रातरुत्थाय ये स्मरन्ति विचक्षणाः  ।

पूर्वजन्मकृतं पापमैहिकश्च विनश्यति  ॥ ५.५० ॥

नर्मदां मानवः कश्चित्तत्र यत्रावगाहते  ।

शतजन्मार्जितं पापं तत्क्षणात्नश्यति ध्रुवम्  ॥ ५.५१ ॥

नर्मदायास्तटे चैव प्राणांस्त्यजति मानवः  ।

कल्पकोटिसहस्राणि स्वर्गलोके महीयते  ॥ ५.५२ ॥

येऽप्यधर्मपराधीना नर्मदायां कथञ्चन  ।

तेऽपि रुद्रत्वमायान्ति सत्यमेतद्ब्रवीम्यहम्  ॥ ५.५३ ॥

प्रायश्चित्तानि दीयन्ते यत्र रेवा न विद्यते  ।

रेवातोये तु संप्राप्ते प्रायश्चित्तं न विद्यते  ॥ ५.५४ ॥

नर्मदां च महापुण्यां सप्तकल्पाधिवासिनीम्  ।

सततं यः स्मरेद्भक्त्या स शिवः परिकीर्तितः  ॥ ५.५५ ॥

तत्र वैण्येश्वरं देवं वेणुमूले व्यवस्थितम्  ।

स्वर्गदं मोक्षदं विद्धिलोकानां पापनाशनम्  ॥ ५.५६ ॥

विन्ध्यस्यैव तथा चाष्टौ मानसाः परिकीर्तिताः  ।

पर्यङ्कः प्रथमो ज्ञेयः श्रेष्ठः सर्वमहीभृताम्  ॥ ५.५७ ॥

असिताङ्गो वराङ्गश्च तथाऽन्ये चापि पर्वताः  ।

पावको जातवेदाश्च कदम्बः सुरनायकः ॥ ५.५८ ॥

अर्चितास्तैर्महाभागैर्धर्मकर्मपरायणैः  ।

उद्गमात्निर्गमं यावद्वारुणीं दिशमास्थिताः  ॥ ५.५९ ॥

सार्द्धमेकशतं तस्याः प्रवाहाः परिकीर्तिताः  ।

क्रोशार्द्धस्य त्रिभागश्च विस्तारः परिकीर्तितः  ॥ ५.६० ॥

शिवस्य वर्तते चात्र ब्रह्मविष्णुं विडौजसाम्  ।

कोटिभिस्त्रिदशानान्तुकाऽन्या धर्तुं प्रशक्यते  ॥ ५.६१ ॥

आत्मानमात्मना सा तु बभार परमेश्वरी  ।

त्रिदशानां हितार्थाय मानवानां च भारत  ॥ ५.६२ ॥

लक्षयोजनपर्य्यन्तं जम्बूद्वीपं प्रचक्षते  ।

द्विगुणः परिवेषस्तु लवणोदस्तु भारत  ॥ ५.६३ ॥

सहस्रयोजनं विद्धिकन्याद्वीपञ्च भारत  ।

तस्याः पञ्चशती गम्या त्वगम्या च तथाऽपरा  ॥ ५.६४ ॥

शुभाशुभफलं चात्र पुण्यपापविभागयोः  ।

प्रथमं मानुषो भूत्वा देवत्वमुपपद्यते  ॥ ५.६५ ॥

क्षीणे पुण्ये पुनर्याति मानुषत्वं पृथक्पृथक् ।

कर्म्मभूमिमिमां विद्धि विदितं तव भारत  ॥ ५.६६ ॥

धर्मेण कर्म्मणा स्वर्गः स्यादेव सुकृते कृते  ।

नद्याः प्रवाहे भूभागे कल्पगाया व्यवस्थितिः  ॥ ५.६७ ॥

लोकानां तारणार्थाय अवतीर्णा सरिद्वरा  ।

अत्र स्वर्गश्च मोक्षश्च नर्मदातीरमाश्रितौ  ॥ ५.६८ ॥

एतत्ते कथितं राजन् यथा वृष्टं सुरोत्तमैः  ॥ ५.६९ ॥

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदायाश्चतुर्थावतारे पञ्चमोऽध्यायः ॥

 

 

अध्याय ६

 

युधिष्ठिर उवाच –

मुने मेकलकन्याया अवतारः श्रुतो मया  ।

इदानीं श्रोतुमिच्छामि तीर्थानि च यथाक्रमम्  ॥ ६.१ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग कथ्यमानं निबोध मे  ।

वत्सगुल्मात्समारभ्य यावद्वै भृगुकच्छकः  ॥ ६.२ ॥

अत्रान्तरेऽपि तीर्थानां संख्या केन तु शक्यते  ।

तथापि ते प्रवक्ष्यामि यथा वृष्टं विशाम्पते  ॥ ६.३ ॥

नर्मदा सौम्यभागे तु अनन्तपुरमव्ययम्  ।

अनन्तसिद्धिलिङ्गं च सर्वपापहरं परम्  ॥ ६.४ ॥

तीर्थं वैश्रवणं नाम कौबेरं धनदं तथा  ।

मणिभद्रं तथा यज्ञं तत्तीर्थस्य प्रभावतः  ॥ ६.५ ॥

मोक्षदं कामदं पुण्यं सर्वलोकव्यवस्थितम्  ।

ऋषीणामाश्रमं पुण्यं सर्वदेवमयं शुभम्  ॥ ६.६ ॥

सावर्णिः कौशिकश्चैव मुनिश्चैवाघमर्षणः  ।

शाकल्यश्च कुशाकर्णिः शरभङ्गोऽग्निर्भगः  ॥ ६.७ ॥

एते चान्ये च बहवो मुनयः शंसितव्रताः  ।

अस्य तीर्थस्य माहात्म्यात्तपस्तप्त्वा दिवङ्गताः  ॥ ६.८ ॥

वाल्मीकिरृषिवर्यो वै नैषादीं योनिमाश्रितः  ।

प्रभावात्तस्य तीर्थस्य ब्रह्मतेजो वपुर्धरः  ॥ ६.९ ॥

इक्ष्वाकुः कुवलयाश्वो दिलीपो नहुषस्तथा  ।

वेणुर्ययाती राजा च अजपालस्म हैहयः  ॥ ६.१० ॥

एते चान्ये च राजानो ह्यनन्तपुरवासिनः  ।

अत्रान्तरे महेशानं मेकलातीरमाश्रितम्  ॥ ६.११ ॥

तमभ्यर्च्य विधानेन सर्वे ते त्रिदिवङ्गताः  ।

अखिलैरन्यतीर्थैश्च चिरकालफलप्रदैः  ॥ ६.१२ ॥

अत्रास्ते स्वर्गदः श्रीमान् स्वयं देवो महेश्वरः  ।

तीर्थं सप्तऋषिर्नाम सप्तसारस्वतं नृप  ॥ ६.१३ ॥

अमर्त्यसम्भवं लिङ्गं तथैवारण्यकेश्वरम्  ।

अघौघनाशनं तीर्थं तथान्यत्कल्मषापहम्  ॥ ६.१४ ॥

पञ्चब्रह्ममयं तीर्थं सहस्रशिरसं हरम्  ।

वाराहं वामनं तीर्थं यमतीर्थं महोत्कटम्  ॥ ६.१५ ॥

सौरभङ्गं सहस्रं तु अश्वमेधं महामखम्  ।

हिरण्यगर्भं सावित्र्यां चातुर्वेदं च पावनम्  ॥ ६.१६ ॥

एतत्सर्व विजानीहि लोकानां पावनं परम्  ।

तथाऽनन्तपुरं यावत्पर्यङ्कात्पश्चिमे शुभम्  ॥ ६.१७ ॥

अत्रान्तरे मृता ये च दानधर्मविवर्जिताः  ।

तेऽपि स्वर्गे महीयन्ते यावदिन्द्राश्चतुर्दश  ॥ ६.१८ ॥

ततो द्वीपेश्वरं नाम व्यासतीर्थमनुत्तमम्  ।

तत्र स्नात्वा तु लभते हयमेधफलं नरः  ॥ ६.१९ ॥

कामिकं तत्परं तीर्थं न भूतं न भविष्यति  ।

प्रदक्षिणां च यः कुर्याद्व्यासतीर्थस्य भारत  ॥ ६.२० ॥

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा  ।

नरो वा यदि वा नारी शिवलोके महीयते  ॥ ६.२१ ॥

द्वीपेश्वरे ततस्स्नात्वा वृषभं यः प्रयच्छति  ।

काञ्चनेन विमानेन रुद्रलोके महीयते  ॥ ६.२२ ॥

कार्तिकस्य चतुर्दश्यां कृष्णपक्षे जितेन्द्रियः  ।

स्नापयेद्यः शिवं तत्र ह्युपवासपरायणः  ॥ ६.२३ ॥

सर्वपापविनिर्मुक्तो रुद्रलोके महीयते  ।

व्यासतीर्थं तु वै गत्वा सर्वे ब्रह्मादयः सुराः  ॥ ६.२४ ॥

स्तुवन्ति भावितात्मानं ऋषयश्च तपोधनाः  ।

ये चान्ये सिद्धगन्धर्वकिन्नरोरगराक्षसाः  ॥ ६.२५ ॥

नर्मदातटमाश्रित्य मोदन्ते गतकल्मषाः  ।

स्तुवन्ति विविधैः स्तोत्रैर्माङ्गल्यस्तुति संस्कृतैः  ॥ ६.२६ ॥

यस्यास्ति शक्तिरसशक्तिरिह प्रवीरः प्रोर्ध्वी करोतु यदि वाऽवनतिं करोतु  ।

यः पूजितः सुरवरः शशिशेखरेण नाऽराधितः सपदि भूतपति सुरैर्वा  ॥ ६.२७ ॥

किं वा न वृष्टं हि पितामहेन न वा सुरैर्वा मधुसूदनेन  ।

क्षीरोदमन्थोद्भवकालकूटं कण्ठे वृतं केन हरं विहाय  ॥ ६.२८ ॥

एकेन दग्धं त्रिपुरं शरेण कामो ललाटाक्षिनिरीक्षणेन  ।

भिन्नोऽन्धकः शूलवरेण येन कस्तेन सार्द्धं कुरुते विरोधम्  ॥ ६.२९ ॥

जलौघकल्लोलतरङ्गभङ्गा गङ्गा धृता येन जटाग्रभागे

पादाम्बुजाङ्गुष्ठनिपीडनेन पपात लङ्काधिपतिर्विसंज्ञः  ॥ ६.३० ॥

सुरासुराणामिह यत्समक्षं विध्वंसितो दक्षमखः क्षणेन

प्रणम्य दक्षः क्षयकारकस्य लेभे वरं तारकमारकस्य  ॥ ६.३१ ॥

सर्वस्य पूज्यं हि वरोत्तमाङ्गं सम्पूज्यते लिङ्गवरं हरस्य

अनेन पर्याप्तमतीव मूढः प्राप्तुं पदं यच्छति यत्करोति  ॥ ६.३२ ॥

ब्रह्मात्र वृद्धो हरिरत्र लिङ्गं सुराऽसुराश्चैव समर्चयन्ति

तथापि नूनं सुविचारयान्ति को वाऽधिको वाऽस्ति समो हरेण  ॥ ६.३३ ॥

तेनैव चक्राङ्कसरोरुहाङ्कौ लिङ्गाङ्कितं यस्य जगद्भगाङ्कम्

हस्ते प्रबद्धे नवकङ्कणे वै पश्यन्ति मूढाः खलु दर्पणेन  ॥ ६.३४ ॥

पुण्यं पवित्रं स्तवनं व्यासेनोक्तं महात्मना  ।

कृतं देवाधिनाथस्य सर्वकल्मषनाशनम्  ॥ ६.३५ ॥

प्रतिपूज्य यथा न्यायमर्घपाद्यैरनुक्रमात् ।

उवाच मधुरं वाक्यं प्रसादः क्रियतां मयि  ॥ ६.३६ ॥

देयं तस्य फलं देव यः पुमान् छ्रद्धयाऽर्चति  ।

इति स्तुत्वा महेशानं ऋषयः शंसितव्रताः  ॥ ६.३७ ॥

नर्मदादक्षिणे कूले प्रयातास्ते यथातथम्  ।

अन्ये च ऋषयो देवा द्वैपायनमथाब्रुवन्  ॥ ६.३८ ॥

आश्रमस्ते महाभाग वायसैराकुलीकृतः  ।

यथा न वायसाः केऽपि प्रविशन्ति तपोवनम्  ॥ ६.३९ ॥

म्रियन्ते ते सदा सर्वे मूर्धा तेषां विशीर्यते  ।

व्यासेन शप्तास्ते सर्वे वायसा महतो भयात् ॥ ६.४० ॥

तस्मिंस्तीर्थे महाराज प्रविशन्ति न कर्हिचित् ।

ऋषयो वचनं श्रुत्वा व्यासस्य तु महात्मनः  ॥ ६.४१ ॥

नर्मदा दक्षिणे कूले सर्वमेव कृतं क्षणात् ।

तिष्ठन्ति मुनयः सर्वे देवस्याराधने रताः  ॥ ६.४२ ॥

आराध्य विधिना देवमस्तुवन् परमेश्वरम्  ।

यस्यास्ति शक्तिरित्यादि व्यासस्तुतिपरायणाः  ॥ ६.४३ ॥

स्तोत्रं तदेतत्त्रिदशेश्वरस्य व्यासेन भक्त्या कृतमीश्वरस्य  ।

प्रातः पठेद्यः स्मरति प्रयत्नात्काले स जातोऽनुचरो हरस्य  ॥ ६.४४ ॥

व्यासाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ  ।

व्यासस्तस्य भवेत्प्रीतो नर्मदा च प्रसीदति  ॥ ६.४५ ॥

एवं स्तुतो महादेवो व्यासेन तु महात्मना  ।

शिवो व्यासस्य सन्तुष्ट इदं वचनमब्रवीत् ॥ ६.४६ ॥

किं करोमि स्थितो विप्र वरं ब्रूहि यथेप्सितम्  ।

वरं ददामि ते प्रीतो येन त्वं सुखमेधसे  ॥ ६.४७ ॥

 

व्यास उवाच –

नर्मदादक्षिणे कूले तिष्ठ त्वं चोत्तरे शिव  ।

आश्रमास्ते भविष्यन्ति सर्वे पुण्यतमाः स्मृताः  ॥ ६.४८ ॥

एवमुक्त्वा ततो व्यासं तत्रैवान्तर धीयत  ।

व्यासोऽपि चात्र वत्स्यामि दक्षिणं नर्मदे व्रज  ॥ ६.४९ ॥

ततश्च दण्डकाष्ठेन चालयामास नर्मदाम्  ।

नर्मदा चाब्रवीद्वाक्यं पूर्वमार्गेण सा गता  ॥ ६.५० ॥

ततो व्यासस्तु संक्रुद्धो युगान्ताग्निरिवाभवत् ।

व्यासस्तु कुपितो राजन् सन्तीर्णो द्विजसत्तमः  ॥ ६.५१ ॥

हुंकारिता च सा देवी नागता तत्र नर्मदा  ।

नाहं कोपवत विप्र प्रलयं यामि कर्हिचित् ॥ ६.५२ ॥

सप्तकल्पक्षये वृत्ते न मृताऽस्मीति नर्मदा  ।

ततो द्विजस्तु संजातो दक्षिणेन ततो गता  ॥ ६.५३ ॥

न वारिता च साऽनेन व्यासभीता महानदी  ।

उत्तरे मुनयः सर्वे कूले तिष्ठन्त्यनेकशः  ॥ ६.५४ ॥

ततस्ते हृष्टमनसो मुनयः शंसितव्रताः  ।

व्यासेन चार्जितं श्राद्धं तथाऽन्यैर्मुनिपुङ्गवैः  ॥ ६.५५ ॥

पितरो द्वादशाब्दानि तार्पितास्ते नराधिप  ॥ ६.५६ ॥

 

इति रेवाखण्डे नर्मदामाहात्ये षष्ठोऽध्यायः ॥

 

 

अध्याय ७

 

मार्कण्डेय उवाच –

अन्यत्तीर्थं महापुण्यं सर्वपापप्रणाशनम्  ।

अश्वमेधसमुद्भूता नदी यत्र वराङ्गना  ॥ ७.१ ॥

स्नात्वा च सङ्गमे यत्र हयमेधफलं लभेत् ।

व्याधिभिर्मुच्यते यत्र नारी वा यदि वानरः  ॥ ७.२ ॥

श्राद्धं तत्र प्रकुर्वन्तः पितॄणां प्रीतिवर्धनम्  ।

त्रिपुर्यां पूर्वभागे तु दिशि याम्यां शिवः स्थितः  ॥ ७.३ ॥

अनुग्रहार्थं लोकानां शैवक्षेत्रं विदुर्बुधाः  ।

पञ्चाशीतिः कुरुक्षेत्रे पश्चाशीतिरिवात्र तु  ॥ ७.४ ॥

राहुसूर्यसमायोगे समानं कीर्तितं सुरैः  ।

श्राद्धे त्रीणि च लक्षाणि पुराणे कीर्तितानि वै  ॥ ७.५ ॥

तीर्थानां तानि अत्रैव तिष्ठन्ति नृपसत्तम  ।

यत्र तिष्ठति देवेशो माधवो मधुसूदनः  ॥ ७.६ ॥

उत्पलावर्तनामा च सहस्रमस्तको हरिः  ।

हरश्च द्विविधावे तौ तृतीया चैव नर्मदा  ॥ ७.७ ॥

तस्याः किं वर्ण्यते राजन् देवैरपि सवासवैः  ।

तत्र स्नात्वा महाराज सम्भवो न पुनर्भवेत् ॥ ७.८ ॥

पापयोनिं च न विशेद्यमलोकं न पश्यति  ।

अर्चनाद्देवदेवस्य गाणपत्यमवाप्यते  ॥ ७.९ ॥

उत्पन्नो हि हरिर्यत्र शङ्खचक्रगदाधरः  ।

उपास्यते सुरैः सर्वैर्ब्रह्मशक्रपुरोगमैः  ॥ ७.१० ॥

क्रोशमात्रं हरिक्षेत्रं कथं शोचन्ति मानवाः  ।

अत्रान्तरे मृता ये च कृमिकीटपतङ्गमाः  ॥ ७.११ ॥

तेऽपि यान्ति हरेर्लोकं किं पुनर्वैष्णवा नृप  ।

अवशः स्ववशोऽपि स्यात्प्राणत्यागं करोति यः  ॥ ७.१२ ॥

दशवर्षसहस्राणि राजा वैद्याधरे पुरे  ।

तिलोदकप्रदानेन पिण्डदानेन भारत  ॥ ७.१३ ॥

पितरस्तस्य तृप्यन्ति तृप्ता यान्ति परा गतिम्  ।

एकादश्यां निराहारो गन्धपुष्पैः समर्चयेत् ॥ ७.१४ ॥

रात्रौ जागरणं कृत्वा दीपमालां प्रबोधयेत् ।

द्वादश्यां पञ्चगव्यं तु हविष्यान्नेन पारणम्  ॥ ७.१५ ॥

भक्त्या तु भोजयेद्विप्रान् सहस्रं च सदक्षिणाम्  ।

ओं नमो भगवते वासुदेवाय  ॥

इमं मन्त्रं जपन् यस्तु शुचिर्भूत्वा समाहितः  ॥ ७.१६ ॥

न तस्य पुनराधानं जन्म चैव युधिष्ठिर  ।

अनेकभाविकं घोरं तूलराशिमिवानलः  ॥ ७.१७ ॥

तत्क्षणाद्दहते कृत्स्नमेधांसीवहुताशनः  ।

कल्पकल्पानुगौ देवौ नारायणमहेश्वरौ  ॥ ७.१८ ॥

दक्षिणां दिशमास्थाय रेवातीरे व्यवस्थितौ  ।

अर्चितौ च तौ देवेशौ सुरासुरगणैस्तथा  ॥ ७.१९ ॥

सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः  ।

स्थाणुः पुण्यजलावर्ते ह्यवतार पुराकृतः  ॥ ७.२० ॥

अनुग्रहाय लोकानां देवानां हितकाम्यया  ।

ननाद सुमहानादं घोररूपं भयानकम्  ॥ ७.२१ ॥

पिनाकिना च शूलेन भित्त्वा चैव रसातलम्  ।

समानीता च सावित्री स्वर्गसोपानपद्धतिः  ॥ ७.२२ ॥

मानवाः क्षीणपापाश्च तथा यान्ति परां गतिम्  ।

अज्ञानतम सा ध्वस्ता नावरोहान्ति ये जनाः  ॥ ७.२३ ॥

आत्मानं नावमन्यन्ते पापोपहतचेतसः  ।

कल्पगां ये न सेवन्ते तेषां जन्म निरर्थकम्  ॥ ७.२४ ॥

अष्टाविंशतिरत्रैव लिङ्गानां तु स्वयम्भुवाम्  ।

पूजने संस्थिता राजन् छिवस्य च महात्मनः  ॥ ७.२५ ॥

स्थानेश्वरं महादेवं शूलपाणिं तथा परम्  ।

सप्तेश्वरं च कल्पेशं हिरण्यं जातवेदसम्  ॥ ७.२६ ॥

प्राजापत्यं सिद्धनाथं शशाङ्कनयनं तथा  ।

अनुकेशं तथा स्कन्दमाश्विनं तैजसं तथा  ॥ ७.२७ ॥

ब्रह्मेश्वरं चाग्निगर्भं श्रीकण्ठं च उमापतिम्  ।

नीलकण्ठं च खट्वाङ्गं महाकालं घटेश्वरम्  ॥ ७.२८ ॥

त्रिलोचनं त्र्यम्बकं च देवदेवं महेश्वरम्  ।

एतान्यन्यानि चैवेह सिद्धलिङ्गानि भारत  ॥ ७.२९ ॥

अनङ्गं कामदेवं च रतिप्रीतिसमन्वितम्  ।

सिद्धमन्वन्तरं चैव यत्रानङ्गत्रयोदशी  ॥ ७.३० ॥

रम्भातृतीय तत्रैव तथा कृष्णाष्टमी नृप  ।

विद्याधरी च तत्रैव उर्वशी च तिलोत्तमा  ॥ ७.३१ ॥

अहल्या मेनका चैव तथाऽन्याश्च वराङ्गनाः  ।

दाक्षायणी चानुमती चम्पका संभरायणी  ॥ ७.३२ ॥

एताश्चाऽन्याश्च तत्रैव बह्व्यः सिद्धा विशाम्पते  ।

केशवस्य पुरी रम्या पुण्या पापहरा नृप  ॥ ७.३३ ॥

सुरासुराणां सर्वेषां दानवानां च भारत  ।

स्वर्गमार्गप्रदा देवी तथा हरिहरात्मिका  ॥ ७.३४ ॥

एतत्ते कीर्तितं राजन् यथा वृष्टं पुरातनम्  ।

स्नानावगाहनात्पानाच्छ्रवणात्कीर्तनादपि  ॥ ७.३५ ॥

अनेकभाविकं घोरमघं नश्यति तत्क्षणात् ।

ततस्तस्मिन्महाभाग कपिलातीर्थमुत्तमम्  ॥ ७.३६ ॥

रेवाया उत्तरे कूले सर्वपापहरं परम्  ।

तत्र स्नात्वा नरो राजन्नारी वापि जितेन्द्रिया  ॥ ७.३७ ॥

तर्पयित्वा पितॄन् देवान्मुच्यते च ऋणत्रयात् ।

ब्राह्मणान् भोजयित्वा तु लभते परमाङ्गतिम्  ॥ ७.३८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे व्यासतीर्थमहिमवर्णनो नाम सप्तमोऽध्यायः ॥

 

 

अध्याय ८

 

मार्कण्डेय उवाच –

अथान्यत्परमं तीर्थं त्रिषु लोकेषु विश्रुतम्  ।

त्रिपुरी नाम विख्यातं रेवाया उत्तरेतटे  ॥ ८.१ ॥

सपादलक्षतीर्थानि यत्र तिष्ठन्ति भारत  ।

शतमष्टोत्तरं तत्र लिङ्गानां तु स्वयम्भुवाम्  ॥ ८.२ ॥

त्रिपुरः पातितो राजन् देवदेवेन शूलिना  ।

स्तोतव्यं किं परं तत्र सुरासुरनिषेवितम्  ॥ ८.३ ॥

लोकानुग्रहकं देवं स्वयं विद्धि महेश्वरम्  ।

गोकर्णं नाम विख्यातं भोगदं मोक्षदायकम्  ॥ ८.४ ॥

कीर्तनाद्देवदेवस्य स्नपनेनाऽर्चनेन च  ।

तोयेन नर्मदायास्तु ब्रह्महत्या प्रणश्यति  ॥ ८.५ ॥

गन्धधूपप्रदीपैश्च तथा विभवविस्तरैः  ।

अपि वर्षसहस्रेण पुण्यसंख्या न ज्ञायते  ॥ ८.६ ॥

यदा तदा शिवे दानं तस्य संख्या न विद्यते  ।

धन्यास्ते मानवा राजन् स्नात्वा पश्यन्ति ये हरम्  ॥ ८.७ ॥

कैलासे स वसेन्मर्त्यस्त्रिपुर्यां यो वसेन्नृप  ।

अकामात्कामतो वाऽपि प्राणत्यागं करोति यः  ॥ ८.८ ॥

हंसयुक्तविमानेन किङ्किणीरवशालिना  ।

छत्रेण ध्रियमाणेन सौवर्णेन विराजता  ॥ ८.९ ॥

झल्लरीतूर्यवाद्येन नृत्यगीतोत्सवेनच  ।

सुरासुरैर्वीक्ष्यमाणः सर्वालङ्कारभूषितः  ॥ ८.१० ॥

भुङ्क्ते तु विपुलान् भोगान् यावदिच्छन्महेश्वरे  ।

एवमेवाऽपि चान्यानि यानि काम्यानि मानुषैः  ॥ ८.११ ॥

त्रिपुरारिस्तु देवेशो यत्र तिष्ठति भारत  ।

त्रयस्त्रिंशत्प्रसिद्धानां देवानां कोटिभिः शिवः  ॥ ८.१२ ॥

त्रिपुर्यां निवसेद्यस्माच्छिवक्षेत्रमतः स्मृतम्  ।

क्रोशद्वयप्रमाणं तु शिवक्षेत्र प्रकीर्तितम्  ॥ ८.१३ ॥

अत्रान्तरे मृता ये च ते प्रयान्ति शुभां गतिम्  ।

ब्रह्मणा तु पुरा चेष्टं ब्रह्मयज्ञं मखोत्तमम्  ॥ ८.१४ ॥

शक्रेण देवराजेन कृतं क्रतुशतं पुरा  ।

गोकर्णं च महादेवं सर्वसिद्धिप्रदायकम्  ॥ ८.१५ ॥

वटेश्वरं तथा चान्यं सिद्धलिङ्गं सुरेश्वरम्  ।

ईश्वरं चैव कामेशमश्विभ्यामर्चितं हरम्  ॥ ८.१६ ॥

अनङ्गं वामदेवं च कपोतेश्वरमेव च  ।

सर्वेश्वरं सोमनाथं ऋणमोचनमेव च  ॥ ८.१७ ॥

कपालमोचनं देवं तथान्यमघनाशनम्  ।

इन्द्रेश्वरं च ब्रह्मेशं शिवं नारायणं भवम्  ॥ ८.१८ ॥

विश्वदेवं सिद्धनाथममरं चान्द्रमेव च  ।

सिद्धं विद्याधरं यज्ञमतुलं वासवं तथा  ॥ ८.१९ ॥

ईशानमग्निगर्भं च कुबेरमतुलं तथा  ।

गायत्रं चैव सावित्रं रोहिणीतीर्थमेव च  ॥ ८.२० ॥

दाक्षायणी चैव सती दक्षयज्ञहरा स्मृता  ।

रत्नावली सूर्यपत्नी सूर्यभामा च वारुणी  ॥ ८.२१ ॥

विष्णुर्मरीचिर्मैत्रेयऋष्यशृङ्गो विभाण्डजः  ।

तपस्वी शौनको गर्गो दुर्वासा उग्रतापसः  ॥ ८.२२ ॥

पञ्चायुतानि सिद्धानि त्रिपुर्यां नृपसत्तम  ।

अपि वर्षसहस्राणि न स्तोतुं शक्यते पुरी  ॥ ८.२३ ॥

त्रिपुरीक्षेत्रमाहात्म्यं शक्रेणापि नराधिप  ।

अनेकानि सहस्राणि क्षत्रियाणां युधिष्ठिर  ॥ ८.२४ ॥

दीक्षायज्ञविधानेन नाकपृष्ठमुपासते  ।

इतिहासं प्रवक्ष्यामि आदिकल्पे कृते युगे  ॥ ८.२५ ॥

स्वायम्भुवेऽन्तरे प्राप्ते कापिले कालसंज्ञके  ।

मनुर्नाम पुरा राजा चक्रवर्ती महायशाः  ॥ ८.२६ ॥

अयोध्यां स पुरीं लेभे सूर्यवंशो महीपतिः  ।

समाराध्य महादेवं शङ्करं मधुसूदनम्  ॥ ८.२७ ॥

अवध्या दानवैर्या तु निर्मिता विश्वकर्मणा  ।

वापीकूपसहस्रेण परिखाऽट्टालकेन वा  ॥ ८.२८ ॥

धनदस्य पुरी यद्वदलका नाम विश्रुता  ।

अयोध्या शोभना राजन् छक्रस्येवामरावती  ॥ ८.२९ ॥

धनधान्यसमाकीर्णा सर्वालङ्कारभूषिता  ।

ब्रह्मघोषनिनादेन भूमिं दिवमिवाकरोत् ॥ ८.३० ॥

साग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः  ।

चतुर्वर्णाश्च धर्मश्च प्राकृता इतरे जनाः  ॥ ८.३१ ॥

सपादलक्षवर्षाणि प्रजा सर्वा च जीवति  ।

न कार्मण्यजरारोगा दुर्भिक्षं न तु मृत्युभीः  ॥ ८.३२ ॥

स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी  ।

अन्यायेन च भूतेषु दत्ता हर्ता न विद्यते  ॥ ८.३३ ॥

नवखण्डां सप्तद्वीपां संशैलवनकाननाम्  ।

शशास मेदिनीं सर्वां यथा शक्रस्त्रिविष्टपम्  ॥ ८.३४ ॥

एकपत्नीगृहं यद्वद्गृहस्थस्य विराजते  ।

यज्ञदानसहस्रेण तर्पितास्सर्वदेवताः  ॥ ८.३५ ॥

यं यं प्रार्थयते कामं तं तमाप न संशयः  ।

एको दोषः परं तत्र नदी नैवाऽत्र विद्यते  ॥ ८.३६ ॥

राहुसोमसमायोगे देवखातं समाययौ  ।

स्नानं कर्तुं समाधाय ब्राह्मणैर्वैदपारगैः  ॥ ८.३७ ॥

विमानानां सहस्रेण गत्वा विशं नृपोत्तमः  ।

शङ्खतूर्यनिनादेन वेणुवीणास्वनेन च  ॥ ८.३८ ॥

सान्तः पुरपरीवारो वीक्ष्यमाणोऽङ्गनागणैः  ।

निर्वर्त्य पर्वकाले तु दानहोमविधिक्रियाम्  ॥ ८.३९ ॥

विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम्  ।

पौर्णमास्यां गते यामे स्वस्थे चैव नृपोत्तमे  ॥ ८.४० ॥

श्रूयते किङ्किणीशब्द आकाशे व्योमचारिणाम्  ।

गीतवादित्रयुक्तानां सहस्रं पङ्क्तिः वाजिनाम्  ॥ ८.४१ ॥

मनोहराणां यानानां दृष्ट्वा चैव दिवौकसाम्  ।

जगाम विस्मयं राजा भवनोपरि शोभितः  ॥ ८.४२ ॥

कस्यैतानि विमानानि ममैव भवनोपरि  ।

शयने शयने चैव कामभोगविवार्जितः  ॥ ८.४३ ॥

शोकोपहतचित्तस्य चिन्तया व्याकुलीकृतः  ।

किमिदं साहसं लोके विमानानां नभोपरि  ॥ ८.४४ ॥

एवं चिन्तयतस्तस्य सा निष्क्रान्ता निशा नृप  ।

उदिते च तथा सूर्ये धर्मकर्म समाप्य वै  ॥ ८.४५ ॥

वशिष्ठं प्राह राजर्षिरभिवाद्य नमस्कृतम्  ।

उपविष्टं यथा न्यायमासने देवनिर्मिते  ॥ ८.४६ ॥

इतिहासपुराणादि श्रावयन् विधिपूर्वकम्  ।

मनुना च पुरा पृष्टो वशिष्ठो मुनिपुङ्गवः  ॥ ८.४७ ॥

कस्यैतानि विमानानि ममोपरि महामुने  ।

केन कर्म्मविपाकेन दानेन नियमेन च  ॥ ८.४८ ॥

संशयो मे महाभाग त्रिकालज्ञ निवेदय  ।

कस्मिन् देशे कृतो यज्ञः स्वर्गकामफलप्रदः  ॥ ८.४९ ॥

येन याम्य क्षयांल्लोकान्नित्यान्तक विवार्जितान्  ।

क्षत्रवंशसमुत्पन्नो यस्तु वै शिक्षते क्षितिम्  ॥ ८.५० ॥

मातृकं पैतृकं वंशं यज्ञमिष्ट्वा दिवं नयेत् ।

स जातो येन भूलोकः सर्वथावद्यवर्जितः  ॥ ८.५१ ॥

अन्ये पुत्रत्वमापन्नास्ते तु क्लेशाय केवलम्  ।

एवमुक्तो वशिष्ठस्तु मनुना ब्राह्मणैः सह  ।

प्रसन्नस्त्वब्रवीत्तं तु वशिष्ठो मुनिसत्तमः  ॥ ८.५२ ॥

शृणुष्व त्वं महाभाग कथ्यमानं निबोध मे  ।

ब्रह्मणा गदितं पूर्वं कश्यपस्य महामुनेः  ॥ ८.५३ ॥

दक्षस्यात्रेर्गुरोश्चैव प्रजापतिरकल्पयत् ।

वेदश्रुतपुराणोक्तं तत्र कृत्स्नं मया श्रुतम्  ॥ ८.५४ ॥

हन्त ते कथयिष्यामि यथावदनुपूर्वशः  ।

पुराणवेदबाह्यं तु कर्म्म यत्क्रियते नृप  ॥ ८.५५ ॥

न तत्सन्तः प्रशंसन्ति धर्महानिश्च जायते  ।

नर्मदातीरमाश्रित्य त्रिपुरी नाम विश्रुता  ॥ ८.५६ ॥

यैरिष्टं तत्र यज्ञैस्तु दानहोमबलिक्रिया  ।

तेषां राजन् विमानानि स्थितान्युपरि वेश्मनः  ॥ ८.५७ ॥

न तां लङ्घयितुं शक्ताः सर्वे देवास्सवासवाः  ।

अतिक्रामन्ति ते स्वर्गं शिवेन सह मोदन्ते  ॥ ८.५८ ॥

विषादं त्यज राजेन्द्र गहना कर्म्मणां गतिः  ।

अन्यक्षेत्रे सहस्रं तु दत्तं तप्तं हुतं तथा  ॥ ८.५९ ॥

एकं तु कल्पगा तीरे तुल्यं भवति वा न वा  ।

शिवेन श्रावितं चासीत्पुराणं स्कन्दकीर्तितम्  ॥ ८.६० ॥

जम्बूद्वीपे महाराज एका देवी तु नर्मदा  ।

पापकर्मदुराचारान्नयते स्म दिवौकसम्  ॥ ८.६१ ॥

तेऽपि यान्ति न सन्देहः कल्पगातोयदर्शनात् ।

धर्मध्वजाश्च ये मर्त्यास्त्रिषु लोकेषु विश्रुताः  ॥ ८.६२ ॥

संसारार्णवमग्नानां पापोपहतचेतसाम्  ।

यानरूपावरारोहा त्रैलोक्ये सचराचरे  ॥ ८.६३ ॥

एकवक्त्रस्तु तत्पुण्यं न गुणान् स्तोतुमर्हति  ।

त्यक्त्वा चैव महाभाग ब्रह्मविष्णुमहेश्वरान्  ॥ ८.६४ ॥

संख्यां कर्तुं न शक्नोति तपसो दानकर्म्मणाम्  ।

न गङ्गायमुना चापि नदी चैव सरस्वती  ॥ ८.६५ ॥

इरावती वितस्ता च विपाशा कपिला तथा  ।

शोणश्च घर्घरश्चैव सारङ्गा बदरी तथा  ॥ ८.६६ ॥

पुण्या महानदी तापी गण्डकी च पयोष्णिका  ।

तुङ्गभद्रा महापुण्या भीमरथ्या महानदी  ॥ ८.६७ ॥

तीर्थानि सागराणां हि जम्बूद्वीपे वसन्ति हि  ।

देवखाततडागेषु गर्तेषु च सरित्सु च  ॥ ८.६८ ॥

किं फलं लभते मर्त्य इष्ट्वा यज्ञैर्नृपोत्तम  ।

अन्यक्षेत्रे कृतं पापं पुण्यक्षेत्रे विनश्यति  ॥ ८.६९ ॥

पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति  ।

अयं यथा तथा धर्मः समं भारत वर्तते  ॥ ८.७० ॥

तस्मात्पापं न कुर्वीत चञ्चले जीविते सति  ।

श्रुत्वाख्यानमिदं राजा नर्मदाकीर्तनं शुभम्  ॥ ८.७१ ॥

आदिदेश ततोऽमात्यान् भृत्यांश्चैव सहस्रशः  ।

राजोपस्करमादाय यूयं गच्छतमाचिरम्  ॥ ८.७२ ॥

धेनूनां पञ्चलक्षाणि सवत्सानां च भारत  ।

श्यामकर्णहयानां च लक्षमेकं शितत्विषाम्  ॥ ८.७३ ॥

अयुतं च करीन्द्राणां घण्टाभरणसंयुजाम्  ॥ ८.७४ ॥

हिरण्यकोटीः पञ्चाशत्सर्वासृङ्मणयस्तथा  ।

सुमुहूर्ते सुनक्षत्रे चन्द्रे चैकादशे शुभे  ॥ ८.७५ ॥

नानादेशनृपैः सार्द्धं गीतवादित्रमङ्गलैः  ।

दिव्ययानसमारूढः स्तूयमानो मुहुर्मुहुः  ॥ ८.७६ ॥

ब्राह्मणैर्वेदविद्भिश्च प्रायाच्च त्रिपुरीं नृपः  ।

सप्तकल्पवहां पुण्यां सुरासुरनमस्कृताम्  ॥ ८.७७ ॥

आजन्मरूढैस्तु पापैः सान्तः पुरपरिच्छदः  ।

विमुक्तः पृथिवीपालः कल्पगा तोयदर्शनात् ॥ ८.७८ ॥

पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे  ।

मेकलातोयसंस्पर्शात्पवित्राणीह तान्यपि  ॥ ८.७९ ॥

स्नानं कृत्वा यथा न्यायं पितॄन् देवांश्च तर्पयन्  ।

अर्चयित्वा महेशानं गन्धपुष्पविलेपनैः  ॥ ८.८० ॥

दशयोजनपर्य्यन्तं यज्ञरूपं च मण्डपम्  ।

अकारयन्महाबाहुः सर्वधर्मपरायणः  ॥ ८.८१ ॥

हेमरूप्यमयं सर्वं यच्चान्यद्भोज्यभाजनम्  ।

अगस्त्यो गौतमो गर्गो विष्णुः शातातपस्तथा  ॥ ८.८२ ॥

अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः  ।

भृगुरग्निर्मरीचिश्च कश्यपोऽथ मनुस्तथा  ॥ ८.८३ ॥

दुर्वासा याज्ञवल्क्यश्च भरद्वाजोऽथ भल्लुकः  ।

विश्वामित्रो जमदग्नी ऋष्यशृङ्गो विभाण्डकः  ॥ ८.८४ ॥

दक्षः पराशरो व्यासः काषायणबृहस्पती  ।

एते चान्ये च बहव ऋषयः शंसितव्रताः  ॥ ८.८५ ॥

चतुर्विद्यावेदविदो यज्ञकर्म्मविशारदाः  ।

तीर्थं वै पुष्करं यद्वद्ब्रह्मविष्णुशिवात्मकम्  ॥ ८.८६ ॥

तत्र प्रावर्तयद्यज्ञं हयमेधमनुत्तमम्  ।

आहूता देवताः सर्वा देवेन्द्रः पाकशासनः  ॥ ८.८७ ॥

तर्पिता अर्घपाद्यैश्च मधुपर्कैश्च विष्टरैः  ।

ततो निवर्तितो यज्ञो यथोक्तो वेदकर्म्मणा  ॥ ८.८८ ॥

तर्पिता ब्राह्मणास्सर्वे यथा विभवविस्तरैः  ।

हारकेयूरकटकैः कण्ठाभरणभूषणैः  ॥ ८.८९ ॥

केचित्कुङ्जरमारूढास्तथा च हयसंस्थिताः  ।

दिव्ययानसमारूढा दिव्यमालावलम्बिनः  ॥ ८.९० ॥

वयांसि पक्षिणो यत्र तथाऽन्ये वनचारिणः  ।

यज्ञोच्छिष्टेषु लुलिता जाताः सर्वे हिरण्मयाः  ॥ ८.९१ ॥

यं यं कामं प्रार्थयते तं तं प्राप्नोत्यसंशयम्  ।

घोषणा क्रियतां राष्ट्रे दण्डहस्तैस्तु किङ्करैः  ॥ ८.९२ ॥

पितृदेवमनुष्याश्च तृप्ता यान्ति परां गतिम्  ।

ब्रह्मविष्णुमहेशाना वरं दत्त्वा दिवं ययुः  ॥ ८.९३ ॥

अत्र यज्ञस्तपोदानं सर्वं भवति चाक्षयम्  ।

एवं निवर्तितो यज्ञो राज्ञश्चामिततेजसः  ॥ ८.९४ ॥

कृताञ्जलिपुटो भूत्वा मनुरित्याह कल्पगाम्  ।

चान्द्रायणसहस्रस्य सोमयागशतस्य च  ॥ ८.९५ ॥

त्वत्तोयपानमात्रेण समं भवति वा न वा  ।

लोकानां तारणार्थाय अवतीर्णा महानदी  ॥ ८.९६ ॥

त्वया व्याप्तं जगत्कृत्स्नं लोकाश्चैव चराचराः  ।

स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि  ॥ ८.९७ ॥

अनेकभाविकं पापं तूलराशिमिवानलः  ।

दहत्येवं हि तोयं ते नात्र कार्य्या विचारणा  ॥ ८.९८ ॥

स्वर्गसोपानभूताऽसि पितॄणां हितकाम्यया  ।

दिवं नय वरारोहे भूतग्रामं चतुर्विधम्  ॥ ८.९९ ॥

याः काश्चित्सरितो लोके तीर्थानि विविधानि च  ।

तेषां त्वं जननी देवि पितॄणां तारिणी परा  ॥ ८.१०० ॥

त्वया विना तु यत्तीर्थं धर्मकर्मशुभोदयम्  ।

सूर्येणैव विहीनं हि निरालोकं जगद्यथा  ॥ ८.१०१ ॥

सूर्याचन्द्रमसोर्भावः सामान्यः सर्वजन्तुषु  ।

समं वर्षति पर्जन्यः सस्येषु च तृणेषु च  ॥ ८.१०२ ॥

तथा त्वं सर्वलोकानां माता चैव गरीयसी  ।

अपि वर्षसहस्रेण गुणान् कीर्तयितुं शुभे  ॥ ८.१०३ ॥

ब्रह्मा बृहस्पतिश्चैव न शक्तोऽपि वरानने  ।

स्तोत्रं श्रुत्वा महाभागा मनोरमिततेजसः  ॥ ८.१०४ ॥

प्रत्युवाच वरारोहा मकरासनसंस्थिता  ।

सर्वाभरणशोभाढ्या चन्द्रकान्तिनिभानना  ॥ ८.१०५ ॥

वरं वृणु महाभाग तुष्टाऽस्मि मनसीप्सितम्  ।

नमस्कृत्य महादेवीं राजा वचनमब्रवीत् ॥ ८.१०६ ॥

यदि तुष्टा वरारोहे वरं दातुं ममेच्छसि  ।

तीर्थभूतं जगत्सर्वं कुरुष्व वरवर्णिनि  ॥ ८.१०७ ॥

अयोध्याविषये देशे स्रवन्त्यः सम्भवन्त्विति  ।

नानाविधास्तु सरितो गङ्गाद्यास्तु सुरालये  ॥ ८.१०८ ॥

यथा च पतितास्सर्वास्तथा त्वं कल्पगे कुरु  ॥ ८.१०९ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे त्रिपुरीवर्णनो नामाष्टमोऽध्यायः ॥

 

 

अध्याय ९

 

नर्मदोवाच –

त्रेतायां प्रथमे पादे तव वंशे नृपोत्तम  ।

भगीरथ इति ख्यातः स गङ्गा मानयिष्यति  ॥ ९.१ ॥

सगराः षष्टिसाहस्रा अलाबुजसमुद्भवाः  ।

कपिलस्य तु मार्गेण हये पातालगामिनि  ॥ ९.२ ॥

पितुराज्ञाऽवसाने तु विदार्य धरणीं ततः  ।

हयं तु वासुदेवेन सागरास्ते विदुर्बुधाः  ॥ ९.३ ॥

प्रविष्टाः सागरास्ते तु रसातलतलं गताः  ।

तानहं पूरयिष्यामि आत्मतोयेन सुव्रत  ॥ ९.४ ॥

एवं वृतो वरस्तावच्छेषं वृणु नरेश्वर  ।

पादे द्वितीये त्रेतायाः कालिन्दी च सरस्वती  ॥ ९.५ ॥

सरयूर्गण्डकी नाम महाभागा विनिःसृताः  ।

भगीरथ इति ख्यातस्तव वंशे भविष्यति  ॥ ९.६ ॥

भागीरथी च विख्याता भविष्यति सरिद्वरा  ।

गङ्गा च जाह्नवी चैव समभागा प्रकीर्तिता  ॥ ९.७ ॥

ख्यातिं यास्यन्ति तास्सर्वाः कन्याद्वीपे न संशयः  ।

आगच्छन्ती तु सा गङ्गा जह्नुना च महर्षिणा  ॥ ९.८ ॥

हस्तेनाकृष्य सा पीता यथान्यत्प्राकृतं जलम्  ।

दिव्यं वर्षसहस्रं तु उदरे च विसर्पिता  ॥ ९.९ ॥

विषण्णवदनो राजा तदासीत्स भगीरथः  ।

निष्कलं मे तपस्तप्तं शिवसेवा च निष्कला  ॥ ९.१० ॥

मया तु सेवितं ह्येतज्जगत्सर्वं चराचरम्  ।

किं करोमीति निश्चित्य महेशं शरणं गतः  ॥ ९.११ ॥

शिवाज्ञा सयुतो भूत्वा लोकानां हितकामया  ।

आगतश्च पुनर्मोहात्तां गङ्गां स महायशाः  ॥ ९.१२ ॥

उवाच वचनं राजनृषिः क्रोधसमन्वितः  ।

गङ्गाया मोक्षणं कर्तुं यो मामाराधयिष्यति  ॥ ९.१३ ॥

गङ्गाया मोक्षणं तत्र कर्तव्य नाऽत्र संशयः  ।

तस्य तद्वचनं श्रुत्वा जह्नोरमिततेजसः  ॥ ९.१४ ॥

तमेवाराथयामास तपसोग्रेण भारत  ।

ततस्तुष्टस्तु भगवान्मुमोचोत्तरवाहिनीम्  ॥ ९.१५ ॥

ततः प्रभृति लोकेऽस्मिञ्जाह्नवीति प्रकीर्तिता  ।

एतत्ते कथितं राजंस्त्रेतायां यद्भविष्यति  ॥ ९.१६ ॥

तत्रैवाऽन्यं प्रवक्ष्यामि मर्कटीतीर्थमुत्तमम्  ।

यत्र स्नात्वा महाराज कामतोऽकामतोऽपि वा  ॥ ९.१७ ॥

चान्द्रायणशतस्योक्तं यत्पुण्यं तदवाप्नुयात् ।

 

युधिष्ठिर उवाच –

संक्षेपाच्छ्रुतमेतद्धि विस्तरेण तपोधन  ॥ ९.१८ ॥

कथं तु मर्कटीतीर्थं तन्मे कथय सुव्रत  ।

 

मार्कण्डेय उवाच –

आसीत्त्रेतायुगे राजा सत्यसेनो महातपाः  ॥ ९.१९ ॥

राज्ञी तस्य प्रिया चासीन्नाम्ना शृङ्गारवल्लरी  ।

जातिस्मरा तु सुभगा केवलं मर्कटानना  ॥ ९.२० ॥

कदाचित्स महीपालो मृगया प्रियया सह  ।

जगाम नर्मदातीरं नानाद्रुमलतायुतम्  ॥ ९.२१ ॥

स्थापयित्वा तु तां देवीं वनान्तरमगात्ततः  ।

क्रीडमाना च सा तत्र वंशगुल्मे स्वकं शिरः  ॥ ९.२२ ॥

वृष्ट्वा विस्मयमापन्ना पार्श्वस्थं कंचिदब्रवीत् ।

गृहीत्वैतच्छिरः शीघ्रं नर्मदाया जले क्षिप  ॥ ९.२३ ॥

निक्षिप्तमात्रे शिरसि राज्ञी चन्द्राननाऽभवत् ।

एतस्मिन्नन्तरे राजा प्राप्तस्तत्र प्रियाऽन्तिकम्  ॥ ९.२४ ॥

स दृष्ट्वा तादृशं तस्या मुखं पूर्णशशिप्रभम्  ।

पृच्छति स्म प्रियां राजा विस्मयाविष्टचेतनः  ॥ ९.२५ ॥

कथयामास वृत्तान्तं पूर्वजन्मसमुद्भवम्  ।

अत्राहं मर्कटीवासं तीरे वै नार्मदे शूभे  ॥ ९.२६ ॥

कदाचित्क्रीडमानाऽहं वंशं भित्त्वा ह्यकामतः  ।

ततः कालवशाज्जीर्णं शरीरं पतितं जले  ॥ ९.२७ ॥

शिरस्तत्रैव संलग्नं कपिवक्त्राऽस्मि तेन वै  ।

इदानीं नर्मदातोये निक्षिप्ते शिरसि प्रिय  ॥ ९.२८ ॥

मुखं मे तीर्थमाहात्म्याच्चन्द्रबिम्बसमप्रभम्  ।

श्रुत्वा स तीर्थमाहात्म्यं विस्मयोत्फुल्ललोचनः  ॥ ९.२९ ॥

पुरोहितं समाहूय स्नातुं तत्र प्रचक्रमे  ।

स्नात्वा तत्र विधानेन हेमकोटिशतं ददौ  ॥ ९.३० ॥

तदा प्रभृति राजेन्द्र मर्कटीतीर्थमुच्यते  ।

पूर्वभागस्थितं तस्य भृगुतीर्थमनुत्तमम्  ॥ ९.३१ ॥

तत्र स्नात्वा तु कार्तिक्यां नर पापात्प्रमुच्यते  ।

स्वर्गदो मोक्षदश्चैव देवस्तु नरकेश्वरः  ॥ ९.३२ ॥

देवस्य चाग्रे वंशो वै सम्मुखो यत्र दृश्यते  ।

पूर्वभागे स्थितं तत्र तस्मिन् वंशे तु निर्मले  ॥ ९.३३ ॥

त्रिलोचन इति ख्यातं तथैव भ्रुकुटिस्थितम्  ।

तृतीयं लोचनं दृष्ट्वा भृगुस्तु मुनिसत्तम  ॥ ९.३४ ॥

प्रणम्य दण्डवद्भूमौ स्तोतुं समुपचक्रमे  ।

 

 

भृगुरुवाच –

प्रणमामि जने संस्थं भूतेशं भूतिदं हरम्  ॥ ९.३५ ॥

भाव्यं भर्गं पशुपतिं भुवनेश्वरमेव च  ।

दोषमात्रविहीनं च नित्यविज्ञानविग्रहम्  ॥ ९.३६ ॥

परद्रव्यापहरणात्परदारनिषेवणात् ।

पराभवात्पराभूतं रक्ष मां कल्मषात्प्रभो  ॥ ९.३७ ॥

आत्माभिमानमुदितं क्षणभङ्गुरके तथा  ।

कुपथाभिमुखं दीनं त्राहि मां परमेश्वर  ॥ ९.३८ ॥

दीनद्विजवरस्यार्थे प्रज्ञाने परितो भव  ।

वृष्ट्वा सदा शङ्करस्त्वं मूढं मां किं विलम्बसे  ॥ ९.३९ ॥

तृष्णां हर हरात्यर्थं लक्ष्मीं मे देहि निश्चलाम्  ॥ ९.४० ॥

नित्यं छिनत्ति मोहं पापं हन्ति तारणं विदधाति  ।

तव तीर्थमात्रगमनं तदपि न संचितं महेशान  ॥ ९.४१ ॥

भूतिमूलविभूढस्य विभागं तन्निरर्थकम्  ।

करुणाहृदयं नाम स्तोत्रमेतद्भृगूदितम्  ॥ ९.४२ ॥

यः पठेत्प्रातरुत्थाय स याति परमां गतिम्  ।

स्तोत्रेणानेन सन्तुष्टः शिवः प्रोवाच तं भृगुम्  ॥ ९.४३ ॥

सर्वं दास्यामि ते विप्रवरं यन्मनसीप्सितम्  ।

सिद्धिं चैव पुनः श्लाघ्यां यत्सुरैरपि दुर्लभाम्  ॥ ९.४४ ॥

 

भृगुरुवाच –

यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि  ।

मम नाम्नाऽस्य तीर्थस्य ख्यातिर्भवति भूतले  ॥ ९.४५ ॥

अवतारय चात्मानं भृगुक्षेत्रे महेश्वर  ।

 

शङ्कर उवाच –

एवं भवतु विप्रेन्द्र तव नाम्ना भविष्यति  ॥ ९.४६ ॥

क्षेत्रं पापहरं पुण्यं देवानामपि दुर्लभम्  ।

पितृपुत्रविसंवादः क्रोधाज्जातः कथञ्चन  ॥ ९.४७ ॥

अस्य तीर्थस्य माहात्म्यात्स तु शान्तिं गमिष्यति  ।

ततः प्रभृति ये देवा ब्रह्माद्याः किन्नरा नराः  ॥ ९.४८ ॥

उपासते भृगुक्षेत्रं यत्र तुष्टो महेश्वरः  ।

दर्शनात्स्पर्शनात्तस्य मुच्यते ब्रह्महत्यया  ॥ ९.४९ ॥

स्नानं यः कुरुते तत्र मुच्यते स ऋणत्रयात् ।

अवतारः कृतो राजन् युगे तत्र स्वयम्भुवा  ॥ ९.५० ॥

तत्र क्षेत्रे नरश्रेष्ठ अष्टौ रुद्राः प्रकीर्तिताः  ।

भृगुश्चैव तथा शूली वेदश्चन्द्रमुखस्तथा  ॥ ९.५१ ॥

अट्टहासस्तथा कालः कराली चाष्टमस्तथा  ।

अष्टौ रुद्रास्समुत्पन्नास्तस्मिन् क्षेत्रे युधिष्ठिर  ॥ ९.५२ ॥

तेन रम्यं च धन्यं च भृगुक्षेत्रमुदाहृतम्  ।

अयने विषुवे चैव संक्रान्तौ ग्रहणेषु च  ॥ ९.५३ ॥

व्यतीपाते दिनच्छेदे छायायां तु गजस्य च  ।

स्नानं दानं तथा होमं तर्पणं देवतार्चनम्  ॥ ९.५४ ॥

सर्वं तदक्षयं राजंस्तस्मिन् क्षेत्रे न संशयः  ।

स्नातस्य च भृगुक्षेत्रे एकरात्रोषितस्य च  ॥ ९.५५ ॥

यत्पुण्यं जायते पुंसो न तत्क्रतुशतैरपि  ।

दर्शे भाद्रपदे मासे शुक्लपक्षे विशेषतः  ॥ ९.५६ ॥

नरः प्रदक्षिणां कृत्वा भृगुतीर्थस्य संयतः  ।

तत्क्षणाद्विरजो भूत्वा शिवलोके महीयते  ॥ ९.५७ ॥

अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः  ।

मर्कट्याः पश्चिमे भागे ह्यर्कतीर्थमुदाहृतम्  ॥ ९.५८ ॥

तत्र नित्यं स्थितो भानुः सर्वदेवनमस्कृतः  ।

नरः प्रदक्षिणां कृत्वा सर्वपापैः प्रमुच्यते  ॥ ९.५९ ॥

माहात्म्यं तस्य देवस्य शृणु राजन् समासतः  ।

पुरा गन्धर्वराजस्तु मोहनो नाम नामतः  ॥ ९.६० ॥

ब्रह्मणस्तु सभां प्राप्तस्तदाराधनतत्परः  ।

तत्र दुर्वाससं दृष्ट्वा रूपेणानेन गर्वितः  ॥ ९.६१ ॥

अज्ञानेनाऽवमानेन स जहास मुनिं नृप  ।

स्मेराननं समालोक्य तं शशाप मुनिस्तदा  ॥ ९.६२ ॥

चित्रकुष्ठी दुराचारो भव त्वं रूपगर्वितः  ।

स तु शापभयात्प्राह मुनिं गन्धर्वराट्ततः  ॥ ९.६३ ॥

शापान्तं कुरु मे विप्र बालिशस्य प्रसादतः  ।

 

दुर्वासा उवाच –

गच्छ गन्धर्वराज त्वं त्रिपुर्यां नर्मदातटम्  ॥ ९.६४ ॥

यस्मिन्नास्ते स्वयं देवः समग्रभयनाशनः  ।

भासते भास्करं नाम विख्यातं चोत्तरे तटे  ॥ ९.६५ ॥

तत्र स्नानान्महाराज शापान्तस्ते भविष्यति  ।

स जगाम पुनर्नत्वा ततो वै नर्मदातटम्  ॥ ९.६६ ॥

तत्र स्नात्वा विधानेन पूजयामास भास्करम्  ।

त्रिरात्र्याराधितो भानुः प्रातः प्रोवाच तं नृप  ॥ ९.६७ ॥

वरं वृणु महाभाग यत्ते मनसि वर्तते  ।

 

गन्धर्व उवाच –

यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि  ॥ ९.६८ ॥

चित्रकुष्ठं विनश्येत त्वत्प्रसादेन मे प्रभो  ।

एवमस्त्विति तं प्राह गन्धर्वाधिपतिं तदा  ॥ ९.६९ ॥

शापान्मुक्तो जगामाथ स्वपुरं प्रति भारत  ।

एतत्ते कथितं राजन् छिवेन परिकीर्तितम्  ॥ ९.७० ॥

सावित्र्याराधनं तत्र पुत्रार्थं किल भारत  ।

तस्मिंस्तीर्थे नरः स्नात्वा समभ्यर्च्य च भास्करम्  ॥ ९.७१ ॥

पुत्रवान् व्याधिमुक्तश्च जायते नाऽत्र संशयः  ।

कोटीश्वरं तु तत्रैव विद्धिदक्षिणभागतः  ॥ ९.७२ ॥

तमभ्यर्च्य विधानेन कोटिलिङ्गार्चनात्फलम्  ।

नरः प्राप्नोति राजेन्द्र सत्यं सत्यं वदाम्यहम्  ॥ ९.७३ ॥

कोटितीर्थे नरः स्नात्वा मुच्यते सर्वकिल्बिषैः  ।

तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपिवा  ॥ ९.७४ ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते  ॥ ९.७५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डेऽर्कतीर्थमाहात्म्ये नवमोऽध्यायः ॥

 

 

अध्याय १०

 

मार्कण्डेय उवाच –

दक्षिणे तस्य तीर्थस्य कल्पगातीरमाश्रितम्  ।

सोमेनाराधितं तीर्थं भुक्तिमुक्तिफलप्रदम्  ॥ १०.१ ॥

तत्र स्नात्वा दिवं यान्ति मृतास्ते न पुनर्भवाः  ।

दक्षिणे तस्य देवस्य स्थितः शक्रेश्वरः शिवः  ॥ १०.२ ॥

शक्रेणाराधितः पूर्वं सर्वकामसमृद्धये  ।

अन्यत्तीर्थं प्रवक्ष्यामि ब्रह्मकुण्डमिति स्मृतम्  ॥ १०.३ ॥

यत्रास्ते भगवान् विष्णू रेवा चोत्तरवाहिनी  ।

तत्र स्नात्वा महाराज वैष्णवं लोकमाप्नुयात् ॥ १०.४ ॥

दर्शे चैव व्यतीपाते तिलतोयप्रदानतः  ।

श्राद्धस्य करणात्तत्र पितॄणां तृप्तिरक्षया  ॥ १०.५ ॥

उदीची नर्मदा यत्र प्रतीची यत्र जाह्नवी  ।

क्षेत्रं गच्छ नृपश्रेष्ठ प्राची यत्र सरस्वती  ॥ १०.६ ॥

ब्रह्मकुण्डोत्तरे भागे विद्धि देवं सनातनम्  ।

अम्बरीषमिति ख्यातं माधवं मधुसूदनम्  ॥ १०.७ ॥

एकादश्यां समभ्यर्च्य स्नात्वा यस्तु नराधिप  ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति  ॥ १०.८ ॥

तस्यैव पश्चिमे भागे हंसतीर्थं नराधिप  ।

तत्र स्नात्वा पुरा राजन् हंसा वै त्रिदिवङ्गताः  ॥ १०.९ ॥

तत्रापि कुरुते श्राद्धं दानं चैव नराधिप  ।

हंसतीर्थप्रभावेण तिर्यग्योनौ न जायते  ॥ १०.१० ॥

पश्चिमे तस्य भागे तु लिङ्गं परमसिद्धिदम्  ।

महाकालमिति ख्यातं यन्मयाराधितं पुरा  ॥ १०.११ ॥

तमभ्यर्च्य विधानेन शिवलोकमवाप्नुयात् ।

अथान्यत्संप्रवक्ष्यामि तीर्थराजमनुत्तमम्  ॥ १०.१२ ॥

मातृतीर्थमिति ख्यातं लिङ्गं च मातृकेश्वरम्  ।

तत्र स्नातस्य राजेन्द्र हयमेधफलं भवेत् ॥ १०.१३ ॥

तत्प्रवाहमतिक्रम्य यद्वा रेवोत्तरं महत् ।

सप्तविंशोद्भवः शिवस्तत्र लोकेषु गीयते  ॥ १०.१४ ॥

तत्र स्नात्वा पितृभ्यश्च तोयपिण्डप्रदानतः  ।

सर्वकामसमृद्धात्मा शिवलोके महीयते  ॥ १०.१५ ॥

तत्र यद्दीयते दानं किंचिद्वापि युधिष्ठिर  ।

तस्य संख्या न विद्यते इत्याह भगवान् छिवः  ॥ १०.१६ ॥

तत प्रतीच्यां लिङ्गन् तु ब्रह्मेश्वरमिति श्रुतम्  ।

ब्रह्मणा साधितं सद्यः सर्वकामफलप्रदम्  ॥ १०.१७ ॥

दर्शनात्तस्य देवस्य सर्वपापैः प्रमुच्यते  ।

अङ्गारे वा चतुर्दश्यां तदभ्यर्च्य विधानतः  ॥ १०.१८ ॥

शिवभक्तिपरो मर्त्यः शिवलोके महीयते  ।

अन्यत्तीर्थं प्रवक्ष्यामि स्वर्गद्वारमनुत्तमम्  ॥ १०.१९ ॥

तत्र स्नातो नरव्याघ्र स्वर्गलोके महीयते  ।

तत्र पश्चिमभागे तु लिङ्गं सिद्धेश्वरं परम्  ॥ १०.२० ॥

तत्र सिद्धेश्वरं चैव तीर्थं पापप्रणाशनम्  ।

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ १०.२१ ॥

पौषे मासि सिताष्टम्यां तमभ्यर्च्य विधानतः  ।

दत्त्वा तु कपिलां धेनुं स्वर्गलोके महीयते  ॥ १०.२२ ॥

तस्मादुत्तरतो विद्धि सङ्गमं लोकविश्रुतम्  ।

गङ्गायमुनयोर्नित्यं रेवायाश्च नराधिप  ॥ १०.२३ ॥

तत्र स्नातस्य राजेन्द्र अश्वमेधफलं भवेत् ।

श्राद्धं तत्र प्रकुर्वीत पितॄणां प्रीतिवर्द्धनम्  ॥ १०.२४ ॥

 

राजोवाच –

गङ्गा च यमुना चात्र समायाते कथं मुने  ।

एतद्विस्तरतः सर्वं प्रब्रूहि मुनिपुङ्गव  ॥ १०.२५ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग कथ्यमानं निबोध मे  ।

मतङ्गो नाम राजर्षिरासीद्धर्मपरायणः  ॥ १०.२६ ॥

शिवभक्तो महायोगी त्रिपुर्यां वेदवित्तमः  ।

षण्मासभोजी धर्मात्मा हत्वा करिवरं स्वयम्  ॥ १०.२७ ॥

षष्ठे मासे तु संप्राप्ते यथावद्विधिपूर्वकम्  ।

पितृयज्ञं तु निर्वर्त्य शेषं भुङ्क्ते नराधिप  ॥ १०.२८ ॥

एवं तपसि तप्ते तु कालेन महता ततः  ।

सप्तर्षयः समायातास्तेन मार्गेण भारत  ॥ १०.२९ ॥

स तान् दृष्ट्वा नमस्कृत्य अर्घपाद्यैरपूजयत् ।

कुशासनोपविष्टांस्तु प्रोवाच मुनिसत्तमः  ॥ १०.३० ॥

धन्योऽस्मि पितृमेधे यत्संप्राप्ता मे भवादृशाः  ।

तत्तस्य वचनं श्रुत्वा मतङ्गस्य महामुने  ॥ १०.३१ ॥

ऋषयश्चिन्तयामासुरन्योऽन्यं वै तदा नृप  ।

मांसेन पितृमेधोऽस्य कथं त्याज्यो भवेदिति  ॥ १०.३२ ॥

चिन्ताविष्टान्मुनीन् दृष्ट्वा वशिष्ठः प्राह तं मुनिम्  ।

गङ्गायमुनयोर्योगे स्नानं कृत्वा महामुने  ॥ १०.३३ ॥

भोक्षामहे वयं सर्वे नात्र कार्या विचारणा  ।

तस्य तद्वचनं श्रुत्वा मतङ्गः प्राह तान् हसन्  ॥ १०.३४ ॥

गङ्गायमुनयोर्योगे स्नानं चात्र भविष्यति  ।

इत्युक्त्वा ध्यानमास्थाय स गङ्गां यमुनां तथा  ॥ १०.३५ ॥

समाह्वयत्मुनिश्रेष्ठः समायाते तु तत्क्षणात् ।

स्नानं कुरुध्वं मुनयो गङ्गायमुनसङ्गमे  ॥ १०.३६ ॥

ते दृष्ट्वा तादृशं कर्म्म मुनेस्तस्य महात्मनः  ।

विस्मयाविष्टहृदयाः प्रशशंसुश्च तं मुनिम्  ॥ १०.३७ ॥

ततस्तु मुनयः सर्वे स्नानं कृत्वा यथाविधि  ।

पितृयज्ञं तु निर्वर्त्य मतङ्गस्य ययुर्दिवम्  ॥ १०.३८ ॥

गङ्गा च यमुना चैव प्रविष्टे सप्त कल्पगां  ।

इत्थं स सङ्गमो जातः सर्वपापहरः परः  ॥ १०.३९ ॥

अमासोमसमायोगे स्नानं यः कुरुते नरः  ।

सर्वधर्मसुसम्पन्नः शिवभक्तिपरायणः  ॥ १०.४० ॥

उद्धृत्य पूर्वजान् सप्तचैवापरांस्तथा  ।

दिव्यदेहसमापन्नो दिव्याभरणभूषितः  ॥ १०.४१ ॥

दिव्ययान समारूढः स्तूयमानोऽप्सरोगणैः  ।

तत्क्षणाद्विरजो भूत्वा स्वर्गलोके महीयते  ॥ १०.४२ ॥

अस्य तीर्थस्य माहात्म्यान्मुच्यते सर्वपातकैः  ।

नैरन्तर्येण षण्मासाज्जितक्रोधो जितेन्द्रियः  ॥ १०.४३ ॥

स्नानं यः कुरुते तत्र पूजयेच्च महेश्वरम्  ।

पथिकः कारणाद्वापि म्लेच्छदेशेऽपि वा क्वचित् ॥ १०.४४ ॥

यत्र तत्र मृतः सोऽपि प्राप्नुयाच्छिवसन्निधिम्  ।

स्नानं दान तपो होमः संयोगे चैव पर्वणि  ॥ १०.४५ ॥

यदत्र क्रियते तस्य पुण्यसंख्या न विद्यते  ।

एतत्ते मे कृतं राजंस्त्रिपुरीक्षेत्रवर्णनम्  ॥ १०.४६ ॥

श्रवणं यस्य राजेन्द्र दैवतैरपि दुर्लभम्  ।

एतच्छ्रुत्वा महाराज नर्मदाकीर्तनं शुभम्  ॥ १०.४७ ॥

नमस्कृत्य वरारोहां कामिकं यानमास्थितः  ।

विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम्  ॥ १०.४८ ॥

मुदा परमया युक्तो यथा पूर्वं तथैव सः  ।

एतत्ते कीर्तितं राजन् यथावदनुपूर्वशः  ॥ १०.४९ ॥

शिवेन कथितं पूर्वं स्कन्दस्य तु महात्मनः  ।

श्रवणात्कीर्तनात्चैव शिवलोके महीयते  ॥ १०.५० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाख्यानं नाम दशमोऽध्यायः ॥

 

अध्याय ११

अथान्यत्परमं तीर्थं सुरासुरनमस्कृतम्  ।

योगतीर्थमिति ख्यातं सर्वपापप्रणाशनम्  ॥ ११.१ ॥

योगी स्नात्वा विधानेन योगान्ते त्रिदिवं गतः  ।

तत्र स्नात्वा नरो राजंस्तिर्यग्योनौ न गच्छति  ॥ ११.२ ॥

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते  ।

अथान्यत्परमं तीर्थं ध्रुवो यत्र प्रकाशते  ॥ ११.३ ॥

ध्रुवतीर्थे नरः स्नात्वा सर्वकामफलोदये  ।

ध्रुवेश्वरं महादेवं भक्त्या यस्तु प्रपूजयेत् ॥ ११.४ ॥

दशायुतानि राजा वै पुरे वैद्याधरे शुभे  ।

नाक्षत्रं नाम तीर्थं तु नर्मदातीरमाश्रितम्  ॥ ११.५ ॥

यत्र ऋक्षेश्वरो देवः सर्वपापप्रणाशनः  ।

सप्तविंशतिसंसिद्धिं नक्षत्राणि गतानि वै  ॥ ११.६ ॥

तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यन्तिदेवताः  ।

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ११.७ ॥

अथान्यत्परमं तीर्थं वाराहं नाम विश्रुतम्  ॥ ११.८ ॥

महाशूकररूपेण धात्री यत्र समुद्धृता  ।

एकादश्यां नरः स्नात्वा कृत्वा चैव यथोदितम्  ॥ ११.९ ॥

उपवासपरो भूत्वा द्वादश्यां तु युधिष्ठिर  ।

वैष्णवस्तु शुचिर्भूत्वा वाराहं च समर्चयेत् ॥ ११.१० ॥

पुष्पोपहारधूपैश्च गन्धदीपविलेपनैः  ।

वर्षलक्षं तु साग्रं वै लोके क्रीडति वैष्णवे  ॥ ११.११ ॥

ब्रह्मचारी जितक्रोधो विष्णुधर्मपरायणः  ।

भक्त्या भोजयते यस्तु विप्रान् वैष्णवकांस्तथा  ॥ ११.१२ ॥

लेखयित्वा विष्णुधर्मान् वस्त्रालङ्कारभूषितान्  ।

निवेदयेद्ब्राह्मणाय श्रोत्रियाय विशेषतः  ॥ ११.१३ ॥

पुराणं नर्मदाख्यानं श्रावयेच्च समाहितः  ।

वरदाश्च त्रयो देवा ब्रह्मविष्णुमहेश्वराः  ॥ ११.१४ ॥

भवन्ति तस्य सत्यं वै नाऽत्र कार्य्या विचारणा  ।

यावदक्षरसंख्यानं यावत्पत्रसमुच्चयः  ॥ ११.१५ ॥

तावद्युगसहस्राणि स्वर्गलोके महीयते  ।

विद्यादानात्परं दानं नान्य लोकेषु गीयते  ॥ ११.१६ ॥

अदीपा च यथा रात्रिरनादित्यं यथा नभः  ।

विद्याहीनं तथा सर्वमन्धे तमसि मज्जति  ॥ ११.१७ ॥

एतत्ते कथितं सर्वं विद्यादानस्य यत्फलम्  ।

सर्वदानफलं तस्य विद्यादानप्रभावतः  ॥ ११.१८ ॥

अथान्यत्परमं तीर्थं चान्द्रायणमिति स्मृतम्  ।

शशाङ्के रोहिणीयुक्ते पौर्णमास्यां महोत्सवे  ॥ ११.१९ ॥

शशाङ्कभूषणं देवं सर्वसिद्धिप्रदायकम्  ।

अर्चयित्वा विधानेन स्वर्गलोके महीयते  ॥ ११.२० ॥

पौर्णमास्यां तु कुरुते राहुसूर्यसमागमे  ।

तिलोदकं पिण्डदानं पुत्रः परमधार्मिकः  ॥ ११.२१ ॥

पितरस्तस्य तृप्यन्ति पापोपहतचेतसः  ।

सर्वं पाखण्डयुक्तं च आवृतं कलिना तथा  ॥ ११.२२ ॥

पुराणवेदधर्माश्च दानं यज्ञस्तपस्तथा  ।

आच्छादितमिदं पुण्यं हेतुकैः पापकर्मभिः  ॥ ११.२३ ॥

नग्नैर्मलिनदीनैश्च कलौ लोके दिगम्बरैः  ।

तस्माद्धर्मपरैर्नित्यमुपास्या नर्मदा नदी  ॥ ११.२४ ॥

सौम्ये तु द्वादशादित्यं तीर्थं पुण्यविवर्धनम्  ।

तत्र स्नात्वा नरो राजन्नर्चयित्वा तु भास्करम्  ॥ ११.२५ ॥

संक्रान्तौ विषुवे चैव सूर्यलोके महीयते  ।

एकस्मिन् भोजिते विप्रे लक्षं भवति भोजितम्  ॥ ११.२६ ॥

तिलान्नं च हिरण्यं च यथा शक्त्या ददाति यः  ।

शुक्लपक्षस्य माघस्य शुभा षष्ठी च सप्तमी  ॥ ११.२७ ॥

तस्यां दानप्रभावेण ह्युपवासपरायणः  ।

दशवर्षसहस्राणि सूर्यलोके महीयते  ॥ ११.२८ ॥

तीर्थमाप्सरसं नाम याम्यां दिशि समाश्रितम्  ।

चम्पका सीमपा नामा केशिनी भामिनी तथा  ॥ ११.२९ ॥

कौमुदी सुप्रभा चैव उत्पला च महोदया  ।

निषादयोनिं संप्राप्ताः पूर्वजन्मनि भारत  ॥ ११.३० ॥

एता आप्सरसं देवं गौरी चैव सुरेश्वरी  ।

माघे मासि तृतीयायां निराहाराश्च निर्जलाः  ॥ ११.३१ ॥

उदकैः स्नापयित्वा तु बिल्वपत्रैरपूजयन्  ।

दशवर्षसहस्राणि सावधानास्तु नार्मदैः  ॥ ११.३२ ॥

सर्वकामसमृद्धास्ता अप्सरोभिः सुपूजिताः  ।

सर्वालङ्कारशोभाढ्या नानावसनभूषिताः  ॥ ११.३३ ॥

तस्य तीर्थस्य माहात्म्यात्संसिद्धिं परमां गताः  ।

अथान्यत्कथयिष्यामि पुण्यतीर्थमनुत्तमम्  ॥ ११.३४ ॥

यत्र स्नातस्य विधिवत्कन्यादानफलं भवेत् ।

शङ्करं नाम लिङ्गं तु उत्तरस्यां दिशि स्मृतम्  ॥ ११.३५ ॥

अर्चयित्वा तु तं देवं दर्शे चैव नराधिप  ।

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते  ॥ ११.३६ ॥

अथातः संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम्  ।

दत्तात्रेया नदी यत्र सङ्गता सह रेवया  ॥ ११.३७ ॥

सौम्यभागे वरारोहासुरासुरनमस्कृता  ।

तत्र स्नात्वा च दत्त्वा च अर्चयित्वा तु केशवम्  ॥ ११.३८ ॥

पापिष्ठा ये दुराचारा धर्मकर्मबहिष्कृताः  ।

प्रभावात्तस्य तीर्थस्य तेऽपि यान्ति हरेः पुरम्  ॥ ११.३९ ॥

मेधातिथिः करः स्कन्दः सावर्णिः कौशिको मनुः  ।

काश्यपो गालवश्चैव मैत्रेयस्तपसां निधिः  ॥ ११.४० ॥

एते चान्येऽपि बहवो ऋषयः संशितव्रताः  ।

तीर्थस्याऽस्य प्रभावेण शंसिद्धिं परमां गताः  ॥ ११.४१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थमहिमवर्णनो नामैकादशोऽध्यायः ॥

 

अध्याय १२

 

मार्कण्डेय उवाच –

अथ शृणुष्व राजेन्द्र दक्षिणां दिशमाश्रितम्  ।

शैवं गाञ्जालभेदं च संगमं सुरपूजितम्  ॥ १२.१ ॥

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ।

यः कुर्यात्पितृदेवानां तर्पणं पिण्डपातनम्  ॥ १२.२ ॥

पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम्  ।

महोत्सवे च कौमुद्यां कार्त्तिक्यां चैव पर्वणि  ॥ १२.३ ॥

गाञ्जालेश्वरलिङ्गं च अर्चयेत्सिद्धिदायकम्  ।

हरिकेशश्चक्रवर्ती कन्यापुरपतिः पुरा  ॥ १२.४ ॥

तीर्थस्याऽस्य प्रभावेण मुक्तो भूद्वत्सगोवधात् ।

 

मार्कण्डेय उवाच –

ममास्ति संशयस्तात सुमहांल्लोमहर्षणः  ॥ १२.५ ॥

कथं राजनि गोहत्या कथं मुक्तश्च गोवधात् ।

 

मार्कण्डेय उवाच –

शृणु राजन् कथां दिव्यामितिहासं पुरातनम्  ॥ १२.६ ॥

सोमवंशे नृपश्चासीत्सत्यधर्मव्रते स्थितः  ।

देवानीक इति ख्यातो हरिकेशस्तदात्मजः  ॥ १२.७ ॥

सर्वलक्षणसम्पूर्णश्चक्रवर्ती महाबलः  ।

अनेकाश्च मखास्तेन राजन्निष्टा महात्मना  ॥ १२.८ ॥

ख्यातं कन्यापुरं तस्य धनदस्यालका यथा  ।

चिरायुषः प्रजाः सर्वा धनधान्यसमन्विताः  ॥ १२.९ ॥

तुङ्गभद्रेति विख्याता श्रीशैले त्रिपुरान्तिके  ।

उक्ता पातालगङ्गेति मल्लिकार्जुनदर्शनात् ॥ १२.१० ॥

पूर्वभागे ततस्तस्य श्रीधामं नाम खेटकम्  ।

नाना मुनिसमाकीर्णं देवकोटिसमावृतम्  ॥ १२.११ ॥

ललितोद्वाहिता तत्र शिवेन परमात्मना  ।

पुरा त्वस्यायुषा नाम प्रजापतिरकल्पयत् ॥ १२.१२ ॥

सुप्रभा नाम तस्यास्तु विख्यातमभवत्तथा  ।

देव्याः पूर्वावतारोऽयं कथितस्ते विशाम्पते  ॥ १२.१३ ॥

द्वितीये हिमवत्पुत्री पार्वती च उमा तथा  ।

तृतीये दक्षदुहिता नाम्ना गौरीति विश्रुता  ॥ १२.१४ ॥

पुण्यतीर्थे च क्षेत्रेऽस्मिन् हरिकेशः प्रतापवान्  ।

सुप्रभा निकटे नाम सुप्रभो राजसत्तम  ॥ १२.१५ ॥

शशास मेदिनीं राजा सर्वधर्मपरायणः  ।

लक्षमेकं तु दोग्ध्रीणां राहुसूर्यसमागमे  ॥ १२.१६ ॥

निष्काणां तु सहस्रं वै प्रतिगङ्गामकल्पयत् ।

सर्वाभरणशोभाढ्यामेकां गां चोपवेशयत् ॥ १२.१७ ॥

ब्राह्मणांश्च समाहूय वेदविद्याबहुश्रुतान्  ।

पञ्चभिर्दिवसैः पूर्वं राहुसूर्यसमागमे  ॥ १२.१८ ॥

प्रयागे तत्र योगे वा इत्युक्तं वेदपारगैः  ।

दैवोपकृतयोगेन पूर्वकर्म्मकृतेन च  ॥ १२.१९ ॥

आग्नेयी हूयते चेष्टी राज्ञाऽनलसमागमे  ।

अग्नावाहवनीयेऽत्र रौद्रैर्मन्त्रैः सुतेजसैः  ॥ १२.२० ॥

पातालादुत्थितो वह्णिर्युगान्ताग्निसमप्रभः  ।

दग्धं गोमण्डलं कृत्स्नमयुतं ब्रह्मचारिणाम्  ॥ १२.२१ ॥

भस्मीभूतं च तत्सर्वं मण्डपं पुरमेव हि  ।

हरिकेशो विषण्णात्मा प्रवेष्टुं वै हुताशनम्  ॥ १२.२२ ॥

आसनादुत्थितो राजा सान्तः पुरपरिच्छदः  ।

अमात्यैः संवृतस्तावत्समयज्ञैर्बलोत्तरैः  ॥ १२.२३ ॥

हाहाकारो महानासीत्त्रिषु लोकेषु भारत  ।

उवाच वचनं राजा ब्राह्मणान् वेदपारगान्  ॥ १२.२४ ॥

ब्राह्मणस्यैव हत्याया गवां चैव विशेषतः  ।

अपि वर्षसहस्रेण निष्कृतिर्न विधीयते  ॥ १२.२५ ॥

धेनूनां चैव वत्सानां ब्राह्मणानां यथागतिः  ।

सा गतिर्मे भवेन्नित्यं सत्यमेतद्ब्रवीम्यहम्  ॥ १२.२६ ॥

 

ब्राह्मण उवाच –

गच्छ त्वं महाभाग कल्पग्रामं पुरोत्तमम्  ।

अगस्तिर्भगवान् यत्र कश्यपो भृगुरेव च  ॥ १२.२७ ॥

भारद्वाजोऽत्रिगर्गौ च गौतमो मनुरेव च  ।

याज्ञवल्क्यो वशिष्ठश्च ऋषयः शंसितव्रताः  ॥ १२.२८ ॥

तत्र गत्वा महाराज प्रायश्चित्तं प्रगृह्यताम्  ।

महर्षीणां मतेनैव वेदशास्त्रार्थदर्शिनाम्  ॥ १२.२९ ॥

एवमुक्तो ययौ राजा पादचारी द्विजैः सह  ।

विवेश नगरीं पुण्यां ब्रह्मलोकसमां नृपः  ॥ १२.३० ॥

महर्षींस्तत्र तान् दृष्ट्वा सोऽभिवाद्य प्रणम्य च  ।

निश्चयं चिरकालं तु तेषामेवाग्रत स्थितः  ॥ १२.३१ ॥

 

ऋषय ऊचुः॒

स्वागतं ते नृपश्रेष्ठ फलं कर्मसहस्रशः  ।

किमागमनकार्यं च सत्यमेतद्वदस्व नः  ॥ १२.३२ ॥

तेषां तद्वचनं श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम्  ।

कृताञ्जलिपुटो भूत्वा वृत्तान्तं स्वं न्यवेदयत् ॥ १२.३३ ॥

दैवाद्विपद्यते कार्यं संसिद्धमपि भो द्विजाः  ।

दशाऽयुतं गवां दग्धं द्विजानामयुतं तथा  ॥ १२.३४ ॥

अनुग्रहं बहु मन्ये प्रायश्चित्तमथोदितम्  ।

 

 

ब्राह्मणा ऊचुः॒

दशलक्षाणि गायत्र्यास्तीर्थे तीर्थे जपं कुरुं  ॥ १२.३५ ॥

अयुतं तु गवां दत्त्वा सहिरण्यं नृपोत्तम  ।

कोटिहोमं तु कुर्वीत सहस्रशतदक्षिणम्  ॥ १२.३६ ॥

प्रयागं च महातीर्थं गच्छेद्वाराणसीं शुभाम्  ।

केदारं च तथेशानं गङ्गासागरसङ्गमम्  ॥ १२.३७ ॥

पितृतीर्थं गयां चैव नैमिषं पुष्करं तथा  ।

मायापुरीं हरिक्षेत्रं गङ्गाद्वारं महाफलम्  ॥ १२.३८ ॥

तीर्थेष्वेतेषु चान्येषु यावद्द्वादशवत्सरान्  ॥ १२.३९ ॥

अनेन क्रमयोगेन शुद्धिस्ते नात्र संशय  ।

मुक्तिस्ते भविता राजन् ब्राह्मणानां प्रभावतः  ॥ १२.४० ॥

दत्तं ते श्रुतिवाक्येन प्रायश्चित्तं द्विजोत्तमैः  ।

पादपूजा द्विजेन्द्राणां कर्तव्या च विधानतः  ॥ १२.४१ ॥

कुरुक्षेत्रं जगामाथ कर्तुं सोमसवं नृपः  ।

विचिन्त्यैवं स्वाघन्यासं सरस्वत्यां समाश्रयत् ॥ १२.४२ ॥

जपति स्म शिवस्तोत्रं हरं विष्णुं सरस्वतीम्  ।

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्  ॥ १२.४३ ॥

कुरुक्षेत्रस्य नाम्नाऽपि नरः पापात्प्रमुच्यते  ।

अखिलशब्दमहौषधप्रक्षालितसकलाभूतकलङ्का  ।

मुनिभिरुपासिततीर्था सरस्वतीह हरतु मे दुरितम्  ॥ १२.४४ ॥

राज्ञस्तद्वचनं श्रुत्वा प्राह पापहरा नदी  ।

विषादं त्यज राजेन्द्र शृणु मे वचनं परम्  ॥ १२.४५ ॥

उपदेशं प्रदास्यामि स्थातुं तव नृपोत्तम  ।

अनेकभाविकं घोरं स्मरणादेव नश्यति  ॥ १२.४६ ॥

ब्रह्महत्या सहस्रं तु गोहत्यालक्षमेव च  ।

न च मोचयितुं शक्ता गङ्गा चैव सरिद्वरा  ॥ १२.४७ ॥

चराचरेऽस्य लोकेऽस्मिन् कर्त्री तिष्ठति कल्पगा  ।

दीपादित्यादिभिर्वीक्ष्य यथान्धत्व प्रणश्यति  ॥ १२.४८ ॥

तथा नाशयते पापं कल्पगा सरितां वरा  ।

दानैर्दग्धा पुरा चाहं क्षत्रियाणामनेकधा  ॥ १२.४९ ॥

ग्रस्ताऽहं तेन पापेन नृपदक्षिणया ततः  ।

शुक्लतः कृष्णतां चाहं प्राप्ता भो पृथिवीपते  ॥ १२.५० ॥

द्वादशाऽब्दे चतुर्विंशे स्नानं कर्तुं समागमम्  ।

ग्रस्ते वै राहुणा सूर्ये कोटितीर्थे नराधिपः  ॥ १२.५१ ॥

प्रत्यक्षं मे शरीरं त्वं पश्य तेजः समुज्ज्वलम्  ।

स्नात्वा तु शिवमभ्यर्च्य बहु स्वर्णं मखोत्तमम्  ॥ १२.५२ ॥

कुरु तत्र नृपश्रेष्ठ तेन ते निष्कृतिर्भवेत् ।

ये मृता ब्राह्मणा गावस्तेषामस्थिप्रवाहनम्  ॥ १२.५३ ॥

नर्मदोदकसम्पर्काद्दिवि देवत्वमाप्यते  ।

तिलोदकप्रदानेन तेषां मुक्तिः परा भवेत् ॥ १२.५४ ॥

श्रुत्वैतत्कथितं वाक्यं सरस्वत्या नृपश्च ताम्  ।

नमस्कृत्य समुत्थाय कन्यापुरमगात्ततः  ॥ १२.५५ ॥

सान्तः पुरपरीवारो मुदा परमया नृपः  ।

तेनाज्ञप्तास्ततो भृत्याः सर्वसम्भारसभृताः  ॥ १२.५६ ॥

यज्ञोपस्करमादाय मेकला यत्र गच्छत  ।

अस्थि भस्म यथान्यायं नीतं कर्मकरैस्ततः  ॥ १२.५७ ॥

प्रावाहयत्कल्पगायां मन्त्रयुक्तेन वारिणा  ।

अस्थ्यादि पूजयित्वा च यथा विधमनुत्तमम्  ॥ १२.५८ ॥

देवांश्च ब्राह्मणांस्तत्र तर्पयित्वा कृताञ्जलिः  ।

प्रवाहो निर्गतस्तत्र नर्मदायां समाविशत् ॥ १२.५९ ॥

स गाञ्जालेति विख्यातो नर्मदा सङ्गमो नृप  ।

गाञ्जालसिद्धलिङ्गं च सूर्यकोटिसमप्रभम्  ॥ १२.६० ॥

दिव्ययानसमारूढा दग्धाः कालाग्निना तु ये  ।

आशीर्वादपरास्सर्वे हरिकेशं प्रतुष्टुवुः  ॥ १२.६१ ॥

त्वत्प्रसादान्महाभाग दिवि देवत्वमागताः  ।

देवदुन्दुभिनिर्घोषैर्वेणुवीणारवैस्तथा  ॥ १२.६२ ॥

दिव्ययानसमारूढा गतास्ते वैष्णवं पदम्  ।

हरिकेशो नृपश्रेष्ठः परया च मुदायुतः  ॥ १२.६३ ॥

सप्तकल्पवहां देवीं नर्मदा लोकपावनीम्  ।

नमस्कृत्य सरिच्छ्रेष्ठां स्तुतिं चक्रे समाहितः  ॥ १२.६४ ॥

नमस्तेऽस्तु सरिच्छ्रेष्ठे सप्तकल्पनिवासिनि  ।

यत्र तत्र नरः स्नात्वा मुक्तो भवति कल्मषात् ॥ १२.६५ ॥

न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ।

जन्मान्तरसहस्रेण न त्वां स्तम्भयते बली  ॥ १२.६६ ॥

जह्नुना हि पुरा पीता करतोयेन जाह्नवी  ।

त्वया च पूरितं सर्वं विश्वं चैव चराचरम्  ॥ १२.६७ ॥

त्वत्प्रसादात्महादेवि मुक्तिश्चापि भवार्णवात् ।

प्रत्यक्षा कल्पगैतच्च स्तोत्रं श्रुत्वा नृपोदितम्  ॥ १२.६८ ॥

 

नर्मदोवाच –

वरं वृणु महाभाग यत्ते मनसि वर्तते  ।

तस्यास्तद्वचनं श्रुत्वा हरिकेशोऽब्रवीदिदम्  ॥ १२.६९ ॥

यदि मे वरदादेवि पूतं मां परिकल्पय  ।

स्नानावगाहनात्पानात्स्मरणात्कीर्तनादपि  ॥ १२.७० ॥

सप्तजन्मकृतं पापं सद्य एव प्रणश्यतु  ।

 

रेवोवाच –

एवमस्तु नृपश्रेष्ठ मत्प्रसादाद्भविष्यति  ॥ १२.७१ ॥

एवमुक्त्वा ततो देवी तत्रैवान्तर धीयत  ।

हरिकेशश्चक्रवर्ती साष्टाङ्गं प्रणिपत्य च  ॥ १२.७२ ॥

कामिकं यानमारुह्य सर्वालङ्कारभूषितः  ।

विवेश नगरं पुण्यं यथाशक्रोऽमरावतीम्  ॥ १२.७३ ॥

कालान्तरे ततः प्राप्ते राज्यं कृत्वा सुरालये  ।

सान्तः पुरपरीवारो भोगान् भुङ्क्ते स्म पुष्कलान्  ॥ १२.७४ ॥

एतत्ते कथितं राजन्महाभाग विशाम्पते  ।

द्वापरं वंशमैक्ष्वाकं ब्राह्मं वैवस्वतं तथा  ॥ १२.७५ ॥

कापिलं पुष्करं चेति सप्तकल्पान् विदुर्बुधाः  ।

कापिलं प्रथमं विद्धि प्राजापत्यं द्वितीयकम्  ॥ १२.७६ ॥

ब्राह्मं रौचं च सावित्रं बार्हस्पत्यं प्रभासकम्  ।

महेन्द्रमग्निकल्पं वैजयन्तं मारुतं तथा  ॥ १२.७७ ॥

वैष्णवं ब्रह्मरूपं च ज्योतिषं च चतुर्दशम्  ।

एते कल्पास्तु संख्याता न मृता येषु नर्मदा  ॥ १२.७८ ॥

एतत्ते कथितं राजन्नितिहासं पुरातनम्  ।

धन्यं यशस्यमायुष्यं महतां कीर्तिवर्द्धनम्  ॥ १२.७९ ॥

श्रवणात्कीर्तनाद्वापि मुच्यते सर्वकिल्विषात् ॥ १२.८० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये गाञ्जालतीर्थवर्णनो नाम द्वादशोऽध्यायः ॥

 

अध्याय १३

 

मार्कण्डेय उवाच –

अथान्यत्परमं तीर्थं सर्वपापविनाशनम्  ।

दिशि याम्यां समाख्यातं नाम्ना वै बालुकेश्वरम्  ॥ १३.१ ॥

पुण्यं प्रकीर्तितं तत्र लिङ्गं परमसिद्धिदम्  ।

तत्र स्नात्वा यथान्यायं हेमभारफलं लभेत् ॥ १३.२ ॥

शङ्कुकर्ण इति ख्यातो यक्षः परमसिद्धिदः  ।

उत्तरायणमासाद्य कन्या रेवासमागमे  ॥ १३.३ ॥

संजगाम नृपश्रेष्ठ शिवसंसक्तमानसः  ।

मणिमाणिक्यरत्नानि ब्राह्मणार्थमकल्पयत् ॥ १३.४ ॥

तावन्नृपस्तु तं स्थानात्स्थाणुं चैव महेश्वरम्  ।

चालयामास यक्षस्तु ततः क्रुद्धो महेश्वरः  ॥ १३.५ ॥

ददाह हस्तौ यक्षस्य विस्मयाविष्टचेतसः  ।

आकाशवचसा प्रोक्तं विषादं त्यज पुत्रक  ॥ १३.६ ॥

सुरसङ्घास्त्रयस्त्रिंशत्नैनं चालयितुं क्षमाः  ।

सुरासुरगुरून् देवं स्थाणुभूतं स्वयम्भुवम्  ॥ १३.७ ॥

किं पुनर्दानवा यक्षमानुषाश्चाल्पचेतसः  ।

क्षमयित्वा तु देवेशं शङ्कुकर्णो महेश्वरम्  ॥ १३.८ ॥

सूर्यकोटिसमप्रख्यं ज्वलन्तं दीप्ततेजसम्  ।

अज्ञानात्कृतमेतत्तु क्षन्तव्यं मयि पुत्रके  ॥ १३.९ ॥

उवाच वचनं देवं वरं देहि महेश्वर  ।

प्रसाद्य चाब्रवीद्यक्षस्तव भृत्यं वशं गतम्  ॥ १३.१० ॥

गणत्वं गणमध्ये तु देहि हे सुरसत्तम  ।

यक्षतीर्थमिति ख्यातं लिङ्गं वै बालुकेश्वरम्  ॥ १३.११ ॥

कर्तुमर्हसि देवेश तीर्थेऽस्मिन् सचराचरैः  ।

अयने चोत्तरे ह्यत्र स्नानदानमनुत्तमम्  ॥ १३.१२ ॥

इमं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर  ।

 

शङ्कर उवाच –

सर्वकाभफलावाप्तिर्मत्प्रसादाद्भविष्यति  ॥ १३.१३ ॥

एवमुक्त्वा महेशानस्तत्रैवान्तर धीयत  ।

शङ्कुकर्णो महातेजास्तीर्थस्यास्य प्रभावतः  ॥ १३.१४ ॥

दिव्ययानं समारुह्य ययौ माहेश्वरं पुरम्  ।

अथान्यत्परमं तीर्थं सर्वपापप्रणाशनम्  ॥ १३.१५ ॥

दिशि याम्यां समाख्यातं नाम्ना पूर्णमनोरथम्  ।

पुण्यकीर्तनलिङ्गं तु ब्रह्महत्याप्रणाशनम्  ॥ १३.१६ ॥

तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् ।

हरिवर्मा पुरा चासीद्विराट्नगराधिपः  ॥ १३.१७ ॥

सर्वधर्मगुणोपेतो यज्ञयाजी महायशाः  ।

इष्टस्तत्र महायज्ञो येन वै कल्पगातटे  ॥ १३.१८ ॥

गोलक्षं तत्र दत्तं च हेमभारपरिष्कृतम्  ।

देवाश्च तार्पितास्तत्र ब्रह्माविष्णुर्बृहस्पतिः  ॥ १३.१९ ॥

ब्राह्मणाः पूजिता भक्त्या नानारत्नविभूषिताः  ।

प्रशशंसुश्च नृपतिं सुराः पूर्णमनोरथाः  ॥ १३.२० ॥

अथान्यत्कथयिष्यामि तीर्थात्तीर्थमनुत्तमम्  ।

रेवामत्स्यासमायोगे सुरासुरनमस्कृतम्  ॥ १३.२१ ॥

नाभागस्य च संवादमापस्तम्बस्य चानघ  ।

मन्वन्तरे चाक्षुषे वै संप्राप्ते द्वापरे युगे  ॥ १३.२२ ॥

नाम्ना मत्स्येश्वरं लिङ्गं जलमध्ये व्यवस्थितम्  ।

पूज्यते नागकन्याभिर्न तं पश्यन्ति मानुषाः  ॥ १३.२३ ॥

महातेजो मणिमयं चन्द्रबिम्बसमप्रभम्  ।

स्मरणाद्यस्य देवस्य ब्रह्महत्या प्रणश्यति  ॥ १३.२४ ॥

 

युधिष्ठिर उवाच –

साधुभिः सह संवासात्के गुणाः परिकीर्तिताः  ।

काः कथाः कानि पुण्यानि सङ्गमे साप्तकल्पगे  ॥ १३.२५ ॥

 

मार्कण्डेय उवाच –

अत्रैवोदाहरन्तीममितिहासं पुरातनम्  ।

नाभागस्य च संवादमापस्तम्ब तपोनिधेः  ॥ १३.२६ ॥

महर्षिश्चात्मवान् पूर्वमापस्तम्बो द्विजोत्तमः  ।

उपवासकृतारम्भो बभूव भगवांस्तथा  ॥ १३.२७ ॥

नित्यं क्रोधं च कामञ्च लोभं मोहं विसृज्य च  ।

रेवामत्स्यासमायोगे विवेश सलिलाशये  ॥ १३.२८ ॥

स मत्स्यैः सलिलावर्ते सरितश्चानुगैस्तदा  ।

तत्रान्योत्पतितैर्जालैः समानीतो महायशाः  ॥ १३.२९ ॥

तस्मादुत्तारयामासुः सलिलाद्ब्रह्मनन्दनम्  ।

तं दृष्ट्वा तपसा दीप्तं कैवर्ता भयविह्वलाः  ॥ १३.३० ॥

शिरोभिः प्रणिपत्योच्चैरिदं वचनमब्रुवन्  ।

अज्ञानात्क्रियमाणानामस्माकं क्षन्तुमर्हसि  ॥ १३.३१ ॥

किं वा किं च प्रियं तेऽद्य तदाज्ञापय सुव्रत  ।

स मुनिस्तन्महद्दृष्ट्वा मत्स्यानां कदनं कृतम्  ॥ १३.३२ ॥

कृपया परयाविष्टो दाशान् प्रोवाच दुःखितः  ।

दुःखितानीह भूतानि यो न भूतैः पृथग्विधैः  ॥ १३.३३ ॥

केवलात्म सुखेच्छातोऽवेन्नृशंसतरोऽस्ति कः  ।

अहोऽस्वस्थेष्वकारुण्यं स्वआर्थे चैव बलिर्वृथा  ॥ १३.३४ ॥

ज्ञानिनामपि चेद्यस्तु केवलात्महिते रतः  ।

ज्ञानिनो हि यथा स्वार्थमाश्रित्य ध्यानमाश्रिताः  ॥ १३.३५ ॥

दुःखार्तानीह भूतानि प्रयान्ति शरणं ततः  ।

योऽभिवाञ्छति भोक्तुं वै सुखान्येकान् ततो जनः  ॥ १३.३६ ॥

पापात्परतरं तं हि प्रवदन्ति मुमुक्षवः  ।

को नु मे स्यादुपायो हि येनाहं दुःखितात्मनाम्  ॥ १३.३७ ॥

अन्तःप्रविश्य भूतानां भवेयं सर्वदुःखभुक् ।

यन्ममास्ति शुभं किंचित्तद्दीनानुपगच्छतु  ॥ १३.३८ ॥

यत्कृतं दुष्कृतं तैश्च तदशेषमुपैतु माम्  ।

दृष्ट्वा तान् कृपणान् व्यङ्गाननङ्गान् रोगिणस्तथा  ॥ १३.३९ ॥

दया न जायते यस्य स रक्ष इति मे मतिः  ।

प्राणसंशयमापन्नान् प्राणिनो भयविह्वलान्  ॥ १३.४० ॥

यो न रक्षति शस्तोऽपि स तत्पापं समश्नुते  ।

आहूतानां नयार्तानां सुखं यदुपजायते  ॥ १३.४१ ॥

तस्य स्वर्गापवर्गौ च कलां नार्हन्ति षोडशीम्  ।

तस्माच्चैतानहं दीनां छक्तुं मीनान् सुदुःखितान्  ॥ १३.४२ ॥

यादृङ्मात्रं न पश्यामि किं पुनस्त्रिदशालयम्  ।

निशम्यैतन्मुनेर्वाक्यं दाशास्ते जातसंभ्रमाः  ॥ १३.४३ ॥

यथार्थं तु तथा सर्वं नाभागाय न्यवेदयन्  ।

नाभागोऽपि ततः श्रुत्वा तं द्रष्टुं ब्रह्मनन्दनम्  ॥ १३.४४ ॥

त्वरितः प्रययौ तत्र सामात्यः सपुरोहितः  ।

स सम्यक्पूजयित्वा तु देवकल्पं नृपस्ततः  ॥ १३.४५ ॥

प्रोवाच भगवन् विद्वन् किं करोमि तवाज्ञया  ।

 

आपस्तम्ब उवाच –

श्रमेण महताविष्टाः कैवर्ता दुःखजीविनः  ॥ १३.४६ ॥

मम मूल्यं प्रयच्छेति यद्योग्यं मन्यसे नृप  ।

 

नाभाग उवाच –

सहस्राणि शतं मूल्यं निषादेभ्यो ददाम्यहम्  ॥ १३.४७ ॥

निष्क्रयार्थं हि भगवन्नीतं ते ब्रह्मनन्दन  ।

 

आपस्तम्ब उवाच –

नाहं शतसहस्रेण नियम्यः पार्थिव त्वया  ॥ १३.४८ ॥

सदृशं दीयतां मूल्यममात्यैः सह चिन्तय  ।

 

नाभाग उवाच –

कोटिं प्रदीयतां मूल्यं निषादेभ्यो द्विजोत्तम  ॥ १३.४९ ॥

यद्येतदपि योग्यं नो ततो भूयः प्रदीयताम्  ।

 

आपस्तम्ब उवाच –

राजन्नार्हा वयं कोटिमधिकं चापि पार्थिव  ॥ १३.५० ॥

सदृशं दीयतां मूल्यं ब्राह्मणैः सह संवद  ।

 

राजोवाच –

अर्द्धं राज्यं समस्तं वा निषादेभ्यः प्रदीयते  ॥ १३.५१ ॥

एतन्मूल्यमहं मन्ये किं वालं मन्यसे द्विज  ।

 

आपस्तम्ब उवाच –

अर्द्धं राज्यं समस्तं वा नाहमर्हामि वै नृप  ॥ १३.५२ ॥

सदृशं दीयतां मह्यं ऋषिभिः सह चिन्तय  ।

महर्षेस्तद्वचः श्रुत्वा नाभागस्तु विवादयन्  ॥ १३.५३ ॥

चिन्तयामास धर्मात्मा सामात्यः सपुरोहितः  ।

ततः कश्चिदृषिस्तत्र लोमशस्तु महातपाः  ॥ १३.५४ ॥

नाभागमब्रवीत्माभैः तोषयिष्यामि तं मुनिम्  ।

 

राजोवाच –

ब्रूहि मूल्यं महाभाग मे ज्ञातिकुलबान्धवान्  ॥ १३.५५ ॥

निर्दग्धवानृषिः क्रुद्धस्त्रैलोक्यं सचराचरम्  ।

किं पुनर्मानवं दीनमत्यल्पं विषयात्मकम्  ॥ १३.५६ ॥

 

लोमश उवाच –

त्वं समर्थो महाराज जगत्पूज्या द्विजोत्तमाः  ।

गावश्च दिव्यास्तस्माद्वै मूल्यमस्मै प्रदीयताम्  ॥ १३.५७ ॥

ततः श्रुत्वा तु वचनं स सामात्यपुरोहितः  ।

हर्षेण महताविष्टः प्रोवाचेदं वचो मुनिम्  ॥ १३.५८ ॥

उत्तिष्ठोत्तिष्ठ भगवन् कृतमेव न संशयः  ।

एतद्योग्यतं मूल्यं भवतो मुनिसत्तम  ॥ १३.५९ ॥

 

आपस्तम्ब उवाच –

उत्तिष्ठाम्येव संप्रीत्या सम्यक्क्रीतोऽस्मि पार्थिव  ।

गोभ्यो मूल्यं न पश्यामि पवित्रं पापनाशनम्  ॥ १३.६० ॥

गावः प्रदक्षिणी कार्य्या वन्दनीया हि नित्यशः  ।

मङ्गलायतन दिव्यास्सृष्टास्त्वेताः स्वयम्भुवा  ॥ १३.६१ ॥

अप्यागाराणि विप्राणां देवतायतनानि च  ।

यद्गोमयेन शुद्ध्यन्ति किं ब्रूमो ह्यधिकं ततः  ॥ १३.६२ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिस्तथैव च  ।

गवां पञ्च पवित्राणि पुनन्ति सकलं जगत् ॥ १३.६३ ॥

गावो मे चाग्रतो नित्यं गावः पृष्ठत एव च  ।

गावो मे हृदये चैव गवां मध्ये वसाम्यहम्  ॥ १३.६४ ॥

एव यः पठते नित्यं त्रिसन्ध्यं नियतः शुचिः  ।

मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति  ॥ १३.६५ ॥

अग्रे ग्रासपरो भावः कर्तव्यो भक्तितोऽन्वहम्  ।

अकृत्वा स्वयमाहारं कुर्वन्नाप्नोति दुर्गतिम्  ॥ १३.६६ ॥

तेनाग्नयो हुतास्सम्यक्पितरश्चापि तार्पिताः  ।

देवाश्च पूजितास्तेन यो ददाति गवाह्निकम्  ॥ १३.६७ ॥

मन्त्रः

सौरभेयी जगत्पूज्या नित्य विष्णुपदे स्थिता  ।

सर्वदेवमयी ग्रासं मया दत्तं प्रतीक्षताम्  ॥ १३.६८ ॥

रक्षणाद्ब्रह्मपुत्राणां गवां कण्डूयनात्तथा  ।

क्षीणार्तरक्षणाच्चैव ततः स्वर्गे महीयते  ॥ १३.६९ ॥

आदिर्हि गावो यज्ञस्य मध्यं चान्त्यं प्रकीर्तिताः  ।

क्षरन्ति तास्तु सकलं क्षीराज्यममृतं तथा  ॥ १३.७० ॥

तस्माद्गावः प्रदातव्याः पूजनीया हि नित्यशः  ।

स्वर्गस्य सङ्गमायैतास्सोपानं हि विनिर्मिताः  ॥ १३.७१ ॥

एतच्छ्रुत्वा निषादास्ते गवां माहात्म्यमुत्तमम्  ।

प्रणिपत्य महाभागमापस्तम्बमथाब्रुवन्  ॥ १३.७२ ॥

 

निषादा ऊचुः॒

सम्भाषा दर्शनस्पर्शवर्णनं कीर्तनं तथा  ।

पावनानि समस्तानि साधूनामिति नः श्रुतम्  ॥ १३.७३ ॥

सम्भाषा दर्शनं चैवमिहास्माभिः कृतं द्विज  ।

कुरुष्वानुग्रहं तस्मात्त्वां वयं शरणं गताः  ॥ १३.७४ ॥

 

आपस्तम्ब उवाच –

एतां गां प्रतिगृह्णन्तु ततस्ते मुक्तकिल्बिषाः  ।

निषादाश्च गताः स्वर्गं सह मत्स्यैर्जलोद्भवैः  ॥ १३.७५ ॥

प्राणिनां प्रीतिमुत्पाद्य निन्दितेनाऽपि कर्मणा  ।

नरकं यदि पश्यामि वत्स्यामि स्वर्गमेव वा  ॥ १३.७६ ॥

यन्मया सुकृतं किंचिन्मनोवाक्कायकर्मभिः  ।

कृत तेनापि दुःखार्ताः सर्वे यान्तु शुभां गतिम्  ॥ १३.७७ ॥

ततस्तस्य प्रसादेन महर्षेर्भावितात्मनः  ।

निषादास्तेन वाक्येन सह मत्स्या दिवं गताः  ॥ १३.७८ ॥

तान् दृष्ट्वा अथ गतान् स्वर्गं समत्स्यान्मत्स्यजीविनः  ।

सामात्यभृत्यो नृपतिर्विस्मयादिदमब्रवीत् ॥ १३.७९ ॥

सेव्याः श्रेयोऽर्थिभिः सन्तः तीर्थं पुण्यं जलोत्तमम्  ।

क्षणोपासनमप्यत्र न तेषां निष्कलं भवेत् ॥ १३.८० ॥

सद्भिस्सह समासीत सद्भिः कुर्वीत सत्कथाम्  ।

आपस्तम्बो मुनिस्तत्र लोमशश्च महातपा  ॥ १३.८१ ॥

पदैस्तु विविधैरिष्टैर्बोधयामास तु नृपम्  ।

ततः संधारयामास धर्मबुद्धिं सुदुर्लभाम्  ॥ १३.८२ ॥

तथेति कृत्वा चोक्त्वा च नृपं तं प्रशशंसतुः  ।

अहो धन्योऽसि राजेन्द्र यत्ते धर्मपरामतिः  ॥ १३.८३ ॥

धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम्  ।

यदि राज्यमदाविष्टः स्वधर्मं न परित्यजेत् ॥ १३.८४ ॥

ततो जगति कस्तस्मात्पुनरभ्यधिको भवेत् ।

ध्रुवं धर्मश्च राज्यं वै मोहश्चैव सदा ध्रुवः  ॥ १३.८५ ॥

महाध्रुवश्च नरको राज्यं निन्दन्ति ते बुधाः  ।

राज्यं हि मन्यते मूढो नरो विषयलोलुपः  ॥ १३.८६ ॥

मनीषिणस्तु पश्यन्ति सदैव नरकोपमम्  ।

तस्माच्छोकश्च मोहश्च न कर्तव्यो मदस्त्वया  ॥ १३.८७ ॥

यदीच्छसि महाराज शाश्वतीं गतिमात्मनः  ।

 

मार्कण्डेय उवाच –

इत्युक्त्वा महात्मानौ जग्मतुः स्वं स्वमाश्रमम्  ॥ १३.८८ ॥

नाभागोऽपि वरं लब्ध्वा प्रहृष्टस्त्वविशत्पुरम्  ।

एतत्ते कथितं राजन् ये गणाः सत्समागमे  ॥ १३.८९ ॥

माहात्म्यं वै गवां तद्वत्किं भूयः श्रोतुमिच्छसि  ।

रेवामत्स्यासमायोगे गवां माहात्म्यमुत्तमम्  ॥ १३.९० ॥

तत्र स्नात्वा महाराज मत्स्येश्वरमथाऽर्चय  ।

आपस्तम्बो महाभागो निषादा मत्स्यजीविनः  ॥ १३.९१ ॥

मत्स्यैः सह गताः स्वर्गं तीर्थस्यास्य प्रभावतः  ।

दिव्यकान्तिधराः सर्वे लोके क्रीडन्ति वैष्णवे  ॥ १३.९२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मत्स्येश्वरतीर्थवर्णनोनाम त्रयोदशोऽध्यायः ॥

 

 

अध्याय १४

 

मार्कण्डेय उवाच –

अथान्यत्कथयिष्यामि तीर्थं पापविमोक्षणम्  ।

मत्स्यायाः शुभताप्याश्च सङ्गमे सुरसेवितम्  ॥ १४.१ ॥

देवो मत्स्येश्वरो नाम नागकन्याभिरर्चितः  ।

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ १४.२ ॥

पञ्चवक्त्रास्त्रिनेत्राश्च मत्स्यतीर्थप्रभावतः  ।

कलहंस इति ख्यातो देवर्षिर्ध्यानतत्परः  ॥ १४.३ ॥

तस्याश्रमं परं रम्यं ब्रह्मर्षि विनिषेवितम्  ।

शाकमूलफलाहारो जपध्यानपरायणः  ॥ १४.४ ॥

सोऽतिष्ठदयुतं सार्द्धमेकपादेन भारत  ।

शिवध्यानपरो भूत्वा सर्वभूतहिते रतः  ॥ १४.५ ॥

ततस्तु ध्यानयोगेन तस्य देवः शतक्रतुः  ।

चकम्पे तपसा चासौ देवराजो भविष्यति  ॥ १४.६ ॥

हरिष्यति न सन्देहो पुरीं चैवामरावतीम्  ।

ब्राह्मणश्च सुरेशानः कुब्जो वामनरूपधृक् ॥ १४.७ ॥

जगाम वृद्धरूपेण कलहंसाश्रमं प्रति  ।

उवाच वचनं शक्रो ब्राह्मणं तपसि स्थितम्  ॥ १४.८ ॥

किमर्थं तपसे शीघ्रं काममेतद्ब्रवीहि मे  ।

आराधयसि कं देवं सत्यमेतत्तपोधन  ॥ १४.९ ॥

संहृत्य तपसा योगं प्रहसन्नब्रवीद्वचः  ।

जानामि त्वां महाभाग शक्रस्त्वं त्रिदशेश्वरः  ॥ १४.१० ॥

न कामयेऽहमिन्द्रत्वं राज्यं कुरु यथेप्सितम्  ।

आराधयाम्यहं देवं नान्यं देवं कथञ्चन  ॥ १४.११ ॥

एतच्छ्रुत्वा वचस्तस्य महर्षेरब्रवीद्वृषः  ।

वरं वृणु महाभाग यथा द्रक्ष्यसि शङ्करम्  ॥ १४.१२ ॥

 

कलहंस उवाच –

विनाऽहं त्र्यम्बकं याचे नान्याद्देवादहो वरम्  ।

विजयी भव शक्र त्वं नान्यं वृणे वरं त्वहम्  ॥ १४.१३ ॥

एवमुक्तो ययौ शक्रः सर्वकामसमन्वितः  ।

ज्ञात्वा तस्य परां भक्तिं देवदेवो महेश्वरः  ॥ १४.१४ ॥

अदर्शयदथात्मानं नीलकण्ठं त्रिलोचनम्  ।

दृष्ट्वा रूपं महेशस्य साष्टाङ्गं प्रणिपत्य च  ॥ १४.१५ ॥

कलहंसो मुनिश्रेष्ठः स्तोतुं समुपचक्रमे  ।

नमोऽस्तु ते महादेव नीलकण्ठत्रिलोचन  ॥ १४.१६ ॥

नमः शिवाय शान्ताय शूलहस्त नमोऽस्तु ते  ।

नमः शिवाय शम्भवायाऽनाथाय नमो नमः  ॥ १४.१७ ॥

त्र्यम्बकाय महादेवेत्यादि नामादिभिःस्तुत ओं नमो देवाय शम्भवाय भूर्भुवः स्वः  ।

सोमरुद्रध्वान्तसूर्याय नमो रुद्राग्नये नमः  ॥ १४.१८ ॥

नमः शम्भो पञ्चवक्त्र महाशिव नमोऽस्तु ते  ।

स्वयम्भूवन पाताल नीलकण्ठ नमोऽस्तु ते  ॥ १४.१९ ॥

ब्रह्मशर्वसुरेशानहरिहराय नमो नमः  ।

ज्ञानशक्तिक्रियाशक्तिचराचर नमोऽस्तु ते  ॥ १४.२० ॥

हाटकाय नमस्तुभ्यमुमानाथ नमोऽस्तु ते  ।

ब्रह्मविष्णुमहेशाय सर्वज्ञाय नमो नमः  ॥ १४.२१ ॥

सद्योजातस्तथा घोरस्तत्पुरुषाय नमो नमः  ।

त्वया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम्  ॥ १४.२२ ॥

आदिमध्यान्तरूपाय कलिकाल नमोऽस्तु ते  ।

उमाकान्तार्धदेहाय श्रीकण्ठोरगभूषण  ॥ १४.२३ ॥

अनन्तगणरूपाय नागयज्ञोपवीतिने  ।

शब्दः स्पर्शश्च गन्धश्च रसो रूपं च पञ्चमम्  ॥ १४.२४ ॥

बुद्धिर्मनस्त्वहङ्कारो ह्यष्टमूर्ते नमोऽस्तु ते  ।

सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः  ॥ १४.२५ ॥

गभस्तिमांश्च त्वं कालो मृत्युर्धाता प्रकाशकः  ।

पृथिव्यापस्तथा तेजो वायुराकाशमेव च  ॥ १४.२६ ॥

सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च  ।

इन्द्रो विवस्वान् दीप्तांशुः शुचिः शौरिर्जनेश्वरः  ॥ १४.२७ ॥

कलास्ते विष्णुब्रह्माद्या वेदो वैश्रवणो यमः  ।

कलाकाष्ठामुहूर्ताश्च पक्षमासर्तवस्तथा  ॥ १४.२८ ॥

संवत्सरस्त्वमेवासि कालचक्रो विभावसुः  ।

पुरुषः शाश्वतो योगो व्यक्ताव्यक्तः सनातनः  ॥ १४.२९ ॥

लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः  ।

वरुणः शीतभारश्च जीमूतो जीवनोऽरिहा  ॥ १४.३० ॥

भूतो यज्ञो भूतपतिर्लोकपालैर्निषेवितः  ।

मनः सुपर्णो भूतादिः सदाशिव नमोऽस्तु ते  ॥ १४.३१ ॥

जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो  ।

ब्रह्मविष्ण्वादिभिर्देवैर्यस्यान्तो नैव लभ्यते  ॥ १४.३२ ॥

भवसागरमग्नानां कः स्तोतुं शक्तिमान् भवेत् ।

अज्ञानाञ्ज्ञानतो वाऽपि शूलपाणे क्षमस्व तत् ॥ १४.३३ ॥

 

मार्कण्डेय उवाच –

श्रुत्वा स्तोत्रमिदं देवः कलहंसस्य भारत  ।

वरं वृणु महाप्राज्ञप्रीतः स्तोत्रेण तेऽनघ  ॥ १४.३४ ॥

 

कलहंस उवाच –

यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि  ।

कलहंसेश्वरं नाम तीर्थलिङ्गं सुरेश्वर  ॥ १४.३५ ॥

अक्षया देवदेवाऽत्र होमदानबलिक्रियाः  ।

अत्राक्षयं कृतं सर्वं त्वत्प्रसादात्महेश्वर  ॥ १४.३६ ॥

शिवाज्ञा वर्तते तेऽत्र नरः स्वर्गमवाप्नुयात् ।

उत्क्रान्तिं कुरुते यस्तु अवशः स्ववशोऽपि वा  ॥ १४.३७ ॥

स्तवेनानेन य स्तौतियस्त्वा स्तोष्यति शङ्कर  ।

ब्रह्महा वा सुरापो वा स्तेयी च गुरुतल्पगः  ॥ १४.३८ ॥

तीर्थस्यास्य प्रभावेण सर्वे यान्तु शिवालयम्  ।

इदं वरमहं मन्ये सर्वकामसमृद्धये  ॥ १४.३९ ॥

 

ईश्वर उवाच –

यं यं कामयते कामं त्रैलोक्ये सचराचरे  ।

मत्प्रसादान्न सन्देह सर्वमेतद्भविष्यति  ॥ १४.४० ॥

एवमुक्त्वा ययौ देवः कैलासनिलयं नृप  ।

कलहंसोऽथ मुनिभिर्ब्रह्मिष्ठैः सजितेन्द्रियः  ॥ १४.४१ ॥

वर्षायुतानि साग्राणि भुङ्क्ते भोगाञ्छिवालये  ।

दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः  ॥ १४.४२ ॥

वेणुवीणानिनादेन सर्वालङ्कारभूषितः  ।

दश वर्षसहस्राणि तथैव शिवसन्निधौ  ॥ १४.४३ ॥

दक्षिणोत्तरदिग्भागपञ्चक्रोशप्रमाणतः  ।

स्नानात्तत्र दिवं याति म्रियते विबुधो भवेत् ॥ १४.४४ ॥

एतत्ते कथितं राजन् कलहंसस्य कीर्तनम्  ।

स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ॥ १४.४५ ॥

कलहंसस्य चाख्यानान्न सीदन्ति कलौ जनाः  ।

पुत्रदारावृतानाघ मायामोहसमन्विताः  ।

आख्यानसहितं देवं कर्मणा मनसा गिरा  ॥ १४.४६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शिवमहिमवर्णनो नाम चतुर्दशोऽध्यायः ॥

 

 

अध्याय १५

 

युधिष्ठिर उवाच –

भूयश्चेच्छाम्यहं श्रोतुं नर्मदाकीर्तनं शुभम्  ।

आख्यानसहितं देव विदितं वद साम्प्रतम्  ॥ १५.१ ॥

 

मार्कण्डेय उवाच –

शृणु राजेन्द्र तीर्थं वै शिवेन कथितं पुरा  ।

कामदं मोक्षदं चैव यज्ञदानप्रभावतः  ॥ १५.२ ॥

रेवाया उत्तरे कूले कपिलासंगमात्परम्  ।

वैदूर्यात्पश्चिमे भागे विख्यातं नर्मदापुरम्  ॥ १५.३ ॥

अर्धकोटिस्तु तीर्थानां महादेवेन भारत  ।

शतमष्टोत्तर तत्र लिङ्गानां परिकीर्तितम्  ॥ १५.४ ॥

यत्र वै वसुरुद्रैश्च ब्रह्माद्यैश्च सुरासुरैः  ।

सिद्धगन्धर्वयक्षैश्च विद्याधरमहोरगैः  ॥ १५.५ ॥

वेदध्वनि निनादेन व्याप्तमस्ति चराचरम्  ।

यत्राग्निर्हुत होमेन त्रिदिवं पर्यपूरयत् ॥ १५.६ ॥

देवर्षयो महाराज तथा ब्रह्मर्षयः परे  ।

आसन् राजर्षयस्तत्र तापसा व्यवसायिनः  ॥ १५.७ ॥

ब्राह्मणाश्च वसन्ति स्म मनसा ब्रह्मचिन्तनाः  ।

आश्रमं जमदग्नेश्च ऋषिकोटिसमावृतम्  ॥ १५.८ ॥

कश्यपो गालवो गर्गो बादरायणशाकटौ  ।

अत्रिश्चैव वशिष्ठश्च पुलस्त्य पुलहः क्रतुः  ॥ १५.९ ॥

भृगुश्चैव मरीचिश्च भारद्वाजो महातपाः  ।

शाकल्य ऋष्यशृङ्गश्च मनुर्विष्णुर्यमोऽङ्गिराः  ॥ १५.१० ॥

वाशिष्ठदक्षौ संवर्तः शातातपपराशरौ  ।

आपस्तम्बः शुको व्यासाः कात्यायनबृहस्पती  ॥ १५.११ ॥

हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः  ।

अगस्त्यः पावकाख्यश्च दुर्वासा उग्रतापसः  ॥ १५.१२ ॥

शतानन्दस्तथा जह्नुर्वैशम्पायनजैमिनी  ।

लोमशश्च विहङ्गश्च शौनको हरिरेव च  ॥ १५.१३ ॥

एते चान्येऽपि मुनयो बहवः संशितव्रताः  ।

ज्वलन्तस्तपसा तत्र सूर्यतेजः समप्रभाः  ॥ १५.१४ ॥

चतुर्विद्यावेदविदः श्रुतिस्मृतिविशारदाः  ।

संवत्सरकृताहारा अपाहारकरास्तथा  ॥ १५.१५ ॥

मासोपवासिनश्चान्ये तथा पक्षोपवासिनः  ।

शाकाहारानिराहाराः तथाऽन्ये मारुताशनाः  ॥ १५.१६ ॥

कन्दमूलफलाहारा महात्मानस्तथा परे  ।

इतिहासपुराणादि नानाशास्त्रविचिन्तकाः  ॥ १५.१७ ॥

मोक्षोपायधृतात्मानो मौनिकाश्च न मौनिकाः  ।

एकपादार्द्धपादाश्च भूमौ कारणभोजिनः  ॥ १५.१८ ॥

आख्यानं कथयिष्यामि नर्मदापुरवासिनाम्  ।

जमदग्निस्तु निवसन्मुनिः शिवपरायणः  ॥ १५.१९ ॥

नर्मदासङ्गमे स्नात्वा तत्राभ्यर्च्यमहेश्वरम्  ।

विविधैर्गन्धपुष्पैश्च तथाऽगुरुमनोहरैः  ॥ १५.२० ॥

दक्षिणामूर्तिमाश्रित्य जपन्नासीत्तथा मुनेः  ।

मासं च जपतस्तस्य देवदेवो महेश्वरः  ॥ १५.२१ ॥

सिद्धेश्वरं नाम लिङ्गं सिद्धा यत्र सुरासुराः  ।

उवाच वचनं देवो ब्राह्मणं प्रति भारत  ॥ १५.२२ ॥

तुष्टोऽहं तव भक्त्या तु रुद्रजाप्येन तोषितः  ।

 

जमदग्निरुवाच –

यदि तुष्टो महादेव वरं दातुं ममेच्छसि  ॥ १५.२३ ॥

होमार्थं चैव धेनुं मे ददस्व परमेश्वर  ।

धर्मकर्मशुभार्थेषु शिवपूजासु तर्पणे  ॥ १५.२४ ॥

पितृकार्ये देवकार्ये गावः पुण्यतमाः स्मृताः  ।

एतस्मात्कारणादीश होमधेनुं प्रयच्छ मे  ॥ १५.२५ ॥

दत्ता चैव महाभाग सर्वकामसमृद्धये  ।

एवमुक्त्वा ददौ राजंस्तत्रैवान्तरधीयत  ॥ १५.२६ ॥

यान् यान् प्रार्थयते कामांस्तांस्तान् प्राप्नोत्यसौ ततः  ।

ऋषीणां च सहस्राणि कामैर्भोजयते द्विजः  ॥ १५.२७ ॥

हिरण्मयैः स्वर्णपात्रैर्नानाभक्ष्यैर्यथेच्छया  ।

कीर्तिर्ब्रह्मर्षिभिर्मान्यैः सर्वैः सुरगणैस्तथा  ॥ १५.२८ ॥

जमदग्नेर्मुनीन्द्रस्य आश्रमे चोपवृंहिता  ।

एतावति गते काले कार्तवीर्यो नृपोत्तमः  ॥ १५.२९ ॥

माहिष्मतीं परित्यज्य स्वर्गसोपानमुत्तमम्  ।

एकस्मिन् दिवसे राजा मृगयां च समाश्रितः  ॥ १५.३० ॥

विन्ध्यं गिरिमनुप्राप्तो रेवातीरं समाश्रितः  ।

हत्वा पशुसहस्राणि जमदग्न्याश्रमं गतः  ॥ १५.३१ ॥

देह्येतां मां निजायोग्यां गां जगाद मुनिं प्रति  ।

कार्तवीर्यवचः श्रुत्वा जमदग्निर्भयाकुलः  ।

चिन्तयामास सुचिरं किमेतदिति विस्मितः  ॥ १५.३२ ॥

धर्मो ह्यधर्मरूपेण कर्मभिः पुण्यसंचितैः  ।

अधर्मो धर्मफलदो गहना कर्मणो गतिः  ॥ १५.३३ ॥

इति चिन्तयतस्तस्ये न किंचिद्ब्रुवतो मुनेः  ।

अपहृत्य बलाद्धेनुं घातयित्वा च तं मुनिम्  ॥ १५.३४ ॥

स्थानान्निरगमत्तस्मात्कार्तवीर्यो नृपाधमः  ।

कशादिभिस्ताडिता तु होमधेनुर्मुहुर्मुहुः  ॥ १५.३५ ॥

शापं दत्त्वा ततस्तस्य पुनर्धेनुर्दिवङ्गता  ।

करिष्यते कुलान्तं च रैणुकेयो नृपाधम  ॥ १५.३६ ॥

हाहाकारो महानासीलोकानां च युधिष्ठिर  ।

दुराचारस्ततः कोऽयं ब्राह्मणानां च कोपकृत् ॥ १५.३७ ॥

अथ श्रुत्वा महादेवो भार्गवः पितृसूतकम्  ।

सहसैवागतः कोपात्समिधोऽग्निरिव ज्वलन्  ॥ १५.३८ ॥

निहतं पितरं दृष्ट्वा कोपाद्द्विगुणविक्रमः  ।

जगाम सहसोत्थाय पुरीं माहिष्मतीं प्रति  ॥ १५.३९ ॥

कार्तवीर्यार्जुनं दृष्ट्वा क्रुद्धः प्रोवाच भार्गवः  ।

तिष्ठ तिष्ठ क्व गन्तासि निहत्य पितरं मम  ॥ १५.४० ॥

इत्युक्त्वाऽदाय परशुं चिच्छेद च भुजावनम्  ।

शिरसैव समं कोपात्क्षत्रियान्तकरो मुनिः  ॥ १५.४१ ॥

हते तस्मिन्महावीर्ये कार्तवीर्ये दुरात्मनि  ।

देवदुन्दुभयोनेदुः पुष्पवृष्टिः पपात च  ॥ १५.४२ ॥

तत्कोपादकरोत्सर्वां निःक्षत्रां पृथिवीं तदा  ।

प्रतिज्ञां सफलीकृत्य स जगाम तमाश्रमम्  ॥ १५.४३ ॥

मातरं च नमस्कृत्य ततश्चान्यान्मुनीश्वरान्  ।

देवं परशुरामेशं संस्थाप्य विधिपूर्वकम्  ॥ १५.४४ ॥

विशोकैरण्डिका चैव तृतीया पावनी तथा  ।

पितुश्चकार तत्रैव सहसैवोत्तरां क्रियाम्  ॥ १५.४५ ॥

देवद्रोणीति विख्याता तत्रास्ते कपिला शिला  ।

तत्र पिण्डप्रदानेन दिवं गच्छन्ति पूर्वजाः  ॥ १५.४६ ॥

एतत्ते कथितं राजन्नर्मदापुरमुत्तमम्  ।

श्रवणात्कीर्तनात्तस्य दिवि देवत्वमाप्यते  ॥ १५.४७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कार्तवीर्याख्याने पञ्चदशोऽध्यायः ॥

 

 

अध्याय १६

 

मार्कण्डेय उवाच –

अथान्यं संप्रवक्ष्यामि सङ्गमं लोकविश्रुतम्  ।

बृहत्या नर्मदायास्तु सुरासुरनिषेवितम्  ॥ १६.१ ॥

नानाद्रुमलताकीर्णं विन्ध्यपर्वतसेवितम्  ।

चम्पकैर्बकुलैर्युक्तमशोकैः स्तबकैरपि  ॥ १६.२ ॥

पुन्नागैः किङ्किरातैश्च सुगन्धैर्नागकेशरैः  ।

मल्लिकोत्पलजातीभिः पाटलैः पारिजातकैः  ॥ १६.३ ॥

आम्रजम्बूकपित्थैश्च श्रीफलैः पनसैस्तथा  ।

खर्जूरैर्बदरीभिश्च दाडिमैर्बीजपूरकैः  ॥ १६.४ ॥

अरुष्करैः क्षीरवृक्षैर्नारङ्गैरुपशोभितैः  ।

भरणायात्मवर्गस्य संविधाय वनेचरः  ॥ १६.५ ॥

मुखगण्डूषसलिलं शिवाय स समाहरत् ।

अज्ञानभक्तिगर्भस्तु स्नापयित्वा फलं ददौ  ॥ १६.६ ॥

वासरे वासरे चैव निषादो धर्मतत्परः  ।

सौम्यायने च चक्षुर्वै दत्त्वा सौम्यं तथात्मनः  ॥ १६.७ ॥

एवं सम्पूजयामास त्र्यम्बकं विधिपूर्वकम्  ।

एतत्ते कथितं राजन् कल्पगा नेत्रसङ्गमम्  ॥ १६.८ ॥

 

युधिष्ठिर उवाच –

भगवन् छ्रोतुमिच्छामि महाकौतूहलं हि मे  ।

संजातो मुनिशार्दूल स कथं नेत्रसङ्गमः  ॥ १६.९ ॥

 

मार्कण्डेय उवाच –

एकस्मिन् वासरे प्राप्ते व्यतीपाते च संक्रमे  ।

स पुष्पभारमादाय प्रविवेश शिवालये  ॥ १६.१० ॥

तृतीयमीक्षणं तत्र देवस्य च न पश्यति  ।

तदा तु चिन्तयामास विस्मयाविष्ट चेतनः  ॥ १६.११ ॥

केनापहृतमेतस्य नेत्रं देवस्य पाप्मना  ।

इत्युक्त्वा च स्वकं नेत्रं तीक्ष्णबाणेन भारत  ॥ १६.१२ ॥

ललाटे देवदेवस्य उत्कृत्य संन्यवेशयत् ।

न कम्पो न च कार्पण्यं नाऽन्यथा तस्य मानसम्  ॥ १६.१३ ॥

ततस्तुष्टः सुरेशानो निषादं प्रति भारत  ।

प्रहसन्न ब्रवीद्देवो वरं वृणु यथेप्सितम्  ॥ १६.१४ ॥

शिवप्रसादसम्पन्ना बुद्धिरन्या प्रचक्रमे  ।

 

मार्कण्डेय उवाच –

श्रुत्वा तु वचनं शम्भोः साष्टाङ्गं प्रणिपत्य सः  ॥ १६.१५ ॥

यदि तुष्टोऽसि देवेश वरं दातुं ममेच्छसि  ।

निषादास्त इमे सर्वे मृगपक्षिगणैः सह  ॥ १६.१६ ॥

सपुत्रदारपशवो ये चान्ये पापयोनयः  ।

त्वत्प्रसादान्महेशान शिवलोकं प्रयान्तु ते  ॥ १६.१७ ॥

एतद्वरमहं मन्ये भूतानां हितकाम्यया  ।

एतच्छ्रुत्वा वचस्तस्य निषादाधिपतेः शिवः  ॥ १६.१८ ॥

उवाच सर्वकामाप्तिं मत्प्रसादात्त्वमाप्स्यसि  ।

एवमुक्त्वा शिवो राजंस्तत्रैवान्तरधीयत  ॥ १६.१९ ॥

दिव्ययानसमारूढो निषादोऽनुचरैः सह  ।

धृतस्वर्णातपत्रं तु वीज्यमानोऽप्सरोगणैः  ॥ १६.२० ॥

दिव्याभरणशोभाढ्यः सर्वालङ्कारभूषितः  ।

दिव्यवस्त्रपरीधानो दिव्यगन्धानुलेपनः  ॥ १६.२१ ॥

सुरासुरैः स्तूयमानो वेणुवीणापुरस्सरः  ।

प्रायाच्छिवपुरं क्षिप्रं तीर्थस्यास्य प्रभावतः  ॥ १६.२२ ॥

एतत्ते कथितं राजन् छिवनेत्रह्रदाश्रितम्  ।

अनेकशतसंख्याताः पापयोनिरता नराः  ॥ १६.२३ ॥

नर्मदाशिवसंयोगे संसिद्धिं परमां गताः  ।

अवश स्ववशो वाऽपि यस्तु प्राणान् परित्यजेत् ॥ १६.२४ ॥

वसेद्वर्षसहस्राणि उमामाहेश्वरे पुरे  ।

श्रवणात्कीर्तनाच्चापि मुच्यते भवबन्धनात् ॥ १६.२५ ॥

धन्यास्ते पुरुषा राजन् ये म्रियन्ते शिवायने  ।

न तेषां गर्भभूतिश्च जन्म चैव युधिष्ठिर  ॥ १६.२६ ॥

पुत्रदारपरिग्रस्ता मोहजालसमावृताः  ।

कल्पगां तु न पश्यन्ति पापोपहतचेतसः  ॥ १६.२७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये ह्रदाख्यानं नाम षोडशोऽध्यायः ॥

 

 

अध्याय १७

 

मार्कण्डेय उवाच –

अथान्यत्परमं तीर्थं कथ्यमानं निबोध मे  ।

सहस्रयज्ञं विख्यातं त्रिषु लोकेषु विश्रुतम्  ॥ १७.१ ॥

तत्र स्नात्वा च जप्त्वा च पूजयित्वा महेश्वरम्  ।

न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ १७.२ ॥

कथयामि तवाख्यानमितिहासं पुरातनम्  ।

ताराबलिर्नाम नागः कम्बलाश्वतरौ तथा  ॥ १७.३ ॥

श्वेतोरगास्तथा चान्ये भुजङ्गाश्च तथाऽपरे  ।

नागेश्वरं तेऽर्चयन्ति नानापुष्पविलेपनैः  ॥ १७.४ ॥

नागपूगाः समासाद्य पूजयन्ति महेश्वरम्  ।

गर्गोऽघमर्षणश्चैव च्यवनः शौनकोऽङ्गिराः  ॥ १७.५ ॥

एते चान्येऽपि बहवो ब्रह्मविद्याङ्गपारगाः  ।

नागानां चाश्रमं हर्तुं तत्र सर्वे ह्युपस्थिताः  ॥ १७.६ ॥

ततस्तैः कुपितैर्नागैर्दष्टाश्चैव द्विजोत्तमाः  ।

विषाघ्रातान्मुनीन् दृष्ट्वा कुपितश्चाघमर्षणः  ॥ १७.७ ॥

वाहनं वासुदेवस्य पक्षिराजं समाह्वयत् ।

तत्क्षणादागतः पक्षी गरुडः क्रोधमूर्छितः  ॥ १७.८ ॥

कृताञ्जलिपुटो भूत्वा ब्राह्मणं चेदमब्रवीत् ।

भुजङ्गान् भक्षयिष्यामि ब्राह्मणा निर्विषास्ततः  ॥ १७.९ ॥

ब्रह्मशापभयार्तेन गरुडेन विषोल्बणाः  ।

भक्षिताः पन्नगाः सर्वे मोचिता मुनयो विषात् ॥ १७.१० ॥

पक्षीन्द्रे च गते स्थाने भक्षयित्वा भुजङ्गमान्  ।

अवशिष्टास्तु ये नागा विविशुस्ते रसातलम्  ॥ १७.११ ॥

आप्लवे च सुसंप्राप्ते प्रवाहो नार्मदः क्षणात् ।

अस्थीनि स्रावयामास ततो नागा दिवं ययुः  ॥ १७.१२ ॥

सर्पयोनिं परित्यज्य लोके क्रीडन्ति शाम्भवे  ।

नागेश्वरस्य रेवायाः सम्पर्कात्पापमोक्षणम्  ॥ १७.१३ ॥

तत्र नागह्रदश्चास्ते त्रिषु लोकेषु विश्रुतः  ।

तत्र स्नातो दिवं याति यो नागेश्वरमर्चयेत् ॥ १७.१४ ॥

अयं ते कथितो राजन्नितिहासः पुरातनः  ।

श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ १७.१५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नागेश्वराख्यानं नाम सप्तदशोऽध्यायः ॥

 

 

अध्याय १८

 

मार्कण्डेय उवाच –

अथान्यत्कथयिष्यामि तीर्थं च जनकोत्तमम्  ।

रेवाया उत्तरे कूले सर्वसिद्धिप्रदायकम्  ॥ १८.१ ॥

अश्वमेधं तु तत्रैव शतमेधं तथापरम्  ।

सहस्रमेधं विज्ञेयं सुरासुरनमस्कृतम्  ॥ १८.२ ॥

लक्षमेधं तथा चान्यं शिवेन परिकीर्तितम्  ।

जनको नाम राजर्षिर्यत्रेष्ट्वा त्रिदिवं ययौ  ॥ १८.३ ॥

स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां च नराधिप  ।

पुरोधसं याज्ञवल्क्यं ब्रह्मर्षिं ब्रह्मवित्तमम्  ॥ १८.४ ॥

कश्यपस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम्  ।

सिद्धगन्धर्वगीताढ्यं वेदध्वनिनिनादितम्  ॥ १८.५ ॥

युक्तं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभम्  ।

धनदस्य पुरी यद्वदलका देवनिर्मिता  ॥ १८.६ ॥

तद्वच्च शोभितं नानामुनि वृन्द निषेवितम्  ।

कामधेनूस्तथा दिव्याः शतसंख्याः पयस्विनीः  ॥ १८.७ ॥

याज्ञिकानृत्विजश्चैव क्रतुं कर्तुं यथाविधि  ।

यज्ञोपस्करसंभारं सर्वमादाय गच्छति  ॥ १८.८ ॥

आदिदेश ततो मर्त्यान् भृत्यांश्चैव सहस्रशः  ।

भक्षभोज्यादि संभारसंख्यां कर्तुं न शक्यते  ॥ १८.९ ॥

एवं प्रवर्तितस्तत्र लक्षमेधः क्रतूत्तमः  ।

जगृहुर्यज्ञभागं च शक्राद्याः सुरसत्तमाः  ॥ १८.१० ॥

निवर्तितस्ततो यज्ञो हरिर्ब्रह्मा शतक्रतुः  ।

नानविधैस्तथा रत्नैर्वासोयुग्मैश्च तार्पिताः  ॥ १८.११ ॥

स्वं स्वं यानं समारूढा जग्मुर्देवास्त्रिविष्टपम्  ।

नर्मदावभृथं स्नात्वा पुत्रदारोपशोभितः  ॥ १८.१२ ॥

हरं हरिं चाऽर्चयित्वा वरदानप्रभावतः  ।

दिव्यं यानं समारूढो यथा शक्रोऽमरैः सह  ॥ १८.१३ ॥

धृतस्वर्णातपत्रस्तु बीज्यमानोऽप्सरोगणैः  ।

गीयमानोऽप्सरोभिश्च नानालङ्कारभूषितः  ॥ १८.१४ ॥

दृष्टो जनकराजाऽतः धर्मराजः समुत्थितः  ।

यानस्याऽग्रे पादचारी अर्घपाद्यादिसंयुतः  ॥ १८.१५ ॥

कृताञ्जलिपुटो भूत्वा वचनं चेदमब्रवीत् ।

तपसा ध्यानयोगेन दानदेवार्चनैरपि  ॥ १८.१६ ॥

शिवरेवाप्रसादेन जिता लोकास्त्वयाखिलाः  ।

उवाच जनको राजा धर्मराजं यशस्विनम्  ॥ १८.१७ ॥

तथैव तव मूर्तिश्च यथा भानुः प्रभाकरः  ।

ब्रह्माविष्णुस्तथा शम्भुः साक्षी सकलकर्मणाम्  ॥ १८.१८ ॥

एवं जनकसंवादे धर्माधर्मविचारणात् ।

एतस्मिन्नन्तरे प्राप्तः किङ्किणीजालमण्डितम्  ॥ १८.१९ ॥

वेणुवीणानिनादाढ्यमप्सरोगणसेवितम्  ।

विमानं दिव्यमारूढो देवराजः शतक्रतुः  ॥ १८.२० ॥

नारदः पर्वतश्चैव तथान्ये मुनिसत्तमाः  ।

धर्मराजपुरं प्राप्ताः श्रुत्वा जनकमागतम्  ॥ १८.२१ ॥

अध्यासुस्तमक्रुध्यन्तमासनानि महान्ति च  ।

प्रसमीक्ष्य यथार्हन्तु पूजिताश्च पृथक्पृथक् ॥ १८.२२ ॥

तेषां मध्ये महाराज नारदो धर्ममब्रवीत् ।

के देशाः पर्वताः पुण्याः का नद्यश्चाश्रमाश्च के  ॥ १८.२३ ॥

कानि तीर्थानि लोकेऽस्मिन् यत्र दत्तं हुतं तपः  ।

न क्षीयते मनुष्याणां तन्मे कथय तत्त्वतः  ॥ १८.२४ ॥

जानामि त्वां महाराज सूर्यपुत्रो ब्रवीहि मे  ।

स्वरूपमद्य सर्वेषां यथा वदनुपूर्वशः  ॥ १८.२५ ॥

 

धर्म उवाच –

श्रूयतां मुनिशार्दूलशिवलोके यथा श्रुतम्  ।

कल्माषपादो विख्यातो मथुरायां नराधिपः  ॥ १८.२६ ॥

नाभागो नाम राजर्षिरयोध्याधिपतिस्तथा  ।

यानं चोपरि राजर्षेर्नाभागस्य महात्मनः  ॥ १८.२७ ॥

अधः कल्माषपादस्य दृश्यते सर्वदैवतैः  ।

शिवलोके विवादोऽभूत्तयोस्तत्र महात्मनोः  ॥ १८.२८ ॥

 

कल्माषपाद उवाच –

पुष्करे दशयज्ञाश्च मया चेष्टा विधानतः  ।

गङ्गायां नैमिषारण्ये प्रभासे शशिभूषणे  ॥ १८.२९ ॥

गङ्गायमुनयोर्योगे वाराणस्यां तथैव च  ।

इष्टं यज्ञशतं साग्रं मया तत्र महेश्वर  ॥ १८.३० ॥

अधोभागे विमानो मे नाभागस्य ममोपरि  ।

कल्पगां वर्जयित्वा तु तीर्थे तीर्थे मखोत्तमाः  ॥ १८.३१ ॥

कृता मया महादेव विमानं मे तथाऽप्यधः  ।

 

ईश्वर उवाच –

शृणु राजन्महाभाग कथ्यमानं निबोध मे  ॥ १८.३२ ॥

लक्षमेधं नाम तीर्थं रेवाया उत्तरे तटे  ।

लक्षमेधेश्वरं नाम्ना लिङ्गं तत्र परं स्मृतम्  ॥ १८.३३ ॥

चकार तत्र नाभागो यज्ञमेकं यथोदितम्  ।

तत्तीर्थयज्ञमाहात्म्याद्यानमस्योपरि स्थितम्  ॥ १८.३४ ॥

असंख्येष्वपि तीर्थेषु त्वयेष्टं राजसत्तम  ।

विहाय कल्पगां तेन तव यानमधः स्थितम्  ॥ १८.३५ ॥

 

धर्म उवाच –

न शङ्करात्परो देवो न रेवायाः परा नदी  ।

न सत्यात्परो धर्मो कारुण्यं सर्वजन्तुषु  ॥ १८.३६ ॥

मया श्रुतं सूर्येलोके सूर्येणापि महेश्वरात् ।

एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम्  ॥ १८.३७ ॥

वासीयो नर्मदातीरे शिवध्यानपरायणः  ।

न तस्य वै यमः शास्ता यमलोकं न पश्यति  ॥ १८.३८ ॥

ब्रह्मा विष्णुः शिवः शास्ता सत्यमेव यथोदितम्  ।

धर्मराज्ञा समग्रं तु नारदाद्यामहर्षयः  ॥ १८.३९ ॥

धर्माख्यानमिदं श्रुत्वा मुदापरमयायुताः  ।

स्वं स्वं यानं समारुह्य शक्राद्यास्त्रिदिवं ययुः  ॥ १८.४० ॥

धर्माख्यानमिदं पुण्यमितिहासं पुरातनम्  ।

कथितं तव यत्नेन विदेहाद्या नराधिपाः  ॥ १८.४१ ॥

दानयज्ञप्रभावेण त्रिदिवं वरमाययुः  ॥ १८.४२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे जनकयज्ञो नामाष्टादशोऽध्यायः ॥

 

 

अध्याय १९

 

युधिष्ठिर उवाच –

सप्तसारस्वतं तीर्थ शंस मेऽत्र महामुने  ।

उत्पत्तिं चास्य तीर्थस्य कथयस्व यथार्थतः  ॥ १९.१ ॥

 

मार्कण्डेय उवाच –

सप्तसारस्वतो नाम गन्धर्वः शिवगायनः  ।

वीणावेणुप्रेक्षणीय यन्त्रगीतविशारदः  ॥ १९.२ ॥

मणिभद्रा सुभद्रा च हेमगर्भा तथा परा  ।

आभिर्वराप्सरोभिश्च चिक्रीडे प्रतिवासरम्  ॥ १९.३ ॥

मदिरा नष्टचैतन्यः कामार्तः काममोहितः  ।

विहाय शाङ्करीं पूजां भक्ष्यभोज्यरतोऽभवत् ॥ १९.४ ॥

कियत्यपि गते काले ययौ द्रष्टुमुमापतिम्  ।

गीतनृत्यैश्च तुष्टाव कैलासे तं नगोत्तमे  ॥ १९.५ ॥

गन्धर्वं तं समालोक्य चिरकाले समागतम्  ।

शशाप नन्दी कोपेन शिवभक्तिपराङ्मुखम्  ॥ १९.६ ॥

चाण्डालयोनिं गच्छ त्वं पापस्यास्य प्रभावतः  ।

क्षुत्क्षामस्त्वं निराहारो मर्त्यलोके चरिष्यसि  ॥ १९.७ ॥

प्रसाद्य नन्दिनं सोऽथ गन्धर्वो वाक्यमब्रवीत् ।

शापस्यान्तं महाभाग दातुं मे त्वमिहार्हसि  ॥ १९.८ ॥

 

नन्द्युवाच –

नर्मदायां व्यतीपाते स्नात्वाऽभ्यर्च्य महेश्वरम्  ।

अन्तं शापस्य संप्राप्य पुनस्त्वं चागमिष्यसि  ॥ १९.९ ॥

एवं तद्वचनं श्रुत्वा चाण्डालीं योनिमाश्रितः  ।

जातिस्मरत्वं संप्राप्य सशैलवनकाननाम्  ॥ १९.१० ॥

बभ्राम धरणीं सर्वां तीर्थयात्राप्रसङ्गतः  ।

अथ चक्राङ्गयोगेन नर्मदा तीरमागतः  ॥ १९.११ ॥

शङ्करस्थण्डिले यागं तत्र गत्वा चकार सः  ।

पुष्पोपहारैर्विविधैर्वीणावाद्यैर्मनोहरैः  ॥ १९.१२ ॥

गन्धर्वभक्तिं विज्ञाय प्रत्यक्षोऽभूत्महेश्वरः  ।

स्थण्डिलादुत्थितं लिङ्गं महापावनमम्भसि  ॥ १९.१३ ॥

उवाच तं महादेवो गीतवादित्रतोषितः  ।

वरं वृणु महाभाग यत्ते मनसि वर्तते  ॥ १९.१४ ॥

कल्पगातोयसंस्पर्शात्प्राप्नोषि परमां गतिम्  ।

 

गन्धर्व उवाच –

यदि तुष्टो महेशान वरं दातुमिहेच्छसि  ॥ १९.१५ ॥

सप्तसारस्वतं तीर्थं लिङ्गं सारस्वतं तथा  ।

ख्यातिं यातु महादेव त्वत्प्रसादात्महीतले  ॥ १९.१६ ॥

तिर्यग्योनिगताः पापाश्चाण्डालाश्च नराधमाः  ।

सर्वे ते त्रिदिवं यान्तु तीर्थस्यास्य प्रभावतः  ॥ १९.१७ ॥

एवमस्त्विति तं चोक्त्वा महेशोऽन्तरधीयत  ।

दिव्ययान समारूढः सर्वालङ्कारभूषितः  ॥ १९.१८ ॥

शिवलोकमवाप्यैवं यथापूर्वं तथैव सः  ।

सप्तसारस्वते स्नात्वा अर्चयित्वा वृषध्वजम्  ॥ १९.१९ ॥

कुलैकविंशमुद्धृत्य स्वर्गलोके महीयते  ।

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ १९.२० ॥

शिवाज्ञा वर्तते राजंस्तत्र यस्त्रिदिवं जयेत् ।

 

युधिष्ठिर उवाच –

कः स्रष्टा चास्य जगतो हर्ता धर्ता च भो मुने  ॥ १९.२१ ॥

यथार्थमेतदाचक्ष्व विस्तरेण तपोधन  ।

त्वत्तोऽहं श्रोतुमिच्छामि सर्वमेतन्मुदायुतः  ॥ १९.२२ ॥

 

मार्कण्डेय उवाच –

यथा श्रुतं मया पूर्वं पुराणं स्कन्दकीर्तितम्  ।

तथा ते कथयिष्यामि शृणु राजन् यथार्थतः  ॥ १९.२३ ॥

स्कन्देन तु पुरा पृष्टो हरः कल्पान्तकारकः  ।

चराचरमिदं सर्वं कथं गच्छति संलयम्  ॥ १९.२४ ॥

कुत्र गच्छन्त्यमी देवाः कथं चैषां स्थितिर्भवेत् ।

क्वच गच्छति वै ब्रह्मा कुत्र गच्छति केशवः  ॥ १९.२५ ॥

वेदास्तु कुत्र गच्छन्ति सषडङ्गपदक्रमाः  ।

अग्नयः पर्वताः सर्वे समुद्रद्वीपसंयुताः  ॥ १९.२६ ॥

सिद्धाः सर्वे सनक्षत्राः सूर्याद्याश्च तथा ग्रहाः  ।

पातालभुवनादीनि देवलोकाश्च शाश्वताः  ॥ १९.२७ ॥

कल्पान्ते च सुरश्रेष्ठ क्व लीयन्ते च देवताः  ।

 

हर उवाच –

कथयामि परं गुह्यं सृष्टिसंहारकारकम्  ॥ १९.२८ ॥

प्रलये सर्वभूतानि स्थावराणि चराणि च  ।

शिवलिङ्गे विलीयन्ते नष्टे जगति शाश्वते  ॥ १९.२९ ॥

शून्यं चैतज्जगत्सर्वं त्रैलोक्यं सचराचरम्  ।

आतिष्ठति यदा वह्णिर्विस्फुरन् सर्वतोमुखः  ॥ १९.३० ॥

ततो बृहस्पतिर्गायन् वेदत्रयसमन्वितम्  ।

तदैवातिबलो देवः कूर्मरूपो महाद्युतिः  ॥ १९.३१ ॥

नरकांश्चादहत्सर्वास्ततः प्रज्वलितो महान्  ।

सर्वं दग्धं तु पातालं नागानां भुवनानि च  ॥ १९.३२ ॥

कालरूपेण दग्धानि भुवनानि चतुर्दश  ।

ज्वालामालाकुलीभूते वाङ्मये सचराचरे  ॥ १९.३३ ॥

नष्टे त्रिविष्टपे सर्वे सशैलवनकानने  ।

मायामये तु सर्वेऽस्मिंस्त्रैगुण्ये प्रलयं गते  ॥ १९.३४ ॥

विनश्यति ततो ब्रह्मा सहितः सर्वदैवतैः  ।

नाशयित्वा च भूतानि ब्रह्माण्डैः सह दैवतैः  ॥ १९.३५ ॥

स्थिता तु नर्मदा चैका सुतीर्था सुरपूजिता  ।

नर्मदायाऽवतारोऽयं मर्त्यलोके व्यवस्थितः  ॥ १९.३६ ॥

गतमिन्द्रसहस्रं तु यावद्वै दशपञ्च च  ।

अतीतं ब्रह्मणः षट्कं सप्तमोऽयं प्रजापतिः  ॥ १९.३७ ॥

तदेवमग्निमध्यस्थं तेन सर्वमचेतनम्  ।

अव्यक्ते सर्वभूतानामीशे जागर्ति जाग्रति  ॥ १९.३८ ॥

यदा स्वपिति शान्तात्मा तदा सर्वं निमीलितम्  ।

स विष्णुः सृष्टिकर्ता च हर्ता च जगतः प्रभुः  ॥ १९.३९ ॥

एकीभूतेषु भूतेषु व्यपास्यन् सर्वतेजसाम्  ।

पुनः सृष्टिं प्रकुरुते देवदेवः सदाशिवः  ॥ १९.४० ॥

ब्रह्मा भूत्वाऽसृजल्लोकं विष्णुर्भूत्वा ह्यपालयत् ।

रुद्रः कालाग्निरूपेण हरत्यन्ते स एव हि  ॥ १९.४१ ॥

तन्मया कथितं सर्वं किमन्यत्परिपृच्छसि  ।

इडा नाम कला ह्येषा शम्भोर्वै सप्तकल्पगा  ॥ १९.४२ ॥

अक्षया तेन लोके  ।॰

अष्टौ युगसहस्राणि अहोरात्रं प्रजापतेः  ॥ १९.४३ ॥

अनेनैव तु मानेन शतं ब्रह्मा स जीवति  ।

पितामहशतेनैव विष्णोर्मानं विधीयते  ॥ १९.४४ ॥

निमेषार्द्धं च शम्भोस्तु सहस्राणि चतुर्दश  ।

एतावति विनश्यन्ति ह्यसंख्याताः पितामहाः  ॥ १९.४५ ॥

तत्र द्वादशसाहस्रं दैवतं युगमुच्यते  ।

तदेकसप्ततियुगं मन्वन्तरमिहोच्यते  ॥ १९.४६ ॥

एतच्चतुर्दशगुणं कल्पमाहुर्मनीषिणः  ।

हरार्कचन्द्रमनवः शक्रस्यायुः प्रकीर्तितम्  ॥ १९.४७ ॥

लोकपालादयो देवाः साध्याश्चैव मरुद्गणाः  ।

अष्टाविंशतिपर्यन्त युगानां सन्ति तेऽपि च  ॥ १९.४८ ॥

एतत्ते कल्पगा कालमानं निगदितं मया  ।

ये मृताः कल्पगातीरे दानयज्ञतपः स्थिताः  ॥ १९.४९ ॥

दुर्गमं यमलोकं च न पश्यन्ति कदाचन  ।

तपसा ध्यानयोगेन ब्रह्मार्चनपरायणाः  ॥ १९.५० ॥

नर्मदातीरमासाद्य येऽत्र प्रासादकारकाः  ।

दारुणं नरकं घोरं नाश्रयन्ते यमालयम्  ॥ १९.५१ ॥

नर्मदां तु निषेवन्ते वार्द्धक्ये तु सुबुद्धयः  ।

एतदेव परं ध्यानं शेषमन्यन्निरर्थकम्  ॥ १९.५२ ॥

नर्मदादक्षिणे तीरे अशोकवनिकासु च  ।

अशोकजननं नाम तीर्थ तत्र व्यवस्थितम्  ॥ १९.५३ ॥

अशोकेश्वरलिङ्गं तु सर्वपापप्रणाशनम्  ।

तत्र गोलक्षदानेन यत्फलं तत्र गच्छतः  ॥ १९.५४ ॥

सप्तसारस्वतं लिङ्गं तथा लिङ्गं सुरार्चितम्  ।

साप्तर्षं नाम लिङ्गं च लिङ्गं योगेश्वरं तथा  ॥ १९.५५ ॥

चन्द्रकान्तं तथा लिङ्गं वरुणेश्वरमेव च  ।

अभ्यर्च्य परया भक्त्या यमलोकं न पश्यति  ॥ १९.५६ ॥

तिलोदकप्रदानेन पिण्डपातेन भारत  ।

पितॄन् समुद्धरत्याशुघोरात्पूर्वं परं शतम्  ॥ १९.५७ ॥

तत्र दत्तं हुतं यच्च तस्य संख्या न विद्यते  ।

पुरा देवगणाः सर्वे तीर्थस्यास्य प्रभावतः  ॥ १९.५८ ॥

संसिद्धिं परमां प्राप्य दिवि देवत्वमाययुः  ।

संसारसागरे राजन् सञ्चरन्ति न दारुणे  ॥ १९.५९ ॥

 

युधिष्ठिर उवाच –

लिङ्गानि कीर्तितानीह तथा तीर्थानि यानि च  ।

नानाख्यानसमेतानि प्रसादात्कथयस्व मे  ॥ १९.६० ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग इतिहासं पुरातनम्  ।

नागेश्वरं सिद्धलिङ्गं स्थितं नागह्रदे शुभे  ॥ १९.६१ ॥

सिद्धिदं सर्वलोकानां नागकन्याभिरर्चितम्  ।

ब्रह्मतेजोवपुः श्रीमान्नाम्ना चैवाघमर्षणः  ॥ १९.६२ ॥

द्वादशादित्यसंकाशो दीप्यमान इवानलः  ।

आपस्तम्बोऽथ मैत्रेयः संवर्तश्चात्रिरेव च  ॥ १९.६३ ॥

एते चान्येऽपि बहव ऋषयः संशितव्रताः  ।

अयुतानि मुनीन्द्राणामष्टौ तत्राश्रमे नृप  ॥ १९.६४ ॥

कन्दमूलफलाहाराः शाकाहारास्तथाऽपरे  ।

जलाहारास्तथैवाऽन्ये केचिद्गोमयभक्षिणः  ॥ १९.६५ ॥

चान्द्रायणपराश्चाऽन्ये श्रुतिस्मृतिविशारदाः  ।

मोक्षोपायं विचिन्वन्ति ब्रह्मिष्ठा ब्रह्मवित्तमा  ॥ १९.६६ ॥

अघमर्षाऽश्रमपदं ब्रह्मलोकसमंनृप  ।

धर्मस्तु वैश्यरूपेण जिज्ञासार्थं समागमत् ।

सप्तसारस्वते तीर्थे सोऽर्चित्वा वृषभध्वजम्  ॥ १९.६७ ॥

गन्धपुष्पैस्तथा दीपैरुपहारैर्मनोरमैः  ।

वर्तेरनृषयस्तत्र शतमष्टोत्तरं तथा  ॥ १९.६८ ॥

भिक्षा च भिक्षवे दत्ता कौपीनं मृगचर्म च  ।

साष्टाङ्गं च नमस्कृत्य तान् देवर्षिगणान्मुनीन्  ॥ १९.६९ ॥

मासोपवासनिरतो नाशिकारण्यमागमत् ।

पुत्रदारस्नुषास्तस्य नित्यं तद्गातगमानसाः  ॥ १९.७० ॥

मासे मासे त्वतिक्रान्ते रविसंक्रमणे नृप  ।

ऋतवः षडतिक्रान्ता निराहारं तपस्यत  ॥ १९.७१ ॥

न भोगो न च कार्पण्यं न मानो न च मत्सरः  ।

न कामक्रोधलोभाश्च निर्जितास्तेन भारत  ॥ १९.७२ ॥

वेदार्थे ब्राह्मणार्थे च मम वित्तस्य चार्जनम्  ।

विष्णुधर्मपरो नित्यं विष्ण्वाराथन तत्परः  ॥ १९.७३ ॥

उत्तरे चायने मासे सप्तसारस्वते तथा  ।

स्नात्वा देवं समभ्यर्च्य लिङ्गरूपं जनार्दनम्  ॥ १९.७४ ॥

यथा विभवयोगेन भिक्षां दत्त्वा यथा पुरा  ।

 

हर उवाच –

वरं ब्रूहि महाभाग सिद्धस्त्वं धर्मतो यतः  ॥ १९.७५ ॥

महाराज महाभाग यत्ते मनसि वर्तते  ।

इदं विमानमारुह्य दिव्यभोगसुखं कुरु  ॥ १९.७६ ॥

पुत्रदारस्नुषोपेतो विष्णुलोकमितो व्रज  ।

 

शार्ङ्ग उवाच –

यदि तुष्टोऽसि मे देव वरं दातुं यथेप्सितम्  ॥ १९.७७ ॥

वरं दशसहस्राणि लोकं यान्तु द्विजोत्तमाः  ।

इदं वरमहं मन्ये हरेर्नान्यं कदाचन  ॥ १९.७८ ॥

 

ऋषय ऊचुः॒

वैश्यः पापो दुराचारो महतां लाघवं यतः  ।

सर्वेषामेव वर्णानां ब्राह्मणो गुरुरुच्यते  ॥ १९.७९ ॥

त्रीन् वर्णान् याजयित्वा च त्वं यदा दिवमानयेः  ।

न दृष्टं न श्रुतं चासीदेवं श्रुतिपुराणयोः  ॥ १९.८० ॥

ब्राह्मणस्यापमानेन धर्मो वै जायते क्वचित् ।

तपसा ध्यानधर्माभ्यां न यास्यसि दिवमुने  ॥ १९.८१ ॥

अपि वर्षसहस्रेण दुर्गमस्ते सुरालयः  ।

व्रज त्वं वैश्यधर्मेण स्वगृहं प्रति साम्प्रतम्  ॥ १९.८२ ॥

स एवमुक्तो विप्रैस्तान् साष्टाङ्गं प्रणिपत्य च  ।

उवाच वचनं वैश्यो विमुक्तं मुनिपुङ्गवम्  ॥ १९.८३ ॥

अज्ञानाञ्ज्ञानतो वाऽपि कोपं कर्तुं न युज्यते  ।

अज्ञातं त्वां न गृह्णीयाच्छ्रद्धाहीनं च देवता  ॥ १९.८४ ॥

सक्रोधेन तपस्तप्तं सर्वं भवति निष्फलम्  ।

दैवतैरपि दुर्ज्ञेया गहना कर्मणो गतिः  ॥ १९.८५ ॥

सत्येन ध्रियते धर्मस्ततः स्वर्गः प्रजायते  ।

स्वकर्मनिरतं चैवमुद्धरन्तं तथा द्विजम्  ॥ १९.८६ ॥

वैश्यं ब्राह्मणमित्याहुर्ब्राह्मणं वैश्यमेव च  ।

निष्ठुरं निर्घृणं क्रूरं कृतघ्नं दीर्घकोपिनम्  ॥ १९.८७ ॥

द्विजं वाचालरूपं तु दूरतः परिवर्जयेत् ।

 

ब्राह्मणा ऊचुः॒

को भवान् वैश्यरूपेण ब्रह्मा शक्रो जनार्दनः  ॥ १९.८८ ॥

साङ्गोपाङ्गास्तथा वेदास्त्वयि धर्मः प्रतिष्ठितः  ।

 

शार्ङ्ग उवाच –

धर्मोऽहं वैश्यरूपेण जिज्ञासाऽर्थमिहागतः  ॥ १९.८९ ॥

इदं विमानमारुह्य गम्यतां वैष्णवं पदम्  ।

एते विमानमारुह्य सम्प्राप्तास्त्रिदशालयम्  ॥ १९.९० ॥

सप्तसारस्वतं नत्वा तीर्थं देवं हरं हरिम्  ।

वैश्यः पुत्रादिभिर्युक्तो प्राप लोकं तु वैष्णवम्  ॥ १९.९१ ॥

एतत्ते कथितं राजन्नर्मदातीर्थमुत्तमम्  ॥ १९.९२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे सृष्टिसंहारसारस्वततीर्थकथनं नामैकोनविंशोऽध्यायः ॥

 

 

अध्याय २०

 

मार्कण्डेय उवाच –

शाण्डिल्याकल्पगायोगः सर्वपापहरः परः  ।

शाण्डिल्येश्वरलिङ्गं च सर्वपापहरं परम्  ॥ २०.१ ॥

स्नातमात्रो नरस्तस्मिन्नर्चयित्वा महेश्वरम्  ।

कर्मभूमिं न लभते हरस्य वचनं यथा  ॥ २०.२ ॥

तिलोदकप्रदानेन हविषा पिण्डपातनात् ।

तृप्यन्ति पितरस्तस्य यावदिन्द्राश्चतुर्दश  ॥ २०.३ ॥

राहुसोमसमायोगे कुरुक्षेत्रे महाफलम्  ।

तत्रैव जन्म राजर्षेः कार्तवीर्यनृपस्य च  ॥ २०.४ ॥

स्नात्वाभ्यर्च्य महादेवं गन्धपुष्पाद्युपस्करैः  ।

सूर्याचन्द्रमसौ यावदुमामाहेश्वरे पुरे  ॥ २०.५ ॥

भुङ्क्ते स विविधान् भोगांस्तावद्वै शिवसन्निधौ  ।

तत्र शाण्डिल्यकौण्डिन्यौ माण्डव्यो मुनिमत्तमः  ॥ २०.६ ॥

कौशिकश्च महातेजाः कश्यपो भृगुरेव च  ।

एते चान्येऽपि बहवो जपध्यानपरायणाः  ॥ २०.७ ॥

मुनीनां षष्टिसाहस्रं तपस्युग्रे व्यवस्थितम्  ।

तस्याश्रमपदं रम्यं शाण्डिल्याकल्पगायुजि  ॥ २०.८ ॥

शाण्डिल्यपुरमित्येव ब्रह्मर्षि विनिषेवितम्  ।

द्वादशादित्यतीर्थं च नर्मदादक्षिणे तटे  ॥ २०.९ ॥

देवदारु तथा तीर्थमन्यद्देववनं तथा  ।

दशलक्षाणि तीर्थानि तत्र तिष्ठन्ति संगमे  ॥ २०.१० ॥

द्वादशार्कमिदं नाम तीर्थं पापप्रणाशनम्  ।

अन्यानि यानि लिङ्गानि कथितानि तवाऽनघ  ॥ २०.११ ॥

मूषकश्च तथा तीर्थे मार्जारेणैव भक्षितः  ।

निशायां मूषकः कश्चिदटमान इतस्ततः  ॥ २०.१२ ॥

मार्जरेण ततः सोऽपि भक्षितश्च धृतः पुरा  ।

ततो मेघागमे काले प्रवाहस्तत्र निर्गतः  ॥ २०.१३ ॥

अस्थिप्रवहणं तस्य निमग्नं तत्र सङ्गमे  ।

तीर्थस्यास्य प्रभावेण यक्षराजोऽभवत्नृप  ॥ २०.१४ ॥

बृहद्वृन्दः समाख्यातो यक्षायुतसमावृतः  ।

हंसयुक्तविमानेन यक्षलोके महीयते  ॥ २०.१५ ॥

अथान्यत्कथयिष्यामि शाण्डिल्यानर्मदाश्रितम्  ।

नाम्ना चाप्सरसं लिङ्गं मुक्ताश्चाप्सरसो यतः  ॥ २०.१६ ॥

ज्ञानरूपमयं देवं सिद्धलिङ्गं प्रकीर्तितम्  ।

 

युधिष्ठिर उवाच –

कस्मादप्सरसः शप्ताः कथं याताश्च सङ्गमम्  ॥ २०.१७ ॥

कथं च मोक्षणं शापाद्विदितं कुरु साम्प्रतम्  ।

 

मार्कण्डेय उवाच –

शृणु राजन् यथा न्यायं कथयामि तवाऽनघ  ॥ २०.१८ ॥

मधूत्सवं शिवस्याग्रे विहायेन्द्रोत्सवं गताः  ।

उर्वशी च तथा रम्भा अहल्या च तिलोत्तमा  ॥ २०.१९ ॥

घृताची मेनका चैव चित्ररेखा च शालिनी  ।

एताश्चाप्सरसो बह्व्यः सर्वा वै देव निर्मिताः  ॥ २०.२० ॥

वसन्ते ता विशन्ति स्म शक्रलोकं सुरैः सह  ।

मदिरानन्दपानेन मोहिताः कामपीडिताः  ॥ २०.२१ ॥

समतीते वसन्ते तु उमामाहेश्वरं पुरम्  ।

कैलासनिलयं देवं समाराधयितुं गताः  ॥ २०.२२ ॥

शापस्य भयभीतास्ता देवेदेवस्य सुव्रताः  ।

साष्टाङ्गं प्रणिपत्याथ मन्त्रगीतेन तुष्टुवुः  ॥ २०.२३ ॥

ताश्चैवाप्सरसो गौरी ज्ञात्वा तत्र पराङ्मुखी  ।

गौर्याः परमचित्तज्ञाः सर्वाभरणभूषिताः  ॥ २०.२४ ॥

अनङ्गकुसुमा चान्या रूपयौवनशालिनी  ।

धनपाली तथा चान्या व्योमरेखा तथापरा  ॥ २०.२५ ॥

चामरग्राहिणी चान्या गान्धर्वी च तथाऽपरा  ।

हेमदण्डा प्रतीहारा ऊचुरप्सरसः प्रति  ॥ २०.२६ ॥

उमामाहेश्वरं नाम भवत्यो न समागताः  ।

अपराधोऽयमेवाद्य भवतीनां सुदुःसहः  ॥ २०.२७ ॥

अनेनैवापराधेन अजा मर्त्ये भविष्यथ  ।

दिव्यं वर्षशतं साग्रमेवं भवत दुःखिताः  ॥ २०.२८ ॥

 

अप्सरस ऊचुः॒

शापान्तं नो वरारोहे दातुमर्हसि पार्वति  ।

इति तासां वचः श्रुत्वा देवी वचनमब्रवीत् ॥ २०.२९ ॥

शाण्डिल्याकल्पगायोगे नर्मदादक्षिणे तटे  ।

तत्र स्नात्वा दिवं यान्ति शाण्डिल्येश्वरपूजनात् ॥ २०.३० ॥

गौरीतीर्थं तु तत्रैव ज्ञातुं योग्यं हि कल्पगाम्  ।

उत्तीर्णा तेन मार्गेण लग्ना स्कन्दस्य पृष्ठतः  ॥ २०.३१ ॥

तत्र स्नात्वा शिवं नत्वा कैलासं चा गमिष्यथ  ।

शापभ्रष्टास्तु तास्सर्वाः क्ष्मां गत्वा अतिदुःखिताः  ॥ २०.३२ ॥

शापावसाने सम्प्राप्ते कल्पगातीरमाश्रिताः  ।

तत्र स्नात्वा तु शाण्डिल्यं पूजयित्वा विधानत  ॥ २०.३३ ॥

अजारूपधरास्सर्वास्तस्मिन्नप्सरसः क्षणात् ।

दिव्ययानसमारूढास्सर्वालंकारभूषिताः  ॥ २०.३४ ॥

गौरीतीर्थं तथैवापुर्यथापूर्वं तथैव तु  ।

अजातीर्थमिति ख्यातं देवश्चाजेश्वरस्तथा  ॥ २०.३५ ॥

सर्वपापहरं चैव लिङ्गमाप्सरसं तथा  ।

तत्र स्नात्वा व्यतीपाते नारी वा यदि वा नरः  ॥ २०.३६ ॥

अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः  ।

दशवर्षसहस्राणि राजा विद्याधरे पुरे  ॥ २०.३७ ॥

कनकेश्वरमन्यत्तु कनकामोक्षदं शुभम्  ।

ज्वरेश्वरं तत्र लिङ्गं ज्वरो यत्र न विद्यते  ॥ २०.३८ ॥

ज्वरिता ऋषयो यत्र बभूवुर्ज्वरवर्जिताः  ।

पञ्चब्रह्मेश्वरं नाम लिङ्गं पापविमोचनम्  ॥ २०.३९ ॥

असुरो मलकेतुश्च शक्रस्यैव भयेन तु  ।

पञ्चब्रह्मात्मकैर्मन्त्रैः स्थण्डिलस्थं तु शङ्करम्  ॥ २०.४० ॥

नानाविधैः पुष्पधूपैः सम्पूज्य स्वपुरं ययौ  ।

अपराह्णेऽथ संस्मार स पापो लिङ्गमैशकम्  ॥ २०.४१ ॥

नमस्कृत्वाऽथ निर्माल्यं यावदुद्धर्तुमिच्छति  ।

तावत्तत्स्थाणुभूतं वै लिङ्गं दृष्ट्वा महासुरः  ॥ २०.४२ ॥

विषसादमहाबाहुः किमेतदिति विस्मितः  ।

आकाशवाचाचोक्तं वै विषादं त्यजपुत्रक  ॥ २०.४३ ॥

पञ्चब्रह्मेश्वरं नाम लिङ्गमेतत्महासुर  ।

आकाशवचनं श्रुत्वा नमस्कृत्य दिवं ययौ  ॥ २०.४४ ॥

पञ्चब्रह्मेश्वरं लिङ्गं लिङ्गं पुष्पेश्वरं तथा  ।

तृतीयं तु तथा विद्धि लिङ्गं वै स्थण्डिलेश्वरम्  ॥ २०.४५ ॥

नित्ये नैमित्तिके कार्ये ग्रहणे चन्द्रसूर्ययोः  ।

श्रद्धया सङ्गमे स्नात्वा लिङ्गत्रितयपूजनात् ॥ २०.४६ ॥

गच्छन्ति पितरः स्वर्गं हविर्दानादिभिर्यथा  ।

मन्वन्तरशतं यावन्मोदते ब्रह्मणः पुरे  ॥ २०.४७ ॥

नर्मदायाप्यभागे तु गोप्यलिङ्गं व्यवस्थितम्  ।

ब्रह्महत्यादिकं पापं सप्तरात्रेण नश्यति  ॥ २०.४८ ॥

त्वष्टा पूषेति विख्यातौ बलिनौ ब्रह्मराक्षसौ  ।

वज्रेण स्वेन शक्रेण हतौ तौ सिन्धुचारिणौ  ॥ २०.४९ ॥

बुद्ध्वा ब्रह्मादिभिर्देवैर्ब्रह्महा त्वेष वासवः  ।

इन्द्राण्या चैव संत्यक्तः सर्वैः सुरगणैस्तथा  ॥ २०.५० ॥

ब्रह्महत्या समायुक्तः सम्प्राप्तो वै हिमालयम्  ।

चन्द्रहीना यथा रात्रिरनादित्यं यथा नभः  ॥ २०.५१ ॥

इयमाभाति वै तद्वच्छक्रहीनाऽमरावती  ।

ततो देवगणैः सर्वैः प्रेषितो हव्यवाहनः  ॥ २०.५२ ॥

शक्रस्यान्वेषणार्थाय कृशानो गम्यतां त्वया  ।

जले दृष्ट्वा निवर्त्याऽथ देवतास्संन्यवेदयत् ॥ २०.५३ ॥

ततस्संप्रेषितो देवैः सर्वव्यापी प्रभञ्जनः  ।

स तं प्रवेशयामास प्रोवाच त्रिदशेश्वरम्  ॥ २०.५४ ॥

देवानां शासनादेव समागच्छं च त्वत्कृते  ।

तमानीय पुरं दिव्यं ब्रह्मविष्णुपुरस्मराः  ॥ २०.५५ ॥

ततो देवगणाः सर्वे शक्रेण सहिता गताः  ।

ईशानो भगवान् यत्र कैलासे पर्वतोत्तमे  ॥ २०.५६ ॥

नमस्कृत्य महादेवं सुरासुरनमस्कृतम्  ।

प्रविष्टांस्तु यथान्यायं पप्रच्छ भगवान् हरः  ॥ २०.५७ ॥

किमागमनकार्यं वः कुतो वो भयमागतम्  ।

 

देवा ऊचुः॒

एष त्वां प्रति संप्रष्टुं देवराजः शतक्रतुः  ॥ २०.५८ ॥

मोक्षणं ब्रह्महत्यायाः स्याद्यथा वै तथा कुरु  ।

 

ईश्वर उवाच –

वाराणस्यां क्रतुं चेष्ट्वा हयमेधं यथा विधि  ॥ २०.५९ ॥

तीर्थयात्राक्रमेणैव ब्रह्महत्या प्रणश्यति  ।

नमस्कृत्य ततो देवं सुराः काशीपुरं ययुः  ॥ २०.६० ॥

यज्ञोपस्करमादाय तत्र चेष्टो मखोत्तमः  ।

पौष्करं नैमिषारण्यं कुरुक्षेत्रं तथा पुनः  ॥ २०.६१ ॥

केदारं भैरवं तीर्थं गङ्गासागरसङ्गमम्  ।

ओघतीर्थं प्रयागं च प्रभासं शशिभूषणम्  ॥ २०.६२ ॥

बभ्रमुः सर्वतीर्थानि पृथिव्यां यानि कानि च  ।

कृष्णमस्य शरीरार्द्धमर्द्धं गौरं निरीक्ष्य च  ॥ २०.६३ ॥

विस्मयं परमं जग्मुः सर्वे देवगणास्तथा  ।

वाराणसीं पुरीं गत्वा सुरा विज्ञापयन्ति तम्  ॥ २०.६४ ॥

अन्तरिक्षे पुरी ख्याता वाराणस्यसमा तथा  ।

पञ्चक्रोशान्तरे तस्या ब्रह्महत्या न सर्पति  ॥ २०.६५ ॥

पुराणे श्रूयते देव देवराज शतक्रतो  ।

यावत्तिष्ठति गङ्गायां वाराणस्यां समागमे  ॥ २०.६६ ॥

न तावद्ब्रह्महत्या तु निर्गमे पुनराविशेत् ।

 

काश्युवाच –

नाहं समर्था हरणे मुक्त्वा काचित्तु कल्पगाम्  ॥ २०.६७ ॥

ब्रह्महत्या यथा नश्येदुपदेशं ददामि ते  ।

शाण्डिल्या नर्मदायोगे याम्ये भागे तु नार्मदे  ॥ २०.६८ ॥

तत्र स्नात्वा महाराज त्रीणि लिङ्गानि चार्चयेत् ।

पञ्चब्रह्मेश्वरं देवं पुष्पेश्वरमथापरम्  ॥ २०.६९ ॥

तृतीयं तु तथा शक्रलिङ्गं चैव स्थण्डिलेश्वरम्  ।

शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च  ॥ २०.७० ॥

काशीपुर्या वचः श्रुत्वा देवदेवः शतक्रतुः  ।

तं देशं समनुप्राप्य सर्वं स्नानादिकं व्यधात् ॥ २०.७१ ॥

तत्क्षणाद्दिव्यदेहश्च सूर्यसंक्रमणं ययौ  ।

शरीरात्तस्य निर्गत्य ब्रह्महत्या ह वासवम्  ॥ २०.७२ ॥

अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का  ।

ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा  ॥ २०.७३ ॥

तीर्थेऽस्मिन्न विशेद्धत्या योजनानि चतुर्दश  ।

एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा  ॥ २०.७४ ॥

शिवमस्तु महाराज स्वगृहं याहि साम्प्रतम्  ।

इति तस्या वचः श्रुत्वा नमस्कृत्य तु नर्मदाम्  ॥ २०.७५ ॥

दिव्यं यानं समारूढो मुदा परमया युतः  ।

अप्सरोगणसंकीर्णं सिद्धगन्धर्वसेवितम्  ॥ २०.७६ ॥

तत्रारूढः सुरपतिर्यथापूर्वं तथैव च  ।

धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः  ॥ २०.७७ ॥

स्तूयमानः सुरगणैः प्रविवेशामरावतीम्  ।

शिवेन कथितं ह्येतत्पार्वत्याः षण्मुखस्य च  ॥ २०.७८ ॥

मया तु कथितं राजंस्तव ब्रह्मर्षिपूर्वकम्  ॥ २०.७९ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे ब्रह्महत्याछेदनो नाम विंशोऽध्यायः ॥

 

 

अध्याय २१

 

युधिष्ठिर उवाच –

भूयश्चेच्छाम्यहं श्रोतुं नर्मदातीर्थकीर्तनम्  ।

तृप्तिं नैवाधिगच्छामि शृण्वन्नपि महामुने  ॥ २१.१ ॥

इदानीं श्रोतुमिच्छामि रेवाकुब्जासमागमम्  ।

आख्यानसहितं ब्रह्मन् कथयस्व प्रसादतः  ॥ २१.२ ॥

कुब्जिका कर्मणा केन त्रिषु लोकेषु विश्रुता  ।

एतन्नस्त्वं परं ब्रह्मन् संशयं छेत्तुमर्हसि  ॥ २१.३ ॥

 

मार्कण्डेय उवाच –

शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्  ।

कथितामीश्वरेणैव पार्वत्याः षण्मुखस्य मे  ॥ २१.४ ॥

ऋषीणां ब्रह्ममुख्यानां गणानां चानुचारिणाम्  ।

नानाऋक्षाणि सूर्यस्य जगदुद्योतकारिणः  ॥ २१.५ ॥

शशिसूर्योपगमने तारा भान्ति नभस्तले  ।

नान्या पयस्विनी शक्ता संसारार्णवतारणे  ॥ २१.६ ॥

पितृदेवमनुष्याणां मुक्त्वा चैव तु कल्पगाम्  ।

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २१.७ ॥

चान्द्रायणसहस्रं च ब्रह्मकूर्चायुतं तथा  ।

नर्मदातोयपानेन तुल्यं भवति वा न वा  ॥ २१.८ ॥

तिलोदकप्रदानेन पितॄणां प्रीतिरक्षया  ।

गायन्ति पितरो गाथा तथैव च पितामहाः  ॥ २१.९ ॥

मातामहाद्याः सततं सर्व एव परस्परम्  ।

अपि स्यात्स्वकुलेऽस्माकं पुत्रः परमधार्मिकः  ॥ २१.१० ॥

हविस्तिलयुतं दद्याद्यो रेवासलिलार्चितम्  ।

वर्षलक्षं तथा तेन तृप्ता यामः परां गतिम्  ॥ २१.११ ॥

यज्ञक्रिया कृता तेन समग्रा भूरिदक्षिणा  ।

एतत्ते कथितं राजं शिवेनोक्त यथा पुरा  ॥ २१.१२ ॥

स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ।

मा गयां गच्छ कौन्तेय मा गङ्गां मा सरस्वतीम्  ॥ २१.१३ ॥

तत्र गच्छ नृपश्रेष्ठ यत्र कुब्जा सनर्मदा  ।

वाराणसीं प्रयागं च गङ्गासागरसङ्गमम्  ॥ २१.१४ ॥

केदारं कनखलं च प्रभासं शशिभूषणम्  ।

हरिश्चन्द्रपुरं चान्द्रं श्रीशैलं त्रिपुरान्तकम्  ॥ २१.१५ ॥

माहेन्द्र मलयं चैव गोकर्णं च महाबलम्  ।

कालञ्जरं नीलकण्ठं त्र्यम्बकं धूतकिल्बिषम्  ॥ २१.१६ ॥

रुद्रकोटिं हिमस्थानं भैरवं च महापथम्  ।

तीर्थान्येतानि चान्यानि कलां नार्हन्ति षोडशीम्  ॥ २१.१७ ॥

नानातीर्थसहस्राणि पुराणे कीर्तितानि च  ।

ब्रह्मविष्णुशिवोक्तं हि तत्प्रमाणं हि सिद्धये  ॥ २१.१८ ॥

सोमे प्रसिद्धाऽमावास्या रेवाकुब्जासमागमे  ।

एरण्ड्यां चण्डवेगायां रेवया सह संगमे  ॥ २१.१९ ॥

राजन् दर्शे यदा सोमः संविशेद्रविमण्डले  ।

व्यतीपाते च संक्रान्तौ वैधृतौ विषुवे तथा  ॥ २१.२० ॥

दक्षोत्तरायणे चैव षडशीतिमुखे तथा  ।

दर्शे स्याद्विंशतिगुणं व्यतीपाते समां शतः  ॥ २१.२१ ॥

संक्रमे वैधृतौ राजं छतार्धं परिकीर्तितम्  ।

अमासोमसमायोगे राहुसोमसमागमे  ॥ २१.२२ ॥

कुरुक्षेत्राच्छतगुणं पुण्यमाह शिवः स्वयम्  ।

बिल्वाम्रकं सिद्धलिङ्गं ब्रह्महत्याव्यपोहनम्  ॥ २१.२३ ॥

दर्शनात्स्पर्शनात्तस्य शिवलोके महीयते  ।

कुब्जेश्वरं तथैवान्यत्न तत्पश्यन्ति मानवाः  ॥ २१.२४ ॥

नर्मदाकुब्जिकामध्ये नागकन्याभिरर्च्यते  ।

स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ॥ २१.२५ ॥

कालाग्निरुद्रसंकाशं भित्त्वा पातालसङ्गमम्  ।

सूर्यकोटिसमप्रख्यं प्रदीप्तज्वलनप्रभम्  ॥ २१.२६ ॥

उत्थितं कल्पगामध्ये देवाऽवाहनकाम्यया  ।

ओंकारस्य यवैकेन हीनं लिङ्गं नृपोत्तम  ॥ २१.२७ ॥

पृथिव्यां यानि तीर्थानि लोकेऽस्मिन् सचराचरे  ।

हीनान् यस्माद्यवार्द्धेन सत्यमेतच्छिवोदितम्  ॥ २१.२८ ॥

तत्र यस्त्यजति प्राणानमासोमसमागमे  ।

दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः  ॥ २१.२९ ॥

धृतदिव्यातपत्रस्तु सर्वालङ्कारभूषितः  ।

त्रिंशच्छतसहस्राणि वसेच्छिवपुरे शुभे  ॥ २१.३० ॥

त्यजेद्धि तत्र यः प्राणान्न वशः स्ववशोऽपि वा  ।

दशवर्षसहस्राणि राजा विद्याधरे पुरे  ॥ २१.३१ ॥

रन्तिदेवश्चक्रवर्ती शक्रतुल्यो महीपतिः  ।

अयोध्याधिपतिः श्रीमान् सर्वधर्मभृतां वरः  ॥ २१.३२ ॥

कण्वाश्रमपदे रम्ये सुरासुरनिषेविते  ।

आख्यानसहितं राजं छृणु वेद यथाक्रमम्  ॥ २१.३३ ॥

तीर्थसंख्याप्रमाणं च इतिहासं पुरातनम्  ।

हरन्ति के च कार्त्तिक्यां कैलासे पर्वतोत्तमे  ॥ २१.३४ ॥

ब्रह्मादयो गतास्तत्र विष्णुशक्रपुरोगमाः  ।

उमया सहितो रुद्रो गणकोटिसमन्वितः  ॥ २१.३५ ॥

नन्दिस्कन्दमहाकालसुरासुरनिषेवितः  ।

सरितः सागराः शैलास्तीर्थानां कोटयस्तथा  ॥ २१.३६ ॥

तेषां मध्ये समुत्थाय स्कन्दो वचनमब्रवीत् ।

कस्यैतानि विमानानि दीव्यन्ते दिवि शङ्कर  ॥ २१.३७ ॥

साप्तभौमा गृहा रम्या हेमप्राकारतोरणाः  ।

गीतनृत्यनिनादेन कामिनीनां मनोहराः  ॥ २१.३८ ॥

 

ईश्वर उवाच –

शृणु स्कन्द महाभाग कथ्यमानं यथोदितम्  ।

तीर्थदानप्रभावेण तीर्थज्येष्ठक्रमेण तु  ॥ २१.३९ ॥

ये मृता नर्मदातीरे पर्वतेऽमरकण्टके  ।

माहेश्वरादितीर्थेषु भृगुकच्छावसानतः  ॥ २१.४० ॥

इमानि यानि तीर्थानि लिङ्गमूर्तिधराणि च  ।

सरितश्चापि गङ्गाद्यास्तासु दानप्रभावतः  ॥ २१.४१ ॥

एतत्ते कथितं स्कन्द हर्म्यास्सन्ति समुद्धृताः  ।

 

मार्कण्डेय उवाच –

एवं पुरा महाराज कैलासे पर्वतोत्तमे  ॥ २१.४२ ॥

ब्रह्मा पप्रच्छ तीर्थानां शङ्करं विधिपूर्वकम्  ।

देवखातानि सर्वाणि सरितः सागरास्तथा  ॥ २१.४३ ॥

नद्यः सर्वाश्च भूपृष्ठे गङ्गाद्या गिरिसम्भवाः  ।

उत्तमाः कतिचिद्देव कथयस्व प्रसादतः  ॥ २१.४४ ॥

 

हर उवाच –

कथयामि परं तीर्थं पवित्रं पापनाशनम्  ।

कौतुकेन त्वया पृष्टा नदीनामुत्तमा नदी  ॥ २१.४५ ॥

सर्वासां सरितां मध्य उत्तमा सप्तकल्पगा  ।

सर्वेषां जननी चेह नदी त्रैलोक्यसुन्दरी  ॥ २१.४६ ॥

 

ब्रह्मोवाच –

सुरसिन्धुं परित्यज्य नर्मदा वर्ण्यते कथम्  ।

विरुद्धं सर्वलोकानां देवानां च विशेषतः  ॥ २१.४७ ॥

ब्रह्मणस्तु वचः श्रुत्वा अगस्त्यो वाक्यमब्रवीत् ।

मध्ये पदे नियुक्तश्च वक्तुमेव न युज्यते  ॥ २१.४८ ॥

धर्माः सर्वे वेदमूला ब्राह्मणा वेदसम्भवाः  ।

वेदहीना न सिध्यन्ति यज्ञदानविधिक्रियाः  ॥ २१.४९ ॥

स्वयम्भूर्भगवां छम्भुः शम्भुश्च भगवान् हरिः  ।

वेदाश्च भगवां छम्भुः कल्पगा शम्भुसम्भवा  ॥ २१.५० ॥

अव्यक्ताव्यक्तरूपेण जगतः कारणेच्छया  ।

संहारसृष्टिरूपेण प्रलयोत्पत्तिकारिणी  ॥ २१.५१ ॥

भगीरथनेमिनीता हरिणाऽत्रावतारिता  ।

गङ्गा सा जह्नुना पीता मुनिना चुलुकेन च  ॥ २१.५२ ॥

क्रुद्धः पीत्वा मुनिस्तां तु स्थितो ध्यानपरायणः  ।

दिव्यं वर्षसहस्रं तु सा तु तस्योदरे स्थिता  ॥ २१.५३ ॥

विस्मयो देवतानां हि समापेदे कुतूहलम्  ।

ब्रह्माद्या देवताः सर्वा गत्वा तस्याश्रमं प्रति  ॥ २१.५४ ॥

शापशङ्काकुलात्मानो मुनिं विज्ञापयन्ति ते  ।

महानदीं मुने मुञ्च पवित्रां पापनाशिनीम्  ॥ २१.५५ ॥

मर्त्ये वहतु सा नित्यं लोकसन्तापहारिणी  ।

देवता ऋषिप्रोक्तेन मुक्ता तेन महानदी  ॥ २१.५६ ॥

मुक्ता तु जह्नुना तत्र तेन सा जाह्नवी स्मृता  ।

सा तु किं वर्ण्यते ब्रह्मन् पीताया जह्नुना पुरा  ॥ २१.५७ ॥

मया चुलुकमात्रेण शोषिताः सप्तसागराः  ।

हरिश्च भगवान् शम्भुश्शम्भुश्च भगवानिति  ॥ २१.५८ ॥

विन्ध्यः सप्तशैलराजो नर्मदायाः प्रभावतः  ।

तेनोद्धता देवमार्गा वर्तमानानि वारिताः  ॥ २१.५९ ॥

यज्ञपर्वतपर्यङ्कावुभौ विन्ध्यस्तौ पुरा  ।

मया निवारितौ बुद्ध्या देवमार्ग प्रवृत्तये  ॥ २१.६० ॥

एवं विगर्हितो ब्रह्मा संवादेन परस्परम्  ।

ततस्तुष्टाः सुराः सर्वे ह्यगस्त्यं प्रति भारत  ॥ २१.६१ ॥

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च  ।

इति ते कथितो राजन्नितिहासः पुरातनः  ॥ २१.६२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्य एकविंशोऽध्यायः ॥

 

 

अध्याय २२

 

युधिष्ठिर उवाच –

कथं निवर्तितो यज्ञो रन्तिदेवस्य धीमतः  ।

कण्वाश्रमपदे रम्ये रेवाकुब्जासमागमे  ॥ २२.१ ॥

निखिलं श्रोतुमिच्छामि कथयस्व शिवोदितम्  ।

 

मार्कण्डेय उवाच –

शृण्वन्तु मुनयः सर्वे श्रोतुकामास्समागमम्  ॥ २२.२ ॥

मया ख्यातमिदं पुण्यमितिहासं पुरातनम्  ।

शण्डामर्कोऽथ राजर्षिर्मानसो ब्रह्मणः सुतः  ॥ २२.३ ॥

सूर्यतेजः समप्रख्यस्तेजसा प्रज्वलन्निव  ।

ब्रह्मिष्ठः सत्यवादी च वेदवेदाङ्गपारगः  ॥ २२.४ ॥

ब्रह्मचारी जितक्रोधः सर्वभूतहिते रतः  ।

षडशीतिसहस्राणि मुनीनां दीप्ततेजसाम्  ॥ २२.५ ॥

तपस्तत्रैव तप्यन्ते मोक्षोपायविचिन्तकाः  ।

कन्दमूलफलाहारा जलाहारास्तथा परे  ॥ २२.६ ॥

मासोपवासिनश्चान्ये तथा पक्षोपवासिनः  ।

चरन्ति के सान्तपनं प्राजापत्यं तथैव च  ॥ २२.७ ॥

चान्द्रायणपराश्चान्ये ब्रह्मकूर्चास्तथापरे  ।

शण्डामर्काश्रिताः सर्वे सर्वेषां गुरुरेव च  ॥ २२.८ ॥

वेदध्वनितनिर्घोषैर्दिवं भूमिं व्यनादयन्  ।

निर्धूमो ज्वलनस्तत्र हूयमानो हुताशनः  ॥ २२.९ ॥

कामक्रोधविनिर्मुक्तैर्ब्रह्मचारिजितेन्द्रियैः  ।

शण्डामर्काश्रमं दिव्यं युक्तं ब्रह्मसमद्विजैः  ॥ २२.१० ॥

तथाकामफलैर्वृक्षैः पुष्पितैस्त्वतिशोभितम्  ।

सर्वाश्रमगुरुश्चासीद्रन्तिदेवो महीपतिः  ॥ २२.११ ॥

शासिता धरणी तेन सशैलवनकानना  ।

न नराः शोकमात्सर्यरोगदारिद्र्यदुःखिताः  ॥ २२.१२ ॥

चिरायुषः प्रजाः सर्वा धनधान्यसमाकुलाः  ।

स्वयं कामदुघा गावः पृथिवी सस्यशालिनी  ॥ २२.१३ ॥

कौशेयं पट्टसूत्रं च सर्वेषां विमलं चितम्  ।

पर्जन्यः कामवर्षी च काले काले ऋतावृतौ  ॥ २२.१४ ॥

नाना पुराणि रम्याणि हेमरत्नान्वितानि च  ।

नाना चामरमाला च हेमरत्नावगण्ठिता  ॥ २२.१५ ॥

किङ्किणीजालसंछन्ना मणिमालाविलम्बिता  ।

बुद्बुदैरर्धचन्द्रैश्च पारिजातकदम्बकैः  ॥ २२.१६ ॥

गोपुरैश्च महादिव्यैर्नानानकनिनादिता  ।

नाट्यहर्म्यैश्च सङ्गीतैर्विचित्रकुसुमावृतैः  ॥ २२.१७ ॥

भूमिर्हेममयी चैव चार्चिता यत्र संचितैः  ।

प्रासादश्च महारत्नैर्देवदेवस्य शूलिनः  ॥ २२.१८ ॥

मेरुमन्दरकैलासे यादृशश्च विराजते  ।

नानारत्नशिलाभिश्च अनेकशिखरोत्करैः  ॥ २२.१९ ॥

चन्द्रशालागवाक्षैश्च रत्नमालाविभूषितैः  ।

शतार्धसाप्तभौमैश्च तथैवायुतभूमिकैः  ॥ २२.२० ॥

चन्द्राननपताकाभिर्यज्ञैश्चापि विराजिता  ।

एवं विधा नृपश्रेष्ठ सर्वशोभा समन्विता  ॥ २२.२१ ॥

रन्तिदेवस्य राजर्षेरयोध्यानगरी शुभा  ।

इत्थं शशास धरणीं यथा शक्रस्त्रिविष्टपम्  ॥ २२.२२ ॥

नृपो यागसहस्रैश्च भूमिपृष्ठं ददाह सः  ।

पुरोधसं वशिष्ठं च पप्रच्छ मुनिसत्तमम्  ॥ २२.२३ ॥

कस्मिंस्तीर्थे तु निर्विघ्ना यज्ञसिद्धिर्महामुने  ।

इति तस्य वचः श्रुत्वा राजर्षेर्मुनिसत्तमः  ॥ २२.२४ ॥

उवाच रन्तिदेवं च वशिष्ठो ब्रह्मवित्तमः  ।

दुर्वासाः कश्यपो गर्गो नारदः पर्वतः क्रतुः  ॥ २२.२५ ॥

अग्निश्च शौनकश्चैव बृहस्पतिरथाङ्गिराः  ।

भृगुरत्रिस्तथा वत्स्यः पुलस्त्यः पुलहस्तथा  ॥ २२.२६ ॥

काश्यपो गालवश्चैव ऋष्यशृङ्गो विभाण्डकः  ।

अहं च मुनयश्चैते मुनयो ब्रह्मवर्चसः  ॥ २२.२७ ॥

सर्वेषां मतमेवं वै मम चैव नराधिप  ।

अन्यतीर्थात्परं तीर्थं पुराणे परिकीर्तितम्  ॥ २२.२८ ॥

कोटिकोटिगुणं पुण्यं कल्पगा यत्र वर्तते  ।

एवमेवेति तं ब्रूयात्सत्यमेतत्त्वयोदितम्  ॥ २२.२९ ॥

ततश्चाज्ञापयामास भृत्यामात्यपुरोधसः  ।

यज्ञोपस्करसम्भारः शीघ्रमेव विधीयताम्  ॥ २२.३० ॥

आदिदेश ततो दूतान्नानादेशेषु सत्वरान्  ।

घोषणा क्रियतां राष्ट्रे समागच्छन्तु भूमिपाः  ॥ २२.३१ ॥

आगतास्ते ततः सर्वे रन्तिदेवस्य शासनात् ।

यथा विभवशोभाढ्याः शक्रतुल्या महीभृतः  ॥ २२.३२ ॥

गावश्च दशलक्षाणि सवत्साश्च पयस्विनीः  ।

हेमभारैर्भूषिताश्च कामधेनुपयस्विनीः  ॥ २२.३३ ॥

लक्षमेकं हयानां तु अयुतं दन्तिनां तथा  ।

मणिमाणिक्यरत्नानां तत्र संख्या न विद्यते  ॥ २२.३४ ॥

अनेकानि सहस्राणि करभानां च भारत  ।

दिव्ययानं समारुह्य सान्तःपुरपरिच्छदः  ॥ २२.३५ ॥

नानातूर्यैर्गीतवाद्यैर्मेकलातीरमागतः  ।

तत्र मण्डपकुण्डानि यज्ञयूपा हिरण्मयाः  ॥ २२.३६ ॥

नानाभक्षाणि भोज्यानि पक्वानि विविधानि च  ।

नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः  ॥ २२.३७ ॥

यज्ञदीक्षां च जग्राह पत्न्या सह नराधिपः  ।

ततः प्रवर्तितो यज्ञो रेवातीरे सुशोभने  ॥ २२.३८ ॥

तत्र ज्वलति निर्धूमः प्रत्यक्षो हव्यवाहनः  ।

ब्रह्मशक्रादयो देवा लोकपाला मरुद्गणाः  ॥ २२.३९ ॥

विश्वेदेवाश्च साध्याश्च वसवश्चन्द्रभास्करौ  ।

सरितः सागराः शैलाः सर्वतीर्थानि चापगा  ॥ २२.४० ॥

मातरः सिद्धगन्धर्वाः सयक्षोरगराक्षसाः  ।

उमया सहितो रुद्रो विष्णुश्चैव सुरेश्वरः  ॥ २२.४१ ॥

सर्वेषा यज्ञभागांश्च पृथक्पृथगकल्पयत् ।

एतस्मिन्नन्तरे राजन् वेदध्वनि निवेदितम्  ॥ २२.४२ ॥

विस्मिता ह्यभवन् सर्वे श्रुत्वा स्मृतिभयानकम्  ।

दानवा बलवन्तोऽद्य ते क्रौञ्चपुरवासिनः  ॥ २२.४३ ॥

महाबाहुः सुबाहुश्च दैत्यकोटिसमावृताः  ।

आगता नर्मदा तीरे सभृत्यबलवाहनाः  ॥ २२.४४ ॥

दक्षिणां दिशमाश्रित्य यज्ञविघ्नं विचक्रिरे  ।

ब्रह्माद्या मुनयः सर्वे भयत्रस्ताश्च कम्पिरे  ॥ २२.४५ ॥

उवाच वचनं ब्रह्मा देवतुल्यं पुरोधसम्  ।

मया विधिर्विस्मृतश्च मन्त्रादीनां महाभयात् ॥ २२.४६ ॥

उवाच रन्तिदेवं च यज्ञध्वंसं निवारय  ।

ब्रह्मिष्ठस्तद्वचः श्रुत्वा रन्तिदेवो महीपतिः  ॥ २२.४७ ॥

यदि मे विद्यते सत्यं शिवभक्तिपरा मतिः  ।

दैत्यराक्षसदुष्टाश्च ये चान्ये विघ्नकारकाः  ॥ २२.४८ ॥

सर्वे ते विलयं यान्ति तमः सूर्योदये यथा  ।

पश्यन्तु मम सामर्थ्यं देवा विगतकल्मषाः  ॥ २२.४९ ॥

एवमुक्त्वा ततो राजन् कुशाग्रेण तु नार्मदः  ।

प्रवाहो दुष्टरक्षार्थं दक्षिणस्यां प्रकल्पितः  ॥ २२.५० ॥

विष्णुश्चैव स्मृतस्तत्र शङ्खचक्रगदाधरः  ।

उत्तरे देवयानस्य प्रवाहः परिकल्पितः  ॥ २२.५१ ॥

एवं कृत्वा तु घोरेण देवमन्त्रेण सुव्रतः  ।

जुहावाहवनीये तु कुण्डे बिल्वाम्रवेतसम्  ॥ २२.५२ ॥

तस्मात्समुत्थितं लिङ्गं ज्वलत्कालानलप्रभम्  ।

नान्तो नादिर्न मध्यं च तस्य लिङ्गस्य भारत  ॥ २२.५३ ॥

ततः सुरासुराः सर्वे चक्रुः स्तोत्रमिदं पुरः  ।

ओं नमो भुवनेशाय आदिदेव नमोऽस्तु ते  ॥ २२.५४ ॥

चराचरख्यापकाय सृष्टिसंहारकारिणे  ।

स्तोत्रं श्रुत्वा महादेवः शान्तरूपो जगत्पतिः  ॥ २२.५५ ॥

बभूव परमप्रीतश्चराचरगुरुस्तदा  ।

तद्दृष्ट्वा तादृशं कर्म रन्तिदेवस्य धीमतः  ॥ २२.५६ ॥

आगत्य दानवाधीशो रन्तिदेवमपूजयत् ।

आदेशो दीयतां मह्यं किं करोमीति चाब्रवीत् ॥ २२.५७ ॥

उवाच वचनं राजा प्रहसन्निव भारत  ।

आतिथ्यकाले सम्प्राप्ते यज्ञभागं वदामि ते  ॥ २२.५८ ॥

देवानां यज्ञभांगं च दानवानां च सर्वशः  ।

परिकल्प्य यथान्यायं मुदा परमया युतः  ॥ २२.५९ ॥

स्वं स्वं यानं समारुह्य दानवास्ते च सर्वशः  ।

लिङ्गं बिल्वाम्रकं नाम जुष्टं दैवैर्जगत्पतेः  ॥ २२.६० ॥

नमस्कृत्य महादेवं रन्तिदेवं प्रतुष्टुवुः  ।

ततः प्रमुदिता देवा रन्तिदेवमपूजयन्  ॥ २२.६१ ॥

उमया सह देवेशं गणकोटिसमन्वितम्  ।

ब्रह्मा विष्णुश्च देवाश्च वरं दत्त्वा दिवं ययुः  ॥ २२.६२ ॥

गतेषु तेषु देवेषु रन्तिदेवः पुरं ययौ  ।

कदाचिद्वृत्रहा तत्र ब्रह्महत्यासमावृतः  ॥ २२.६३ ॥

रेवाकुब्जासमायोगे सर्वं स्नानादिकं व्यधात् ।

तत्क्षणाद्दिव्यदेहस्तु सूर्यसंकाशतेजसः  ॥ २२.६४ ॥

शरीरात्तस्य निर्गत्य ब्रह्महत्याह वासवम्  ।

अस्य तीर्थस्य माहात्म्यादेकहत्या तवैव का  ॥ २२.६५ ॥

ब्रह्महत्यासहस्रं हि तमः सूर्योदये यथा  ।

तीर्थेऽस्मिन् विनशेद्यावद्योजनानि चतुर्दश  ॥ २२.६६ ॥

एतस्मिन्नन्तरे शक्रं प्रत्यक्षं प्राह कल्पगा  ।

शान्तिस्तेऽस्तु महाभाग यथेष्टं गच्छ साम्प्रतम्  ॥ २२.६७ ॥

इति तस्या वचः श्रुत्वा तां नमस्कृत्य कल्पगाम्  ।

दिव्ययानं समारुह्य मुदा परमया युतः  ॥ २२.६८ ॥

अप्सरोगणसंयुक्तं दिव्यगन्धर्वनादितम्  ।

तत्रारूढः सुरपतिर्यथा पूर्वं तथैव सः  ॥ २२.६९ ॥

धृतदिव्यातपत्रस्तु वीज्यमानोऽप्सरोगणैः  ।

स्तूयमानः सुरगणैः प्रविवेशामरावतीम्  ॥ २२.७० ॥

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  ।

मया च कथितं राजंस्तव ब्रह्मर्षिपूर्वकम्  ॥ २२.७१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे बिल्वाम्रकोत्पत्तिवर्णनो नाम द्वाविंशोऽध्यायः ॥

 

 

अध्याय २३

 

मार्कण्डेय उवाच –

हरिकेश इति ख्यातः शालग्रामे द्विजोत्तमः  ।

शिलोञ्छवृत्तिर्धर्मात्मा सत्यव्रतपरायणः  ॥ २३.१ ॥

ब्राह्मणी सुव्रता तस्य धर्मपत्नी यशस्विनी  ।

पतिव्रता महाभागा पतिशुश्रूषणे रता  ॥ २३.२ ॥

काले ऋतुमती सा तु ऋतुगामी च स द्विजः  ।

तस्य पुत्रशतं जज्ञे कपिलापुरमाश्रितम्  ॥ २३.३ ॥

शिलोञ्छवृत्तियोगेन प्रस्थमेकमुपार्जयत् ।

क्षुत्क्षामाः ते च शिशवो रुदन्ति करुणं ततः  ॥ २३.४ ॥

शिशून् बुभुक्षितान् दृष्ट्वा माता शोकार्तिविह्वला  ।

गर्हयन्ती सुदुःखार्ता ब्राह्मणी पतिमब्रवीत् ॥ २३.५ ॥

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः  ।

भरणीयाः प्रयत्नेन एष धर्मः सनातनः  ॥ २३.६ ॥

भरणं पोष्यवर्गस्य पुत्राणां च विशेषतः  ।

एतच्छ्रुत्वा तु वचनं ब्राह्मण्याः शोकविह्वलः  ॥ २३.७ ॥

हरिकेशोऽब्रवीद्वाक्यं ब्राह्मणीं प्रति भारत  ।

न मया संचितं धान्यं न वित्तं गृहमेधिना  ॥ २३.८ ॥

ग्रामे ग्रामे भिक्षयित्वा सविभागं पृथक्पृथक् ।

ददामि परमं धान्यं नान्यां वृत्तिं तु कारये  ॥ २३.९ ॥

 

ब्राह्मण्युवाच –

बालहत्यासमं पापं बाले वृद्धे क्षुधार्दिते  ।

तस्मात्प्रतिग्रहं कृत्वा भर्तव्या मम पुत्रकाः  ॥ २३.१० ॥

पुत्रेण लोकं जयति पुत्रेण सुखमेधते  ।

पुत्रेण स्वर्गमाप्नोति पितॄणां परमा गतिः  ॥ २३.११ ॥

अम्बरीषस्य नृपतेरयोध्याधिपतेः किल  ।

वर्तमाने महायज्ञे कुरुक्षेत्रे द्विजोत्तमाः  ॥ २३.१२ ॥

गताश्च ब्राह्मणास्तत्र प्रतिग्रहजिघृक्षया  ।

गाः कांचनं धनं प्राप्य शालग्रामनिवासिनः  ॥ २३.१३ ॥

नानाभरणशोभाढ्या आगताः समलंकृताः  ।

याहि यत्र द्विजाः सर्वे शालग्रामनिवासिनः  ॥ २३.१४ ॥

सुतार्थं हरिकेशोऽथ रक्षिते कुरुजाङ्गले  ।

अम्बरीषस्य नृपतेर्वर्तमाने महामखे  ॥ २३.१५ ॥

गृहीत्वा ब्राह्मणीं पुत्रान् कुरुक्षेत्रं जगाम ह  ।

प्रविष्टश्चाध्वरे तस्मिन् यत्र ते सन्ति ऋत्विजः  ॥ २३.१६ ॥

ब्रह्मघोषस्वरेणैव स दृष्ट्वा दिवि देवताः  ।

यमोऽङ्गिरामुनिर्विष्णुर्वशिष्ठो दक्ष एव च  ॥ २३.१७ ॥

बृहद्विष्णुः प्रसन्नात्मा शातातपपराशरौ  ।

आपस्तम्बोशनोव्यासाः कात्यायनबृहस्पती  ॥ २३.१८ ॥

हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गौतमः  ।

दुर्वासाः काश्यपो गर्गो भारद्वाजोऽत्रिरेव च  ॥ २३.१९ ॥

नारदः पर्वतश्चैव पुलस्त्यः पुलहः क्रतुः  ।

विभाण्डको भृगुश्चैव शाकटो बादरायणः  ॥ २३.२० ॥

बालखिल्या ब्रह्मपुत्रा ब्रह्मतेजो वपुर्धराः  ।

अष्टाशीतिसहस्राणि ब्रह्मदण्डं समारुहन्  ॥ २३.२१ ॥

अम्बरीषो महाराज दृष्ट्वा ब्राह्मणपुङ्गवम्  ।

ब्रह्मर्षींस्तान्नमस्कृत्य अर्घपाद्यैरपूजयत् ॥ २३.२२ ॥

किमर्थमागतो विप्रसभार्यः सहपुत्रकैः  ।

अनुग्रहमिमं मन्ये यन्मां वदसि सुव्रत  ॥ २३.२३ ॥

आतिथ्यकाले सम्प्राप्तो याचयस्व यथोचितम्  ।

 

ब्राह्मण उवाच –

वित्तं वर्षशतं यावदेकैकाय सुताय मे  ॥ २३.२४ ॥

त्वं देहि जीवनायाश होमधेनुं तथोत्तमाम्  ।

अयुतं तु गवां भूप हेमभारपरिष्कृतम्  ॥ २३.२५ ॥

कोटिमेकां हिरण्यस्य वस्त्रभूषणमुत्तमम्  ।

इति तस्य वचः श्रुत्वा द्विजस्य पृथिवीपतिः  ॥ २३.२६ ॥

श्रद्धया परया युक्तः सर्वं दत्त्वा यथोदितम्  ।

शालग्रामपदं यानैः शीघ्रं प्रावेशयत्ततः  ॥ २३.२७ ॥

क्रतुमिष्ट्वा स राजर्षिर्मुमुदे देववच्चिरम्  ।

नानाविधान् स भुक्त्वाऽथ भोगान् पत्नीसुतैः सह  ॥ २३.२८ ॥

कालान्तरे ततः प्राप्ते ऋषिर्मृत्युवशं गतः  ।

मरुदेशे निरुदके ब्रह्मरक्षस्त्वमागतः  ॥ २३.२९ ॥

राजप्रतिग्रहाद्दुष्टात्पुनर्जन्म न विद्यते  ।

ब्राह्मण्यं यः परित्यज्य द्रव्यलोभेन मोहितः  ॥ २३.३० ॥

विषयामिषलुब्धस्तु कुर्याद्राज प्रतिग्रहम्  ।

नरके रौरवे घोरे तस्येह पतनं ध्रुवम्  ॥ २३.३१ ॥

वृक्षादावाग्निना दग्धाः प्ररोहन्ति वनागमे  ।

राजप्रतिग्रहाद्दग्धा न प्ररोहन्ति कर्हिचित् ॥ २३.३२ ॥

शोचन्ति पूर्व जन्मानि अन्यजन्मकृतानि च  ।

भार्यापुत्रकृतेनैव गतोऽहं नरकार्णवम्  ॥ २३.३३ ॥

एवमुक्त्वा कुरुक्षेत्रं पुत्रदारादिभिः सह  ।

तत्र द्वादशवर्षाणि उषित्वा सुबुभुक्षितः  ॥ २३.३४ ॥

उच्छिष्टं कश्मलं भुङ्क्ते राक्षसीं योनिमाश्रितः  ।

वाराणसीं प्रयागं तु पुष्करं नैमिषं तथा  ॥ २३.३५ ॥

गङ्गासागरसं भेदं क्षेत्रं कनखलं तथा  ।

केदारं च महापुण्यं प्रभासं शशिभूषणम्  ॥ २३.३६ ॥

अटित्वा सर्वतीर्थानि पापयोनिरतो नृप  ।

चिन्तयामास देहं मे न निवृत्तं कथंचन  ॥ २३.३७ ॥

तस्मात्पापविशद्ध्यर्थं प्रविशामि हुताशनम्  ।

भार्या तस्य सपुत्रा वै भर्तारं सुव्रताऽब्रवीत् ॥ २३.३८ ॥

किंचिद्विज्ञापयामि त्वां यदि मां मन्यसे विभो  ।

क्षणमात्रेण दुःखेन साधयामि सुखं बहु  ॥ २३.३९ ॥

ब्राह्मणस्य हि धर्मोऽयं सर्वस्तद्वह्णिसाधनेन  ।

तत्समाहृत्य दारूणि प्रदीप्य च हुताशनम्  ॥ २३.४० ॥

अहं विशाम्यविधवा भर्तारं प्रथमं द्रुतम्  ।

न पश्यामि पतन्तं वै ज्वलने दारुणे भृशम्  ॥ २३.४१ ॥

उक्ता साऽकाशवाण्या च मा ते मृत्युभयं शुभे  ।

श्रूयतां मम वाक्यं हि यथा धर्मो न हीयते  ॥ २३.४२ ॥

कुब्जारेवासमायोगे ब्रह्मरक्षोविमोक्षणम्  ।

तत्र स्नात्वा दिवं याति बिल्वाम्रकमर्चनात् ॥ २३.४३ ॥

लभते ब्रह्मलोकं च रक्षोयोनेश्च मोक्षणम्  ।

 

ब्रह्मराक्षस उवाच –

काऽसि त्वं च वरारोहे कस्य चासि यशस्विनि  ॥ २३.४४ ॥

अनुग्रहार्थं भूतानां पूर्वजन्म कृतैः शुभैः  ।

 

आकाशवाण्युवाच –

धन्याऽहं सर्वभूतानामव्यक्ताव्यक्तरूपिणी  ॥ २३.४५ ॥

एवमुस्त्वा तु सा देवी तत्रैवान्तरधीयत  ।

पुत्रदारान्वितो नत्वा हरिकेशः सुरेश्वरम्  ॥ २३.४६ ॥

सम्प्राप्त सुमुदायुक्तः कुब्जारेवासमागमम्  ।

तत्र स्नात्वा यथान्यायमर्चयित्वा महेश्वरम्  ॥ २३.४७ ॥

हुताशनं प्रविविशुः स्मृत्वा देवं हारिं हरम्  ।

स्वीयं गृहमिवाक्लेशाः कामक्रोधविवर्जिताः  ॥ २३.४८ ॥

तत्क्षणाद्दिव्यदेहास्तु ब्रह्मतेजोवपुर्धराः  ।

दिव्ययानं समारुह्य ब्रह्मलोकमवाप्नुयुः  ॥ २३.४९ ॥

पुत्रदारसमायुक्तो हरिकेशो नृपोत्तम  ।

तस्य तीर्थस्य माहात्म्याद्दिवि दीव्यति देववत् ॥ २३.५० ॥

शतमष्टोत्तरं तत्र लिङ्गानां पुण्यसङ्गमे  ।

मार्कण्डेश्वरमित्येकं मधुरेश्वरमेव च  ॥ २३.५१ ॥

शूलपाणिं तथैवान्यमगस्त्येश्वरमेव च  ।

एतान्यन्यानि चैवेह सिद्धलिङ्गानि सन्ति वै  ॥ २३.५२ ॥

एतत्सर्वं यथा न्यायं कथितं तव सुव्रत  ।

कुब्जारेवासमायोगं सुरासुरनिषेवितम्  ॥ २३.५३ ॥

प्रातर्यः कीर्तयेद्भक्त्या नर्मदां सप्तकल्पगाम्  ।

सर्वपापविनिर्मुक्तः स शैवं लभते पुरम्  ॥ २३.५४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रयोविंशोऽध्यायः ॥

 

 

अध्याय २४

 

युधिष्ठिर उवाच –

समुत्पत्तिं च कुब्जाया यस्यां विमलमानसाः  ।

सर्वपापविनिर्मुक्ता गन्धर्वो रगराक्षसाः  ॥ २४.१ ॥

एतद्वै श्रोतुमिच्छामि विस्तरेण महामुने  ।

कथ्यतां मुनिशार्दूल समाख्यानं पुरातनम्  ॥ २४.२ ॥

 

मार्कण्डेय उवाच –

शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्  ।

चित्राङ्गदः शक्रसुतो गन्धर्वः काममोहितः  ॥ २४.३ ॥

समालम्ब्य कुमारीणां दशलक्षाणि भारत  ।

रेमे यथेच्छया सोऽपि पश्चान्मुक्तश्च किल्विषात् ॥ २४.४ ॥

आख्यानं कथयिष्यामि यथावृत्त पुरातनम्  ।

सुवर्णो नाम गन्धर्वस्तस्य भार्या यशस्विनी  ॥ २४.५ ॥

हेमगर्भेति विख्याता शक्रस्यैव यथा शची  ।

सुता तस्याः सुकामेति विदितानङ्गमोहिनी  ॥ २४.६ ॥

रूपयौवनसम्पन्ना ऊढा वै धनदेन सा  ।

गौर्याराधनयोगेन तस्याः पुत्रोऽप्यजायत  ॥ २४.७ ॥

केतुमाल इति ख्यातो राजा वैद्याधरे पुरे  ।

शशिरेखा प्रिया तस्य भार्व्या वै रूपशालिनी  ॥ २४.८ ॥

द्वे कन्ये जनयामास रतिः प्रीतिर्मनोरमे  ।

ददौ स कामदेवाय पाणिग्रहणपूर्वकम्  ॥ २४.९ ॥

कन्यानां दशलक्षाणि भूषणैर्भूषितानि च  ।

तास्तु यानसमारूढाः कामरूपा मनोरमाः  ॥ २४.१० ॥

विचित्रवस्त्राभरणा गौर्याराधन तत्परा  ।

तावन्न भुज्यते ताभिस्ताम्बूलं भोजनादिकम्  ॥ २४.११ ॥

यावन्न कार्यमस्माभिरिति सङ्कल्पमादधुः  ।

नित्यं तैर्यत्रिकं तास्तु चक्रुः सर्वा समाहिता  ॥ २४.१२ ॥

वसन्ते समनुप्राप्ते द्रष्टुं प्रेक्षणकं पुरा  ।

पुष्पकेण विमानेन जग्मुस्ता इन्द्रमन्दिरम्  ॥ २४.१३ ॥

क्रीडयित्वा यथा न्यायं मदिरामदविह्वलाः  ।

अदृष्ट्वैव भवानीं ताश्चक्रे ताम्बूलभक्षणम्  ॥ २४.१४ ॥

चित्राङ्गदस्य चापारं रूपं दृष्ट्वा वराङ्गनाः  ।

मोहिता नाऽभिजानन्ति मदिरोन्मत्तमानसाः  ॥ २४.१५ ॥

तैश्चापि कामिताः सर्वा गन्धर्व्यो मुदिताननाः  ।

नानाविधैस्तथा कार्यैश्चिक्रीडुर्मन्मथाद्दिवि  ॥ २४.१६ ॥

अतीते वत्सरे तास्तु गन्धर्वपुरमागताः  ।

गौरीं द्रष्टुं समाजग्मुरुमा माहेश्वरं पुरम्  ॥ २४.१७ ॥

नमस्कृत्य ततो देवीमिदं वचनमब्रुवन्  ।

रक्षस्वास्माकमीशानि च्युतानां नियमात्स्वकात् ॥ २४.१८ ॥

ततश्चुकोप देवी तान् पापकर्मरतान् प्रति  ।

व्रतादिकं हता ये ये परदाराविदूषकाः  ॥ २४.१९ ॥

अपत्रपा दुराचाराः सर्वलोकबहिष्कृताः  ।

तदधर्मस्य पापस्यानिष्कृतिर्धरणीतले  ॥ २४.२० ॥

कुमारीं कामयेद्यस्तु कामलोभेन मोहितः  ।

षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः  ॥ २४.२१ ॥

एतस्मिन्नन्तरे राजंस्ततश्चैत्राङ्गदः स्तुवन्  ।

प्रणम्य शिरसा देवीमिदं वचनमब्रवीत् ॥ २४.२२ ॥

शापस्य स भयाद्भूरि विललाप नराधिप  ।

अकार्यं कृतमस्माभिर्गन्धर्वतनयान्वितैः  ॥ २४.२३ ॥

प्रायश्चित्तं किमस्याद्य पापस्य गद निष्कृतिम्  ।

उवाच वचनं देवी गन्धर्वं काममोहितम्  ॥ २४.२४ ॥

धर्मक्रियाविलुप्तस्य स्वर्गलोकच्युतस्य च  ।

कुमारीदूषणे पापं महतां लोमहर्षणम्  ॥ २४.२५ ॥

कुमारीदूषणे पापे निष्कृतिर्न विधीयते  ।

मम गन्धर्वकन्याश्च मधुपानैर्विडम्बिताः  ॥ २४.२६ ॥

यूयं त्वनेन पापेन गन्धर्वाः काममोहिताः  ।

कुब्जावामनहीनाङ्गा भविष्यथ सहस्रशः  ॥ २४.२७ ॥

दिव्यवर्षसहस्रं तु मर्त्यलोके चरिष्यथ  ।

कन्याविकृतदोषेण कुब्जामर्कटकाननाः  ॥ २४.२८ ॥

स्वकर्मकृतदोषेण पापं भुञ्जन्तु भूतले  ।

एव शप्तास्तु ते देव्या सर्वे मर्त्य समागमन्  ॥ २४.२९ ॥

शोचन्तः स्वानि कर्माणि पूर्वजन्मकृतानि च  ।

बभ्रमुः सर्वतीर्थानि लोके चैव चराचरे  ॥ २४.३० ॥

विषण्णवदनास्सर्वे पापेनाऽनेन कार्षिताः  ।

शापस्याऽन्तं न विन्दन्ति सर्वतीर्थान् भ्रमन्त्यपि  ॥ २४.३१ ॥

एकविंशतिलक्षाणि गन्धर्वाणि तथाऽनघ  ।

न देवा न च तीर्थानि पापस्याऽस्य विशुद्धये  ॥ २४.३२ ॥

नान्यद्वा युज्यते कर्म मुक्त्वा चैव हुताशनम्  ।

कर्मणां दोषदाहेन मुञ्चामः पापकर्मणः  ॥ २४.३३ ॥

दत्तोऽस्माकं महाशापो पापमार्गनिवर्तकः  ।

एतस्मिन्नन्तरे प्राप्तः सकुबेरः पुराधिपः  ॥ २४.३४ ॥

सम्प्राप्तो नैमिषारण्ये यत्र चित्राङ्गदादयः  ।

तान् दृष्ट्वा सोऽब्रवीद्देवः क्षणमात्रं प्रतीक्षत  ॥ २४.३५ ॥

उमामाहेश्वरे यावद्वच्मि गत्वा यथोदितम्  ।

एवमुक्त्वा ययौ देवः कैलासं पर्वतोत्तमम्  ॥ २४.३६ ॥

साष्टाङ्गं च नमस्कृत्य उमया सहितं हरम्  ।

जय देवि सुरेशानि संसारार्णवतारिणि  ॥ २४.३७ ॥

त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्  ।

व्यापिनी शक्तिरूपेण सर्वेषां प्राणिनामपि  ॥ २४.३८ ॥

इत्येवमादिभिर्वाक्यैर्देवीं तुष्टाव वासवः  ।

स्तोत्रैः स्तुता महादेवी शक्रं वचनमब्रवीत् ॥ २४.३९ ॥

आर्तिः का ते समुत्पन्ना यथार्थं कथयस्व मे  ।

उवाच वचनं शक्रः पार्वतीं प्रति भारत  ॥ २४.४० ॥

वरदा यदि मे देवि वरं दातुं त्वमिच्छसि  ।

चित्राङ्गदादिपापस्य मोक्षणं क्रियतां शुभे  ॥ २४.४१ ॥

 

देव्युवाच –

शिवाज्ञा वर्तते लोके पापस्यास्य विशुद्धये  ।

तस्मात्पापविशुद्ध्यर्थं त्रिषु लोकेषु विश्रुतम्  ॥ २४.४२ ॥

देवदेवं महादेवं याचस्व परमेश्वरम्  ।

एवं देव्या वचः श्रुत्वा शक्रः प्रोवाच शङ्करम्  ॥ २४.४३ ॥

निष्कृतिस्त्वस्य पापस्य क्रियतां वचनात्मम  ।

 

शङ्कर उवाच –

यज्ञपाकाश्रमं गत्वा मेकलातीरमाश्रितम्  ॥ २४.४४ ॥

यज्ञपर्वतमासाद्य विन्ध्यस्यैव सुतोत्तमम्  ।

तत्र यज्ञेश्वरं देवं लिङ्गं परमसिद्धिदम्  ॥ २४.४५ ॥

बिल्वाम्रकं तथा चान्यत्कल्पगा तीरमाश्रितम्  ।

पुण्यस्थाने तु तत्रास्य शापस्यान्तो भविष्यति  ॥ २४.४६ ॥

एकविंशतिलक्षाणि तत्र मुक्तानि सङ्गमे  ।

गन्धर्वाणां महाराज कुब्जभावमुपेयुषाम्  ॥ २४.४७ ॥

महानदी नृपश्रेष्ठ कुब्जा तेन प्रकीर्तिता  ।

दिव्ययानसमारूढाः स्तूयमाना मरुद्गणैः  ॥ २४.४८ ॥

मुदा परमया युक्ता गान्धर्वं लोकमाप्नुयुः  ।

बिल्वाम्रकं पूजयित्वा गन्धर्वा गतकिल्बिषाः  ॥ २४.४९ ॥

यथा पूर्वं तथेदानी तीर्थस्याऽस्य प्रभावतः  ।

हर्षेण महता युक्तः शक्रोऽपि त्रिदिवालयम्  ॥ २४.५० ॥

जगाम त्रिदशैः सार्धं परिपूर्णमनोरथः  ।

षडस्य चोत्तरे भागे षडस्य दक्षिणे तथा  ॥ २४.५१ ॥

एवं ते कथितो राजन् रेवाकुब्जासमागमः  ।

अनेके यस्य माहात्म्यात्संसिद्धिं परमां गताः  ॥ २४.५२ ॥

श्रवणात्कीर्तनाद्वाऽपि मुच्यते भवबन्धनात् ॥ २४.५३ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये चित्राङ्गदशापमोचनो नाम चतुर्विंशोऽध्यायः ॥

 

 

अध्याय २५

 

मार्कण्डेय उवाच –

अथान्यत्कथयिष्यामि तीर्थानां तीर्थमुत्तमम्  ।

सर्वपापहरं दिव्यं स्वर्गसोपानसन्निभम्  ॥ २५.१ ॥

सपादकोटितीर्थानि पुरे माहेश्वरे नृप  ।

रौद्रं वारुणमासाद्य क्रोशमात्रप्रमाणतः  ॥ २५.२ ॥

अत्रान्तरे महाराज शिवक्षेत्रमुदाहृतम्  ।

प्राणत्यागं च यः कुर्याच्छिवलोके च मोदते  ॥ २५.३ ॥

तिर्यग्योनिगताः पापाः कीटपक्षिमृगादयः  ।

तेऽपि यान्ति शिवस्थानं यत्र देवो महेश्वरः  ॥ २५.४ ॥

तिलोदकप्रदानेन मातृकाः पितृकास्तथा  ।

पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम्  ॥ २५.५ ॥

तत्रेष्टा ब्रह्मणा पूर्वमसंख्येयां मखोत्तमाः  ।

शक्रश्च देवराज्रत्वं तत्रेष्ट्वा समवाप्तवान्  ॥ २५.६ ॥

कार्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा  ।

अयोध्यायां पुरा राजन् यज्ञदानपरायणः  ॥ २५.७ ॥

आदित्यस्य सुतश्चासीत्सूर्यवंशे महीपतिः  ।

जित्वाऽसुरांस्तथा दैत्यान् रक्षोगणसमन्वितान्  ॥ २५.८ ॥

मनुर्नाम्ना चक्रवर्ती शक्रादीशाद्गुणोत्तमः  ।

पुरोत्तमे न सर्पन्ति मृत्युरोगजरास्तथा  ॥ २५.९ ॥

शतार्द्धसाप्तभौमैश्च गृहैर्हेममयैः शुभैः  ।

वापीकूपतडागानां दीर्घिकानां शतैर्युता  ॥ २५.१० ॥

सुशोभिता प्रेक्षणीयैर्नानारूपैर्विलासिभिः  ।

वेणुवीणाध्वनियुता नानावाद्यैः सहस्रशः  ॥ २५.११ ॥

अलकेव कुबेरस्य शक्रस्येवामरावती  ।

पुरी विराजते तद्वदयोध्या देवनिर्मिता  ॥ २५.१२ ॥

लक्षाणि द्वे च सार्धाणि प्रजा जीवन्ति तत्र च  ।

तत्रैव वंशे राजर्षीरभूत्परमधार्मिकः  ॥ २५.१३ ॥

नानामखसहस्रैर्यो ददाह पृथिवीमिमाम्  ।

न तद्देशो न तत्तीर्थं न तद्राष्टं न चाश्रमः  ॥ २५.१४ ॥

नेष्टं यत्र महायज्ञैः सालङ्कायनभूभृता  ।

सस्यमालाधृता पृथ्वी धनधान्यसमन्विता  ॥ २५.१५ ॥

स्वयं कामदुघा गावः पट्टवस्त्रमहीरुहाः  ।

यज्ञैः सर्वैर्विवाहैश्च वेदैर्माङ्गल्यमङ्गलैः  ॥ २५.१६ ॥

एवं तु सततं धात्री कालेन महता ततः  ।

अनावृष्टिरभूद्राष्ट्रे पुरा द्वादशवार्षिकी  ॥ २५.१७ ॥

मृता जानपदाः सर्वे द्विपदाश्च चतुष्पदाः  ।

तृणगुल्मलतावल्यो भूतग्रामं चतुर्विधम्  ॥ २५.१८ ॥

हाहाकारोमहानासीद्देवासुरनृणां तथा  ।

सालङ्कायनराजर्षिः चिन्तयामास भारत  ॥ २५.१९ ॥

जन्मप्रभृति मे पापं किंचिदेव न विद्यते  ।

पूजयामि हरिं देवं संसारार्णवतारणम्  ॥ २५.२० ॥

ब्राह्मणांश्च मुनींश्चैव तर्पयामास चेच्छया  ।

बृहस्पतिसमं बुद्ध्या वशिष्ठं ब्रह्मवादिनम्  ॥ २५.२१ ॥

पप्रच्छ नृपतिर्भक्त्या साष्टाङ्गं प्रणिपत्य च  ।

अनावृष्टिरभूद्विप्र कथं द्वादशवार्षिकी  ॥ २५.२२ ॥

नाऽपराधो मया कश्चित्कृतो ब्राह्मणदेवयोः  ।

संशयो मे महास्तत्र वेदानुग्रहतत्पर  ॥ २५.२३ ॥

 

वशिष्ठ उवाच –

शृणु राजन्महाबाहो अनावृष्टेश्च कारणम्  ।

पुरा सांवत्सरे यज्ञे वृद्धाश्च मुनयोऽवदन्  ॥ २५.२४ ॥

तेषां च वचनं श्रुत्वा कर्तव्यं जनसंसदि  ।

तावदेव मुनिश्चात्रिः पुलस्त्यः पुलहः क्रतुः  ॥ २५.२५ ॥

भृगुरग्निर्मरीचिश्च कश्यपोऽथ विभाण्डकः  ।

जमदग्निश्च माण्डव्यो यमो विष्णुस्तथाङ्गिराः  ॥ २५.२६ ॥

बृहस्पतिस्तथा दक्षः शातातपपराशरौ  ।

उशना गौतमश्चैव व्यासः कात्यायनस्तथा  ॥ २५.२७ ॥

विश्वामित्रोऽथ शाण्डिल्यः कक्षः कात्यायनिस्तथा  ।

हारीतः शङ्खलिखितौ याज्ञवल्क्योऽथ गालवः  ॥ २५.२८ ॥

आत्रेयः शौनको गर्गो जह्नुरुद्दालकस्तथा  ।

कौशिको भार्गवोऽगस्त्यो दुर्वासाश्च्यवनस्तथा  ॥ २५.२९ ॥

एते चान्येऽपि बहवो ऋषयः सूर्यवर्चसः  ॥ २५.३० ॥

धर्माणामुपदेष्टारो वेदशास्त्रानुयायिनः  ।

अनावृष्टिं तु वै ज्ञात्वा प्रत्ययोध्यां प्रतस्थिरे  ॥ २५.३१ ॥

आगतान् स मुनीन् दृष्ट्वा राजा परमधार्मिकः  ।

उदतिष्ठन्महाभाग दिवि शक्र इवऽपरः  ॥ २५.३२ ॥

तानभ्यर्च्य यथा न्यायमर्घपाद्यादिभिः स्वयम्  ।

उपविष्टान् यथा न्यायमासने शुभदर्शने  ॥ २५.३३ ॥

स कारणमनावृष्टेः तान् पप्रच्छ महात्मनः  ।

अब्रुवन्मुनयो वाक्यं सालङ्कायनभूपतिम्  ॥ २५.३४ ॥

भविष्यभूततत्त्वज्ञं सप्तकल्पान्तवासिनम्  ।

मार्कण्डेयं महात्मानं सर्वेषां गुरुमर्चय  ॥ २५.३५ ॥

तस्याश्रमपदं गत्वा ब्राह्मणैः सह चिन्तय  ।

यं यं धर्मं स वदति तं तं कर्तुमिहार्हसि  ॥ २५.३६ ॥

एवमुक्तो द्विजैः सर्वैः सालङ्कायनभूपतिः  ।

उवाच वचनं सर्वान्मुनीन्द्रां छंसितव्रतान्  ॥ २५.३७ ॥

अनुग्रहमिमं मन्ये प्रसादं मुनिसत्तमाः  ।

आदिदेश ततो राजा भ्रातरौ द्वारपालकौ  ॥ २५.३८ ॥

सुधन्ववीरधन्वानौ प्रतीहारौ महाबलौ  ।

रथे हयानि युज्यन्तां ब्राह्मणारोहणं प्रति  ॥ २५.३९ ॥

ब्रह्मशर्मा देवशर्मा मन्त्रिणौ तत्त्वदर्शिनौ  ।

पप्रच्छ गमनार्थाय कर्तव्यं च यथाऽदिशत् ॥ २५.४० ॥

 

मन्त्रिणावूचतुः॒

समयज्ञो महाबाहो त्वमेव विहितं कुरु  ।

राजा तद्वचनं श्रुत्वा धर्मशास्त्रविशारदः  ॥ २५.४१ ॥

उवाच श्लक्ष्णाया वाचा हर्षगद्गदमानसः  ।

गन्तव्यं ब्राह्मणैः सार्द्धं यत्र कल्पान्तगो मुनिः  ॥ २५.४२ ॥

एवमुक्त्वा ययौ राजा ब्राह्मणैः सह भारत  ।

दिव्ययानसमारूढः सम्प्राप्तः कल्पगातटम्  ॥ २५.४३ ॥

धर्मारण्यं समासाद्य मार्कण्डं मुनिभिः सह  ।

स समीपे समासीनं प्रणम्य प्रणतिक्षमम्  ॥ २५.४४ ॥

आपृष्टः कुशलं तेन तदा वै ब्रह्मवादिना  ।

उवाच वचनं राजा मार्कण्डं ज्ञानचक्षुषम्  ॥ २५.४५ ॥

अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् ।

किंतु मां बाधते नित्यं भविष्यं चैव तत्त्ववित् ॥ २५.४६ ॥

 

मार्कण्डेय उवाच –

अपमार्गेण प्रजानां देव ब्राह्मणहिंसया  ।

वर्णाश्रमविलोपेन अधर्मो धर्मबाधकः  ॥ २५.४७ ॥

शम्भुर्न पूज्यते यत्र रुद्रभागो न दीयते  ।

देशे तस्मिननावृष्टिर्दुर्भिक्षं मरणं ध्रुवम्  ॥ २५.४८ ॥

विनश्यन्ति प्रजा राष्ट्रे अल्पायुर्नृपतिर्भवेत् ।

अब्रह्मण्या ब्राह्मणाश्च शूद्रा वै ब्रह्मवादिनः  ॥ २५.४९ ॥

शिवजपं यज्ञसूत्रं शूद्रो धारयते यदा  ।

अलिङ्गिनो लिङ्गिनश्च अव्रता व्रतधारिणः  ॥ २५.५० ॥

स्वपापं कृतवन्तश्च तान् स्वराष्ट्रे प्रवासिनः  ।

सव्याङ्गे ब्रह्मसूत्रं च वह्णिसूत्रं च कारयेत् ॥ २५.५१ ॥

गर्दभारोहणं तस्य कारयेल्लोकगार्हितम्  ।

एतत्ते कथितं राजन्ननावृष्टेश्च कारणम्  ॥ २५.५२ ॥

अनावृष्ट्या सस्यहानिस्तत्क्षयान्म्रियते प्रजा  ।

प्रजाक्षयाद्वेदहानिस्तद्धानौ यज्ञसंक्षयः  ॥ २५.५३ ॥

तत्क्षयाद्धर्महानिश्च तद्धानौ वर्णसङ्करः  ।

तत्सङ्करात्कर्मलोपः पतनं नरके ध्रुवम्  ॥ २५.५४ ॥

गङ्गासागरसम्भेदे चाण्डालाः सप्तसाम्प्रतम्  ।

कणधूमं पिबन्त्याशु ऊर्ध्वपादा ह्यधः शिराः  ॥ २५.५५ ॥

चकम्पिरे सुराः सर्वे सिद्धगन्धर्वकिन्नराः  ।

देवराजः सुरैः सार्धमासनाच्चलितो नृप  ॥ २५.५६ ॥

तपसस्तु प्रभावोऽयमपि दृष्टो नराधिप  ।

नैमिषे च महारण्ये सुरासुरनमस्कृते  ॥ २५.५७ ॥

शतमष्टोत्तरं सर्वे तापसाः शूद्रजन्मनः  ।

ब्रह्मकर्म समासाद्य स्थिता धर्मपरायणाः  ॥ २५.५८ ॥

अधर्मचारिणां पुंसां राजा पापेन लिप्यते  ।

अयज्ञयाजकस्थाने अनावृष्टिर्भवेत्सदा  ॥ २५.५९ ॥

अपूजनात्तथा नित्यं देवेदेवस्य शूलिनः  ।

न स्वर्गो नापवर्गश्च न भोगाश्चापि पुष्कलाः  ॥ २५.६० ॥

ब्रह्मविष्णुसुरेन्द्राद्या अर्चयन्ति महेश्वरम्  ।

किं पुनर्मानुषाः पापा राजानः पापजीविनः  ॥ २५.६१ ॥

नार्चयन्ति महेशं ये ते नराः पापभागिनः  ।

न च स्वर्गस्य मोक्षस्य फलं भोगमवाप्नुयुः  ॥ २५.६२ ॥

तस्मान्नृप त्वं श्रेयांसि ब्राह्मणैः सह चिन्तय  ।

नर्मदातीरमासाद्य रुद्रयज्ञं समारभ  ॥ २५.६३ ॥

तेषां शिरांसि होमेऽस्मिन् पातय त्वं यथाविधि  ।

समर्चय सुरेशानं ततः शान्तिर्भविष्यति  ॥ २५.६४ ॥

कामवर्षी च पर्जन्यः पुनः सृष्टिः प्रवर्तते  ।

मुच्यतां पापदोषेण राज्यं स्वर्गमवाप्स्यसि  ॥ २५.६५ ॥

तवैतत्कथितं राजन् यथादृष्टं मयाऽनघ  ।

तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः  ॥ २५.६६ ॥

नमस्कृत्य मुनिश्रेष्ठमृषिभिः सह भारत  ।

अनुग्रहमिमं मन्ये त्वत्प्रसादाद्यथोदितम्  ॥ २५.६७ ॥

आदिदेश प्रतीहारान् यज्ञसम्भारसिद्धये  ।

गत्वाऽयोध्यां पुरीं रम्यामादेशं मखसम्भवम्  ॥ २५.६८ ॥

यज्ञोपस्करमादाय सर्वैरागम्य तामिति  ।

राज्ञीनां च कुमाराणां सहस्रं साष्टकं तथा  ॥ २५.६९ ॥

सर्वांश्चैव महीपालान्नानादेशसमुद्भवान्  ।

सप्तरात्राभ्यन्तरतो यथा यज्ञः प्रवर्तते  ॥ २५.७० ॥

नमस्कृत्य गतौ तौ तु प्रतीहारौ पुरं प्रति  ।

कथयामासतुस्तत्र यथोद्दिष्टं नृपेण तु  ॥ २५.७१ ॥

अष्टोत्तरसहस्रं तु राज्ञीनां दिव्यवाससाम्  ।

कुमारा ये च राजानो ये चान्ये गृहकर्मिणः  ॥ २५.७२ ॥

असूताक्षतयोनीनां लक्षमेकं तु योषिताम्  ।

रम्भोर्वशीसमानानां रूपेणाप्रतिमत्विषाम्  ॥ २५.७३ ॥

महोरस्कन्धगात्राणां वाहानामयुतानि षट् ।

सुवर्णारत्नपूर्णानां मुद्राणामयुतं तथा  ॥ २५.७४ ॥

सवसानां च धेनूनां त्रिंशल्लक्षाणि यन्त्रितः  ।

पाण्डुराणां हयानां तु अयुतानि दशैव तु  ॥ २५.७५ ॥

घण्टाभरणशोभानां दन्तिनामयुतं तथा  ।

यज्ञोपस्करमादाय सर्वसम्भारसम्भृतम्  ॥ २५.७६ ॥

प्रस्थितौ नर्मदां राज्ञे सन्निवेशयतां पुरः  ।

प्रणम्य चाब्रवीद्राजा सप्तकल्पान्तवासिनम्  ॥ २५.७७ ॥

आदेशो दीयतां मह्यं मखं यत्र प्रवर्तते  ।

 

मार्कण्डेय उवाच –

वैदूर्यस्य च वारुण्यां यज्ञयूपांश्च मण्डपान्  ॥ २५.७८ ॥

अन्यांश्च यज्ञसम्भारान् सर्वांस्तत्रैव कारय  ।

वशिष्ठं वामदेवं च भृगुमङ्गिरसं तथा  ॥ २५.७९ ॥

पुलस्त्यं पुलहं चैव भारद्वाजं च कश्यपम्  ।

याज्ञवल्क्यं मुनिं चैव मुनिं दुर्वाससं तथा  ॥ २५.८० ॥

विभाण्डकं पर्वतं च विश्वामित्रं च नारदम्  ।

शौनकं चैव गर्गं च संवर्तं च पराशरम्  ॥ २५.८१ ॥

आपस्तम्बोशनो व्यासान् सकात्यायनगौतमम्  ।

हारीतं शङ्खलिखितौ ऋष्यशृङ्गं च सोमपम्  ॥ २५.८२ ॥

अष्टाशीतिसहस्राणि वालखिल्यान्मुनींस्तथा  ।

सर्वदेवनमस्कार्यो यज्ञपर्वतसंज्ञितः  ॥ २५.८३ ॥

हिरण्मया महास्तम्भा यादृशैरुपशोभिताः  ।

बहुधा यत्र शोभन्ते तथोक्ते यज्ञमण्डपे  ॥ २५.८४ ॥

कुण्डस्थलीः स्रुवास्सर्वाः कृत्वा हेममया नृपः  ।

नानाविधैर्भक्ष्यभोज्यै रसैश्च विविधैस्तथा  ॥ २५.८५ ॥

सरितः सागरां शैलांस्तीर्थराजं च सर्वशः  ।

लोकपालान्महाबाहुरसुरान् दैत्यदानवान्  ॥ २५.८६ ॥

चन्द्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्  ।

ब्रह्माद्यांश्च सुरांस्तत्र मरुतो देवतास्तथा  ॥ २५.८७ ॥

विष्णुं चैव सुरेशानं यज्ञे तत्पुरुषं स्वयम्  ।

आवाहयन्महादेवं गणकोटिसमन्वितम्  ॥ २५.८८ ॥

आवाहितस्ततश्चाग्निर्ब्राह्मणैर्वेदपारगैः  ।

निर्धूमः प्रज्वलंश्चैव सूर्यकोटिसमप्रभः  ॥ २५.८९ ॥

वेदध्वनितनिर्घोषैर्दिवं भूमिं च नादयन्  ।

कणधूमकृताहारांश्चाण्डालान् सप्तवानय  ॥ २५.९० ॥

तानानय तथा शूद्रान्नैमिषारण्यवासिनः  ।

 

वशिष्ठ उवाच –

अनुग्रहमिमं मन्ये यन्मां वदसि पार्थिव  ॥ २५.९१ ॥

कुशाग्रेण ततो राजा तेषां मूर्ध्नो न्यपातयत् ।

तं दृष्ट्वा मानुषं होमं सामिषं प्रेतरूपिणम्  ॥ २५.९२ ॥

प्रणष्टतोया रेवा तु विहाय त्रिदिवं गता  ।

होमावसाने सम्प्राप्ते स्नानार्थं नर्मदां ययुः  ॥ २५.९३ ॥

शुष्कतोयां ततोऽपश्यन्नर्मदां शंसितव्रताः  ।

विस्मयं परमं प्राप्तः प्राह दुर्वाससं नृपः  ॥ २५.९४ ॥

चुकोप राजा विप्रेषु पापकर्मा दुरासदः  ।

पर्जन्यार्थं वृष्टिकामैः कृतो यज्ञो निरर्थकः  ॥ २५.९५ ॥

पयः पुरातनं नष्टं न जातं वर्षणं क्वचित् ।

राज्ञस्तु वचनं श्रुत्वा दुर्वासाश्चाऽब्रवीत्नृपम्  ॥ २५.९६ ॥

मुनींश्च सर्वांस्तत्रस्थान् धर्मतत्त्वविशारदान्  ।

उदकं सर्वलोकानामीप्सितं च न संशयः  ॥ २५.९७ ॥

ब्राह्मणानां तपो होमो वेदमन्त्रा वशे स्थिताः  ।

दक्षिणा यज्ञरक्षा च यजमानवशे नृप  ॥ २५.९८ ॥

यज्ञोपस्करणं किंचिद्यच्चान्यद्वेदसम्मितम्  ।

तत्सर्वं यजमानेन वेदमूलं द्विजोत्तमाः  ॥ २५.९९ ॥

वितोया नर्मदा जाता पर्जन्यो नैव वर्षति  ।

तत्सर्वं कृतमेवं तु श्रुतिरेषा सनातनी  ॥ २५.१०० ॥

या ययौ तां प्रतीक्षस्व नर्मदामापगोत्तमाम्  ।

तस्य तद्वचनं श्रुत्वा क्षमस्वेत्यब्रवीत्नृपः  ॥ २५.१०१ ॥

वशिष्ठो वामदेवश्च वदत्येवं युधिष्ठिर  ।

काशीपुर्यां प्रयागे वा गङ्गायमुनसङ्गमे  ॥ २५.१०२ ॥

तत्रैव वर्तते यज्ञः सत्यमेव तपोधनाः  ।

केचिदाहुः कुरुक्षेत्रं स्थाने यत्र सरस्वती  ॥ २५.१०३ ॥

समुद्दिष्टानि तीर्थानि मुनिभिस्तु पृथक्पृथक् ।

अब्रवीत्सहसा राजन् दुर्वासा रौद्रतापसः  ॥ २५.१०४ ॥

नारदोऽपि मुनिश्रेष्ठः तापसो गतकिल्बिषः  ।

सरस्वत्यां महाराज तत्र तोयं न विद्यते  ॥ २५.१०५ ॥

तेषां तद्वचनं श्रुत्वा सालङ्कायनभूपतिः  ।

अब्रवीच्च ततो वाक्यं सर्वानृषिगणान् प्रति  ॥ २५.१०६ ॥

क्षणमेकं प्रतीक्षध्वं यावद्वहति कल्पगा  ।

इत्युक्त्वा स नृपश्रेष्ठः ततस्तुष्टाव कल्पगाम्  ॥ २५.१०७ ॥

नमस्तेऽस्तु सुरेशानि नमस्ते शङ्करात्मजे  ।

इडा च पिङ्गला चैव उमा गङ्गा सरस्वती  ॥ २५.१०८ ॥

गायत्री वेदमाता च सावित्री च सरस्वती  ।

ब्राह्मी च वैष्णवी गौरी लोकमाता यशस्विनी  ॥ २५.१०९ ॥

समुद्दिष्टानि तीर्थानि पृथिव्यां यानि कानि च  ।

त्वयाऽवृतानि सर्वाणि जगच्च सचराचरम्  ॥ २५.११० ॥

न तत्पश्यामि त्वद्वाराऽवृतं यन्न प्रदृश्यते  ।

त्वत्तोयस्नानमात्रेण तृप्ता यान्ति परां गतिम्  ॥ २५.१११ ॥

श्रुत्वा स्तोत्रमिदं देवी राज्ञश्चामिततेजसः  ।

मकरासनमारूढा प्रत्यक्षा सप्तकल्पगा  ॥ २५.११२ ॥

प्राह ब्रूहि वरं राजन् यत्ते मनसि वर्तते  ।

 

राजोवाच –

पूर्वान् सप्त परान् सप्त प्रवाहानक्षयान् कुरु  ॥ २५.११३ ॥

वरमेतमहं मन्ये सप्तकल्पान्तवासिनि  ।

 

नर्मदोवाच –

दत्तो वरो मया ह्येष सत्यं तव नराधिप  ॥ २५.११४ ॥

एवमुक्त्वा सरिच्छ्रेष्ठा जलौघेन परिप्लुता  ।

प्रवाहैर्विस्तृतैस्तत्र वहन्ती सा व्यवस्थिता  ॥ २५.११५ ॥

तं दृष्ट्वा तादृशं कर्म सालङ्कायनभूपतेः  ।

तुष्टुवुर्मुनयः सर्वे सत्यधर्मपरायणाः  ॥ २५.११६ ॥

स्नानावगाहनं पानं चक्रुस्ते पितृतर्पणम्  ।

ततो निर्वतितो यज्ञो विप्रैः सर्वस्वदक्षिणैः  ॥ २५.११७ ॥

यो यत्कामयते कामं तत्तस्मै प्रतिपादितम्  ।

वस्त्रालङ्कारदानैश्च दिव्ययानैः सुशोभनैः  ॥ २५.११८ ॥

ऋत्विजः पूजिताः सर्वे सालङ्कायनभूभृता  ।

युगपत्पूजिताः सर्वे ब्रह्मविष्णुमहेश्वराः  ॥ २५.११९ ॥

ततः शिवालयं गत्वा लिङ्गं त्रिदशपूजितम्  ।

नाम्ना माहेश्वराख्यातं सर्वकामफलप्रदम्  ॥ २५.१२० ॥

उमया सहितं शम्भुं भुक्तिमुक्तिप्रदायकम्  ।

ओं महेश्वराय देवाय शम्भवाय नमो नमः  ॥ २५.१२१ ॥

इत्यादिना तु मन्त्रेण समभ्यर्च्य विधानतः  ।

कृताञ्जलिपुटो भूत्वा स्थितस्तत्रैव पार्थिवः  ॥ २५.१२२ ॥

ततो विनिर्गता देवी पदमूलेन शूलिनः  ।

प्रवाहो नर्मदा भेदे नार्मदः सुरपूजितः  ॥ २५.१२३ ॥

ईश्वराद्यास्तथा देवाः सर्वे तुष्टास्तु भारत  ।

वरं याचस्व भूपाल यथेष्टं मनसेप्सितम्  ॥ २५.१२४ ॥

उवाच वचनं देवान् राजा परमधार्मिकः  ।

यदि मे वरदा यूयं कामदाश्च प्रसादतः  ॥ २५.१२५ ॥

इदं स्थानं तु न त्याज्यमीश्वराद्यैः सुरैरपि  ।

यान्तु राष्ट्रे प्रजावृद्धिमनावृष्ट्या प्रपीडिताः  ॥ २५.१२६ ॥

इदं वरमहं मन्ये पापा यान्तु त्रिविष्टपम्  ।

अग्निश्चाहवनीयोऽत्र स्वयं तिष्ठति सर्वदा  ॥ २५.१२७ ॥

 

देवा ऊचुः॒

यत्त्वया भाषितं राजंस्तत्सर्वं तु भवेदिति  ।

एवमुक्त्वा ययुः सर्वे ह्यन्तर्धानं च खेचराः  ॥ २५.१२८ ॥

पुनः प्रवर्धितं राष्ट्रं कामवर्षी च वासवः  ।

यज्ञं निवर्तयित्वा तु दिव्यामात्यैः समावृतः  ॥ २५.१२९ ॥

महीपालसहस्रैस्तु सान्तःपुरपरिच्छदः  ।

विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम्  ॥ २५.१३० ॥

एतत्ते कथितं राजन्नुमामाहेश्वरं प्रति  ।

तिर्यग्योनिगताः पापा मृगपक्षिसरीसृपाः  ॥ २५.१३१ ॥

अवशः स्ववशो वाऽपि शिवलोकमवाप्नुयात् ॥ २५.१३२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चविंशोऽध्यायः ॥

 

 

अध्याय २६

 

मार्कण्डेय उवाच –

अथान्यत्कथयिष्यामि मण्डपेश्वरमुत्तमम्  ।

स्नातमात्रो नरस्तत्र न विशेद्योनिसङ्कटम्  ॥ २६.१ ॥

दशलक्षाणि तीर्थानि तस्मिंस्तिष्ठन्ति भारत  ।

मण्डपेश्वरतीर्थस्य कूर्मवृद्धिवदर्चनम्  ॥ २६.२ ॥

सुरासुरगणैरिष्टं तस्मिंस्तीर्थे नराधिप  ।

अनेकभाविकं पापं तत्क्षणादेव नश्यति  ॥ २६.३ ॥

तिलोदकप्रदानेन पिण्डपातेन भारत  ।

तृप्यन्ति पितरः सर्वे यावत्तिष्ठति कल्पगा  ॥ २६.४ ॥

तत्र यस्त्यजति प्राणानवशस्ववशोऽपि वा  ।

दशवर्षसहस्राणि राजा वैद्याधरे पुरे  ॥ २६.५ ॥

मानसौ ब्रह्मणः पुत्रौ बादरायण शाकटौ  ।

अगस्त्यस्याश्रमं पुण्यं महर्षिगणसेवितम्  ॥ २६.६ ॥

कन्दमूलफलैः शाकैः शिवभक्तिपरायणैः  ।

एकदाऽवसरे प्राप्ते अजापालो नृपात्मजः  ॥ २६.७ ॥

अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः  ।

अष्टोत्तरं शतं व्याघ्रानजाः कृत्वा ररक्ष च  ॥ २६.८ ॥

सपादलक्षं जीवन्ति प्रजास्तस्मिन्महीपतौ  ।

धनाढ्या धनदस्येव प्रशशास पुरीं तथा  ॥ २६.९ ॥

स कदाचित्महाभागः ससैन्यो मृगयां गतः  ।

महीपालसहस्रेण मुदा परमया युतः  ॥ २६.१० ॥

सोऽपश्यत्पर्वतस्याग्रे मेरुतुल्ये महीपतिः  ।

पुष्पारामसहस्राणि हर्म्याणि विविधानि च  ॥ २६.११ ॥

तत्रैव शतसाहस्रं यतीनामूर्ध्वरेतसाम्  ।

भक्त्याऽभ्यर्च्य विधानेन देवेशं च मुनींस्तथा  ॥ २६.१२ ॥

प्रणम्योवाच मधुरं बादरायणशाकटौ  ।

पितॄणां तारणार्थाय श्राद्धकालत्वसिद्धये  ॥ २६.१३ ॥

महानयं भवद्भिश्च प्रसाद क्रियतां मयि  ।

अभ्यर्च्य तान्मुनीन् सर्वान् प्रणिपत्य स्थितस्ततः  ॥ २६.१४ ॥

तस्य तद्वचनं श्रुत्वा अजापालस्य भूभृतः  ।

ऋषीणां तापसौ वृद्धौ बादरायणशाकटौ  ॥ २६.१५ ॥

ऊचतुस्तौ तु वचनमजापालं नराधिपम्  ।

न राजग्राहकाः सर्वे मुनयः शंसितव्रताः  ॥ २६.१६ ॥

राजप्रतिग्रहो घोरो रौद्रः पापो भयावहः  ।

नरके यातनां घोरां कः सोढुं शक्तिमान् भवेत् ॥ २६.१७ ॥

स्वस्ति तेऽस्तु नृपश्रेष्ठ पन्थानः सन्तु ते शिवाः  ।

एवमुक्त्वा तु चक्रुस्ते मुनयो वाक्यसंयमम्  ॥ २६.१८ ॥

ब्रह्मशापभयाद्भीतो नृपस्तूष्णीं बभूव ह  ।

गजानां दशसाहस्रं घण्टाभरणभूषितम्  ॥ २६.१९ ॥

प्रादाद्विप्राय संकल्प्य मठं हेममयं शुभम्  ।

कालञ्जरगिरिं राजा त्रिश्चकार प्रदक्षिणाम्  ॥ २६.२० ॥

नमस्कृत्वा महेशानं भक्तियुक्तः सुहृद्वृतः  ।

जगाम स्वपुरं राजा यथा शक्रोऽमरावतीम्  ॥ २६.२१ ॥

गते तस्मिन्महीपाले ऋषयः काममोहिताः  ।

केचिद्गजसमारूढा नानारत्नसमन्विताः  ॥ २६.२२ ॥

केचिदश्वसमारूढा वीज्यमानाश्च चामरैः  ।

लभन्ते विविधान् भोगांस्ते ब्रह्मर्षितपोधनाः  ॥ २६.२३ ॥

देवस्वभक्षकाः सर्वे स्त्रीलोभवशवर्तिनः  ।

सुखं च परमं प्राप्ता देवद्रव्येन राजसाः  ॥ २६.२४ ॥

कालान्तरे ततः प्राप्ते सर्वे मृत्युवशं गताः  ।

वर्जयित्वा तु विप्रौ द्वौ बादरायणशाकटौ  ॥ २६.२५ ॥

श्वयोनिं समनुप्राप्ताः सर्वे ते मुनिपुङ्गवाः  ।

अमेध्यभक्षकाः पापा देवनिर्माल्यभक्षणात् ॥ २६.२६ ॥

तेषां सम्पर्कभावेन श्ववक्त्रौ द्वावुपस्थितौ  ।

शोचन्तः स्वानि कर्माणि व्याहरन्तः स्वकां गिरम्  ॥ २६.२७ ॥

पप्रच्छतुः श्वयोनींस्तौ बादरायणशाकटौ  ।

कर्मणा केन यूयं वै श्वयोनिं समुपागताः  ॥ २६.२८ ॥

 

ऋषय ऊचुः॒

देवद्रव्ये गुरुद्रव्ये द्रव्ये चण्डीश्वरस्य च  ।

त्रिविधं पातकं दृष्टं दानभक्षणलङ्घनात् ॥ २६.२९ ॥

तस्मात्सम्पर्कदोषेण सारमेयत्वमागताः  ।

बभ्रमुः सर्वतीर्थानि दिव्यं वर्षशतं तथा  ॥ २६.३० ॥

नैमिषारण्यमासाद्य यथा योगं व्यवस्थिताः  ।

तेषां तद्वचनं श्रुत्वा बादरायणशाकटौ  ॥ २६.३१ ॥

जग्मतुर्ब्रह्मलोकं तौ ब्रह्मपुत्रौ यशस्विनौ  ।

अभिवाद्य यथान्यायं ब्रह्माणं जगतां पतिम्  ॥ २६.३२ ॥

ऊचतुश्च स्ववृत्तान्तं पितरं तत्त्वदर्शिनम्  ।

अत्यन्तौ मुनिशार्दूलौ दृष्ट्वा तौ विकृताननौ  ॥ २६.३३ ॥

उवाच वचनं श्रीमान् ब्रह्मालोकपितामहः  ।

देवद्रव्यापहारेण दुष्कृतं स्वर्गगर्हितम्  ॥ २६.३४ ॥

सुरासुरगणैर्यत्तु लङ्घितुं नैव शक्यते  ।

किं पुनर्मानुषैः क्षुद्रैर्देवद्रव्योपजीविकैः  ॥ २६.३५ ॥

तेषां तु नियतं घोरे नरके पतनं स्मृतम्  ।

निष्कृतिर्नर्मदा तेषां विहिता लोकपावनी  ॥ २६.३६ ॥

स्नात्वा तु कल्पगा तोयेऽभ्यर्चयित्वा वृषध्वजम्  ।

मुच्यते सर्वपापेभ्यः सत्यमेतत्मयोदितम्  ॥ २६.३७ ॥

पितामहवचः श्रुत्वा बादरायणशाकटौ  ।

ऋषिभिः सह तत्रैव नर्मदातीरमाश्रितौ  ॥ २६.३८ ॥

सरिन्नान्याऽस्ति लोकेऽस्मिन्पापस्यास्य विशुद्धये  ।

ततस्ते मुनयः सर्वे स्मरन्तः पूर्वदुष्कृतम्  ॥ २६.३९ ॥

षण्मासाऽभ्यन्तरे राजन् छिवध्यानपरायणाः  ।

निष्कल्मषाः बभूवुस्ते तीर्थस्यास्य प्रभावतः  ॥ २६.४० ॥

बल्याद्या मुनयः सर्वे शतक्रतुपुरोगमाः  ।

ददृशुस्ते क्रतुवरं शिवेनैव यथोदितम्  ॥ २६.४१ ॥

गृहीत्वाऽथ मुनीन् सर्वे ब्रह्माद्याश्च सुरासुराः  ।

सुप्रभास्तांस्तु देवत्वं मण्डपेश्वरदर्शनात् ॥ २६.४२ ॥

तेन लिङ्गं तु विख्यातं लोकेऽस्मिन्मण्डपेश्वरम्  ।

स्वारोचिषेऽन्तरे प्राप्ते त्रेतायां तु नृपोत्तम  ॥ २६.४३ ॥

क्षत्रियाणां सहस्राणि तत्र सिद्धानि भारत  ।

एतत्सर्वं समाख्यातं समासेन मयाऽनघ  ॥ २६.४४ ॥

श्रवणात्कीर्तनाद्राजन् हयमेधफलं लभेत् ॥ २६.४५ ॥

 

युधिष्ठिर उवाच –

अमरेश्वरपूर्वेण पर्यङ्कात्पश्चिमे तथा  ॥ २६.४६ ॥

तीर्थसंख्यां क्रमेणैव कथयस्व तपोधन  ॥ २६.४७ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग पूर्वभागे व्यवस्थितम्  ॥ २६.४८ ॥

श्वेतकिंशुकनामानं तीर्थं पापप्रणाशनम्  ।

नराः सुखेन रूपेण यत्र स्नाता दिवं गताः  ॥ २६.४९ ॥

श्वेतकिंशुकनामास्ति लिङ्गं परमसिद्धिदम्  ।

ताटकेश्वरदेवश्च तत्र स्वर्गफलप्रदः  ॥ २६.५० ॥

अन्यत्तु वर्णनामेति तीर्थं पापप्रणाशनम्  ।

त्र्यम्बकस्तु महादेवो यत्रलोके वरप्रदः  ॥ २६.५१ ॥

तस्य तीर्थस्य माहात्म्याद्गण्डेशस्त्रिदिवं गतः  ।

गण्डकेश्वरलिङ्गं तु लिङ्गं शुक्लेश्वरं तथा  ॥ २६.५२ ॥

नर्मदादन्तिवनिकासङ्गमो लोकविश्रुतः  ।

तत्र लिङ्गेश्वरं लिङ्गं सर्वसिद्धिप्रदायकम्  ॥ २६.५३ ॥

बालकेश्वरलिङ्गं तु तथाऽन्यत्पूर्णकेश्वरम्  ।

रेवाया उत्तरे कूले नर्मदापुरमुत्तमम्  ॥ २६.५४ ॥

तीर्थं कपिशिला नाम सर्वानर्थविदूषणम्  ।

लिङ्गं सिद्धेश्वरं नाम तथाऽन्यन्नाडकेश्वरम्  ॥ २६.५५ ॥

अत्रान्तरे नृपश्रेष्ठ दशलक्षाणि नामतः  ।

तीर्थानि दशलक्षाणि कीर्तितानि यथाक्रमम्  ॥ २६.५६ ॥

ततो गच्छेन्नृपश्रेष्ठ वैदूर्यात्पश्चिमां दिशम्  ।

शशभीनर्मदायोगं सर्वपापप्रणाशनम्  ॥ २६.५७ ॥

भुक्तिदं मुक्तिद चैव लिङ्गं वै शशभेश्वरम्  ।

त्रिषु लोकेषु विख्यातं गर्दभीयोनिमोक्षणम्  ॥ २६.५८ ॥

मण्डलेश्वरनामेह तीर्थं लिङ्गं नराधिप  ।

यत्र माण्डलिकाः सिद्धा अजापालो मनुस्तथा  ॥ २६.५९ ॥

तत्र चेष्ट्वा तु मनुजः सम्भवेन्न पुनर्भवे  ।

तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ २६.६० ॥

पितरस्तस्य तृप्यन्ति यावच्चन्द्रदिवाकरौ  ।

तत्र प्रदीयते दानं तस्य संख्या न विद्यते  ॥ २६.६१ ॥

कान्तारकं ततो गच्छेत्सर्वतीर्थवरं शुभम्  ।

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २६.६२ ॥

सपादलक्षमधिकं तीर्थानां मण्डलेश्वरे  ।

कीर्तिते तव राजेन्द्र यथादृष्टं यथाश्रुतम्  ॥ २६.६३ ॥

त्रेतायां रघुवंशे तु कुमारौ रामलक्षणौ  ।

मैथिल्या सह राजेन्द्र उत्तीर्णो यत्र कल्पगाम्  ॥ २६.६४ ॥

जग्मतुः पितुराज्ञां वै कुर्वन्तौ विष्णुरूपिणौ  ।

स्नात्वा तीर्थवरे तत्र भक्त्याऽभ्यर्च्य महेश्वरम्  ॥ २६.६५ ॥

राजतीर्थं तु तद्गोप्यं लिङ्गं वै लक्षणेश्वरम्  ।

सीतेश्वरं तथा लिङ्गं सुरासुरनमस्कृतम्  ॥ २६.६६ ॥

तत्र स्नात्वाऽर्चयित्वा तु शूलपाणिं महेश्वरम्  ।

सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् ॥ २६.६७ ॥

ततोगच्छेत्नृपश्रेष्ठ पुण्यतीर्थं शिवालयम्  ।

माहिष्मतीं पुरीं रम्यां तां दृष्ट्वा न च्युतः क्वचित् ॥ २६.६८ ॥

यत्र कालाग्निरुद्रोऽस्ति प्रज्वलन्निव हेतुभिः  ।

त्रयस्त्रिंशत्तु तिष्ठन्तु लिङ्गानां कोटयस्तथा  ॥ २६.६९ ॥

ततः कोटीश्वरं लिङ्गं कोटितीर्थे नराधिप  ।

यज्ञकोटिफलं तत्र तस्य लिङ्गस्य पूजनात् ॥ २६.७० ॥

तत्र दत्तस्य दानस्य कोटिसंख्या तु विद्यते  ।

दशाश्वमेधतीर्थं तु भुक्तिमुक्तिफलप्रदम्  ॥ २६.७१ ॥

तिलोदकप्रदानेन पितॄणां गतिरुत्तमा  ।

स्नातमात्रो नरस्तत्र सूर्यतेज समप्रभः  ॥ २६.७२ ॥

पुराणि पञ्चसामान्याच्छम्भुना कीर्तितानि वै  ।

प्रभासश्च कुरुक्षेत्रं तथा मायापुरी शुभा  ॥ २६.७३ ॥

अवन्ती च महाकालं तथा माहेश्वरं पुरम्  ।

एतेषु च समग्रेषु विद्धि लिङ्गान्यनुक्रमात् ॥ २६.७४ ॥

अत्र दत्तं हुतं वेष्टमक्षयादपि चाक्षयम्  ।

अवशः स्ववशो वाऽपि प्राणत्यागं करोति य  ॥ २६.७५ ॥

स याति परमं स्थानं यत्र देवो महेश्वरः  ।

कीर्तयेत्प्रातरुत्थाय पुण्यान्येतानि यो नरः  ॥ २६.७६ ॥

न स पापेन लिप्येत यमलोकं न पश्यति  ।

तीर्थं पिपीलिका नाम गता यत्र पिपीलिकाः  ॥ २६.७७ ॥

शिवलोकं महाभाग सर्वलोकोत्तमोत्तमम्  ।

बन्ध्यारेवासमायोगं सुरासुरनमस्कृतम्  ॥ २६.७८ ॥

सङ्गमे यत्र राजेन्द्र लिङ्गं वै मुनकेश्वरम्  ।

योगिनस्तत्तु पश्यन्ति न तत्पश्यन्ति मानुषाः  ॥ २६.७९ ॥

विख्यातं तत्तु नगरं नर्मदादक्षिणे तते  ।

अयुत यत्र लिङ्गानां तीर्थानां च नराधिप  ॥ २६.८० ॥

लिङ्गं चण्डीश्वरं नाम तथैवोडुगणेश्वरम्  ।

वकेश्वरं तत्र विद्धि वका यत्र दिवं गताः  ॥ २६.८१ ॥

तीर्थं गङ्गावहं नाम लिङ्गं वै सर्वसिद्धिदम्  ।

अङ्गारेशमिति ज्ञेयं विमलं तत्र भारत  ॥ २६.८२ ॥

सोमतीर्थमिति ज्ञेयं शुक्लतीर्थमतः परम्  ।

तीर्थानां निरसं नाम ध्रुवतीर्थं नराधिप  ॥ २६.८३ ॥

अनेकानि सहस्राणि तीर्थानां चैव भारत  ।

तीर्थं पिपीलिका नाम भुक्तिमुक्तिप्रदायकम्  ॥ २६.८४ ॥

क्रोशमात्रं तु विज्ञेयं पूर्वपश्चिमतस्तथा  ।

तीर्थानामयुतं सार्द्धं ऋषिदेवनिषेवितम्  ॥ २६.८५ ॥

तत्र दत्तं हुतं चैव तस्य संख्या न विद्यते  ।

तत्र यः सन्त्यजेत्प्राणानवशः स्ववशोऽपि वा  ॥ २६.८६ ॥

सर्वपापविनिर्मुक्त उमामाहेश्वरे पुरे  ।

मोदते सर्वकामैस्तु यावदिन्द्राश्चतुर्दश  ॥ २६.८७ ॥

यस्मादेव शिवं तस्मादर्चयेच्छान्तमानसः  ।

मैत्रः कारुणिको नित्यं प्राप्नोति परमं पदम्  ॥ २६.८८ ॥

क्षणमात्रेण यत्पुण्यं ततः कुर्यान्नराधिप  ।

न तद्वर्षशतेनाऽपि न तु यज्ञशतैरपि  ॥ २६.८९ ॥

शक्यं साधयितुं राजंस्तथा तीर्थशतैरपि  ।

सर्वप्राणिषु कारुण्यं दीनानाथेषु भावयन्  ॥ २६.९० ॥

मैत्री च मुदिता राजन् पुण्यशीलेषु सर्वदा  ।

पुण्यवत्सुखमापेक्ष्यं सर्वप्राणिषु यत्नतः  ॥ २६.९१ ॥

अक्षेत्रे तु कृतं पुण्यं समं भवति भारत  ।

नर्मदासङ्गमो यत्र तत्र संख्या न विद्यते  ॥ २६.९२ ॥

अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति  ।

पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति  ॥ २६.९३ ॥

उत्तीर्णो नर्मदां यत्र कार्त्तिकेयो महाबलः  ।

लिङ्गं तत्र च विज्ञेयं सिद्धिदं कार्त्तिकेश्वरम्  ॥ २६.९४ ॥

चन्द्रेश्वरं तथा लिङ्गं लिङ्गं चैव शिखीश्वरम्  ।

शक्तीश्वरं तथा चान्यत्सर्वपापप्रणाशनम्  ॥ २६.९५ ॥

तेषाञ्चैव लिङ्गानामर्चनं भक्तिभावतः  ।

ब्रह्महत्यादिकात्पापान्मुच्यते नात्र संशयः  ॥ २६.९६ ॥

शिवलोकमवाप्नोति पितॄणां स्वर्गतिस्तथा  ॥ २६.९७ ॥

 

युधिष्ठिर उवाच –

भगवान् छ्रोतुमिच्छामि माहिष्मत्यास्तु पश्चिमे  ॥ २६.९८ ॥

सन्निधौ च तिलेशस्य सर्वपापप्रणाशनम्  ।

रासभीनर्मदाभेदं सुरासुरनमस्कृतम्  ॥ २६.९९ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग इतिहासं पुरातनम्  ।

नर्मदागर्दभीभेदं तिर्यग्योनिविमोक्षणम्  ॥ २६.१०० ॥

यस्मिंस्तीर्थे महाराज सतेजाहरिकेशयोः  ।

अपाराद्रासभत्वाच्च मुक्तिः कल्मषनाशने  ॥ २६.१०१ ॥

हविर्धानस्तु राजर्षिरासीत्कल्पो युधिष्ठिर  ।

आत्रेयस्य सुतश्चासीद्ब्रह्मर्षिर्ब्रह्मवित्तमः  ॥ २६.१०२ ॥

पावकस्य सुताया तु पाणिग्रहणधर्मतः  ।

हविर्धानाय सा दत्ता सुतेजा नाम नामतः  ॥ २६.१०३ ॥

कुशवल्कपरीधाना कन्दमूलफलाशिनी  ।

रूपयौवनसम्पन्ना पार्वतीव मनोहरा  ॥ २६.१०४ ॥

हविर्धानस्तु राजर्षिरृतुं बुद्ध्वा गतस्तु ताम्  ।

आगतोऽसौ युवा तत्र सर्वशास्त्रविशारदः  ॥ २६.१०५ ॥

महर्षिं त्वागतं ज्ञात्वा सुतेजा कामितुं गता  ।

सहसाऽलंकृतां तां तु करं जग्राह स द्विजः  ॥ २६.१०६ ॥

तेन सा धर्षिता तत्र यथेष्टं कामपीडिता  ।

अग्निहोत्रस्य शालायां दाम्पत्यं कामसंयुतम्  ॥ २६.१०७ ॥

ददृशे स महात्मा वै धर्माधर्मविशारदः  ।

आसीद्विषण्णवदनो दृष्ट्वा तां पावकात्मजाम्  ॥ २६.१०८ ॥

अवध्यो ब्राह्मणो दुष्टः पापात्मा पापकर्मकृत् ।

इयं च पत्नी दुष्टा मे न वध्या स्त्रीस्वभावतः  ॥ २६.१०९ ॥

तमुवाच विचार्यैवं ब्राह्मणं दारकर्षकम्  ।

मातरं गुरुपत्नीं च स्वसारं दुहितरं तथा  ॥ २६.११० ॥

गत्वा तु प्रविशेदग्निं ततः शुद्ध्येत मानवः  ।

गर्दभस्त्वं भवेद्विप्र गर्दभी च तथा विधिः  ॥ २६.१११ ॥

दिव्यं वर्षसहस्रं तु अमेध्यं भक्षयिष्यथः  ।

सुतेजाहरिकेशौ तु हविर्धानः शशाप तौ  ॥ २६.११२ ॥

पीडितौ कर्मणा तेन गतौ द्वौ बद्रिकाश्रमम्  ।

हिमस्थानं च केदारं भैरवं नैमिषं तथा  ॥ २६.११३ ॥

सूर्याक्षं च गयातीर्थं गङ्गासागरसङ्गमम्  ।

वाराणसीं प्रयागं च ओघतीर्थं च पुष्करम्  ॥ २६.११४ ॥

योगीश्वरं रुद्रकोटिं महेन्द्रं ब्रह्मसम्भवम्  ।

प्रभासं च कुरुक्षेत्रं तीर्थं सौम्येश्वरं तथा  ॥ २६.११५ ॥

अनेकानि च तीर्थानि पृथिव्यां यानि कानि च  ।

सार्द्धं तया तपस्विन्या हविर्धानस्य शापतः  ॥ २६.११६ ॥

अनेकदुःखसम्पन्नो हरिकेशो भ्रमन्महीम्  ।

खरयोनिनियुक्तस्तु परदाराभिकर्षकः  ॥ २६.११७ ॥

कालेन भूयसा तत्र हरिकेशस्तया सह  ।

तेनैव खररूपेण अगस्त्यं च महामुनिम्  ॥ २६.११८ ॥

नमस्कृत्य मुनिं तत्र साष्टाङ्गं प्रणिपत्य च  ।

गुरुतल्पगपापस्य परदाराभिगमिनः  ॥ २६.११९ ॥

प्रायश्चित्तं विधानेन दीयतां मे द्विजोत्तम  ।

मोचय त्वमिमां योनिं ब्रह्मलोकपदस्थितः  ॥ २६.१२० ॥

हविर्धानान्तिकं याहि ततोऽगस्त्य उवाच तम्  ।

तस्य तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम्  ।

हरिकेशोऽब्रवीद्वाक्यं सुतेजा सह सङ्गतः  ॥ २६.१२१ ॥

अनुग्रहमिमं मन्ये ब्राह्मणानां न संशयः  ।

ततो गतौ तु तं राजन् हविर्धानस्य चाश्रमम्  ॥ २६.१२२ ॥

नमस्कृत्य मुनिश्रेष्ठं हरिकेशोऽब्रवीद्वचः  ।

गुरुतल्पगपापोऽहं क्षमस्व मयि पुत्रके  ॥ २६.१२३ ॥

शापान्तं च वरं मन्ये दातुमर्हसि सुव्रत  ।

तस्य तद्वचनं श्रुत्वा हरिकेशस्य दुर्मतेः  ॥ २६.१२४ ॥

उवाच वचनं विप्रस्तं वै गर्दभरूपिणम्  ।

स्वकर्मणा तनुं त्वं हि गार्दभीं प्राप्तवानसि  ॥ २६.१२५ ॥

जन्मान्तरकृतैश्चैव कर्मभिः कर्मकारिभिः  ।

शुभं वाप्यशुभं वापि प्राप्यते नात्र संशयः  ॥ २६.१२६ ॥

कर्मणां च विपाकोऽयमपि देवैः सवासवैः  ।

ज्ञातुं न शक्यते विप्र गाहना कर्मणां गतिः  ॥ २६.१२७ ॥

दोषो न विद्यते चैव तद्ब्राह्मण कथंचन  ।

किंतु जन्मान्तरे येन कर्मणा तत्कृतं तव  ॥ २६.१२८ ॥

तस्माद्विश हुताशं त्वमनया मेकलातटे  ।

शङ्कराद्वरमासाद्य तावत्प्राप्स्यसि सद्गतिम्  ॥ २६.१२९ ॥

एवमुक्तो ययौ राजन् हरिकेशस्तया सह  ।

हरिकेशः सुतेजा च नर्मदातीरसन्निधौ  ॥ २६.१३० ॥

दारूणि च समाहृत्य प्रविष्टौ च हुताशनम्  ।

तत्क्षणाद्दिव्यदेहौ तु स्नात्वा स्पृष्ट्वा ह्युभावपि  ॥ २६.१३१ ॥

कामिकं यानमारूढौ सर्वालङ्कारभूषितौ  ।

अस्य तीर्थस्य माहात्म्याद्यथा लक्ष्मीजनार्दनौ  ॥ २६.१३२ ॥

भुञ्जन्तौ विविधान् भोगान् गतौ माहेश्वरं पुरुम्  ।

तेनाऽसौ सङ्गमः पुण्यस्तिर्यग्योनिविमोक्षणः  ॥ २६.१३३ ॥

हरिकेशेश्वरं लिङ्गं सुतेजानिर्मितं तथा  ।

हविर्धानेश्वरं नाम चतुर्थोऽगस्त्यनिर्मितम्  ॥ २६.१३४ ॥

चत्वारि पुण्यलिङ्गानि काममोक्षप्रदानि तु  ।

तिलोदकप्रदानेन तस्मिंस्तीर्थे नराधिप  ॥ २६.१३५ ॥

मातृकं पैतृकं चैव नरकादुद्धरेत्पितॄन्  ।

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २६.१३६ ॥

एतत्ते कथितं राजन्नाख्यानं च पुरातनम्  ॥ २६.१३७ ॥

इति श्रीस्कन्दपुराणे रेवाखण्डे गर्दभीतीर्थवर्णनो नाम षड्विंशोऽध्यायः ॥

 

 

अध्याय २७

 

मार्कण्डेय उवाच –

गौरीखण्डं ततो गच्छेत्सर्वदेवनमस्कृतम्  ।

तत्र स्नानेन लभते सर्वतीर्थफलं नरः  ॥ २७.१ ॥

तिलोदकप्रदानेन पितॄणां तृप्तिरक्षया  ।

जायते च नृपश्रेष्ठ नात्र कार्या विचारणा  ॥ २७.२ ॥

गौरीखण्डेश्वरं नाम लिङ्गं पापहरं परम्  ।

तत्रज्ञेयं मणिमयं जलमध्ये व्यवस्थितम्  ॥ २७.३ ॥

न तत्पश्यन्ति मनुजाः सर्वैर्देवैस्तु पूजितम्  ।

 

युधिष्ठिर उवाच –

गौरीखण्डेश्वरं नाम तस्मिंस्तीर्थे कथं मुने  ॥ २७.४ ॥

कथ्यतां च यथा न्यायं विदितं यत्तु साम्प्रतम्  ।

 

मार्कण्डेय उवाच –

पुरादेवगणैः सर्वैः कुमारः शङ्करात्मज  ॥ २७.५ ॥

सैनापत्ये नियुक्तश्च तारकस्य वधं प्रति  ।

कामितास्तेन तत्रैव सर्वास्ताः सुरयोषितः  ॥ २७.६ ॥

उपालब्धास्ततः सर्वा उमामाहेश्वरे पुरे  ।

उपालब्धं तु तं श्रुत्वा विषण्णा चैव पार्वती  ॥ २७.७ ॥

कामितं यत्र यत्रैव तत्र तत्रेश्वरेश्वरी  ॥ २७.८ ॥

दृष्ट्वाऽथ लज्जितः सोऽपि पक्षिणाऽसौ समाययौ  ।

देवैः परिवृतः श्रीमान्मयूरस्थो महाबलः  ॥ २७.९ ॥

पृष्ठतोऽनुगता माता रुदतीव सुरेश्वरी  ।

उत्तीर्णा कल्पगां देवी पूजयित्वा महेश्वरम्  ॥ २७.१० ॥

गौरीखण्डं तु विख्यातं त्रिषु लोकेषु तेन तत् ।

लिङ्गं प्रतिष्ठितं तत्र कुमारेश्वरसंज्ञितम्  ॥ २७.११ ॥

मयूरेश्वरलिङ्गं तु भुक्तिमुक्तिफलप्रदम्  ।

यस्य देवस्य माहात्म्यात्मयूरास्त्रिदिवङ्गताः  ॥ २७.१२ ॥

अर्चनात्तस्य देवस्य तिर्यग्योनिर्न जायते  ।

ततो गच्छेत्महाराज करमर्दासमागमम्  ॥ २७.१३ ॥

तत्र स्नातो महाराज स भवे न पुनर्भवेत् ।

करमर्देश्वरं लिङ्गं पूजयेत्तत्र भारत  ॥ २७.१४ ॥

पितॄणां तर्पणात्तत्र स्वर्गं प्राप्नोति मानवः  ।

 

युधिष्ठिर उवाच –

कथयस्व महाभाग करमर्दासमुद्भवम्  ॥ २७.१५ ॥

भाविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् ।

 

मार्कण्डेय उवाच –

कथयामि यथादृष्टं शृणु चैकमना नृप  ॥ २७.१६ ॥

मैत्रेयस्याश्रमं पुण्यं ऋषिभिस्तु निषेवितम्  ।

मुनीनां तु सहस्राणि कन्दामूलफलाशिनाम्  ॥ २७.१७ ॥

निवसन्ति यदा तत्र तपः कर्तुं निरन्तरम्  ।

कस्मिंश्चिदन्यकाले तु तस्मिन्मुनिवराश्रमे  ॥ २७.१८ ॥

राजा कुशध्वजो नाम एकच्छत्राधिपो नृप  ।

आगमत्कलातीरं राहुसूर्यसमागमे  ॥ २७.१९ ॥

अवतीर्णान्मुनीन्सर्वान् यथार्हं प्रणिपत्य च  ।

पितॄणां श्राद्धकालोऽद्य प्रसादः क्रियतां मयि  ॥ २७.२० ॥

 

ऋषय ऊचुः॒

गवां दशायुतान्येकप्रसूतानां पयोमुचाम्  ।

सवत्सानां सुवर्णानां घण्टाभरणशोभिनाम्  ॥ २७.२१ ॥

यदि शक्नोषि दातुं त्वं होमार्थे पितृदेवयोः  ।

तत्र प्रवर्ततां श्राद्धं सत्यमेतत्तवोदितम्  ॥ २७.२२ ॥

तेषां तद्वचनं श्रुत्वा मुनीनामूर्ध्वरेतसाम्  ।

कुशध्वजोऽब्रवीद्वाक्यं ब्राह्मणांस्तान् यथार्थतः  ॥ २७.२३ ॥

अनुग्रहमिमं मन्ये यथोक्तं ब्रह्मचारिभिः  ।

ददाम्यहं न सन्देह इहैव मुनिपुङ्गवाः  ॥ २७.२४ ॥

भोजयित्वा ततः श्राद्धे ब्राह्मणांस्तान्नृपोत्तमः  ।

सकुशं जलमादाय तेभ्यो दत्ता तु गास्तदा  ॥ २७.२५ ॥

दत्त्वा दान मुदायुक्तः स जगाम स्वकं पुरम्  ।

स्थितास्तु ब्राह्मणास्तत्र होमकार्यार्थसिद्धये  ॥ २७.२६ ॥

एकस्मिन् वासरे प्राप्ता राक्षसा घोररूपिणः  ।

बुभुक्षिता महादंष्ट्रा विकृतास्या भयानकाः  ॥ २७.२७ ॥

ब्राह्मणानां तदा गा वै भक्षितुं समुपागतान्  ।

दृष्ट्वा तान् विकृताकारांस्तीव्रनादपरायणान्  ॥ २७.२८ ॥

प्रणष्टास्तु ततः स्थानान्नर्मदाजलमाविशन्  ।

तत्क्षणाद्दिव्यलोकस्थाः सर्वास्ताः कामधेनवः  ॥ २७.२९ ॥

ततस्ते क्षुधितास्सर्वे ब्राह्मणान् भक्षितुं गताः  ।

हरिं स्मरन्ति ते सर्वे ब्राह्मणाः शंसितव्रताः  ॥ २७.३० ॥

रेवाजलं प्रविष्टा वै राक्षसैः परिपीडिताः  ।

विष्णोः प्रस्वेदजस्तत्र प्रवाहो नर्मदां गतः  ॥ २७.३१ ॥

गोपदं दृश्यते तत्र सर्वामरनमस्कृतम्  ।

करमर्देश्वरं लिङ्गं विष्णुचक्राद्विनिःसृतम्  ॥ २७.३२ ॥

प्रतिष्ठितं च तत्रैव विष्णुना प्रभविष्णुना  ।

गावश्च ब्राह्मणाश्चैव सत्यमेतद्ब्रवीमि ते  ॥ २७.३३ ॥

ब्रह्मलोकं गताः सर्वे तीर्थस्यास्य प्रभावतः  ।

करमर्देश्वरं तीर्थं सर्वपापप्रणाशनम्  ।

कीर्तितं कर्मणा तेन मह्याममिततेजसा  ॥ २७.३४ ॥

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ।

श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ २७.३५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे करमर्देश्वरीकीर्तनं नाम सप्तविंशोऽध्यायः ॥

 

 

अध्याय २८

 

युधिष्ठिर उवाच –

मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः  ।

एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः  ॥ २८.१ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग यन्मां त्वं परिपृच्छसि  ।

इक्ष्वाकुवंशसम्भूतो युवनाश्वो महीपतिः  ॥ २८.२ ॥

सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः  ।

अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः  ॥ २८.३ ॥

मन्त्रिष्वाधाय तद्राज्यं वननिष्ठो महीपतिः  ।

शास्त्रदृष्टेन विधिना संयम्यात्मानमात्मना  ॥ २८.४ ॥

फलमूलानुभक्षश्च स चचार महत्तपः  ।

शुष्ककण्ठः पिपासार्तः पानीयार्थे भृशः नृपः  ॥ २८.५ ॥

सम्प्रविश्याश्रमस्यान्तः पानीयं सोऽभ्ययाचत  ।

तस्य शुष्केण कण्ठेन क्रोशतस्तु तदा भृशम्  ॥ २८.६ ॥

नाऽश्रौषीद्वचनं तत्र चातकस्यैव वासवः  ।

भगवांस्तु तदा कश्चिदृषिस्तस्य महीपतेः  ॥ २८.७ ॥

पुत्रीयमग्रतः कृत्वा मन्त्रैश्चाप्यभिमन्त्रितम्  ।

रात्रौ च कलशं तत्र जलपूर्णं पिपासितः  ॥ २८.८ ॥

अभ्यद्रवत्स वेगेन पीत्वापस्तत्र चास्वपत् ।

स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः  ॥ २८.९ ॥

अग्निर्निवर्तितस्तस्य सुखी चैवाऽभवत्तदा  ।

ततस्तेऽचाप्यबुध्यन्त मुनयः शंसितव्रताः  ॥ २८.१० ॥

कस्येदं कर्म कुपिताः पप्रच्छुस्तं नृपं तदा  ।

युवनाश्वो ममेत्येवं सत्यं समभिपद्यते  ॥ २८.११ ॥

युवनाश्वमिदं प्राह भगवान् भार्गवस्तदा  ।

सुतार्थं स्थापितं ह्येतत्तपसा चैव सम्भृतम्  ॥ २८.१२ ॥

मया कर्म कृतं चैतत्तप आस्थाय दारुणम्  ।

पुत्रार्थं तव राजेन्द्र येन ते बलवान् भवेत् ॥ २८.१३ ॥

महाबलो महावीर्यस्तपोबलसमन्वितः  ।

सुतः शक्रसमोऽत्यर्थं सर्वधर्मपरायणः  ॥ २८.१४ ॥

विधिना मन्त्रयुक्तेन मयैतदुपपादितम्  ।

अभक्षणं त्वया राजन् युक्तं न कृतमत्र वै  ॥ २८.१५ ॥

नूनं दैवकृतं त्वद्य यत्तत्त्वं कृतवानसि  ।

पिपासुना च यत्पीतं विधिमन्त्रपुरस्कृतम्  ॥ २८.१६ ॥

जलं त्वया महाराज तेन त्वं वीर्यवानसि  ।

अन्वहं कर्म कृत्वाऽपि महान्तं सुखमाप्स्यसि  ॥ २८.१७ ॥

विधास्यामो वयं चात्र पुत्रेष्टिं परमां तदा  ।

वीर्येण शक्रतुल्यं त्वं पुत्रं वै जनयिष्यसि  ॥ २८.१८ ॥

ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः  ।

वामपार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः  ॥ २८.१९ ॥

निश्चक्राम महातेजा न च तं मृत्युराविशत् ।

युवनाश्वस्य नृपतेस्तदद्भुतमिवाभवत् ॥ २८.२० ॥

तं द्रष्टुं समुपागतः शक्रं पृच्छन्ति तं देवाः  ।

सुतः किं धास्यतीत्ययम्  …. …. ॥ २८.२१ ॥

एष मां धास्यतीत्येवं शक्रः प्रोवाच तान् सुरान्  ।

प्रदेशिनीं च तस्यास्ये ततः शक्रः समादधौ  ॥ २८.२२ ॥

स तां बालस्ततो हृष्टः पपौ तस्य प्रदेशिनीम्  ।

मान्धातेति च नामास्य शक्रश्चक्रे यथार्थवत् ॥ २८.२३ ॥

अवाप्य स शिशुस्तत्र शक्रदत्तां प्रदेशिनीम्  ।

अवर्धत्महीपालः किंतु षोडशिकाः समाः  ॥ २८.२४ ॥

आयुर्वेदादिशास्त्राणि दिव्यशास्त्राणि सर्वशः  ।

उपतस्थुर्महाराजं ध्यानमात्रेण तं तदा  ॥ २८.२५ ॥

धनुराजगवं नाम शराश्शृङ्गोद्भवाश्च ये  ।

अभेद्यं कवचं चैव सद्यस्तमुपतस्थिरे  ॥ २८.२६ ॥

सोऽभिषिक्तो मघवता देवैः सार्द्धं च भारत  ।

धर्मेण चाक्रमल्लोकान् सर्वान् विष्णुरिव क्रमैः  ॥ २८.२७ ॥

तस्याऽप्रतिहतं चक्रं प्रचचार महात्मनः  ।

शतानि चैव राजानः स्वयमेवोपतस्थिरे  ॥ २८.२८ ॥

तस्यैवमभवत्पूर्वं वसुधा वसुधापते  ।

तेनेष्टं विविधैर्यज्ञैर्बहुभिश्चाप्तदक्षिणैः  ॥ २८.२९ ॥

हृष्टमना महातेजाः स्वधर्मं प्राप्य पुष्कलम्  ।

शक्रस्यार्धासनं धीमान् लब्धवानमितद्युतिः  ॥ २८.३० ॥

आपालिता च पृथिवी तेन धर्मेण धीमता  ।

निर्जिता शासनादेव सरत्नाकरपत्तना  ॥ २८.३१ ॥

तत्कृतानां महाराज क्रतूनां दक्षिणावताम्  ।

चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम्  ॥ २८.३२ ॥

दशलक्षसहस्राणि राज्यं तस्य महात्मनः  ।

तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना  ॥ २८.३३ ॥

वृष्टिं च सस्यवृद्ध्यर्थं मिषता वज्रपाणिना  ।

तेन सोमकुलोत्पन्नो गन्धर्वाधिपतिर्महान्  ॥ २८.३४ ॥

गत्वा समानयन्मेघं प्रमथ्याभिहितः शरैः  ।

प्रजाश्चतुर्विधास्तेन धृतास्तत्र महात्मना  ॥ २८.३५ ॥

तेनाप्तास्तपसा लोकाः स्थापिताः स्वेन तेजसा  ।

तस्यैव देववसतिस्थानमादित्यतेजसः  ॥ २८.३६ ॥

यस्य पुण्यतमे देशे दृश्यतेऽमरकण्टकः  ।

इष्ट्वा तत्र क्रतुशतमोङ्कारस्यैव चाग्रतः  ॥ २८.३७ ॥

राज्ञा च पर्वते तस्मिन् स्तोत्रमेतदुदाहृतम्  ।

नमस्ते कालमेघाय कालात्मक नमोऽस्तु ते  ॥ २८.३८ ॥

कालाधिपं नमस्तेऽस्तु कालरूपः प्रवर्तसे  ।

कालात्मा कालरूपेण विश्वात्मा विश्वरूपधृक् ॥ २८.३९ ॥

विश्वेश्वर नमस्तेऽस्तु कालत्यागे प्रवर्तकः  ।

भवाय भवनाशाय भवोद्भव नमोऽस्तु ते  ॥ २८.४० ॥

ओं नमो महादेवाय शम्भवाय भवाय च  ।

अजपाय अजाताय अजायतनमीढुषे  ॥ २८.४१ ॥

प्रभवाय शिवतराय अक्षमाय नमो नमः  ।

त्र्यम्बकाय त्रिमूर्ताय त्रिलोकेशाय ते नमः  ॥ २८.४२ ॥

अकालाय अजराय अमराय नमो नमः  ।

ओंकारमादिदेवं च ये वै ध्यायन्ति नित्यशः  ॥ २८.४३ ॥

न तेषां पुनरावृत्तिर्घोरे संसारसागरे  ।

श्रुत्वा स्तोत्रमिदं देवः ओंकारः कालरूपधृक् ॥ २८.४४ ॥

प्रत्युवाच महीपालं देवदेव उमापतिः  ।

वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रत  ॥ २८.४५ ॥

तुष्टोऽस्मीति न सन्देहो यथेष्टं तद्ददाम्यहम्  ।

 

मान्धातोवाच –

यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि  ॥ २८.४६ ॥

वैदूर्यो नाम शैलेन्द्रो मान्धाताख्यानमर्हति  ।

देवस्थानमिदं देव त्वत्प्रसादाद्भविष्यति  ॥ २८.४७ ॥

अत्र दानं तपः पूजा तथा प्राणविसर्जनम्  ।

ये कुर्वन्ति नरास्तेषां शिवलोके निवासिता  ॥ २८.४८ ॥

तस्य तद्वचनं श्रुत्वा मान्धातुः परमेश्वरः  ।

उवाच वचनं देवो मान्धातारं महीपतिम्  ॥ २८.४९ ॥

सर्वमेतत्नृपश्रेष्ठ मत्प्रसादाद्भविष्यति  ।

एवमस्त्विति तं चोक्त्वा वरं लब्ध्वा महीपति  ॥ २८.५० ॥

जगाम स्वां पुरीं शीघ्रं यथा शक्रोऽमरावतीम्  ।

एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् ॥ २८.५१ ॥

यो ममाग्रे महीपाल दृष्टोऽद्रिर्वै त्वयानघ  ।

तदा प्रभृति मान्धाता वैदूर्यो गीयते गिरिः  ॥ २८.५२ ॥

अस्य तीर्थस्य माहात्म्यात्मान्धातृप्रमुखा नृपाः  ।

सर्वकामसमुद्युक्ता लोके क्रीडन्ति वैष्णवे  ॥ २८.५३ ॥

श्रवणात्कीर्तनाद्वाऽपि हयमेधफलं लभेत् ॥ २८.५४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मान्धातुरुपाख्यानेऽष्टाविंशोऽध्याय

 

 

अध्याय २९

 

मार्कण्डेय उवाच –

कृते युगेऽथ सम्प्राप्ते बलिर्नाम महासुरः  ।

तस्य पुत्रो महावीर्यः सहस्रभुजविश्रुतः  ॥ २९.१ ॥

दिव्यं वर्षसहस्रं तु तेन चाराधितो हरः  ।

तुष्टेन तेन सम्प्रोक्तः प्रार्थयस्व वरं वर  ॥ २९.२ ॥

यत्किंचिद्वै वरं प्रोक्तं तद्दास्यामि न संशयः  ।

बाणासुरो वदत्येवं यदि तुष्टोऽसि मे प्रभो  ॥ २९.३ ॥

पुरं भवतु मे दिव्यमजेयं सर्वदैवतैः  ।

त्वामेव वर्जयित्वा तु दुष्प्राप्यं सर्वदैवतैः  ॥ २९.४ ॥

मयि तिष्ठति यत्तिष्ठेत्मयि गच्छति गच्छतु  ।

कामिकं भवनं देव पुर भवतु मे तदा  ॥ २९.५ ॥

उक्तो बाणासुरस्तेन बलिपुत्रो महायशाः  ।

विष्णुनाभिहितश्चासौ किं त्वया प्रार्थितो हरः  ॥ २९.६ ॥

 

बाण उवाच –

मह्यं दत्तं महेशेन पुरं पुरवरोत्तमम्  ।

अजेयं सर्वदेवानामसुराणां च दुर्लभम्  ॥ २९.७ ॥

यदि दत्तं महेशेन पुरं तुभ्यं यथेप्सितम्  ।

मयाऽपि ते प्रदत्तं च द्वितीयं तादृशं पुरम्  ॥ २९.८ ॥

विष्णुनाऽपि पुरं दत्तं द्वितीयं च मनोरमम्  ।

एकीभूतौ तु तौ देवायूचतुस्तौ बलेः सुतम्  ॥ २९.९ ॥

गच्छ बाणासुर क्षिप्रं यत्रास्ते कमलासनः  ।

गतस्तत्र बलेः पुत्रो यत्रातिष्ठत्पितामहः  ॥ २९.१० ॥

परिष्वज्य स्वहस्तेन पृष्टश्चैव स्वयम्भुवा  ।

बहुवर्षसहस्रं तु तपो घोरं त्वया कृतम्  ॥ २९.११ ॥

वरस्तु कस्त्वया प्राप्तस्तपसाराध्य शङ्करम्  ।

ब्रह्मणो वचनं श्रुत्वा प्रत्युवाच महासुरः  ॥ २९.१२ ॥

मया तु प्रार्थितो रुद्रो दत्तस्तेन प्रसादतः  ।

कामरूपं पुरं प्राप्तं मनोरम्यं मनोरमम्  ॥ २९.१३ ॥

तादृशं तु पुरं दत्तं द्वितीयं विष्णुना पुनः  ।

बाणासुरवचः श्रुत्वा प्रत्युवाच महासुरम्  ॥ २९.१४ ॥

त्वया तु प्रार्थितो रुद्रो दत्तं तेन महात्मना  ।

मयाऽपि ते पुरं दत्तं तेनासौ त्रिपुरः स्मृतः  ।

एवं प्राप्तवरो राजन्महाबलपराक्रमः  ॥ २९.१५ ॥

सहस्रभुजविस्तीर्णस्त्ववध्यः सर्वदैवतैः  ।

पुराणि दानवानां तु अमराणां तु यानि च  ॥ २९.१६ ॥

यक्षविद्याधराणां तु गन्धर्वाणां च रक्षसाम्  ।

भग्नानि तानि सर्वाणि स्थण्डिलानि हृतानि च  ॥ २९.१७ ॥

भग्नामरावती तेन पुरा शक्रस्य भारत  ।

त्रिपुरं ह्यभवत्सर्वं कैलासः केवलं पृथक् ॥ २९.१८ ॥

उद्विग्नमानसा देवा हरपार्श्वमुपाययुः  ।

वरो दत्तस्त्वया तस्मै ब्रह्मणा विष्णुनापि च  ॥ २९.१९ ॥

तेन सार्धं तु संग्रामे शक्तिर्नास्तीति कस्यचित् ।

यस्तस्य पुरतस्तिष्ठेत्तमसौ भस्मतां नयेत् ॥ २९.२० ॥

एवं श्रुत्वा शिवो वाक्यं परं कौतूहलं ततः  ।

संप्रेषितास्तदा देवा ब्रह्मविष्णुपुरोगमाः  ॥ २९.२१ ॥

समेत्य गम्यतां देवास्त्रिंशत्कोट्यो महाबलाः  ।

विनाशयत यत्नेन त्रिपुरं पुरसंस्थितम्  ॥ २९.२२ ॥

ततो गताः सुराः सर्वे बद्धवैराः सहस्रशः  ।

वाणासुरपुरं यत्र सुतीक्ष्णनिशितायुधाः  ॥ २९.२३ ॥

सुयुद्धबलसम्पन्नाः सर्वे ते बलशालिनः  ।

मार्गं पुरं च देशं च छादयन्तो घना इव  ॥ २९.२४ ॥

संक्षिप्तेनैव कालेन मनसा चिन्तितेन च  ।

सर्वे ते त्रिपुरं प्राप्ता धनुः क्षिप्ताः शरा इव  ॥ २९.२५ ॥

द्रष्टुं दश दिशस्तेन प्रेषिता ये च किङ्कराः  ।

ऊचुर्बाणासुरं ते तु निश्चिन्तस्त्वं कथं प्रभो  ॥ २९.२६ ॥

उक्तं बाणासुरेणाऽपि वरोऽद्य सफलो मम  ।

समीहितफलं प्राप्तं कुतो गच्छन्ति ते सुराः  ॥ २९.२७ ॥

तेन ते क्षणमात्रेण सर्वे देवा जितास्तदा  ।

हृतानि च ततोऽस्त्राणि पात्र भोजनं यथा  ॥ २९.२८ ॥

इन्द्रस्यापि हृतं वज्रं चक्रं वै केशवस्य तु  ।

जलं पितामहस्यापि पाशं च वरुणस्य च  ॥ २९.२९ ॥

कुबरेस्य गदां चैव मरुतश्चाङ्कुशं तथा  ।

यमस्यापहृतो दण्डः शक्तिर्वैश्वानरस्य च  ॥ २९.३० ॥

कामरूपं पुरं तस्य हरदत्तं प्रसादतः  ।

न शक्यते सुरैः सर्वैर्ब्रह्मविष्णुपुरोगमैः  ॥ २९.३१ ॥

बाधितुं दैत्यराजस्य समन्तान्मिलितैरपि  ।

सुरा बाणासुरेणैव ततो युद्धे पराजिताः  ॥ २९.३२ ॥

भग्नास्तूत्साहरहिता हरपार्श्वमुपागताः  ।

शिवेनोक्तास्तु ते सर्वे तत्र गत्वा तु किं कृतम्  ॥ २९.३३ ॥

संग्रामः कीदृशस्तेन भवद्भिः सह निर्मितः  ।

ततः किं कथ्यते देव न शक्तास्तस्य कर्मणि  ॥ २९.३४ ॥

न तेन सह संग्रामे सम्मुखं केनचित्कृतम्  ।

देवतावचनं श्रुत्वा क्रुद्धः प्रोवाच शङ्करः  ॥ २९.३५ ॥

त्रिपुरं च महादुष्टामिमं व्यापादयाम्यहम्  ।

अथवा चापमाकृष्य ह्यसुरं प्रदहाम्यहम्  ॥ २९.३६ ॥

येन जीवन्नरो यस्तु सुराणां किङ्करो भवेत् ।

पतिव्रता प्रसादेना त्रिपुरं च सुरासुरैः  ॥ २९.३७ ॥

न शक्यं धर्षितुं तस्मान्नारदं प्रेषयाम्यहम्  ।

नारदः प्रेषितस्तत्र क्षोभय त्वं पतिव्रताः  ॥ २९.३८ ॥

एवमुक्तस्तु देवर्षिर्बाणासुरपुरं ययौ  ।

त्वरितं पुरमध्ये तु यत्र बाणासुरो नृपः  ॥ २९.३९ ॥

तं तु देव ऋषिं दृष्ट्वा ह्यसुरो वाक्यमब्रवीत् ।

नमस्कृत्य च साष्टाङ्गमर्घपाद्यैः प्रपूज्य च  ॥ २९.४० ॥

कुतोऽत्रागमनं तेऽद्य किं वा कार्यं महामुने  ।

तस्य तद्वचनं श्रुत्वा मुनिः प्रोवाच तं तदा  ॥ २९.४१ ॥

कुशलं ते बलेः पुत्रसादरं तु पुनः पुनः  ।

बाणासुरोऽब्रवीद्वाक्यं कुशलं तव दर्शनात् ॥ २९.४२ ॥

देवर्षिरुपविष्टस्तु दिव्यासनसुशोभितः  ।

राज्ञी चाभ्यर्चयत्तत्र स तस्यै नारदस्तदा  ॥ २९.४३ ॥

पुराणवेदबाह्यानि वृत्तान्यादेशयन्मुनिः  ।

नारीणां चलितं चित्तं कृत्वा देवमुनिस्तदा  ॥ २९.४४ ॥

आगतो नारदः श्रीमान् कैलासं पर्वतोत्तमम्  ।

नमस्कृत्य महादेवं वृत्तान्तं संन्यवेदयत् ॥ २९.४५ ॥

घातय त्रिपुरं देव सपुरं सुरकण्टकम्  ।

निर्गतस्तु हरस्तस्मात्कैलासनिलयात्प्रभुः  ॥ २९.४६ ॥

स्वकीयेनैव मार्गेण यत्रऽसौ त्रिपुरऽसुरः  ।

देवी चण्डेश्वरो नन्दी महाकालो महेश्वरः  ॥ २९.४७ ॥

वृषो भृङ्गिरिटिश्चैव विघ्नेशः स्कन्द एव च  ।

पुष्पदन्तो महावीरो घण्टाकर्णो महोदरः  ॥ २९.४८ ॥

गोमुखो हस्तिकर्णश्च स्थूलजङ्घो वृकोदरः  ।

गणाः पञ्चदश त्वेते हरतुल्यपराक्रमाः  ॥ २९.४९ ॥

अस्ति सिद्धो महाक्षेत्रं श्रीशैलो नामपर्वतः  ।

तत्र स्थित्वा महादेवो हन्तव्यस्त्रिपुरः प्रिये  ॥ २९.५० ॥

स्थानं माहेश्वरं चक्रे व्यापी तत्र पिनाकधृक् ।

एकपादेन ब्रह्माण्डं पातालं चापरेण च  ॥ २९.५१ ॥

हिमवन्तं धनुः कृत्वा गुणं कृत्वा तु वासुकिम्  ।

शरं वैश्वानरं कृत्वा तस्याऽग्रं कालमेव तु  ॥ २९.५२ ॥

रथं भूमण्डलं कृत्वा वेदान् कृत्वा हयांस्तथा  ।

रश्मींस्तक्षककर्कोटौ ब्रह्माणं सारथिं स्वयम्  ॥ २९.५३ ॥

चक्ररक्षं वासुदेवमघोरं मन्त्रसप्तकम्  ।

तथा पाशुपतं चैव मन्त्रराजं तथैव च  ॥ २९.५४ ॥

दिव्यं वर्षसहस्रं तु स्थानं कृत्वा स्थितोऽभवत् ।

तिष्ठतो मम तत्रैव कालेन महता प्रिये  ॥ २९.५५ ॥

लक्ष्यालक्ष्ये तनू कृत्वा गणेशो विघ्नमाचरत् ।

वामपादनखाग्रेण चलितः स्थानकादहम्  ॥ २९.५६ ॥

ततो मया हतो नाऽसौ रक्षितुं त्रिपुरं कथम्  ।

प्रवृत्तोऽसि गणाधीश जगद्विध्वंसकारकम्  ॥ २९.५७ ॥

इति तस्य वचः श्रुत्वा विघ्नेशो वाक्यमब्रवीत् ।

अहं न विघ्नये त्वां चेत्कथमन्येऽर्चयन्ति माम्  ॥ २९.५८ ॥

अपूजिते मयि विभो यः कार्यं कर्तुमिच्छति  ।

तस्मै विघ्नं प्रदास्यामि सुरासुरगणेष्वपि  ॥ २९.५९ ॥

एवमस्त्विति तं प्राह शङ्करः तदनन्तरम्  ।

वध्यं चैव गतो लक्ष्यं संशक्तस्त्रिपुरं प्रति  ॥ २९.६० ॥

तापसोऽयं दुराचारो दैत्यः परपुरं जयः  ।

विनाशायाऽस्य दुष्टस्य कंचाहं प्रेषये शरम्  ॥ २९.६१ ॥

त्रिपुरस्य वधार्थाय क्षिप्रं पाशुपतं महत् ।

अस्त्रमन्यद्विधास्यामीत्युक्त्वा देवो हरः पुरम्  ॥ २९.६२ ॥

अघोरास्त्रेण तद्दग्धं त्रिखण्डं जर्जरीकृतम्  ।

पातितं तु जले तत्र ततो मां शरणं गताः  ॥ २९.६३ ॥

भवानि दानवैः सार्द्धं तेषां पत्न्यः सुतेक्षणाः  ।

आपतन्ति रुदन्त्यस्ताः शतशोऽथ सहस्रशः  ॥ २९.६४ ॥

सर्वासां निर्दयो वह्णिः स ददाह पतींस्तथा  ।

श्रीशैले पतितं चैकमन्यच्चामरकण्टके  ॥ २९.६५ ॥

गङ्गासागरसम्भेदे तृतीयं च तथा प्रिये  ।

पुत्रपौत्रकलत्राणि मणिहेमपुराणि च  ॥ २९.६६ ॥

विनाशं यान्ति तान् यत्र लिङ्गमेकं न नश्यति  ।

लिङ्गानां नवकोटीनां यद्येकमपि दह्यते  ॥ २९.६७ ॥

प्राणत्यागं करिष्यामि हुताशेऽस्मिंस्तदा ध्रुवम्  ।

दग्धं तु त्रिपुरं कृत्स्नमघोरास्त्रेण दारुणम्  ॥ २९.६८ ॥

पातितं नर्मदा मध्ये ज्वलत्कालानलप्रभम्  ।

तद्भित्त्वा सप्तपातालं रसातलतलं ययौ  ॥ २९.६९ ॥

तेन जालेश्वरं तीर्थं त्रिषु लोकेषु विश्रुतम्  ।

अर्चनात्तस्य देवस्य मुच्यते ब्रह्महत्यया  ॥ २९.७० ॥

कल्पकोटिसहस्राणि वसेच्छिवपुरे सुखी  ।

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ॥ २९.७१ ॥

तिलोदकप्रदानेन पिण्डपातेन भारत  ।

पितरस्तस्य तृप्यन्ति शिवो यावच्च कल्पगा  ॥ २९.७२ ॥

सार्द्धकोटिश्च लिङ्गानां गङ्गासागरसङ्गमे  ।

सार्द्धकोटिश्च पतिता लिङ्गानां पुरवर्धने  ॥ २९.७३ ॥

दशार्धकोटिः पतिता श्रीशैले त्रिपुरान्तिके  ।

तिस्रः कोट्यार्धकोटी च पतितामरकण्टके  ॥ २९.७४ ॥

एतानि बाणलिङ्गानि भुक्तिमुक्तिप्रदानि तु  ।

त्रिपुरघ्नमघोरास्त्रं ज्वलत्कालाग्निरुद्रवत् ॥ २९.७५ ॥

कल्पगां वर्जयित्वा तु कान्या धारयितुं क्षमा  ।

एतादृशं तु पतितं तदस्त्रं कल्पगाजले  ॥ २९.७६ ॥

जालेश्वरं तु कथितं त्रिपुरघ्नमिदं तव  ।

एतत्तीर्थं न जानन्ति लोकाश्च सचराचराः  ॥ २९.७७ ॥

दहन्तं त्रिपुरं दृष्ट्वा देवा विस्मयमागताः  ।

ब्रह्माद्या देवता येन संग्रामेषु पराजिताः  ॥ २९.७८ ॥

शरेणैकेन तद्वीर्यं कृतं भस्मैकपुञ्जवत् ।

बाणासुरः पुरे दग्धे भीतः स्तोत्रमिदं जगौ  ॥ २९.७९ ॥

ओं नमोऽनादिदेवेश विघ्नेश्वर महेश्वर  ।

सर्वज्ञाज्ञानहृज्ज्ञानप्रदानैक नमोऽस्तु ते  ॥ २९.८० ॥

अनन्तगुणरत्नाय परेशाय नमोऽस्तु ते  ।

परात्पर परातीत उत्पत्तिस्थानकारक  ॥ २९.८१ ॥

सर्वार्थसाधनोपाय विश्वेश्वर नमोऽस्तु ते  ।

निरञ्जन निराधार स्वभाव निरुपद्रव  ॥ २९.८२ ॥

प्रसन्नपरमेशान योगेश्वर नमोऽस्तु ते  ।

असुरघ्न पिशाचघ्न भूतवेतालनाशन  ॥ २९.८३ ॥

भूतनाथ जगन्नाथ सर्वाधार नमोऽस्तु ते  ।

सृष्टिसंहार निर्वाणसप्तपातालसंश्रय  ॥ २९.८४ ॥

श्रीकण्ठ नीलकण्ठेश महाकण्ठ नमोऽस्तु ते  ।

त्र्यम्बकाय त्रिशूलाय त्रिलोकाय च ते नमः  ॥ २९.८५ ॥

कपालिने कपालैश्च बद्धाङ्ग शशिशेखर  ।

उमाकान्तार्धदेहाय सुरासुरनमस्कृत  ॥ २९.८६ ॥

यत्र त्वं रूपसंस्थं चलमचलतनुं व्यापकं लक्ष्यहीनं तेजोऽभ्यन्तर्मरालं घनमघनमजं स्फाटिकं स्फाटिकाभम्  ।

रक्तं नीलं च पीतं सितमसितमनेकाल्परूपं प्रयुक्तं मध्यान्तादिव्यपेतं स्फुटतनुरहितं लिङ्गरूपं नमामि  ॥ २९.८७ ॥

मध्याह्ने लक्ष्ययोगेन हृदयकमले धारणीशे न हंसे नाकाशे वायुतत्त्वेऽनलधरणिजले विद्यते नैव शक्यम्  ।

नो नादे नैव विन्दौ न करणनिलये नादिमध्यावसाने स्थानेष्वेषु प्रबुद्धो न च नियमयितुं यं सदाद्यं नमामि  ॥ २९.८८ ॥

जिह्वाचापल्यभावेन वर्णितं मे महाप्रभो  ।

क्षन्तव्यं तत्सुरेशान कस्त्वां वर्णयितुं क्षमः  ॥ २९.८९ ॥

 

मार्कण्डेय उवाच –

श्रुत्वा स्तुतिं च बाणस्य तुष्टोऽसौ भगवान् हरः  ।

उवाच वचनं शम्भुरसुरं प्रति भारत  ॥ २९.९० ॥

सेवापराधजो ह्येष क्षान्तस्ते दैत्यनायक  ।

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ २९.९१ ॥

शिवस्य वचनं श्रुत्वा बाणो दैत्यपतिस्तदा  ।

प्रणम्य चाब्रवीद्वाक्यं सुरासुरनमस्कृतम्  ॥ २९.९२ ॥

यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि  ।

अनेनैव शरीरेण सान्तः पुरपरिच्छदः  ॥ २९.९३ ॥

तव लोकं गमिष्यामि यत्र जन्म न विद्यते  ।

अत्रोत्पत्तिविपत्तिभ्यां निर्विण्णोऽसुरयोनिषु  ॥ २९.९४ ॥

त्रिभिर्देवैः पुरं दत्तं भिन्नं तत्पुरं त्वया  ।

कथं तत्पतितं भूमौ गहना कर्मणां गतिः  ॥ २९.९५ ॥

दाताबलिः प्रार्थयिता च विष्णुर्दानं मही वाजिमखस्य कालः  ।

आसीत्फलं बन्धनमेव तस्य नमोऽस्तु तस्यै भवितव्यतायै  ॥ २९.९६ ॥

स्वर्गो दुर्गः सुराः सैन्यं गजाश्चैरावतादयः  ।

शस्त्रं वज्रमवाप्यास्ते यत्र देवो बृहस्पतिः  ॥ २९.९७ ॥

निर्जितो मेघनादेन दशाननसुतेन च  ।

सर्वमात्मवशं नीतं दैवं हि बलवत्तरम्  ॥ २९.९८ ॥

बाणासुरवचः श्रुत्वा देवदेवो वरप्रदः  ।

मम भक्तिप्रसादेन मदन्तिकमवाप्स्यसि  ॥ २९.९९ ॥

ततो बाणासुरः श्रीमान् देवदेवप्रसादतः  ।

दिव्ययानसमारूढः सुरासुरनमस्कृतः  ॥ २९.१०० ॥

प्रायाच्छिवपुरं यत्र देवदेवो महेश्वरः  ।

नर्मदा साऽब्रवीद्वाक्यं शम्भुं प्रति विशाम्पते  ॥ २९.१०१ ॥

बिन्दुमात्रं न मे दग्धमघोरास्त्रेण शङ्कर  ।

ददाह त्रिपुरं कृत्स्नं ज्वलत्कालानलप्रभम्  ॥ २९.१०२ ॥

शान्तं च मम तोयेन रसातलतलं ययौ  ।

 

ईश्वर उवाच –

पुरं तु निखिलं दग्धमघोरास्त्रं सुदुस्सहम्  ॥ २९.१०३ ॥

सूर्यकोटिसमप्रख्यं मध्यदेशे तवाम्भसः  ।

अगमत्सौम्यरूपत्वं प्रभावात्तव नर्मदे  ॥ २९.१०४ ॥

सरितः सागराः शैला गङ्गाद्याश्च सहस्रशः  ।

गोप्यं तत्क्षणमात्रेण भस्मपुञ्जो यथा जलम्  ॥ २९.१०५ ॥

सोढुं काऽन्या सरिच्छ्रेष्ठा त्वां विना भुवि कल्पगे  ।

एवमुक्त्वा ययौ देवः सुरासुरनमस्कृतः  ॥ २९.१०६ ॥

एतत्ते कथितं भूप आख्यानं श्रुतिसम्मितम्  ।

जालेश्वरस्य तीर्थस्य समासेन युधिष्ठिर  ॥ २९.१०७ ॥

सेव्यते तेन कार्येण नर्मदा सप्तकल्पगा  ।

श्रवणात्कीर्तनात्तस्य रुद्रस्यानुचरो भवेत् ॥ २९.१०८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डेऽमरेश्वरमाहात्ये एकोनत्रिंशोऽध्यायः ॥

 

 

अध्याय ३०

 

मार्कण्डेय उवाच –

ऋषीणामयुतं राजन्नैमिषारण्यवासिनाम्  ।

गर्गश्च शौनको दक्षः सर्वेषां धर्मतः पिता  ॥ ३०.१ ॥

तेषां निवसतां तत्र आश्चर्यमभवत्नृप  ।

हिरण्या नाम नगरी दृष्टा वा यदि वा श्रुता  ॥ ३०.२ ॥

हिरण्यवेगा नाम्नी तु नदीपुष्पफलद्रुमा  ।

धनदस्य पुरी रम्या धनाढ्या च यथा स्थिता  ॥ ३०.३ ॥

साप्तभौमैर्गृहैर्रम्यैर्हेमप्राकारतोरणैः  ।

वेणुवीणानिनादौघैर्गन्धर्वैर्नादितायुतैः  ॥ ३०.४ ॥

नागराः पूजिताः सर्वेऽत्राधिष्ठितधनान्विताः  ।

अग्निहोत्रैश्च विद्वद्भिर्ब्राह्मणैर्वेदपारगैः  ॥ ३०.५ ॥

एवं विधा पुरी रम्या सर्वोत्सवसमन्विता  ।

अकाले म्रियते यस्तु स राज्ञा गृह्यते पुनः  ॥ ३०.६ ॥

मुदा परमया युक्तो वित्तेशो धनदो यथा  ।

प्रजापतिं संपप्रच्छ ब्रह्मणो मानसं सुतम्  ॥ ३०.७ ॥

प्रणिपत्य नमस्कृत्य दक्षं तं मुनिपुङ्गवम्  ।

अनेकानि सहस्राणि मुनीनां ब्रह्मवर्चसाम्  ॥ ३०.८ ॥

सौत्रामणिः सोमसंस्था कस्मिन् देशे च सिद्ध्यति  ।

आचक्ष्व मुनिशार्दूल यतः त्वं सर्वधर्मवित् ॥ ३०.९ ॥

हिरण्यबाहुं प्रोवाच दक्षो वैवस्वतं तदा  ।

तीर्थं हि पुष्करं नाम त्रिषु लोकेषु विश्रुतम्  ॥ ३०.१० ॥

तस्मिन्निष्टं हुतं राजन् सर्वं कोटिगुणं भवेत् ।

ब्राह्मणानां प्रसादेन नाऽत्र कार्या विचारणा  ॥ ३०.११ ॥

तस्य तद्वचनं श्रुत्वा राजा प्रोवाच तं मुनिम्  ।

निष्पाद्यतां च यज्ञो मे भगवन् पुष्करे शुभे  ॥ ३०.१२ ॥

मानसं ब्रह्मणः पुत्रं सर्ववेदविशारदम्  ।

त्वामृते दीक्षितुं कस्य शक्तिरस्मिन्महीतले  ॥ ३०.१३ ॥

एवमस्त्विति तं प्राह दक्षो राजर्षिसत्तमम्  ।

ततो जगाम राजर्षिः पुष्करं सर्वसम्भृतः  ॥ ३०.१४ ॥

गवां च दशलक्षाणि सार्द्धं लक्षं तु वाजिनाम्  ।

द्विपञ्चाशत्सहस्राणि गजेन्द्राणां रथायुतम्  ॥ ३०.१५ ॥

मणिमाणिक्यरत्नानि वस्त्राण्याभरणानि च  ।

तेषां संख्या न विद्येत कुबेरस्य धनं यथा  ॥ ३०.१६ ॥

ततो भक्षाणि भोज्यानि पानानि विविधानि च  ।

एवं प्रवर्तितो यज्ञः पवित्रे श्रेष्ठपुष्करे  ॥ ३०.१७ ॥

आहूतश्च ततो ब्रह्मा शक्रश्चापि सुरेश्वरः  ।

अन्यदेवैश्च किं कार्यं ताभ्यां सर्वं प्रपूजितम्  ॥ ३०.१८ ॥

न रुद्रो यज्ञभागार्हो वासुदेवः त्वयाजकः  ।

न चादित्यो न वरुणो न देवा न च चन्द्रमाः  ॥ ३०.१९ ॥

वेदमूलो यतो यज्ञो राज्ञश्चामिततेजसः  ।

वेदनिर्घोषशब्देन यज्ञधूमेन भारत  ॥ ३०.२० ॥

रोदस्यनन्तरं राजन् सर्वमेव प्रपूरितम्  ।

एतस्मिन्नन्तरे यज्ञच्छिद्रान्वेषणतत्पराः  ॥ ३०.२१ ॥

सम्प्राप्ता राजशार्दूल बलेन बलवत्तराः  ।

पराजयं च देवानामसुराणां जयं तथा  ॥ ३०.२२ ॥

कर्तुं प्रस्थापिताः सर्वे ह्यसुरा देवकण्टकाः  ।

तेभ्यो निकेतुना प्रोक्तं दैत्यानामीश्वरेण हि  ॥ ३०.२३ ॥

न रुद्रोऽस्ति न विष्णुर्वा ब्रह्मास्ते स तु पूजकः  ।

न कर्तव्यं भयं तेषां ब्राह्मणा ज्ञानदुर्बलाः  ॥ ३०.२४ ॥

गच्छन्तु दानवा दैत्या भूतवेतालराक्षसाः  ।

पिबन्तु सोमं यज्ञाङ्गं भक्षयन्तु तथा द्विजान्  ॥ ३०.२५ ॥

विध्वंसितस्ततो यज्ञो ब्राह्मणाश्चैव भक्षिताः  ।

अग्निर्विनाशितो यज्ञयूपश्च यज्ञमण्डपः  ॥ ३०.२६ ॥

ऋषीणां धर्षिताः पत्न्यो नग्नरूपैस्तथा बलात् ।

कुमारा ऋषयश्चैव भयार्ताः प्राणपीडिताः  ॥ ३०.२७ ॥

प्रणष्टश्च ततो ब्रह्मा शक्रो देवगणैः सह  ।

एवं यज्ञे च विध्वस्ते चक्रवर्ती नृपोत्तमः  ॥ ३०.२८ ॥

हिरण्यबाहुः कुपितो ब्राह्मणान् प्रति भारत  ।

पापिष्ठाश्च दुराचारा गतास्ते भिक्षुका द्विजाः  ॥ ३०.२९ ॥

स्वस्थानं च गता दैत्या गृहीत्वा यज्ञसम्भृतिम्  ।

एकाकी हयमारुह्य सह पत्न्या व्रजाम्यहम्  ॥ ३०.३० ॥

न पौरुषस्य कालोऽयं कोपस्य च कथंचन  ।

शम्भुर्न देवता यत्र शङ्खचक्रगदाधरः  ॥ ३०.३१ ॥

कथं सिद्ध्यति यज्ञौऽसौ न सूर्यो नैव चन्द्रमाः  ।

लोलुपा ब्राह्मणाः पापाः त्वशक्ता यज्ञरक्षणे  ॥ ३०.३२ ॥

यदि मे विद्यते सत्यं भवन्तु ब्रह्मराक्षसाः  ।

सकण्टके निरुदके प्रदेशे नष्टचेतनाः  ॥ ३०.३३ ॥

दक्षाद्यैर्ब्राह्मणैः सर्वैः सोऽभिशप्तो महीपतिः  ।

अरक्षिता त्वं यज्ञस्य क्षत्रियाणां तथाऽधमः  ॥ ३०.३४ ॥

खरो द्वादशवर्षाणि भविष्यसि न संशयः  ।

शापाद्बभूवुरन्योऽन्यं ते खरब्रह्मराक्षसाः  ॥ ३०.३५ ॥

एतत्ते कथितं वृत्तं न हरो न हरिः प्रभुः  ।

न यज्ञो न च तद्दानं न तपोऽध्ययनं न च  ॥ ३०.३६ ॥

वेदोक्तं कर्म न ब्राह्म्यं न धर्मं न त्रिविष्टपम्  ।

न व्रतं वषट्कारः सर्वपापप्रणाशनः  ॥ ३०.३७ ॥

एतस्मिन्नन्तरे राजन् देवर्षिर्नारदस्तदा  ।

आजगाम क्रतुं द्रष्टुं पुष्करं प्रति भारत  ॥ ३०.३८ ॥

ततो विप्लाविते यज्ञे दैत्यैर्दुष्कृतिकारिभिः  ।

हिरण्यबाहुश्च परं ब्राह्मणं ब्रह्मपारगम्  ॥ ३०.३९ ॥

उवाच वचनं राजा देवर्षिर्नारदं तदा  ।

नाशितो ब्राह्मणैर्यज्ञः क्षुद्रैर्मे मुनिपुङ्गव  ॥ ३०.४० ॥

यज्ञधर्मविधौ शक्तो घातयाम्यध्वरान्तकम्  ।

शक्तोऽस्मि त्रिजगज्जेतुं किं पुनर्दैत्य दानवान्  ॥ ३०.४१ ॥

मया चापि कृतो यज्ञो हरिशङ्करवर्जनात् ।

ब्रह्मशापवशाद्भीतो गार्दभं योनिमाश्रितः  ॥ ३०.४२ ॥

केनोपायेन देवर्षे त्रिकालज्ञ त्रिवेदवित् ।

स्वर्गलोकं गमिष्यामि ऋत्विग्भिर्ब्राह्मणैः सह  ॥ ३०.४३ ॥

अनुग्रहमिमं मन्ये यन्मां प्राप्तोऽसि नारद  ।

 

नारद उवाच –

शृणु राजन्महाभाग कथ्यमानं निबोध मे  ॥ ३०.४४ ॥

रेवाचरुकसम्भेदं पञ्चलिङ्गानि भूमिप  ।

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ३०.४५ ॥

तत्र गच्छ नरश्रेष्ठ ब्राह्मणैर्ब्रह्मराक्षसैः  ।

न यज्ञो न तपोदानं शिवध्यानपरो भव  ॥ ३०.४६ ॥

सद्यः प्रमुच्यते पापाद्ब्राह्मणैः शापदूषितैः  ।

यत्रासुरस्तु निहतो भैरवं रूपमाश्रितः  ॥ ३०.४७ ॥

पापप्रणाशनं लिङ्गं ऋणमोचनमेव च  ।

चतुष्केश्वरमपरं तथा सिद्धेश्वरं परम्  ॥ ३०.४८ ॥

पञ्चमं वारुणं लिङ्गं सिद्धं तत्र प्रतिष्ठितम्  ।

एवं तु नारदः प्राह भगवन्तं नृपोत्तमम्  ॥ ३०.४९ ॥

 

युधिष्ठिर उवाच –

भगवन् कीदृशं रूपं यदा नृत्यति भैरवः  ।

एतदाचक्ष्व मे सर्वं प्रसादः क्रियतां प्रभो  ॥ ३०.५० ॥

 

मार्कण्डेय उवाच –

गौर्यापृष्टः पुरा राजन् कौतुकेन सुरेश्वरः  ।

नृत्यरूपं समाख्याहि किमन्यैः कथितैर्मम  ॥ ३०.५१ ॥

शान्तरूपं ततस्त्यक्त्वा कृतं रूपं सुदारुणम्  ।

स्थितश्चैकेन पादेन प्रपीड्य वसुधातलम्  ॥ ३०.५२ ॥

द्वितीयेन च पादेन ब्रह्माण्डं सचराचरम्  ।

ख्यातं दारुवनं नाम पञ्चलिङ्गसमन्वितम्  ॥ ३०.५३ ॥

निहत्य चासुरं तत्र पुनर्नृत्यं मया प्रिये  ।

तस्मिन् दारुवने चण्डि रुद्रं भुवनदारुणम्  ॥ ३०.५४ ॥

एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम्  ।

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  ॥ ३०.५५ ॥

गच्छ गच्छ नृप स्थानं नर्मदाचारुसङ्गमम्  ।

तत्र ते स्नातमात्रस्य शापस्यान्तो भविष्यति  ॥ ३०.५६ ॥

एवमुक्त्वा ययौ राजन् देवर्षिर्नारदस्तदा  ।

हिरण्यबाहुर्नृपतिः सान्तः पुरपरिच्छदः  ॥ ३०.५७ ॥

दक्षशौनकगर्गाद्यैः शापभ्रष्टैः समन्वितः  ।

आजगाम ततः शीघ्रं नर्मदाचरुसङ्गमम्  ॥ ३०.५८ ॥

तत्र स्नात्वा स राजर्षिर्दत्त्वा चैव तिलोदकम्  ।

पञ्चलिङ्गानि चाभ्यर्च्य तस्मिन् दारुवने तदा  ॥ ३०.५९ ॥

सिद्धेश्वरं चरुलिङ्गं ऋणमोचनमेव च  ।

पापप्रणाशनं चान्यच्चण्डिकेश्वरमुत्तमम्  ॥ ३०.६० ॥

पूजयित्वा यथा न्यायं भुक्तिमुक्तिफलप्रदम्  ।

स्तोत्रैस्तुष्टाव विविधैः शिवभक्तिपरायणः  ॥ ३०.६१ ॥

त्वया विना तपोदानं न यज्ञं न च याजनम्  ।

न स्वर्गं न च मोक्षं च कामयेय महेश्वर  ॥ ३०.६२ ॥

न हरो न हरिर्यत्र सर्व तन्निष्कलं भवेत् ।

ततस्तुष्टः सुरेशानो वरं वृण्वित्युवाच तम्  ॥ ३०.६३ ॥

हिरण्यबाहू राजर्षिः प्रसाद्य शिवमब्रवीत् ।

यदि तुष्टोऽसि मे देव वरं दातुं त्वमिच्छसि  ॥ ३०.६४ ॥

तदास्याः खरयोनेर्मां महादेवविमोचय  ।

त्यजन्ति चात्र ये प्राणान् पापा अपि नराधमाः  ॥ ३०.६५ ॥

तेऽपि यान्ति तव स्थानं सत्यमेतद्वचो मम  ।

निर्विघ्ना यज्ञसिद्धिश्च श्रेयो दानं तपस्तथा  ॥ ३०.६६ ॥

एवमस्त्विति तं प्रोक्त्वा शिवस्त्वन्तरधीयत  ।

शापान्मुक्तः स धर्मात्मा दिव्यकान्तिवपुर्धरः  ॥ ३०.६७ ॥

कामिकं यानमारुह्य सान्तःपुरपरिच्छदः  ।

ध्रियमाणातपत्रश्च स्तूयमानश्च मागधैः  ॥ ३०.६८ ॥

मुदा परमया युक्तो हिरण्यपुरमाविशत् ।

अन्यं याजकमन्वेष्टुं यज्ञार्थं ब्रह्मवादिनम्  ॥ ३०.६९ ॥

एतस्मिन्नन्तरे प्राप्ते नारदः पुरमभ्यगात् ॥ ३०.७० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे रेवाचरुसङ्गमवर्णनो नाम त्रिंशोऽध्यायः ॥

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!