रेवा खंड स्कंद पुराण 2

रेवा खंड स्कंद पुराण 31 to 60 

अध्याय ३१

 

युधिष्ठिर उवाच –

हिरण्यबाहुः शापान्ते नगरीं प्राप्य निर्वृतः  ।

दक्षादयः कथं मुक्तास्तस्माच्छापाच्च कथ्यताम्  ॥ ३१.१ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाबाहो कथ्यमानं निबोध मे  ।

हिरण्यबाहुना शप्ता यावन्मुक्ता द्विजोत्तमाः  ॥ ३१.२ ॥

बभ्रमुः सर्वतीर्थानि आसमुद्रान्त गोचरे  ।

तेषां ब्रह्मादयः शापं न निवर्तयितुं क्षमाः  ॥ ३१.३ ॥

वाराणसीं महापुण्यां गङ्गासागरसङ्गमम्  ।

हिमवन्तं च केदारमौर्वतीर्थं च भारत  ॥ ३१.४ ॥

गङ्गा च नैमिषारण्यं भैरवं पुष्करं तथा  ।

मायापुरीं तथा रम्यामुग्रं कनखलं तथा  ॥ ३१.५ ॥

रौद्रं चैव तथेशानं सुरासुरनमस्कृतम्  ।

गङ्गाद्वारं हिमस्थानं प्रभासं शशिभूषणम्  ॥ ३१.६ ॥

रुद्रकोटिसमायोगं गङ्गाभेदं सरस्वतीम्  ।

स्थानेश्वरं तथा पुण्यं कुरुक्षेत्रं तथैव च  ॥ ३१.७ ॥

कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्  ।

कुरुक्षेत्रस्य नाम्नापि नरः पापैः प्रमुच्यते  ॥ ३१.८ ॥

भ्रमेणैवं विषण्णास्ते शापस्यान्त न लेभिरे  ।

निन्दितानि च तीर्थानि पापकर्मरतैस्ततः  ॥ ३१.९ ॥

आकाशवचनं श्रुत्वा महातीर्थानि निन्दत  ।

हरं हरिं च यो द्वेष्टि नाभिनन्दति यः सुरान्  ॥ ३१.१० ॥

स याति यत्र यत्रैव दुःखं प्राप्नोत्यसंशयः  ।

एतस्मिन्नन्तरे प्राप्तो नारदो देवपूजितः  ॥ ३१.११ ॥

दक्षशौनकगर्गादीन् सर्वांस्तान्मुनिसत्तमान्  ।

ब्रह्मरक्षस्तनून् दृष्ट्वा नारदो वाक्यमब्रवीत् ॥ ३१.१२ ॥

भवन्तः कर्मणा केन सञ्जाता ब्रह्मराक्षसाः  ।

तस्याथ वचनं श्रुत्वा नारदस्य महामुनेः  ॥ ३१.१३ ॥

सोऽभिवाद्य नमस्कृत्य दक्षो वचनमब्रवीत् ।

यथोत्सवं कृतं कर्म ब्रह्मलोकहिताय यत् ॥ ३१.१४ ॥

तद्विपर्यासमापन्नं गहना कर्मणो गतिः  ।

कर्मोपदिश मे किंचिद्येन मुञ्चापि दुष्कृतम्  ॥ ३१.१५ ॥

यत्र यत्र च गच्छामो जलमन्नं न विद्यते  ।

अनावृष्टिरभूद्घोरा तत्र तत्रैव नारद  ॥ ३१.१६ ॥

 

नारद उवाच –

प्रसाद्यतां मुनिश्रेष्ठाः शापस्यान्तं करिष्यति  ।

हिरण्यबाहुर्धर्मात्मा हिरण्यपुरमास्थितः  ॥ ३१.१७ ॥

यज्ञं कर्तुं समायातो रेवाचरुकसङ्गमे  ।

पञ्चलिङ्गानि चाभ्यर्च्य शापान्तं च करिष्यति  ॥ ३१.१८ ॥

एवमुक्त्वा स देवर्षिर्ब्राह्मणैः शापकर्षितैः  ।

आजगाम ततो दिव्यां हिरण्यनगरीं शुभाम्  ॥ ३१.१९ ॥

हिरण्यबाहुर्नृपतिर्वशिष्ठश्च महामुनिः  ।

विलोक्य तान्मुनीन् सर्वान् स देवर्षिपुरोगमान्  ॥ ३१.२० ॥

अभिवाद्य यथा न्यायमर्घपाद्यैरपूजयत् ।

नारदस्तु ततो वाक्यं राजानमिदमब्रवीत् ॥ ३१.२१ ॥

कुशलं ते नृपश्रेष्ठ सुखं तिष्ठसि सुव्रत  ।

नारदस्य वचः श्रुत्वा सर्वधर्मपरायणः  ॥ ३१.२२ ॥

उवाच वचनं राजा नारदं श्लक्ष्णया गिरा  ।

अद्य मे कुशलं ब्रह्मंस्तवपादाब्जदर्शनात् ॥ ३१.२३ ॥

किं कर्तव्यं मया तेऽद्य ब्रह्मन्मेऽनुग्रहं कुरु  ।

 

नारद उवाच –

कुरु ब्रह्ममुनीनां त्वं शापान्तं राजदर्शनात् ॥ ३१.२४ ॥

निपातय महादुष्टान् दैत्यान् दुष्कृतकारिणः  ।

बन्धनस्था हि मोक्तव्या ब्राह्मणास्तु विशेषतः  ॥ ३१.२५ ॥

 

राजोवाच –

वेदं पठन्ति येऽज्ञानाद्वदन्त्यर्थं न तस्य च  ।

प्रमाणं भूतलोकस्य तद्वत्कर्म च कुर्वतः  ॥ ३१.२६ ॥

ब्रह्मन् वेदेन विधिवत्ते तु स्वर्गं प्रयान्ति वै  ।

अहंकरविमूढाश्च मिथ्यदानेन याजकाः  ॥ ३१.२७ ॥

पतन्ति नरके विष्णुशङ्करद्वेषणे रताः  ।

अगस्त्यं च वशिष्ठं च कृत्वा तौ याजकौ मुने  ॥ ३१.२८ ॥

क्रतुमिष्ट्वा विधानेन रेवाचरुकसङ्गमे  ।

मोचयिष्याम्यहं शापात्पञ्चलिङ्गार्चनाद्द्विज  ॥ ३१.२९ ॥

वेदमन्त्रहुतं तत्र स्वयं विष्णुर्ग्रहीष्यति  ।

रुद्रः कालाग्निरूपेण ग्राहकश्च भविष्यति  ॥ ३१.३० ॥

एवं यज्ञे तु सम्पूर्णे तुष्टे नारायणे शिवे  ।

द्विजानां मोक्षणं तत्र भविष्यति न संशयः  ॥ ३१.३१ ॥

न मुने देवता यत्र शङ्खचक्रगदाधरः  ।

इहलोके परे चैव गतिस्तस्य न विद्यते  ॥ ३१.३२ ॥

एवमुक्त्वा ययौ राजा सर्वसंभारसंभृतः  ।

यज्ञोपस्करमादाय ब्राह्मणैर्वेदपारगैः  ॥ ३१.३३ ॥

रेवाचरुकसंभेदे यज्ञमिष्ट्वा विधानतः  ।

विहाय पापं शप्तांस्तान्मोचयामास स द्विजान्  ॥ ३१.३४ ॥

पञ्चलिङ्गसमायोगे तीर्थस्यास्य प्रभावतः  ।

ब्रह्मयानसमारूढो वीज्यमानोऽप्सरोगणैः  ॥ ३१.३५ ॥

ध्रियमाणातपत्रस्तु स्तूयमानश्च वन्दिभिः  ।

प्रायाच्छिवपुरं दिव्यमुमामाहेश्वरं नृप  ॥ ३१.३६ ॥

एतत्ते कथितं राजन् पुराणाख्यानमुत्तमम्  ।

श्रुत्वाख्यानामिदं पुण्यं पञ्चलिङ्गसमागमम्  ॥ ३१.३७ ॥

यमलोकं न पश्येद्वै पापयोनिं न गच्छति  ।

हयमेधफलं प्राप्य शिवलोके महीयते  ॥ ३१.३८ ॥

पापग्रस्तो विमूढात्मा विष्णुमायाविमोहितः  ।

कथं प्रयाति तत्तीर्थं कालग्रहवशीकृतः  ॥ ३१.३९ ॥

श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३१.४० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमाहात्म्ये एकत्रिंशोऽध्यायः ॥

 

अध्याय ३२

 

मार्कण्डेय उवाच –

गुह्यातिगुह्यरूपाणि पवित्राणि युधिष्ठिर  ।

श्राद्धकार्यस्य सिद्धानि तीर्थानीह निबोध मे  ॥ ३२.१ ॥

अतिगुह्यस्य पुण्यस्य सर्वतोऽमरकण्टके  ।

तमारभ्य गिरिश्रेष्ठं सर्वं पुण्यतरं स्मृतम्  ॥ ३२.२ ॥

यावत्सा नर्मदा मध्ये पुण्यस्रोता महानदी  ।

नास्ति तस्मात्परं पुण्यं त्रिषु लोकेषु भारत  ॥ ३२.३ ॥

तस्योत्तरविभागेऽस्ति नामतो यज्ञपर्वतः  ।

कनिष्ठो विन्ध्यपुत्रस्तु भ्राता पर्यङ्कभूभृतः  ॥ ३२.४ ॥

स्वयंभुवा पुरा तस्मिन्निष्टः सौत्रामणिर्मखः  ।

तत्रैवेष्टं मघवता हयमेधेन भारत  ॥ ३२.५ ॥

दधीचिनाऽथ देवैश्च तत्रैवेष्टं महामखैः  ।

निश्क्रान्ता पर्वतात्तस्माच्चतुर्नामा महानदी  ॥ ३२.६ ॥

पतिता नर्मदायां तु सङ्गमो लोकविश्रुतः  ।

तस्यास्तीरे तु ये दर्भाः पीतवर्णाः क्षितिं गताः  ॥ ३२.७ ॥

ते श्राद्धकरणे भूप पितॄणां मोक्षदायकाः  ।

स यावत्सङ्गमो नद्याः स यावद्यज्ञपर्वतः  ॥ ३२.८ ॥

एतस्मिन्नन्तरे राजन् श्राद्धं यः परिकल्पयेत् ।

पितरस्तस्य तृप्यन्ति स्नानं कुर्यात्प्रदक्षिणम्  ॥ ३२.९ ॥

सिद्धेश्वरं नामलिङ्गं चतुष्केश्वरमेव च  ।

संख्या न भूयो लोकेषु ख्यातमात्रं मयाऽनघ  ॥ ३२.१० ॥

सङ्गमे विद्यते देवो न तं पश्यन्ति मानवाः  ।

पूज्यते नागकन्याभिः सदेवासुरसत्तमैः  ॥ ३२.११ ॥

कथयामि तवाख्यानमितिहासं पुरातनम्  ।

ऋषिः सुपर्णो यत्रासीद्ब्रह्मयोनिर्जितेन्द्रियः  ॥ ३२.१२ ॥

पुरुहूता तस्य भार्या धर्मपत्नी पतिव्रता  ।

नैमिषारण्यवासस्य कन्दमूलफलाशिनः  ॥ ३२.१३ ॥

कृष्णाजिनपरीधानवल्कलादिकवाससः  ।

त्रिकालवह्णिहोतारो वेदाध्ययनतत्पराः  ॥ ३२.१४ ॥

वेदस्मृतिपुराणोक्तमोक्षोपायविचिन्तकाः  ।

ऋषयो दशलक्षाणि नैमिषारण्यवासिनः  ॥ ३२.१५ ॥

बालखिल्याश्च तत्रैव ब्रह्मणो मानसाः सुताः  ।

ब्रह्मदण्डं समारुह्य देवलोकं प्रयान्ति ते  ॥ ३२.१६ ॥

मासोपवासिनस्तत्र जलाहारास्तथापरे  ।

तिष्ठन्ति बहवः केचिदेकपादेन चापरे  ॥ ३२.१७ ॥

तस्मिंस्तपोवने रम्ये सिद्धगन्धर्वसेविते  ।

प्रसाद्य चाब्रवीद्वाक्यं पुरुहूता निजं पतिम्  ॥ ३२.१८ ॥

ऋतुकाले तु पर्वणि मांभजस्व महामुने  ।

जायते मे यथा पुत्रः सर्वसन्तानपावनः  ॥ ३२.१९ ॥

पुत्रेण लोकान् जयते तृप्यन्ति पितृदेवताः  ।

अपुत्रस्य गतिर्नास्ति तस्मात्पुत्रमजीजनः  ॥ ३२.२० ॥

 

ब्राह्मण उवाच –

अमावास्याद्य गोत्रेऽस्मिन्मैथुनं वर्जितं प्रिये  ।

अकर्तव्यमिदं भद्रे पितॄणां वार्जितं ध्रुवम्  ॥ ३२.२१ ॥

पितरस्तस्य तन्मांसं भुञ्जते ऋतुगामिनः  ।

दिव्यं वर्षसहस्रं तु तप्तं मे दुष्करं तपः  ॥ ३२.२२ ॥

स्नात्वा तत्क्षणमात्रेण चाण्डालस्त्रिदिवङ्गतः  ।

धिक्धिक्धिगीरितं सर्वं न वेदो न च याजनम्  ॥ ३२.२३ ॥

प्रहस्य चाब्रवीद्वाक्यं निषादी तं मुनिं प्रति  ।

विषादं त्यज विप्रर्षे सत्यमेतद्ब्रवीम्यहम्  ॥ ३२.२४ ॥

अहंकारविमूढात्मा त्वत्समो नास्ति तापसः  ।

न स्नानं न जपो होमो न स्वाध्यायः शिवार्चनम्  ॥ ३२.२५ ॥

निष्कलं क्लेशमापन्नो वायुभक्षो निराश्रयः  ।

त्वत्तपो ध्यानयोगश्च स्वर्गप्राप्तिश्च तत्कथम्  ॥ ३२.२६ ॥

 

जाबालिरुवाच –

काऽसि त्वं च वरारोहे निषादी रूपमाश्रिता  ।

उमा सरस्वती गङ्गा मां जिज्ञासितुमागता  ॥ ३२.२७ ॥

अनुग्रहमिमं मन्ये धर्मं ब्रूहि शुचिस्मिते  ।

निषादो नैमिषारण्ये ममासीत्मुनिपुंगव  ॥ ३२.२८ ॥

कामार्तया मया दर्शे भर्ता पुत्राय याचितः  ।

अकाले याचमानाऽहं तेन शप्ता महात्मना  ॥ ३२.२९ ॥

स च भर्ता मया शप्तस्ततोऽन्योऽन्यं समागते  ।

अस्य तीर्थस्य महात्म्यादावां मुक्तौ तु किल्बिषात् ॥ ३२.३० ॥

तस्मात्त्वं हि मुनिश्रेष्ठ शिवाराधनतत्परः  ।

मदर्थं कुरु कर्माणि होमजाप्यादिकं मुहुः  ॥ ३२.३१ ॥

यास्यसे त्वं समे देशे सत्यमेतद्ब्रवीम्यहम्  ।

इत्युक्त्वा सा ययौ स्वर्गं निजभर्त्रा समन्विता  ॥ ३२.३२ ॥

त्यक्त्वा स्वकल्पं जाबालिः शिवाराधनतत्परः  ।

अचिरेणैव कालेन ब्रह्मलोकमुपागतः  ॥ ३२.३३ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे ब्राह्मणस्य भार्यया सह स्वर्गारोहणं नाम द्वात्रिंशोऽध्यायः ॥

 

 

अध्याय ३३

 

मार्कण्डेय उवाच –

पश्चिमे नीलगङ्गाया नर्मदोत्तरकूलतः  ।

व्यतीपातेश्वरं नाम लिङ्गं परमसिद्धिदम्  ॥ ३३.१ ॥

सोमनाथं स्वयं विद्धि सोममूर्तिं जगत्पतिम्  ।

सावित्र्या च तपस्तप्तं तत्र सप्तर्षिभिस्तथा  ॥ ३३.२ ॥

सावित्रीकुण्डमित्येतद्विख्यातं नर्मदातटः  ।

नरस्य स्नानमात्रस्य कन्यादानफलं भवेत् ॥ ३३.३ ॥

तिलोदकप्रदानेन चान्नदानेन भारत  ।

पितरस्तस्य तृप्यन्ति सावित्रीलोकमाश्रिताः  ॥ ३३.४ ॥

दक्षस्य दुहिता चासीत्कुमुदा नाम विश्रुता  ।

सोमाय दत्त्वा तां दक्षो मुदा परमया युतः  ॥ ३३.५ ॥

तस्या स जनयामास हिमांशुः पुत्रमद्भुतम्  ।

ज्ञात्वाऽमृतमयं तं तु सुरा यज्ञफलार्थिनः  ॥ ३३.६ ॥

हिमांशुं सोमपुत्रं च ते ययुश्च मुदान्विताः  ।

अन्या सोमस्य परमा कला या षोडशी स्मृता  ॥ ३३.७ ॥

अध्यास्ते सा चन्द्रमसं पितृणां तारणाय च  ।

वनस्पतौ गते सोमे गवां क्षीरे हविःषु च  ॥ ३३.८ ॥

सोमपाने महायज्ञे दर्शे दिविषदां तदा  ।

पीतं श्रुत्वाऽसुराः सर्वे हिमांशुं पातुमुद्यताः  ॥ ३३.९ ॥

असुराणां भयाद्विन्ध्यं हिमांशुर्गिरिमाश्रयत् ।

श्रुत्वा ते गिरिदुर्गस्थमसुराः स्वभयात्तदा  ॥ ३३.१० ॥

ग्रस्ते ते राहुणा सूर्ये हिमांशुं प्रति भारत  ।

कायातिकायप्रमुखाः सम्प्राप्ता दानवास्ततः  ॥ ३३.११ ॥

राहोस्तु भ्रातरः सर्वे सैंहिकेया महाबलाः  ।

समाहृत्य हिमांशुस्तैः सुधार्थे चिरजीविभिः  ॥ ३३.१२ ॥

भूतले पातितः पापैः क्रन्दन्ति स्म सुरास्तदा  ।

उवाच स पतन् भूमौ हिमांशुः सोमनन्दन  ॥ ३३.१३ ॥

पातु मां देव ईशानो दानवानां भयंकरः  ।

एतस्मिन्नन्तरे भूप हिमांशो रक्षणाय वै  ॥ ३३.१४ ॥

पातालादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम्  ।

तेन बाणेन रौद्रेण हुङ्कारेण महासुराः  ॥ ३३.१५ ॥

भस्मीकृतास्तु तत्रैव देवदेवेन शूलिना  ।

ततस्तमब्रवीद्देवो भयमासुरजं त्यज  ॥ ३३.१६ ॥

शिवभक्तिपरो भूत्वा निर्भयस्तिष्ठ पुत्रक  ।

अथ सोमः सुरैः सार्द्धं गत्वा ब्रह्मनिकेतनम्  ॥ ३३.१७ ॥

वृत्तान्तं कथयामास ततस्तद्वचनात्तु ताः  ।

ब्रह्माद्या देवताः सर्वा जग्मुः सोमपुरोगमाः  ॥ ३३.१८ ॥

ओंकारः कल्पगातीरे यत्र तिष्ठति भारत  ।

दृष्ट्वा तु त्र्यम्बकं देवं षष्टिसंहारकारकम्  ॥ ३३.१९ ॥

उवाच वचनं देवो ब्रह्मा लोकपितामहः  ।

श्रीमानमृतरूपोऽयं हिमांशुः सोमनन्दनः  ॥ ३३.२० ॥

रक्षणीयस्त्वया नाथ देवदानवशङ्कया  ।

सप्तविंशतियोगानां गतिः प्रोक्ता तु चन्द्रमाः  ॥ ३३.२१ ॥

त्वं गतिः सर्वलोकानां तस्मात्त्वं त्रातुमर्हसि  ।

तेषां तद्वचनं श्रुत्वा शिव ऊचे यथोचितम्  ॥ ३३.२२ ॥

पूजयित्वा तु देवेशं सोमनाथं जगत्पतिम्  ।

पातालेश्वरनामानं गताः सर्वे त्रिविष्टपम्  ॥ ३३.२३ ॥

तदा प्रभृति तत्स्थानं त्रिषु लोकेषु विश्रुतम्  ।

सावित्रीकुण्डतोयेन स्नानं कृत्वा तमर्चयेत् ॥ ३३.२४ ॥

न तस्य पुनरावृत्तिः सत्यमेतच्छिवोदितम्  ।

प्रभासे यत्फलं राजन् दृष्टं च शशिभूषणे  ॥ ३३.२५ ॥

तत्फलं नृपशार्दूल भवेदेव न संशयः  ।

कालातिक्रमणं कुर्यात्तत्र यो भैक्षमाश्रितः  ॥ ३३.२६ ॥

न तस्य पुनरावृत्तिः सत्यमेतद्ब्रवीम्यहम्  ।

तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ ३३.२७ ॥

पतितानुद्धरेज्जतून्नरकान्नात्र संशयः  ।

श्रवणात्कीर्तनादस्य सोमलोके महीयते  ॥ ३३.२८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे पातालेश्वरमाहात्म्यं नाम त्रयस्त्रिंशोऽध्यायः ॥

 

 

अध्याय ३४

 

मार्कण्डेय उवाच –

कथयामि तवाख्यानमिन्द्रद्युम्नस्य भारत  ।

अयोध्याधिपतिः श्रीमान् सूर्यवंशे महीपतिः  ॥ ३४.१ ॥

बुभुजे स महीं सर्वां सशैलवनकाननाम्  ।

चक्रवर्ती नृपश्रेष्ठः सत्यसंधो दृढव्रतः  ॥ ३४.२ ॥

स शशास महीं सर्वां यथा शक्रोऽमरावतीम्  ।

यज्ञहोमसहस्रैस्तु ददाह वसुधामिमाम्  ॥ ३४.३ ॥

यज्ञोत्सवविवाहैस्तु वेदमङ्गलमङ्गलैः  ।

चातुर्वर्ण्यं स्वधर्मस्थं प्राकृता इतरे जनाः  ॥ ३४.४ ॥

कामं कामदुघा धेनुर्धरणी सस्यशालिनी  ।

पप्रच्छ स तु राजर्षिर्वशिष्ठं ब्रह्मवित्तमम्  ॥ ३४.५ ॥

शक्रश्चाङ्गिरसं यद्वदयोध्याधिपतिस्तथा  ।

सोमसूर्यान्वयस्यैकं तारणं च पुरोधसम्  ॥ ३४.६ ॥

हयमेधं महायज्ञं कस्मिंस्तीर्थे यजाम्यहम्  ।

कथय त्वं प्रसादेन यथा दृष्टं यथा श्रुतम्  ॥ ३४.७ ॥

 

वशिष्ठ उवाच –

ब्रह्मर्षयो वेदविदो यथा ते चाब्रुवन्नृप  ।

यज्ञो निवर्तितव्यस्तु ऋत्विग्भिर्ब्राह्मणैस्तव  ॥ ३४.८ ॥

मरीचिः कश्यपश्चापि अङ्गिरा गौतमस्तथा  ।

दुर्वासाश्च्यवनो धूम्रः कण्वश्चैव महामुनिः  ॥ ३४.९ ॥

एते चान्ये च नृपते मुनीन्द्राः शंसितव्रताः  ।

पप्रच्छ तान्महाराज इन्द्रद्युम्नो महीपतिः  ॥ ३४.१० ॥

कस्मिंस्तीर्थे कृतो यज्ञः कामभोगफलप्रदः  ।

एतत्सर्वं यथार्थं मे वदन्तु मुनिपुंगवाः  ॥ ३४.११ ॥

 

ऋषय ऊचुः॒

केचिद्वाराणसीं भूप प्रयागं च तथा परे  ॥ ३४.१२ ॥

अन्ये वै नैमिषं तीर्थं पुष्करं च तथापरे  ।

कुब्जाम्रकं तथा चान्ये गङ्गाद्वारमथापरे  ॥ ३४.१३ ॥

मायापुरीं तथा चान्ये सर्वदेवनमस्कृताम्  ।

वदन्त्यन्ये हिमस्थानं बिल्वकं नीलपर्वतम्  ॥ ३४.१४ ॥

कुशावर्तं तथैवाऽन्ये तथा रुद्रमहालयम्  ।

ईशानं चैव केदारं सर्वतीर्थमयं शुभम्  ॥ ३४.१५ ॥

और्वतीर्थं वदन्त्यन्ये तथा बदरिकाश्रमम्  ।

कालञ्जरं नीलकण्ठं देवदारुवनं तथा  ॥ ३४.१६ ॥

हेमकूटं विरूपाक्षमन्ये चण्डीश्वरं तथा  ।

भूतेश्वरं भस्मगात्रं प्रभासं शशिभूषणम्  ॥ ३४.१७ ॥

तीर्थान्येतानि चान्यानि कथितानि तवानघ  ।

मतान्तरं मुनीनां च विविधं परिकीर्तितम्  ॥ ३४.१८ ॥

दुर्वासाश्चाब्रवीद्वाक्यं प्रहसन्निव तं नृपम्  ।

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः  ॥ ३४.१९ ॥

वैश्यानां धान्यधनतः शूद्राणां चैव जन्मतः  ।

मार्कण्डेये विद्यमाने सप्तकल्पानुवर्तिनि  ॥ ३४.२० ॥

भविष्यभूततत्त्वज्ञे त्रिकालज्ञे त्रयीविदि  ।

ब्रह्मविष्णुमहेशानप्रमाणज्ञे तपोधने  ॥ ३४.२१ ॥

कस्यास्ति धर्मकथने सामर्थ्यं धर्मनिश्चये  ।

धर्मारण्ये महाराज गम्यतां कल्पगातटे  ॥ ३४.२२ ॥

मार्कण्डेयो वक्ष्यते यत्तत्र यज्ञः प्रवर्त्यताम्  ।

 

इन्द्रद्युम्न उवाच –

यथा वदसि देवर्षे तथा कार्यं मयानघ  ॥ ३४.२३ ॥

इत्युक्त्वा मुनिभिः सार्द्धं गन्तुं मार्कण्डमाश्रमम्  ।

उवाच वचनं राजा प्रतीहारं सुवर्चसम्  ॥ ३४.२४ ॥

मन्त्रिणं देवगर्भं च बृहस्पतिसमं नृप  ।

यज्ञोपस्करसम्भारं सर्वमादाय सत्वरम्  ॥ ३४.२५ ॥

आगच्छन्तु भवन्तोऽत्र ममादेशपरायणाः  ।

साग्निभिर्ब्राह्मणैः सार्द्धं यास्यामः कल्पगातटम्  ॥ ३४.२६ ॥

शीघ्रं सम्पाद्यतां सर्वं यथा यज्ञः प्रवर्त्यताम्  ।

सर्वेषामेव विप्राणां यानमेषां पृथक्पृथक् ॥ ३४.२७ ॥

शतानि चाष्टौ राज्ञीनां यानमासां प्रकल्पय  ।

नवखण्डक्षितीशानां समुद्रद्वीपवासिनाम्  ॥ ३४.२८ ॥

नानानृपसहस्राणां घोषणा क्रियतां मुहुः  ।

चन्द्रद्वीपं च सेतुं च ताम्रपात्रं शिलाष्टकम्  ॥ ३४.२९ ॥

भोगद्वीपं च सौम्यं च गान्धर्ववारुणं तथा  ।

कुमारिकाख्यं नवमं नवभेदं प्रवर्तितम्  ॥ ३४.३० ॥

जम्बूशाककुशक्रौञ्चशाल्मलिप्लक्षपुष्कराः  ।

सप्तद्वीपाः समाख्याताः समुद्राश्च निबोध मे  ॥ ३४.३१ ॥

क्षारसर्पिर्दधिक्षीरमदिरेक्षुजलात्मकाः  ।

समुद्राः परिखाकाराः पृथिवीमानकीर्तिताः  ॥ ३४.३२ ॥

एतेषां घोषणां कार्यां ममादेशानुवर्तिनाम्  ।

गवां च त्रीणि लक्षाणि सवत्सानां पयोमुचाम्  ॥ ३४.३३ ॥

अश्वानां श्यामकर्णानां सपादं लक्षमेव च  ।

दन्तिनामयुतं चैव घण्टाभरणभूषितम्  ॥ ३४.३४ ॥

सहस्राणि च चत्वारि यानानां कामचारिणाम्  ।

लक्षं तु करभाणां वै मणिमाणिक्यमेव च  ॥ ३४.३५ ॥

अग्निशौचानि वस्त्राणि ब्राह्मणार्थे तथैव च  ।

नानाभक्षाणि भोज्यानि पानानि विविधानि च  ॥ ३४.३६ ॥

लक्षं कर्मकराणां तु तिलदर्भादिकं तथा  ।

देवगर्भं समादिश्य मन्त्रिणं वदतां वरः  ॥ ३४.३७ ॥

तत्रस्थैर्ब्राह्मणैः सार्द्धं दिव्यं यानं समाश्रितः  ।

मुदा परमया युक्तः सान्तः पुरपरिच्छदः  ॥ ३४.३८ ॥

धर्मारण्यं ततः प्राप्तो यत्रास्ते सप्तकल्पगः  ।

ओंकारं कल्पगां दृष्ट्वा वैदूर्यं पर्वतं तथा  ॥ ३४.३९ ॥

मुक्तोऽस्मि किल्बिषादद्य सप्तजन्मकृतादपि  ।

एवमुक्त्वोपविष्टोऽसौ साष्टाङ्गं प्रणिपत्य च  ॥ ३४.४० ॥

यथार्थं पूजयामास तमृषिं स नृपोत्तमः  ।

दृष्ट्वा तं नृपतिं प्राह मार्कण्डेयो महामुनिः  ॥ ३४.४१ ॥

कुशलं नृपशार्दूल चिरं दृष्टोऽसि सुव्रत  ।

किमागमनकार्यं ते ब्राह्मणैर्मुनिपुंगवैः  ॥ ३४.४२ ॥

 

इन्द्रद्युम्न उवाच –

यज्ञं कर्तुं समायातः कस्मिंस्तीर्थे द्विजोत्तम  ।

शिवेन कथितं यत्ते पुराणं स्कन्दकीर्तितम्  ॥ ३४.४३ ॥

तदहं श्रोतुमिच्छामि यज्ञक्षेत्रफलं महत् ॥ ३४.४४ ॥

 

मार्कण्डेय उवाच –

पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे  ॥ ३४.४५ ॥

स्नानं कर्तुं समायान्ति नर्मदायां नराधिपा  ।

उत्तरे यानि लिङ्गानि यानि तीर्थानि दक्षिणे  ॥ ३४.४६ ॥

लीयन्ते कोटितीर्थेषु कोटितीर्थं ततः स्मृतम्  ।

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  ॥ ३४.४७ ॥

ब्रह्मविष्ण्वादिदेवानां शक्रस्यापि प्रकीर्तितम्  ।

तन्मया कथितं राजन् यथोद्दिष्टं तु शम्भुना  ॥ ३४.४८ ॥

ओंकारसन्निधौ रेवाकोटितीर्थं प्रकीर्तितम्  ।

अत्र दत्तं हुतं चेष्टं तपस्तप्तं सुदुष्करम्  ॥ ३४.४९ ॥

तस्यान्तो नैव विद्यते महेश्वरवचो यथा  ।

राहुसोमसमायोगे कुरुक्षेत्रं प्रशस्यते  ॥ ३४.५० ॥

सर्वदा सर्वकार्येषु नर्मदा पुण्यदायिनी  ।

त्रयोदशगुणं विद्धि तीर्थमाहुर्मनीषिणः  ॥ ३४.५१ ॥

शतकोटिगुणं तत्तु कोटितीर्थं प्रचक्षते  ॥ ३४.५२ ॥

चन्द्रसूर्योपरागे तु विशेषेण नराधिप  ।

यज त्वं कोटितीर्थेषु यदि स्वर्गमभीप्ससि  ॥ ३४.५३ ॥

तस्य तद्वचनं श्रुत्वा राजा परमधार्मिकः  ।

पादौ जग्राह तत्रैव मुनेरमिततेजसः  ॥ ३४.५४ ॥

अनुग्रहमिमं मन्ये यत्त्वया कथितं मम  ।

एतस्मिन्नन्तरे प्राप्ते यज्ञयूपानुपस्करान्  ॥ ३४.५५ ॥

नानादेशान् क्षत्रियांश्च गाश्चाश्वांश्च गजांस्तथा  ।

तत्क्षणाद्देवगर्भश्च प्रतीहारः समार्पयत् ॥ ३४.५६ ॥

त्रिंशद्योजनपर्यन्तं यज्ञयूपांश्च मण्डपम्  ।

चकार स्वप्रमाणानि कुण्डानि विविधानि च  ॥ ३४.५७ ॥

वेदध्वनितनिर्घोषा दिवं भूमिं समस्पृशन्  ।

निर्धूमश्चाभवद्वह्णिः सूर्यकोटिसमप्रभः  ॥ ३४.५८ ॥

ब्रह्माणं च तथा विष्णुं रुद्रं चैव समाह्वयत् ।

रुद्रा एकादश तत्र तथादित्याश्च द्वादश  ॥ ३४.५९ ॥

विश्वेदेवास्तथासाध्या मरुतश्च तथा वसुः  ।

लोकपालास्तथा चाष्टौ समुद्राः सरितस्तथा  ॥ ३४.६० ॥

वनस्पतयस्तथा शैलास्तीर्थानि विविधानि च  ।

दिक्पाला भूतपालाश्च सिद्धगन्धर्वकिन्नराः  ॥ ३४.६१ ॥

पितरः सोमपाः सर्वे भुक्तिमुक्तिफलप्रदाः  ।

राक्षसा गुह्यका भूता उरगाश्च यथा तथा  ॥ ३४.६२ ॥

सद्मवातास्तथाकाशवासिनश्च तथोत्सवे  ।

घृतक्षीरवहा नद्यो दधिपायसकर्दमाः  ॥ ३४.६३ ॥

बभूव नृपतेस्तस्य तस्मिन् यज्ञे महोत्सवे  ।

भक्षभोज्यैश्च विविधैः काम्ययानदिभिस्तथा  ॥ ३४.६४ ॥

तृप्ता देवाश्च मुनयो भूतग्रामं चतुर्विधम्  ।

एवं निवर्तितो यज्ञो ब्राह्मणैर्भूरिदक्षिणैः  ॥ ३४.६५ ॥

सुरासुरैस्तथा दिव्यैरिन्द्रद्युम्नः स्तुतस्तदा  ।

यज्ञभागांश्च देवानां पृथक्पृथगकल्पयत् ॥ ३४.६६ ॥

तथा भागो हि रुद्राणां यथा सृष्टस्वयम्भुवा  ।

 

युधिष्ठिर उवाच –

रुद्रादित्यवसूतां च विश्वेदेवहविर्भुजाम्  ॥ ३४.६७ ॥

प्रमाणं नाम गोत्रांश्च कथयस्व महामुने  ।

 

मार्कण्डेय उवाच –

अत्रिश्चाङ्गिरसः सर्पिर्मरुतश्च बृहस्पतिः  ॥ ३४.६८ ॥

ध्रुवो धूम्रश्च केतुश्च धरो धाता हरस्तथा  ।

एकादश स्मृता रुद्राः सर्वे कामफलप्रदाः  ॥ ३४.६९ ॥

अर्यमा वरुणश्चेन्द्र पूषा चैव गभस्तिमान्  ।

मित्रश्चैव समाख्यातो जघन्यो जलकृत्तथा  ॥ ३४.७० ॥

विवस्वांश्चैव पर्जन्यो धाता वै द्वादश स्मृताः  ।

कश्यपस्याश्रमे जातास्तेजोनिधय उत्थिता  ॥ ३४.७१ ॥

मासावरप्रयोगेण संचरन्ति परेच्छया  ।

अहोरात्रमिमे सर्वे स्वर्लोकं च समन्ततः  ॥ ३४.७२ ॥

वसूनष्टौ महाराज कथ्यमानां शृणुष्व वै  ।

ध्रुवो धरश्च सोमश्च सावित्रो ह्यनिलोऽनल  ॥ ३४.७३ ॥

प्रत्यूषश्चैव कल्पश्च अष्टौ ते वसवः स्मृताः  ।

विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः  ॥ ३४.७४ ॥

क्रतुर्दक्षस्तथा सत्यः कालः कामो घ्ननिस्तथा  ।

पुरूरवोमार्द्रवसौ रोचमानश्च ते दश  ॥ ३४.७५ ॥

मुहूर्तायास्तथा पुत्राः साध्या देवाः प्रकीर्तिता  ।

एकहीनास्तु पञ्चाशत्मरुतश्चैव कीर्तिताः  ॥ ३४.७६ ॥

एषां नामानि सर्वेषां ख्यातान्येव युधिष्ठिर  ।

एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ  ॥ ३४.७७ ॥

ततो ध्रुवं विसृज्याथ मुनींश्च ब्रह्मनन्दनान्  ।

ओंकारं च ततो ज्ञात्वा राजा पूजां चकार ह  ॥ ३४.७८ ॥

मणिमाणिक्यरत्नैश्च लिङ्गस्याभरणं कृतम्  ।

गन्धधूपैश्च विविधैः कर्पूरागरुचन्दनैः  ॥ ३४.७९ ॥

ध्वजछत्रवितानैश्च व्यजनैर्दिव्यचामरैः  ।

पूजयित्वा विधानेन स्तोत्रं मे तदुदाहृतम्  ॥ ३४.८० ॥

ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः  ।

कामदो मोक्षदश्चैव ओंकाराय नमो नमः  ॥ ३४.८१ ॥

ब्रह्मविष्ण्विन्द्रवरद सर्वदेव नमोऽस्तु ते  ।

कद्रुदाय प्रचेतसे सहस्राक्षायमीढुषे  ॥ ३४.८२ ॥

या ते रुद्र शिवा तनूरघोरा पापकाशिनी  ।

सर्वाननशिरोग्रीव सर्वभूतशिवाय च  ॥ ३४.८३ ॥

सर्वव्यापी च भगवांस्तस्मै सर्वगते नमः  ।

सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः  ॥ ३४.८४ ॥

सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति  ॥ ३४.८५ ॥

जिह्वाचापल्यभावेन खेदितोऽसि महेश्वर  ।

कृतं स्तोत्रमिदं देवस्येन्द्रद्युम्नेन भारत  ॥ ३४.८६ ॥

लिङ्गमध्ये परं लिङ्गं ज्वलत्कालानलप्रभम्  ।

यद्दृष्टं तदुवाचैनं राजानं प्रति भारत  ॥ ३४.८७ ॥

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ३४.८८ ॥

 

इन्द्रद्युम्न उवाच –

यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि  ॥ ३४.८९ ॥

अत्रत्वमुमया सार्धं देवद्रोण्यां समर्चितः  ।

आवासं कुरु देवेश सर्वदा यज्ञपर्वते  ॥ ३४.९० ॥

अवशः स्ववशो वापि प्राणत्यागं करोति यः  ।

तीर्थेऽस्मिन् देवदेवेश शिवलोकं प्रयातु सः  ॥ ३४.९१ ॥

सहस्रयाजी धर्मज्ञो दानयज्ञाधिपस्तथा  ।

अन्धाश्च वामनाश्चैव तिर्यग्योनिगतानराः  ॥ ३४.९२ ॥

मरणादुभयोः साम्यं भवेदत्र महेश्वर  ।

पर्वतं वेष्टयेद्यस्तु सूत्रेणैकेन पर्वणि  ॥ ३४.९३ ॥

पृथिवी वेष्टिता तेन सशैलवनकानना  ।

सर्वतीर्थफलावाप्तिः शिवलोके प्रयात्यसौ  ॥ ३४.९४ ॥

 

ओंकार उवाच –

सर्वमेतत्नृपश्रेष्ठ कामः सम्पद्यतां तव  ॥ ३४.९५ ॥

एवमुक्त्वा ततो देवः तत्रैवान्तरधीयत  ।

सुरासुरैरथादित्यैः साध्यैः सार्द्धं युधिष्ठिर  ।

स्वकीयं यानमारुह्य कैलासनिलयं ययौ  ॥ ३४.९६ ॥

राजाऽपि श्रावयामास भूतग्रामं चतुर्विधम्  ।

मम यज्ञप्रभावेण सर्वे सन्तु निरामयाः  ॥ ३४.९७ ॥

सर्वे तु तृप्तिमायान्तु मम यज्ञप्रभावतः  ।

इन्द्रद्युम्नस्तु ब्रह्माणं ततस्तुष्टाव भारत  ॥ ३४.९८ ॥

तुष्टः प्रोवाच धाता तं वरं वृणु विशाम्पते  ।

 

राजोवाच –

तुष्टोऽसि यदि मे देव वरं दातुमिहेच्छसि  ॥ ३४.९९ ॥

नर्मदादक्षिणे कूले लिङ्गमूर्तिधरो भव  ।

इमं वरमहं मन्ये यदि तुष्टोऽसि मे प्रभो  ॥ ३४.१०० ॥

प्राणत्यागे कृते तत्र ब्रह्मलोकं प्रयातु वै  ।

एवं भवतु राजेन्द्र ब्रह्मा प्रोवाच सत्वरम्  ॥ ३४.१०१ ॥

एवमुक्त्वा ययौ ब्रह्मा रुद्रलोकं सुरैः सह  ।

विष्णुं चैव ततो राजा साष्टाङ्गं च युधिष्ठिर  ॥ ३४.१०२ ॥

केशवं माधवं विष्णुं गोविन्दं मधुसूदनम्  ।

पद्मनाभं हृषीकेशं श्रीधरं च त्रिविक्रमम्  ॥ ३४.१०३ ॥

दामोदरं वासुदेवं हरिं च प्रणमाम्यहम्  ।

शङ्खचक्रगदाशार्ङ्गवनमालाविभूषणम्  ॥ ३४.१०४ ॥

लोकनाथं जगन्नाथं श्रीनाथं सर्ववित्तमम्  ।

श्रीकान्तं श्रीधरं श्रीशं श्रीनिवासं नमाम्यहम्  ॥ ३४.१०५ ॥

अच्युतानन्तयज्ञेश यज्ञाधिप नमोऽस्तु ते  ।

ऋक्सामाथर्वरूपाय यज्ञरूपाय ते नमः  ॥ ३४.१०६ ॥

नृसिंहमत्स्यवाराहकूर्मरूपाय ते नमः  ।

तीर्थयानसमारूढ गरुडध्वज ते नमः  ॥ ३४.१०७ ॥

सहस्रशिरसं देवं सकलं निष्कलं परम्  ।

वेद्यं पुरुषमध्यक्षमाद्यं नारायणं प्रभुम्  ॥ ३४.१०८ ॥

प्रणतोऽस्मि सदा देवं दैत्यान्तकरणं हरिम्  ।

हिरण्यगर्भं भूगर्भं यज्ञगर्भामृतोद्भवम्  ॥ ३४.१०९ ॥

श्रीगर्भज्ञानगर्भाय वासुदेव नमोऽस्तु ते  ।

त्वया सृष्टं जगत्सर्वं चराचरमिदं प्रभो  ॥ ३४.११० ॥

स्रष्टा पालयिता त्वं वै हर्ता त्वं च युगे युगे  ।

विश्वतश्चक्षुरव्यक्तो विज्ञेयो विश्वतो मुखः  ॥ ३४.१११ ॥

विश्वात्मा विश्वतो देवो वासुदेवो नमोऽस्तु ते  ।

त्वमादित्यश्च वायुश्च त्वमग्निस्त्वं च चन्द्रमाः  ॥ ३४.११२ ॥

त्वं धाता देवदेवेश त्वमिन्द्रस्त्वं प्रजापतिः  ।

त्वत्प्रसादात्सुरश्रेष्ठ यज्ञसिद्धिर्ममाभवत् ॥ ३४.११३ ॥

श्रुत्वा स्तोत्रमिदं देवः शङ्खचक्रगदाधरः  ॥ ३४.११४ ॥

उवाच वचनं सत्यं वरं वृणु विशाम्पते  ।

ददामि ते न संदेहो यज्ञसिद्धिमवाप्स्यसि  ॥ ३४.११५ ॥

 

राजोवाच –

ओंकारसौम्यभागे तु लिङ्गरूपी जनार्दनः  ।

वैदूर्यशिखरस्याग्रे भव त्वं लोकपावनः  ॥ ३४.११६ ॥

इमं वरमहं मन्ये यदि दातुमिहेच्छसि  ।

यास्यन्ति वैष्णवं स्थानमिहाभ्यर्च्य विधानतः  ॥ ३४.११७ ॥

तिर्यग्योनिं न गच्छन्ति यमलोकं तथा नराः  ।

प्राणत्यागे कृते तत्र नरा गच्छन्ति ते पदम्  ॥ ३४.११८ ॥

पितॄणामन्नदानेन पितरो वैष्णवं पदम्  ।

प्रसादात्ते च गच्छन्तु सत्यं सत्यं वदाम्यहम्  ॥ ३४.११९ ॥

तस्य तद्वचनं श्रुत्वा राज्ञश्चामिततेजसः  ।

उवाच वचनं विष्णुरिन्द्रद्युम्नं विशाम्पते  ॥ ३४.१२० ॥

अवतारं करिष्यामि इहैव नृपसत्तम  ।

सर्वमेव नृपश्रेष्ठ मत्प्रसादाद्भविष्यति  ॥ ३४.१२१ ॥

एवमुक्त्वा ययौ देवः शङ्खचक्रगदाधरः  ।

सुरासुरैः स्तूयमानस्त्रिदिवं प्रति भारत  ॥ ३४.१२२ ॥

एष ते कथितो राजन्निन्द्रद्युम्न महाध्वरः  ।

तेनासौ पर्वतः पुण्यः सर्वलोकेषु विश्रुतः  ॥ ३४.१२३ ॥

सिद्धेश्वरं च ब्रह्माणं विद्धि नारायणं हरिम्  ।

श्रवणात्कीर्तनादस्य विष्णुलोके महीयते  ॥ ३४.१२४ ॥

ततस्तुष्टाव तीर्थानि राजा सत्यव्रते स्थितः  ।

पितृणां तारणार्थाय तीर्थेभ्यश्च नमो नमः  ॥ ३४.१२५ ॥

 

तीर्थान्यूचुः॒

वरं वृणु महाभाग यत्ते मनसि वर्तते  ।

तीर्थानां वचनं श्रुत्वा इन्द्रद्युम्न उवाच ह  ॥ ३४.१२६ ॥

ओंकारसन्निधौ तीर्थे स्थातव्यं मदनुग्रहात् ।

एवमस्त्विति राजानमुक्त्वा चक्रुः सरित्स्तुतिम्  ॥ ३४.१२७ ॥

कल्पगां त्वां नमस्कुर्मो हरस्य परमां कलाम्  ।

अतीव सर्वलोकानां भुवि ख्यातां सरिद्वराम्  ॥ ३४.१२८ ॥

नास्मत्प्रभावतः पूता किंतु पूता स्वभावतः  ।

यद्वत्सूर्यप्रभा पुण्या वह्णेश्चापि प्रभा यथा  ॥ ३४.१२९ ॥

हिमांशोश्चैव राजेन्द्र तथैवेयं महानदी  ।

इत्युक्त्वा तं च राजानं तीर्थान्यन्तर्दधुस्तदा  ॥ ३४.१३० ॥

ततस्तुष्टाव गङ्गां वा अर्घं दत्त्वा नृपोत्तमः  ।

गङ्गा भागीरथी देवी तथा भोगवती शुभा  ॥ ३४.१३१ ॥

जाह्नवी मोक्षदा भद्रा तारिणी पापनाशिनी  ।

स्वर्गे मन्दाकिनी चैव देवदेवनमस्कृता  ॥ ३४.१३२ ॥

गायत्री वेदमाता त्वमुमा कात्यायनी तथा  ।

किमन्यदपि ते देवि हरेण शिरसा धृता  ॥ ३४.१३३ ॥

कस्यास्ति शक्तिः स्तोतुं त्वामृते चन्द्रार्धशेखरात् ।

 

गङ्गोवाच –

तुष्टाऽस्मि ते महाराज वरं याचस्व सुव्रत  ॥ ३४.१३४ ॥

गङ्गाया वचनं श्रुत्वा राजा तां प्रत्युवाच ह  ।

 

राजोवाच –

यदि तुष्टाऽसि देवेशि वरं दातुमिहेच्छसि  ॥ ३४.१३५ ॥

इहैव क्रियतां वासो वर एष प्रदीयताम्  ॥ ३४.१३६ ॥

 

गङ्गोवाच –

एवं भवतु राजेन्द्र भागेनैव वहाम्यहम्  ॥ ३४.१३७ ॥

ततस्तुष्टाव गङ्गा तु कल्पगां सरितां वराम्  ।

श्रेष्ठा त्वं कल्पगे देवि नमस्कार्ये चिरायुषि  ॥ ३४.१३८ ॥

त्वत्तोयस्य प्रभावेण पावित्र्यमभवच्च मे  ।

कल्पान्ते तु क्षयं यान्ति सरितः सागरादयः  ॥ ३४.१३९ ॥

तीर्थानि चैव सर्वाणि त्वमेवात्रैव तिष्ठसि  ।

पूज्या त्रिदशवन्द्या च सुभगे चिरगमिनी  ॥ ३४.१४० ॥

गौरीसमा जटाग्रे वै हरमूर्तिर्भविष्यसि  ।

एवमुक्त्वा ततो गङ्गा नमस्कृत्य च मेकलाम्  ॥ ३४.१४१ ॥

दिव्ययानसमारूढा स्तूयमानाप्सरोगणैः  ।

 

सरस्वत्युवाच –

दुहिताऽहं तव ह्येषा धर्मतः परिपालिता  ॥ ३४.१४२ ॥

सप्तकल्पवहे धन्ये त्वच्छुश्रूषापरायणा  ।

आगताहं महाभागे त्वत्पादाब्जदिदृक्षया  ॥ ३४.१४३ ॥

स्नानं कर्तुं तथा देवि चतुर्विंशतिवत्सरैः  ।

किं न वेत्सि महाभागे मां धरेश्वरि वाहिनि  ॥ ३४.१४४ ॥

करिणीरूपमास्थाय कोटितीर्थे समागता  ।

सपादकोटितीर्थानि चन्द्रसूर्ये समे ग्रहे  ॥ ३४.१४५ ॥

स्नानार्थं कल्पगे देवि आदिष्टा विष्णुना स्वयम्  ।

द्वापरस्य चतुर्थांशे कुरुपाण्डवसेनयोः  ॥ ३४.१४६ ॥

युद्धार्थं समितौ पुञ्जं सर्वतीर्थमये शुभे  ।

तत्र यद्दीयते दानं तप्यतेऽथ तपस्तथा  ॥ ३४.१४७ ॥

सर्वं शतगुणं तद्धि त्वत्तोये कल्पगे पुनः  ।

तदेव कोटिगुणितं राहुग्रस्ते दिवाकरे  ॥ ३४.१४८ ॥

एवमुक्त्वा महाराज कल्पगां च सरस्वती  ।

इन्द्रद्युम्नं च राजानं स्वस्थानं चाभ्यगात्पुनः  ॥ ३४.१४९ ॥

इन्द्रद्युम्नस्ततो राजा स्वयं तुष्टाव भारत  ।

त्वत्तोयस्य प्रभावेण पितृदेवाश्च तार्पिताः  ॥ ३४.१५० ॥

पवित्रं च त्वया देवि त्रैलोक्यं सचराचरम्  ।

त्वं माता सर्वभूतानां नृणां संसारतारिणी  ॥ ३४.१५१ ॥

मेकलासि महादेवि कल्पगा नर्मदा तथा  ।

जलपूर्णेति विख्याता विन्ध्यपर्वतभूषणम्  ॥ ३४.१५२ ॥

अपि वर्षसहस्रेण कः स्तोतुं च क्षमः शुभे  ।

श्रुत्वा स्तोत्रमिदं देवी नृपस्यास्य तदाऽब्रवीत् ॥ ३४.१५३ ॥

क्षत्रियाणां सहस्रैस्तु कृतो यज्ञोऽत्र पार्थिव  ।

सदृशस्ते महाराज न भूतो न भविष्यति  ॥ ३४.१५४ ॥

वरं ददामि ते राजन् येन सिद्धिमवाप्स्यसि  ।

तस्यास्तद्वचनं श्रुत्वा कल्पगाया युधिष्ठिर  ॥ ३४.१५५ ॥

प्रहसन्नब्रवीद्राजा ब्राह्मणैः सहितस्तदा  ।

शिवभक्तिपरो नित्यं सप्तकल्पवहे शुभे  ॥ ३४.१५६ ॥

यदि तुष्टाऽसि मे देवि वरं दातुं त्वमिच्छसि  ।

प्रवाहान् कुरु सप्त त्वं दक्षिणोत्तरकूलयोः  ॥ ३४.१५७ ॥

सर्वतः सर्वगे देवि यदि मां बहु मन्यसे  ।

इमं वरमहं मन्ये यदि तुष्टाऽसि सुव्रते  ॥ ३४.१५८ ॥

तस्य तद्वचनं श्रुत्वा इन्द्रद्युम्नस्य भारत  ।

नर्मदा चाब्रवीद्वाक्यमिन्द्रद्युम्नं नराधिप  ॥ ३४.१५९ ॥

सर्वमेतत्प्रभावेण मत्प्रसादाद्भविष्यति  ।

अत्रान्तरे च यद्दानं दीयते नाऽत्र संशयः  ॥ ३४.१६० ॥

तस्य संख्या न विद्यते सत्यमेतद्ब्रवीमि ते  ।

न तेषां पुनरावृत्तिरित्याह भगवान्नृप  ॥ ३४.१६१ ॥

अन्त्यजाः श्वपचा वापि मृगाश्चैव सरीसृपाः  ।

सर्वे ते त्रिदिवं यान्ति नीलगङ्गासमागमे  ॥ ३४.१६२ ॥

यज्ञमिष्ट्वा नृपश्रेष्ठ इन्द्रद्युम्नो विशाम्पते  ।

नर्मदां च नमस्कृत्य ओंकारं चैव भारत  ॥ ३४.१६३ ॥

स्वकीयं यानमारुह्य सत्यधर्मपरायणः  ।

वृतो नृप सहस्रेण स्तूयमानोऽप्सरोगणैः  ॥ ३४.१६४ ॥

विवेश नगरीं पुण्यामयोध्यां देवनिर्मिताम्  ।

एतत्ते कथितं राजन्नितिहासं पुरातनम्  ॥ ३४.१६५ ॥

ततः कालेन महता राज्यं कृत्वा महाबलः  ।

अयुतं साग्रमेवेह स राजा त्रिदिवं गतः  ॥ ३४.१६६ ॥

श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ।

यमलोकं न पश्येच्च पापयोनिं न गच्छति  ॥ ३४.१६७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे इन्द्रद्युम्नयज्ञनीलगङ्गावतारो नाम चतुस्त्रिंशोऽध्यायः ॥

 

 

अध्याय ३५

 

युधिष्ठिर उवाच –

वैदूर्यपर्वतं रम्यं सुरसिद्धनिषेवितम्  ।

मान्धाता केन कार्येण गतो वै सप्तकल्पगाम्  ॥ ३५.१ ॥

तथा पाशुपतास्त्रेण हत्वा वै त्रिपुरं हरः  ।

पातालं भेदयित्वा तु रसातलतलं ययौ  ॥ ३५.२ ॥

जालेश्वरं तथा लिङ्गमुत्थितं केन हेतुना  ।

नीलगङ्गा कथं तत्र कल्पगा भेदमागता  ॥ ३५.३ ॥

बाणासुरः शिवे भक्तः शिवलब्धवरः शुचिः  ।

लिङ्गानि तानि तेनेह पूजितानि महामुने  ॥ ३५.४ ॥

संख्यया नवकोट्यस्तु तानि क्षिप्तानि तत्र वै  ।

एतत्सर्वं समासेन कथयस्व महामुने  ॥ ३५.५ ॥

यथाश्रुतं पुराकल्पे पुराणे स्कन्दकीर्तिते  ।

ब्रह्मविष्ण्वादिदेवानां पार्वत्याः षण्मुखस्य च  ॥ ३५.६ ॥

तथा तु कथ्यतां तात यथोद्दिष्टं शिवेन तु  ।

 

मार्कण्डेय उवाच –

शृणु राजन्महाबाहो कथ्यमानं निबोध मे  ॥ ३५.७ ॥

स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ।

देवानां सङ्गमं यत्र कैलासे पर्वतोत्तमे  ॥ ३५.८ ॥

कार्त्तिक्यां च सुराः सर्वे हरं द्रष्टुमुपागताः  ।

तत्र देवगणान् सर्वान् स्कन्दो वचनमब्रवीत् ॥ ३५.९ ॥

मया श्रुतं च दृष्टं च शिवेन कथितं पुरा  ।

अष्टलक्षाणि सार्धानि ग्रन्थेऽस्मिन् कीर्तितानि च  ॥ ३५.१० ॥

शिवलोके शिवेनैव निबद्धानि यथा यथा  ।

तदर्धं वैष्णवे लोके तदर्द्धं ब्रह्मणः पुरे  ॥ ३५.११ ॥

सपादलक्षं सूर्यस्य लोके चैव व्यवस्थितम्  ॥ ३५.१२ ॥

चतुर्भिरधिकाशीतिसहस्राणि तथा क्रमम्  ।

ख्यातानि मर्त्यलोके च नात्र कार्या विचारणा  ॥ ३५.१३ ॥

सूतः संग्रहकर्ता च संहितास्तत्र एव च  ।

कल्पस्कन्दो महास्कन्दः पुराणं सप्तधा विदुः  ॥ ३५.१४ ॥

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च  ।

वंशानुचरितं चेति पुराणं पञ्चलक्षणम्  ॥ ३५.१५ ॥

अशक्ता मानुषा लोके अल्पजीवेन जीविकाः  ।

युद्धिहीना दुराचारा भविष्यन्ति कलौ युगे  ॥ ३५.१६ ॥

न स्वाध्यायो वषट्कारो न तपो न च याजनम्  ।

स्त्रीकामा लोलुपा विप्राः काम्यकृत्यास्तु याचकाः  ॥ ३५.१७ ॥

प्रतिग्रहपरा नित्यं कुटुम्बभरणार्थिनः  ।

आत्मानं नैव बुध्यन्ते स्त्रीणां स्नेहवशंगता  ॥ ३५.१८ ॥

कुकर्माणि करिष्यन्ति धर्मिष्ठास्तापसास्तथा  ।

कलौ युगे तथा प्राप्ते काले कौला दिगम्बराः  ॥ ३५.१९ ॥

एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति  ।

हीने युगे तथा प्राप्ते बौद्धस्थे चैव केशवे  ॥ ३५.२० ॥

अल्पायुषश्चैव मर्त्या अल्पवीर्यपराक्रमाः  ।

नानादेशोपद्रवाश्च भविष्यन्ति महामुने  ॥ ३५.२१ ॥

वेदान् वै प्रार्पयिष्यन्ति द्विजाश्चाण्डालवंशिनः  ।

वेदावेशं करिष्यन्ति वेदविक्रयणं तथा  ॥ ३५.२२ ॥

राजद्वारे गमिष्यन्ति धनप्राप्तिसमीहया  ।

विक्रयं चाग्निहोत्राणां कन्यानां विक्रयं तथा  ॥ ३५.२३ ॥

करिष्यन्ति द्विजाः सर्वे श्रोत्रिया व्रतवर्जिताः  ।

पूर्णे तु द्वादशे वर्षे नराः पलितयौवनाः  ॥ ३५.२४ ॥

दश द्वादशवर्षा तु नारी गर्भधरा भवेत् ।

नारी न पुरुषं मन्येत्न मातापितरौ सुतः  ॥ ३५.२५ ॥

नस्नुषा मन्यते श्वश्रूं दुहिता मातरं तथा  ।

एतदुद्देशतः प्रोक्तं प्रकृतं शृणु भारत  ॥ ३५.२६ ॥

यज्ञं कर्तुं महाराज मान्धाता नृपसत्तमः  ।

वैदूर्यपर्वतं प्राप्तं पितॄणां तारणाय च  ॥ ३५.२७ ॥

देवतानां हितार्थं वै जघान त्रिपुरं हरः  ।

ज्वलत्पाशुपतास्त्रेण तद्दग्धमभवत्पुरा  ॥ ३५.२८ ॥

पातालात्तेन चानीतं लिङ्गं जालेश्वरं तथा  ।

कामदं मोक्षदं चैव सदादेवनमस्कृतम्  ॥ ३५.२९ ॥

लोकानां तारणार्थाय नीलगङ्गा समागता  ।

मेघराजसमुद्भूता सर्वपापहरा परा  ॥ ३५.३० ॥

तस्यां श्राद्धं प्रकुर्वीत पितॄणामक्षयेच्छया  ।

बाणासुरस्य लिङ्गानि कोटितीर्थे शिवालये  ॥ ३५.३१ ॥

पतितानि जले चैव नर्मदाया नराधिप  ।

पूजितानि पवित्राणि भुक्तिमुक्तिप्रदानि तु  ॥ ३५.३२ ॥

बाणलिङ्गानि राजेन्द्र ख्यातानि भुवनत्रये  ।

न प्रतिष्ठा न संस्कारः तेषामावाहनादि च  ॥ ३५.३३ ॥

एवमेव प्रपूज्यानि शिवरूपाणि भारत  ।

एतत्ते कथितं सर्वं यत्पृष्टोऽहं त्वयाऽनघ  ॥ ३५.३४ ॥

शृणु राजन् कथां दिव्यामन्यां पापप्रणाशिनीम्  ।

अघघ्नी या प्रतीता मे कीर्तयिष्यामि तेऽनघ  ॥ ३५.३५ ॥

अस्तीह पर्वतः श्रीमान् वैदूर्यो नाम नामतः  ।

तत्र पुण्यानि तीर्थानि तिष्ठन्त्यायतनानि च  ॥ ३५.३६ ॥

कामं कामफलैर्वृक्षैः पुष्पितैः फलितैस्तथा  ।

दिव्यपक्षिनिनादैश्च वानीरवनराजिभिः  ॥ ३५.३७ ॥

शालैस्तालैश्च सरलैस्तमालैरुपशोभिता  ।

नदी पापहरा पुण्या नर्मदा तत्र भारत  ॥ ३५.३८ ॥

त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च  ।

सरितः सागराः शैलादेवाश्च सपितामहाः  ॥ ३५.३९ ॥

नर्मदायां नृपश्रेष्ठ सिद्धगन्धर्वचारणाः  ।

स्नातुमायान्ति ते सर्वे सर्वसिद्धिस्तु भारत  ॥ ३५.४० ॥

किं तत्र पर्वते राजन् यत्र विश्वावसुर्मुनिः  ।

न यक्षाधिपतिर्यत्र कुबेरो नरवाहनः  ॥ ३५.४१ ॥

वैदूर्यशिखरे पुण्ये तत्र साक्षाद्विवस्वतः  ।

नित्यं पुष्पफला यत्र पादपा हरितच्छदाः  ॥ ३५.४२ ॥

बह्वाश्चर्यं तथा तत्र दृश्यते पर्वतोत्तमे  ।

पुण्ये स्वर्गोपमे दिव्ये नित्यं देवर्षिसेविते  ॥ ३५.४३ ॥

ह्लादिनी पुण्यतीर्थानां राजर्षे तत्र वै सरित् ।

वैवस्वतान्तरे प्राप्ते राजन्नादिकृते युगे  ॥ ३५.४४ ॥

ओंकारस्यावतारेण सवैदूर्यमयो गिरिः  ।

त्रेतायुगे मणिमयो द्वापरे हैमरूपकः  ॥ ३५.४५ ॥

कलौ पापहरः प्रोक्तो यथा देवस्तथा गिरिः  ।

एतत्ते सर्वमाख्यातं यथादृष्टं पुरातनम्  ॥ ३५.४६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे वैदूर्यपर्वतवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥

 

 

अध्याय ३६

 

मार्कण्डेय उवाच –

वसुदानस्तु राजर्षिश्चक्रवर्ती पुराऽभवत् ।

अयोध्याधिपतिः श्रीमान् छक्रतुल्यपराक्रमः  ॥ ३६.१ ॥

बुभुजे पृथिवी सर्वां ग्राममेकमिवाथ सः  ।

ईजे यागसहस्रेण हयमेधकृतेन च  ॥ ३६.२ ॥

सपादलक्षमधिकं सर्वा जीवन्ति च प्रजाः  ।

न तत्र दीनो दुःखी वा दरिद्रो वाऽपि कश्चन  ॥ ३६.३ ॥

स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी  ।

एव पालयतस्तस्य पृथिवीं पृथिवीपते  ॥ ३६.४ ॥

नर्मदादक्षिणे कूले दैत्यास्त्रिदशकण्टकाः  ।

केतुमाली सुकेतुश्च सुमुखो दुन्दुभिस्तथा  ॥ ३६.५ ॥

धर्मविघ्नं च कर्तारः समुद्भूताः सुरालये  ।

केऽपि नो शक्नुवन्तीह यज्ञं कर्तुं भयात्तदा  ॥ ३६.६ ॥

वसुदानोऽब्रवीद्वाक्यं वशिष्ठं ब्रह्मवित्तमम्  ।

कस्मिंस्तीर्थे हि निर्विघ्नो हयमेधो विधीयते  ॥ ३६.७ ॥

यज्ञविद्या विधानेन निर्दिश्य मम कथ्यताम्  ।

तस्य तद्वचनं श्रुत्वा वसुदानस्य धीमतः  ॥ ३६.८ ॥

वशिष्ठश्चाब्रवीद्वाक्यं राजानं प्रति भारत  ।

न शक्यते मुखः कर्तुं हयमेधो विशेषतः  ॥ ३६.९ ॥

अमरेश्वरस्य मूर्तिर्वै दक्षिणाशामुखे स्थिता  ।

दानवैर्निर्जितास्तत्र सर्वे देवाः सवासवाः  ॥ ३६.१० ॥

यज्ञभागं ग्रहीतुं न शक्नुवन्ति कदाचन  ।

एतस्मात्कारणाद्राजन् सत्यमेतत्तवोदितम्  ॥ ३६.११ ॥

तस्य तद्वचनं श्रुत्वा वशिष्ठस्य महात्मनः  ।

चुकोप वसुदानश्च प्रत्याह च पुरोधसम्  ॥ ३६.१२ ॥

हत्वैतान् राक्षसान् पापानद्य वै देवकण्टकान्  ।

देवानां च प्रसादेन करिष्ये यागमुत्तमम्  ॥ ३६.१३ ॥

एवमुक्त्वा ययौ राजा सर्वसम्भारसंवृतः  ।

ब्राह्मणैः सहितो विद्वानृत्विग्भिर्वेदपारगैः  ॥ ३६.१४ ॥

गवां च पञ्चलक्षाणि सवत्सानां पयोमुचाम्  ।

सपादलक्षमश्वानां दन्तिनामयुतं तथा  ॥ ३६.१५ ॥

मणिमाणिक्यरत्नानि हेमरूप्यवसूनि च  ।

विविधं भक्ष्यभोज्यं च आज्यं व्रीहितिलांस्तथा  ॥ ३६.१६ ॥

मण्डपान् यज्ञयूपांश्च समादाय नृपोत्तमः  ।

एवं प्रवर्तिते यज्ञे निर्विघ्नेन तु भारत  ॥ ३६.१७ ॥

आवभृत्योदकैः क्लिन्ना वसुधा हेमनिर्मिता  ।

बभूवुर्लुलिता ये तु कर्दमे मृगपक्षिणः  ॥ ३६.१८ ॥

ते हेमवर्णकाः सर्वे बभूवुस्तत्र भारत  ।

युगपत्पूजिता यत्र ब्रह्मविष्णुमहेश्वराः  ॥ ३६.१९ ॥

होमाच्च पृथक्क्षीराज्यप्रवाहास्तत्र निर्गताः  ।

गवां मूत्रप्रवाहश्च तत्राभूत्नृपसत्तम  ॥ ३६.२० ॥

स्नानोदकं च देवानामृषिभिर्वेदपारगैः  ।

यत्कृतं तत्प्रवाहश्च तत्रासीत्नृपसत्तम  ॥ ३६.२१ ॥

प्रवाहेषु च सर्वेषु मिलितेषु तदा नृप  ।

आपगा कपिला नाम दृष्टा ब्रह्मर्षिदैवतैः  ॥ ३६.२२ ॥

नर्मदासङ्गमस्तत्र रुद्रावर्तः प्रकीर्तितः  ।

ततस्तु ब्राह्मणाः सर्वे दक्षिणाभिः प्रपूजिताः ॥ ३६.२३ ॥

गजाश्वरथमारूढा नानाभरणभूषिताः  ।

तुष्टा देवगणाः सर्वे ऊचुस्तं पार्थिवं तदा  ॥ ३६.२४ ॥

वरं वृणु महाभाग यज्ञेनानेन सुव्रत  ।

 

वसुदान उवाच –

रेवाकपिलसम्भेदे स्नात्वाऽभ्यर्च्य महेश्वरम्  ॥ ३६.२५ ॥

विमानैस्त्रिदिवं यान्तु ये मृता न पुनर्भवाः  ।

इमं वरमहं मन्ये दीयतां मदनुग्रहात् ॥ ३६.२६ ॥

 

देवा ऊचुः॒

कामं कामं फलिष्यन्ति चिन्तितास्ते मनोरथाः  ।

वरं दत्त्वा च भो राजन् प्रीता वै देवतास्ततः  ॥ ३६.२७ ॥

स्वं स्वं विमानमारुह्य मुदितास्त्रिदिवं ययुः  ।

वसुदानोऽपि राजर्षिर्ब्राह्मणैर्वेदपारगैः  ॥ ३६.२८ ॥

मुदा परमया युक्तो ह्ययोध्यामाययौ तदा  ।

तीर्थस्यास्य प्रभावेण सान्तः पुरपरिच्छदः  ॥ ३६.२९ ॥

भोगांश्च पुष्कलान् भुक्त्वा गतो माहेश्वरं पुरम्  ।

एतत्ते कथितं सर्वं रेवाकपिलसङ्गमम्  ॥ ३६.३० ॥

श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३६.३१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलावतारो नाम षट्त्रिंशोऽध्यायः ॥

 

 

अध्याय ३७

 

मार्कण्डेय उवाच –

स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ।

अरुन्धतीप्रसूताया दाक्षायण्यास्सुतोऽभवत् ॥ ३७.१ ॥

विश्रवां नाम राजाऽभूच्छक्रतुल्यपराक्रमः  ।

मथुराधिपतिः श्रीमांश्चक्रवर्ती महाबलः  ॥ ३७.२ ॥

निर्जिताऽमरदैत्याश्च स राजा मघवा त्विव  ।

सर्वकामसमृद्धाश्च ब्राह्मणाश्चेतरे जनाः  ॥ ३७.३ ॥

एवं शासयतः पृथ्वीं धनधान्यसमाकुलाम्  ।

न दुर्भिक्षं न दारिद्र्यं क्वचिदस्तिं महीतले  ॥ ३७.४ ॥

एतस्मिन्नन्तरे प्राप्ते प्रस्थितोऽमरकण्टकम्  ।

स्नात्वा च कोटितीर्थे वै समभ्यर्च्य महेश्वरम्  ॥ ३७.५ ॥

दक्षिणां मूर्तिमाश्रित्य तस्य देवस्य भारत  ।

समाधिस्थो भवेद्यावत्स राजा धर्मवत्सलः  ॥ ३७.६ ॥

तावत्पश्यति मध्याह्ने प्रतीच्यादित्यमण्डलात् ।

द्वौ सूर्यौ पूर्वदिग्भागे गतौ द्वौ दाक्षिणां दिशम्  ॥ ३७.७ ॥

द्वौ पातालं तथा चोर्द्ध्वं द्वौ सूर्यौ चण्डरूपिणौ  ।

कालः संवर्तको वह्निः प्रजज्वाल तदा नृप  ॥ ३७.८ ॥

रौद्राश्च दारुणा वाता ववुः प्रलयकारिणः  ।

दिग्दाहो भूमिकम्पश्च उत्कापाताश्च दारुणाः  ॥ ३७.९ ॥

पतितास्सिद्धगन्धर्वा देवलोकात्सकिन्नराः  ।

विद्याधरास्तथा यक्षाः कर्मच्छेदादिव व्युताः  ॥ ३७.१० ॥

विद्याधर्यो रुदन्त्यश्च तथैवाप्सरसस्तथा  ।

प्रजज्वाल महावह्णिः सशैलवनकाननाम्  ॥ ३७.११ ॥

भस्मीकृत्य धरां सर्वां रेवाकूलमिवागमत् ।

तृषार्तो दाहसन्तप्तस्तदाभूत्नृपसत्तमः  ॥ ३७.१२ ॥

समुद्यतः पयः पातुं यावत्पश्यति मेकलाम्  ।

तावत्तन्मध्यमार्गे तु वारि किंचिन्न विद्यते  ॥ ३७.१३ ॥

प्रवाहो रेणुभूतश्च दृश्यते न तु नर्मदा  ।

सरितः सागरान् छैलान् बभ्राम स सरांसि च  ॥ ३७.१४ ॥

जलं पातुं न कुत्रापि लब्धवान् स नृपोत्तमः  ।

अपश्यत्नर्मदां देवीं विन्ध्यं गिरिवरोत्तमम्  ॥ ३७.१५ ॥

प्रविष्टो नर्मदामध्ये नृपश्चिन्ताकुलोऽभवत् ।

जलं विनाद्य मरणं नियतं मे न संशय  ॥ ३७.१६ ॥

अन्तर्हितं जगत्कृत्स्नं न च किंचिज्जलं विना  ।

चिन्तयित्वा नृपश्रेष्ठ ओंकारं च समाश्रयत् ॥ ३७.१७ ॥

पर्वतारोहणं यावत्तृषार्तः कर्तुमिच्छति  ।

तावत्पश्यति राजासौ तत्र वै कल्पशाखिनम्  ॥ ३७.१८ ॥

फलितं पुष्पितं रम्यं शाखाभिरुपशोभितम्  ।

तं दृष्ट्वा शयितो राजा छायां प्राप्य सुशीतलाम्  ॥ ३७.१९ ॥

शरीरममृतं भूतं जीविताशाभवत्तदा  ।

अपश्यत्पुरुषं तत्र शयानं दीप्ततेजसम्  ॥ ३७.२० ॥

तदुच्छ्वासेन लोका वै कम्पिताश्चोर्द्ध्वशस्तदा  ।

पातालानि तथा सप्त निःश्वासेन युधिष्ठिर  ॥ ३७.२१ ॥

कुम्भाः पार्श्वे च चत्वारस्तस्य तिष्ठन्ति सोदकाः  ।

तान् दृष्ट्वा चिन्तयामास तृषार्तो नृपसत्तमः  ॥ ३७.२२ ॥

बोधये सुखसुप्तं नो नादत्तं च पिबाम्यहम्  ।

किं करोमीती संचिन्त्य तं प्रणम्य स्थितो नृपः  ॥ ३७.२३ ॥

मानुषीं तनुमाश्रित्य स्थितोऽयं पुरुषोत्तमः  ।

स्वयं प्रजापतिर्देवो हर्ता कर्ता जगत्प्रभुः  ॥ ३७.२४ ॥

ततोऽपश्यद्द्वितीयं च पुरुषं दीप्ततेजसम्  ।

वृषारूढं त्रिनेत्रं च शूलपाणिपिनाकिनम्  ॥ ३७.२५ ॥

भस्मोज्ज्वलितगात्रं च जटामुकुटधारिणम्  ।

कपालमालाभरणं तडिज्ज्योतिःसमप्रभम्  ॥ ३७.२६ ॥

दंष्ट्राकरालं पुरुषं पिङ्गाक्षं शशिशेखरम्  ।

तं दृष्ट्वा तादृशं रूपं सर्वेषां लोमहर्षणम्  ॥ ३७.२७ ॥

राजा तुष्टाव देवेशं सर्वदेवनमस्कृतम्  ।

जय देव महादेव आदिदेव नमोऽस्तु ते  ॥ ३७.२८ ॥

तृषा मां बाधते देव शूलपाणे शृणुष्व तत् ।

प्रयच्छ शीतलं तोयं येन जीवामि शङ्कर  ॥ ३७.२९ ॥

तस्य तद्वचनं श्रुत्वा प्रहसन्नब्रवीच्छिवः  ।

जल्पतस्तस्य देवस्य चास्ये दृष्टाः समन्ततः  ॥ ३७.३० ॥

सुरा ब्रह्मर्षयो लोकाः सप्त चैव चराचराः  ।

पातालानि च भूतानि गन्धर्वोरगराक्षसाः  ॥ ३७.३१ ॥

ततो ददर्श नारीं च समुद्विग्नां समागताम्  ।

रजो गुण्ठित सर्वाङ्गीं रुधिरेण परिप्लुताम्  ॥ ३७.३२ ॥

अनन्तदीप्ततेजस्कां मारुतोद्धूतमूर्धजाम्  ।

बालं निधाय वामोरौ कन्यां चैव स्तनान्तरे  ॥ ३७.३३ ॥

ब्रह्मसूत्रत्रिदण्डाभ्यां कुण्डलाभ्यां अलंकृताम्  ।

दृष्ट्वा तां स ततो राजा प्रोवाच वचनं तदा  ॥ ३७.३४ ॥

जय देवि महादेवि लोकानुग्रहकारिणि  ।

तृषयाप्लुतदेहोऽहं जलं पायय मामिह  ॥ ३७.३५ ॥

तस्य तद्वचनं श्रुत्वा तं प्राह परमेश्वरी  ।

स्तन्यं पिब महीप त्वं यदि त्वां वाधते तृषा  ॥ ३७.३६ ॥

तस्यास्तद्वचनं श्रुत्वा चिन्तयामास पार्थिवः  ।

स्तनं पास्यामि देवेशि नारी वचनमब्रवीत् ॥ ३७.३७ ॥

प्रतिज्ञातं मया पूर्वं सुतेजस्ते नृपोत्तम  ।

अग्रे न्यस्य स्तनं त्वां वै पश्चाद्दास्यामि बालकम्  ॥ ३७.३८ ॥

तस्मात्पिब महाभाग स्तन्यं मे नास्ति पातकम्  ।

तत प्रोवाच नृपतिस्तां नारीं कामरूपिणीम्  ॥ ३७.३९ ॥

अकार्यमेतत्सर्वेषां मादृशानां कुतः कथा  ।

अन्योऽन्यं जल्पतां तेषां सा तत्रान्तरधीयत  ॥ ३७.४० ॥

क्व गताऽसि महादेवीत्युक्त्वा विस्मयमागतः  ।

स्वप्नलब्धा यथा वार्ता निष्कला प्रतिभासते  ॥ ३७.४१ ॥

इन्द्रजालमयं यद्वन्मृगतृष्णाजलं यथा  ।

एवं चिन्तयतस्तस्य पुनरग्रे व्यवस्थिता  ॥ ३७.४२ ॥

तां दृष्ट्वैव ततो राजा साष्टाङ्गं प्रणिपत्य च  ।

कासि त्वं हि वरारोहे सत्यमेतद्ब्रवीहि मे  ॥ ३७.४३ ॥

उमा कात्यायनी गङ्गा वेदमाता सरस्वती  ।

ब्रह्माणी च महालक्ष्मीः कथयस्व प्रसादतः  ॥ ३७.४४ ॥

समानः पुरुषः कोऽयं कुम्भाश्चत्वार एव के  ।

वृषारूढस्त्रिनेत्रश्च कोऽयं शूलपिनाकधृक् ॥ ३७.४५ ॥

उत्सङ्गे निहितः कोऽयं बालकः का च कन्यका  ।

मूर्खोऽहं नाभिजानामि जननं मरणं यथा  ॥ ३७.४६ ॥

 

स्त्र्युवाच –

पृथिवीं विद्धि मां राजन् सप्तद्वीपैरलंकृताम्  ।

सप्तपाताललोकैश्च सशैलवनकाननाम्  ॥ ३७.४७ ॥

सरितः सागराः शैलाममोदरनिवासिनः  ।

व्याप्तं मया जगत्सर्वं त्रैलोक्यं सचराचरम्  ॥ ३७.४८ ॥

पर्यङ्कशायिनं देवं शङ्खचक्रगदाधरम्  ।

जगद्योनिं हरिं विद्धि संसारार्णवतारणम्  ॥ ३७.४९ ॥

त्रिनेत्रं शूलपाणिं च विद्धि देवं महेश्वरम्  ।

वृषारूढं महादेवं लोकनाथं जगत्पतिम्  ॥ ३७.५० ॥

उत्सङ्गस्थं शिशुं विद्धि ब्रह्माणं सृष्टिकारकम्  ।

त्रिभिर्व्याप्तं जगत्सर्वं ब्रह्मविष्णुमहेश्वरैः  ॥ ३७.५१ ॥

जगत्सृष्टिकरो ब्रह्मा स्वयं पालयिता हरिः  ।

संहारकारको रुद्रस्त्रिभिर्व्याप्तं जगत्ततः  ॥ ३७.५२ ॥

कलशांश्चतुरो विद्धि समुद्रान् पर्वतस्थितान्  ।

स्तनमध्ये गतां कन्यां नर्मदां विद्धिपावनीम्  ॥ ३७.५३ ॥

एतच्छ्रुत्वा वचो राजा विस्मयं परमं गतः  ।

ततः कालेन महता पुनः सृष्टिः प्रवर्तते  ॥ ३७.५४ ॥

सर्वलोकहितार्थाय ब्रह्मविष्णुमहेश्वराः  ।

कल्पे कल्पे मया दृष्टमेतत्सर्वं युधिष्ठिर  ॥ ३७.५५ ॥

न्यग्रोधः कल्पवृक्षश्च ओंकारः सप्तकल्पगा  ।

अहं वैदूर्यशैलश्च परलिङ्गानि भारत  ॥ ३७.५६ ॥

अक्षयं वाऽव्ययं चैतत्सर्वं जानीहि तत्त्वतः  ।

एतत्ते कथितं राजन् यत्पृष्टोऽहं त्वयाऽनघ  ॥ ३७.५७ ॥

भक्तस्त्वं श्रवणे श्रद्धा पुराणानां न संशयः  ।

श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ३७.५८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कल्पान्तदर्शनं नाम सप्तत्रिंशोऽध्यायः ॥

 

 

अध्याय ३८

 

युधिष्ठिर उवाच –

ईदृशं यस्य माहात्म्यं तीर्थस्य च परंतप  ।

तृप्तिं नैवाधिगच्छामि शृण्वन् वेदविदां वर  ॥ ३८.१ ॥

समर्थैः सर्वकार्येषु ब्राह्मणैर्वेदपारगैः  ।

भूयस्तीर्थस्य माहात्म्यं निवेदय महामते  ॥ ३८.२ ॥

 

मार्कण्डेय उवाच –

अस्ति तीर्थं महाराज लिङ्गमन्यं यमेश्वरम्  ।

दर्शनात्पूजनादस्य यमलोकं न पश्यति  ॥ ३८.३ ॥

नर्मदादक्षिणे तीरे कपिलायाश्च पश्चिमे  ।

विष्णोस्तत्र पुरी रम्या शक्रस्येवामरावती  ॥ ३८.४ ॥

कल्पकोटियुगं चापि तस्यां तिष्ठति माधवः  ।

पुरा देवासुरे युद्धे दानवैर्देवकण्टकैः  ॥ ३८.५ ॥

निर्जिता देवताः सर्वास्तदासीच्च धरार्दिता  ।

ब्रह्माद्या देवताः सर्वा क्षीरोदर्णवशायिनम्  ॥ ३८.६ ॥

तुष्टुवुः प्रणिपत्यैनं स्तुत्यं चान्तःस्थमव्ययम्  ।

जय देव जगन्नाथ दैत्यान्तक जनार्दन  ॥ ३८.७ ॥

वाराहरूपमास्थाय प्रोद्धृता वसुधा त्वया  ।

उद्धृता मत्स्यरूपेण वेदाः सागरमध्यतः  ॥ ३८.८ ॥

कूर्मशेषादिरूपैश्च देवानामार्तिनाशनम्  ।

बलिर्वामनरूपेण त्वया बद्धोऽसुरारिणा  ॥ ३८.९ ॥

हिरण्यकशिपुर्दैत्यः सर्वलोकभयंकरः  ।

त्वया नृसिंहरूपेण निहतो देवकण्टकः  ॥ ३८.१० ॥

वेदमूल जगन्नाथ रक्ष नः शरणागतान्  ।

श्रुत्वा स्तोत्रमिदं देवो ब्रह्माणं वाक्यमब्रवीत् ॥ ३८.११ ॥

किमर्थं च त्वया ब्रह्मन् क्षीरोदेऽहं प्रबोधित  ॥ ३८.१२ ॥

 

ब्रह्मोवाच –

त्वया विना जगन्नाथ क्षोणी छन्ना सुरारिभिः  ॥ ३८.१३ ॥

सूर्येण च विहीनं हि निरालोकं जगद्यथा  ॥ ३८.१४ ॥

 

विष्णुरुवाच –

ब्रह्मन् भयं त्यजाशूत्वं दानवोऽयं दुरासदः  ।

अचिरेणैव कालेन घातयामि च दानवम्  ॥ ३८.१५ ॥

एवमुक्त्वा सुरैः सार्द्धमाजगाम जनार्दनः  ।

सुदर्शनेन चक्रेण दानवानां शिरांसि च  ॥ ३८.१६ ॥

चकर्त भगवान् विष्णुः सर्वलोकहिताय वै  ।

भयार्ता दानवाः सर्वे पलायनपरायणाः  ॥ ३८.१७ ॥

विष्णोस्त्रासात्तु ते सर्वे रसातलतलं ययुः  ।

पुनः प्रवर्तितो यज्ञो द्विजदेवतपस्विनाम्  ॥ ३८.१८ ॥

तस्यां पुर्यां महाभाग देवोऽभूद्दैत्यसूदनः  ।

तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा  ॥ ३८.१९ ॥

वैष्णवेन विमानेन विष्णुलोके महीयते  ।

कपिला पश्चिमायां तु नीलगङ्गासमागता  ॥ ३८.२० ॥

अष्टायुतानि तीर्थानि विष्णुना प्रेरितानि वै  ।

चक्रतीर्थं वामनं च कोटितीर्थं युगंधरम्  ॥ ३८.२१ ॥

तत्र स्नात्वा नरो राजन् कोटितीर्थफलं लभेत् ।

सुदर्शनं नाम तीर्थं दैत्यसूदनमेव च  ॥ ३८.२२ ॥

विष्ण्वावर्तं शिवावर्तं लक्ष्म्यावर्तं तथैव च  ।

तत्र यद्दीयते दानं तस्य संख्या न विद्यते  ॥ ३८.२३ ॥

विष्णोस्तु प्रीणनं कृत्वा अनन्तफलमश्नुते  ।

क्रोशमात्रप्रमाणं हि विष्णुक्षेत्रं प्रकीर्तितम्  ॥ ३८.२४ ॥

न विशेद्ब्रह्महत्या च सत्यमेतच्छिवोदितम्  ।

मासोपवासं यः कुर्यादग्निहोत्रं तथैव च  ॥ ३८.२५ ॥

पतिव्रता त्वं सत्यं च स्वाध्यायं यज्ञकर्म च  ।

चान्द्रायणं पराकं च पितॄणां च तिलोदकम्  ॥ ३८.२६ ॥

पितरस्तस्य तृप्यन्ति लोके क्रीडन्ति वैष्णवे  ।

एकरात्रं त्रिरात्रं च कृच्छ्रं सान्तपनं तथा  ॥ ३८.२७ ॥

अतिकृच्छ्रं पर्णकृच्छ्रं तथाऽन्यद्वैष्णवं व्रतम्  ।

एकादश्यां न भुङ्क्ते यः पक्षयोरुभयोरपि  ॥ ३८.२८ ॥

स गच्छति परं स्थानं यत्रास्ते भगवान् हरिः  ।

अन्यक्षेत्रात्कोटिगुणं फलं वै केशवोऽब्रवीत् ॥ ३८.२९ ॥

तत्र जप्तं तपस्तप्तं सर्वं भवतु चाक्षयम्  ।

श्रवणे द्वादशी पुण्या रोहिण्यामष्टमी शुभा  ॥ ३८.३० ॥

तत्रोपोष्य महाराज विष्णुलोके महीयते  ।

चाण्डालः श्वपचो वाऽपि तिर्यग्योनिगतोऽपि वा  ॥ ३८.३१ ॥

अत्र यस्त्यजति प्राणान् विष्णुलोकं स गच्छति  ।

कार्त्तिके चैव वैशाख उपवासं करोति यः  ॥ ३८.३२ ॥

दशकोट्युपवासानां फलं प्राप्नोति मानवः  ।

शङ्करेण पुरा गीतं पुराणे स्कन्दकीर्तिते  ॥ ३८.३३ ॥

मासोपवासिनो दृष्ट्वा तत्रैव च पतिव्रताः  ।

धर्मराजः स्वयं गत्वा अर्घं तेभ्यो निवेदयेत् ॥ ३८.३४ ॥

षष्टियानसहस्रैस्तु आगतो भगवान् प्रभुः  ।

सहस्रयोजनं यावदायाति भगवान् यमः  ॥ ३८.३५ ॥

शुक्लवस्त्रपरीधानो धर्मतेजो वपुर्धरः  ।

स्थित्वा यानस्य चैवाग्रे भक्त्या पादौ च वन्दते  ॥ ३८.३६ ॥

प्रदृश्य वैष्णवं लोकं ततो गत्वा निवर्तते  ।

प्रत्यागतेषु यानेषु अपृच्छन् स्वेच्छया यमम्  ॥ ३८.३७ ॥

ब्रह्मणो मानसाः पुत्राः सप्त चैव महर्षयः  ।

कस्माच्च कारणाद्धर्म पादचारी गतः स्वयम्  ॥ ३८.३८ ॥

कथयस्व महाभाग परं विस्मयमागताः  ।

प्रहस्य चाब्रवीद्धर्मः शृण्वन्तु मुनिसत्तमाः  ॥ ३८.३९ ॥

पतिव्रतानां दीप्तिं च दीप्तिं मासोपवासिनाम्  ।

अशक्ता द्रष्टुमेतासां विमानान् दूरतः स्थितान्  ॥ ३८.४० ॥

ताभ्यः प्रत्यागताः सर्वे मम भृत्या भयंकराः  ।

एतस्मात्कारणाद्विप्राः पादचारी गतो ह्यहम्  ॥ ३८.४१ ॥

 

मार्कण्डेय उवाच –

माहात्म्याच्चामरावत्यां हरेरमिततेजसः  ।

वासश्च यजनं तत्र कीर्तितं कलिनाशनम्  ॥ ३८.४२ ॥

अथान्यः परमो देवो ब्रह्मेश इति विश्रुतः  ।

रेवाया उत्तरे कूले संस्थितः पापनाशनः  ॥ ३८.४३ ॥

अर्चनात्तस्य देवस्य नश्येतैनो युधिष्ठिर  ।

पितरस्तृप्तिमायान्ति ब्रह्मलोकमवाप्नुयुः  ॥ ३८.४४ ॥

लङ्केश्वराद्दक्षिणतः सिद्धलिङ्गं प्रकीर्तितम्  ।

अर्चनात्स्पर्शनात्तस्य गाणपत्यमवाप्यते  ॥ ३८.४५ ॥

विश्वेश्वरं महालिङ्गं सर्वदेवमयं शुभम्  ।

शुक्लाष्टम्यां च वैशाखे लिङ्गायुतफलं लभेत् ॥ ३८.४६ ॥

अर्चनात्तस्य लिङ्गस्य शिवस्यानुचरो भवेत् ।

ततो गच्छेन्महाराज रेवाया उत्तरे तटे  ॥ ३८.४७ ॥

पापप्रणाशनं चैव लिङ्गं परमसिद्धिदम्  ।

अर्चनात्तर्पणात्स्नानाद्ब्रह्महत्यां व्यपोहति  ॥ ३८.४८ ॥

ऋणानां मोचनं चैव लिङ्गं पापप्रणाशनम्  ।

अनेकभाविकं चैव ऋणं तस्य प्रणश्यति  ॥ ३८.४९ ॥

तिलोदकप्रदानेन ऋणमोचनदर्शनात् ।

पितरस्तस्य तृप्यन्ति यावच्चन्द्रार्कतारकम्  ॥ ३८.५० ॥

अथान्यत्परमं लिङ्गं त्रिषु लोकेषु विश्रुतम्  ।

दारुवने सिद्धलिङ्गं कथं पश्यन्ति कश्मलाः  ॥ ३८.५१ ॥

नर्मदाचरुसम्भेदे स्नानं कृत्वा यथोदितम्  ।

स्नापयित्वोदकेनेशं बिल्वपत्रैश्च पूजनात् ॥ ३८.५२ ॥

न तस्य पुनरावृत्तिरुमामाहेश्वरात्पुरात् ॥ ३८.५३ ॥

चतुष्केश्वरं सिद्धलिङ्गमामलक्याः प्रमाणतः  ।

अर्चितं वै सुरैर्दैत्यैर्न तं पश्यन्ति मानवाः  ॥ ३८.५४ ॥

करोत्यत्र तु यः श्राद्धं पुत्रः परमधार्मिकः  ।

पितरस्तस्य तृप्यन्ति यावदाहूत संप्लवम्  ॥ ३८.५५ ॥

शाकल्यस्याश्रमं पुण्यं योजनायुतविस्तरम्  ।

यज्ञपर्वतमासाद्य निःसृता चरुका नदी  ॥ ३८.५६ ॥

शक्रेणेष्टं पुरा तत्र बृहस्पतिपुरोधसा  ।

एतत्पुण्यतमं लोके गीयते सर्वदैवतैः  ॥ ३८.५७ ॥

चन्द्रसूर्योपरागे तु यत्फलं कुरुजाङ्गले  ।

रेवाचरुकसंयोगे तत्फलं शिवकीर्तितम्  ॥ ३८.५८ ॥

तत्राख्यातं दारुवनं भुवि सर्वैर्निषेवितम्  ।

मुनीनां षष्टिसाहस्रैस्त्रेतातपसि संस्थितैः  ॥ ३८.५९ ॥

कन्दमूलफलाहारैरग्निहोत्रपरायणैः  ।

एतत्तीर्थप्रभावेण गतास्ते ब्रह्मणः पुरीम्  ॥ ३८.६० ॥

निहत्य चान्धकं तत्र ननर्त भगवाञ्छिव  ।

गणानां नायकाः सर्वे नानावाद्यानवादयन्  ॥ ३८.६१ ॥

तत्र नृत्यति देवेशः सर्वा नृत्यन्ति देवताः  ।

तेन दारुवनं ख्यातं लिङ्गं पापप्रणाशनम्  ॥ ३८.६२ ॥

अर्चनात्तस्य देवस्य गाणपत्यमवाप्नुयात् ।

विमलेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम्  ॥ ३८.६३ ॥

स्नानात्तत्र दिवं यान्ति ये मृता न पुनर्भवाः  ।

निर्मलीकृतदेहास्तु कृतास्तत्र सुरासुराः  ॥ ३८.६४ ॥

पिनाकिना महाराज नीताः सर्वे त्रिविष्टपम्  ।

तिलोदकैः पिण्डदानैः पितॄन् प्रीणाति यो नरः  ॥ ३८.६५ ॥

स गच्छति परं स्थानं यत्र देवो महेश्वरः  ।

चन्द्रसूर्यग्रहे प्राप्ते दानसंख्या न विद्यते  ॥ ३८.६६ ॥

शिवमभ्यर्च्य तत्रैव गाणपत्यमवाप्नुयात् ।

विमलेश्वरं तत्र लिङ्गं स्वयं विद्धि महेश्वरम्  ॥ ३८.६७ ॥

व्याघ्रेश्वरं यत्र लिङ्गं व्याघ्री यत्र दिवं गता  ।

तिलोदकप्रदानेन हविषा पिण्डदानतः  ॥ ३८.६८ ॥

पितॄनुद्धरते पुत्रः शतपूर्वांस्तथा परान्  ।

वसेत्स वारुणे लोके यावदिन्द्राश्चतुर्दश  ॥ ३८.६९ ॥

अर्चनात्तस्य देवस्य कीर्तनाच्छ्रवणादपि  ।

इन्द्रलोकमवाप्नोति सत्यमेतन्मयोदितम्  ॥ ३८.७० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रस्वामिवर्णनो नामाष्टत्रिंशत्तमोऽध्यायः ॥

 

 

अध्याय ३९

 

युधिष्ठिर उवाच –

लिङ्गं व्याघ्रेश्वरं नाम विघ्नकर्तृसमागमे  ।

कथितं यन्महाभाग सर्वपापविमोक्षणम्  ॥ ३९.१ ॥

प्रभावं वेदितुं तस्य पुनरिच्छाम्यहं मुने  ।

 

मार्कण्डेय उवाच –

शृणु राजन् कथां दिव्यां सर्वपापप्रणाशिनीम्  ॥ ३९.२ ॥

बभ्रुर्नाम पुरा चासीद्राजा परमधार्मिकः  ।

पुण्ड्रवर्द्धनवासी च सत्यधर्मपरायणः  ॥ ३९.३ ॥

पितुः क्षयाहे सम्प्राप्ते श्राद्धकाले सुसंयतः  ।

नित्यं नैमित्तिकं कर्म पित्रर्थं स चकार ह  ॥ ३९.४ ॥

यज्ञकाले निवृत्तेऽथ बुद्धिं प्राप्य तु भारत  ।

चिन्तयामास राजासौ किंकरोमीती चाब्रवीत् ॥ ३९.५ ॥

ऋषयो निरपेक्षाशाः कन्दमूलफलाशिनः  ।

विप्रातिथिं न पश्यामि कं भोजयितुमुत्सहे  ॥ ३९.६ ॥

संचिन्त्य विप्रभोज्यार्थं पाकमप्सु व्यनिक्षिपत् ।

ऋग्वेदश्च ततो वाक्यं कोपात्प्राह ततस्तदा  ॥ ३९.७ ॥

इदानीं द्वापरस्यान्ते वर्तते पापसंभवः  ।

वैवस्वतेऽन्तरे प्राप्ते ब्राह्मणा लब्धकामुकाः  ॥ ३९.८ ॥

ते भुञ्जन् कामुकाः सर्वे राजद्रव्यं सकिल्बिषम्  ।

देशे कदाचित्पुण्याहे भारद्वाजाश्रमंगतः  ॥ ३९.९ ॥

सोऽभिवाद्य नमस्कृत्य मुनिं तत्र व्यवस्थितः  ।

भारद्वाजोऽब्रवीद्वाक्यं तस्मै दत्त्वासनं महत् ॥ ३९.१० ॥

स्वागतं ते महाराज कुशलं सह भार्यया  ।

चिरं दृष्टोऽसि धर्मज्ञ एकाकी त्वं कथंचन  ॥ ३९.११ ॥

 

राजोवाच –

अद्य मे कुशलं ब्रह्मंस्त्वत्पादाम्बुजदर्शनात् ।

महर्षे श्राद्धकालोऽयां पितॄणां मम वर्तते  ॥ ३९.१२ ॥

भोजयेऽहं यथा विप्रं तथा त्वं कर्तुमर्हसि  ।

तस्य तद्वचनं श्रुत्वा भारद्वाजोऽब्रवीद्वचः  ॥ ३९.१३ ॥

महर्षीणां सहस्राणि तुष्टानामूर्ध्वरेतसाम्  ।

हंसलोमशमुख्यानां यदि भोजयितुं क्षमः  ॥ ३९.१४ ॥

पश्चात्प्रवर्तते श्राद्धं सत्यमेतद्ब्रवीम्यहम्  ।

दद्या हेममयं पीठं दद्या धान्यं तथा वसु  ॥ ३९.१५ ॥

मधुधेनुं तथा दिव्यां पयोधेनुं तथैव च  ।

अग्निशौचस्य कौपीनं वस्त्रस्य तु विशाम्पते  ॥ ३९.१६ ॥

तस्य तद्वचनं श्रुत्वा भारद्वाजस्य भूपतिः  ।

एवमस्त्विति तं चोक्त्वा सर्वं पत्न्यै न्यवेदयत् ॥ ३९.१७ ॥

महोक्षं कल्पयित्वा पितृकार्यं निवर्तये  ।

श्रौतस्मार्तादिकं कर्म आमिषं पितृतर्पणम्  ॥ ३९.१८ ॥

इत्यादिस्मृतिवाक्यानि पर्यालोच्य पुनः पुनः  ।

महोक्षं च ततो हत्वा तर्पयामास तान् पितॄन्  ॥ ३९.१९ ॥

अनड्वाहं पशुं ज्ञात्वा भारद्वाजादयस्ततः  ।

कुपिताः कर्मणा तेन राज्ञीं राजानमेव च  ॥ ३९.२० ॥

कोपसंभारसंतप्ता गर्हयन्तोऽब्रुवंस्तदा  ।

सुरामांसादिमाध्वीकं कृत्वा गोमांसभक्षणम्  ॥ ३९.२१ ॥

तप्तकृच्छ्रं चरेद्विप्रो मौञ्जीबन्धेन शूद्ध्यति  ।

अभक्षभक्षणं कृत्वा करीषाग्नौ विशेद्द्विजः  ॥ ३९.२२ ॥

घातितानि त्वया चाष्टौ सहस्राणि तपस्विनाम्  ।

हव्यं देवा न गृह्णन्ति कथं च पितरः पुनः  ॥ ३९.२३ ॥

त्वया वै क्रतवश्चेष्टास्ते गता वै श्वयोनिषु  ।

व्यर्थमास तपस्तेऽद्य मूलनाशस्त्वया कृतः  ॥ ३९.२४ ॥

 

बभ्रुरुवाच –

वेदोक्तं यः परित्यज्य धर्ममन्यं समाचरेत् ।

दशवर्षसहस्राणि श्वयोनौ जायते ध्रुवम्  ॥ ३९.२५ ॥

वेदार्थनिन्दका ये वै ब्राह्मणा ज्ञानदुर्बलाः  ।

इह जन्मनि शूद्रास्ते मृताः श्वानो भवन्ति ते  ॥ ३९.२६ ॥

गोमेधो हयमेधश्च नरमेधस्तथाऽपरः  ।

क्षत्रियास्त्वथ जीवन्ति पूज्यन्ते देवमानुषैः  ॥ ३९.२७ ॥

राज्ञस्तद्वचनं श्रुत्वा भारद्वाजोऽशपत्नृपम्  ।

यस्मान्महोक्षमांसेन तार्पिता ब्राह्मणास्त्वया  ॥ ३९.२८ ॥

भवतु अनेन पापेन व्याघ्रो व्याघ्री तव प्रिया  ।

दिव्यं वर्षसहस्रं तु वसुधां विचरिष्यथः  ॥ ३९.२९ ॥

तस्य तद्वचनं श्रुत्वा मुनेरमिततेजसः  ।

सुधर्मा चाब्रवीद्वाक्यं राजपत्नी यशस्विनी  ॥ ३९.३० ॥

वेदोक्तकर्मकर्ता तु यतः शप्तः पतिर्मम  ।

पतिव्रता च निर्दोषा धर्मिष्ठाऽहं तथैव च  ॥ ३९.३१ ॥

दशवर्षसहस्राणि तेन पापेन दुःखिताः  ।

भविष्यथ महाघोरा यूयं वै ब्रह्मराक्षसाः  ॥ ३९.३२ ॥

निर्जले मरुदेशे च अपरे कण्टकावृते  ।

क्षुधार्ताश्च तृषार्ताश्च काकगृध्रैरनुद्रुताः  ॥ ३९.३३ ॥

भारद्वाजश्च राज्ञी च शप्त्वा तत्र परस्परम्  ।

भारद्वाजश्च सार्द्धं तैः कृत्वा पुण्यं ततो नृप  ॥ ३९.३४ ॥

ब्रह्मलोकं जगामाथ ब्राह्मणैः सह भारत  ।

सोऽभिवाद्य यथा न्यायं ब्रह्माणं सुरसत्तमम्  ॥ ३९.३५ ॥

सर्वं न्यवेदयत्तत्राभक्षभोज्यं च यत्कृतम्  ।

 

ब्रह्मोवाच –

लोकापचरितं कर्म [] कार्यं देववर्जितम्  ॥ ३९.३६ ॥ [ङपिन् Oरिगिनल्]

उक्तानि च निषिद्धानि धर्माधर्मविचारणे  ।

लोकोक्तं विहितं कर्म त्रयी मार्गं विचारितम्  ॥ ३९.३७ ॥

कर्तव्यं तु प्रयत्नेन स्वर्गमोक्षप्रदायकम्  ।

बोधिता ब्राह्मणास्तेन ब्रह्मणा नृपतिस्तदा  ॥ ३९.३८ ॥

शापान्तः कथितस्तेषां तेनैव परमेष्ठिना  ।

शापस्यान्तो मया दृष्टो भवतां पापकर्मिणाम्  ॥ ३९.३९ ॥

पुण्यक्षये च शप्तास्तु सम्प्राप्ते तु युगान्तरे  ।

नर्मदातीरवासी यो मार्कण्डेयो महामुनिः  ॥ ३९.४० ॥

स दास्यत्युपदेशं वो येन मोक्षमवाप्स्यथ  ।

ततः कालेन महता मार्कण्डेयं मुनिं गताः  ॥ ३९.४१ ॥

दैवयोगेन ते सर्वे कल्पगा तीरवासिनम्  ।

अभिवाद्य यथा न्यायं तमृषिं प्रणिपत्य च  ॥ ३९.४२ ॥

स्थिताः स्वकर्म तत्रैव व्याहरन्तः परस्परम्  ।

दृष्ट्वा तांश्चिन्तयामास मार्कण्डेयो महामुनिः  ॥ ३९.४३ ॥

मिथुनं व्याघ्ररूपेण व्याहरन्मानुषीं गिरम्  ।

केन कर्मविपाकेन ब्राह्मणा ब्रह्मराक्षसाः  ॥ ३९.४४ ॥

एवं संचिन्त्य मार्कण्डो भारद्वाजमथाब्रवीत् ।

दम्पती व्याघ्ररूपेण ब्राह्मणा ब्रह्मराक्षसाः  ॥ ३९.४५ ॥

यूयं च विकृताकाराः कथयध्वं कथं च तत् ।

 

भारद्वाज उवाच –

शृणु ब्रह्मन् समासेन कथ्यमानं वचो मम  ॥ ३९.४६ ॥

भविष्यभूततत्त्वज्ञ त्रिकालज्ञ त्रिवेदवित् ।

बभ्रुर्नामा चक्रवर्ती पुण्ड्रवर्धनसंस्थितः  ॥ ३९.४७ ॥

सुधर्मा नाम तस्यैव धर्मपत्नी पतिव्रता  ।

एकदा श्राद्धकाले तु नातिथिं प्राप्तवान् द्विजम्  ॥ ३९.४८ ॥

संचिन्त्याथ तदात्मानमागतो ह्याश्रमं मम  ।

पादौ जग्राह शिरसा ततो वचनमब्रवीत् ॥ ३९.४९ ॥

पितॄणां श्राद्धकालो मे प्रसादः क्रियतां मयि  ।

ततो मयोपदिष्टोऽसौ मुनींस्त्वं भोजयाधुना  ॥ ३९.५० ॥

महोक्षं शातयित्वा तु भोजितास्ते तपोधनाः  ।

शप्तो मया च शीघ्रं त्वं व्याघ्रयोनिं गमिष्यसि  ॥ ३९.५१ ॥

निर्भर्त्स्य मां च तत्पत्नी शशाप ब्रह्मराक्षसाः  ।

यूयं भवत वै सर्वे मरुदेशे क्षुधार्दिताः  ॥ ३९.५२ ॥

ब्रह्माणं च ततः प्राप्ता विवादेन परस्परम्  ।

ब्रह्मणा प्रेषितास्तेऽमी त्वत्सकाशमिहागताः  ॥ ३९.५३ ॥

एतत्ते कथितं सर्वं कारणं विकृते महत् ।

नान्यत्स्थानं प्रपश्यामो यत्रास्माकं स्थितिर्भवेत् ॥ ३९.५४ ॥

न दिवा नैव रात्रिश्च न सूर्यो न च चन्द्रमाः  ।

न ग्रहा नैव ऋक्षाणि ऋषयो यत्र मण्डलम्  ॥ ३९.५५ ॥

सरितः सागराः शैला भूतग्रामं चतुर्विधम्  ।

आसीदिदं तमो भूतमादि मध्यान्तवार्जितम्  ॥ ३९.५६ ॥

मुग्धा वयं न जानीमो न चाज्ञायत किंचन  ।

न्यग्रोधं नर्मदामध्ये मेघाभं कालरूपिणम्  ॥ ३९.५७ ॥

त्वां वै सर्वद्विजश्रेष्ठं नान्य पश्यामि किंचन  ।

त्वं पिता नो गुरुश्चैव हरिर्धाता स्वयं शिवः  ॥ ३९.५८ ॥

अकामतः कृतं पापं स्वयमेतदुपार्जितम्  ।

त्वत्प्रसादात्मुनिश्रेष्ठ मुञ्चामो घोरकिल्बिषात् ॥ ३९.५९ ॥

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि  ।

अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशभम्  ॥ ३९.६० ॥

 

मार्कण्डेय उवाच –

शाकल्यस्याश्रमं पुण्यं ब्रह्मर्षिगणसेवितम्  ।

वैदूर्यात्पश्चिमे भागे यत्र देवो महेश्वरः  ॥ ३९.६१ ॥

तत्र गत्वा च यूयं वै तपश्चोग्रं करिष्यथ  ।

जपध्यानपरा नित्यं कन्दमूलफलाशिनः  ॥ ३९.६२ ॥

एवं द्वादशवर्षाणि संतिष्ठध्वं द्विजोत्तमाः  ।

यावद्वै वेदमानेन पुनः सृष्टिः प्रवर्तते  ॥ ३९.६३ ॥

तमो भूतमिदं सर्वं न प्राज्ञायत किंचन  ।

सर्वं चकार भगवान्महाकालवपुर्धरः  ॥ ३९.६४ ॥

प्राणिनां कर्मणा ह्येतज्जगत्कालवशङ्गतम्  ।

वायुरग्निर्जलं पृथ्वी भूतग्रामश्चतुर्विधः  ॥ ३९.६५ ॥

कालस्य भोजनं सर्वं भस्मपुञ्जमिवाभवत् ।

नाश्चर्यमत्र कर्तव्यं पुनः सृष्टिर्भविष्यति  ॥ ३९.६६ ॥

तस्य तद्वचनं श्रुत्वा सर्वे ते पापयोनयः  ।

नमस्कृत्य मुनिश्रेष्ठं मार्कण्डं कल्पवासिनम्  ॥ ३९.६७ ॥

राजा च राजपत्नी च ऋषयो विमलेश्वरम्  ।

जग्मुः कालेन महता पुनःसृष्टिः प्रवर्तिता  ॥ ३९.६८ ॥

स्वयं प्रजापतिर्ब्रह्मा ससर्ज विविधाः प्रजाः  ।

कलाः काष्ठा मुहूर्ताश्च जगत्स्थावरजङ्गमम्  ॥ ३९.६९ ॥

सरितः सागरान् गुल्मान् पर्वतां च लतास्तथा  ।

आपोऽग्निं वै तथा वायुं भूतग्रामं चतुर्विधम्  ॥ ३९.७० ॥

सूर्यं च दक्षिणे नेत्रे सोऽसृजत्प्राणिनस्तथा  ।

वामनेत्रे हिमांशुं च स तथा पर्यकल्पयत् ॥ ३९.७१ ॥

एतदृक्षवरैः सार्द्धं पवित्रं ध्रुवमण्डलम्  ।

विवस्वतः प्रभां चैव सर्वलोकप्रकाशिनीम्  ॥ ३९.७२ ॥

सृष्टा चान्द्रमसी ज्योत्स्ना दिवा रात्री तथैव च  ।

अपरेषु च द्वीपेषु न सूर्यो नैव चन्द्रमाः  ॥ ३९.७३ ॥

रौद्री प्रभाऽस्ति तत्रैवं पुनः सृष्टिः प्रवर्तिता  ।

पूर्णे तु द्वादशे वर्षे शापान्ते समुपस्थिते  ॥ ३९.७४ ॥

अर्चयित्वा महेशानं रेवाव्याघ्रसमागमे  ।

भारद्वाजादयः सर्वे ब्रह्मलोकमवाप्नुयुः  ॥ ३९.७५ ॥

कामिकं यानमारुह्य राजा मुनियुतस्तदा  ।

तीर्थस्यास्य प्रभावेण उमामाहेश्वरे पुरे  ॥ ३९.७६ ॥

व्याघ्रेश्वरो व्याघ्रकर्तृसङ्गमे त्रिदशार्चितः  ।

अन्यल्लिङ्गं न पश्यामि दिव्यं वै विमलेश्वरात् ॥ ३९.७७ ॥

अर्चनात्तस्य लिङ्गस्य दर्शनात्स्पर्शनात्तथा  ।

ब्रह्महत्या प्रणश्येत पापेष्वन्येषु का कथा  ॥ ३९.७८ ॥

तीर्थेषु श्राद्धकरणात्पितॄणामक्षया गतिः  ।

कल्पकोटिसहस्राणि कल्पकोटिशतानि च  ॥ ३९.७९ ॥

तीर्थस्यास्य प्रभावेण लोके क्रीडन्ति वैष्णवे  ।

एतत्ते कथितं सर्वं यथादृष्टं यथाश्रुतम्  ॥ ३९.८० ॥

श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ३९.८१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे विमलेश्वरवर्णनो नामैकोनचत्वारिंशोऽध्यायः ॥

 

 

अध्याय ४०

 

युधिष्ठिर उवाच –

मनसा चिन्तितं यच्च तदेव समुपस्थितम्  ।

लक्षणं सूत्रयागस्य पर्वतस्य तु वेष्टनम्  ॥ ४०.१ ॥

कस्मिन् काले प्रकर्तव्यं विधानां विधिपूर्वकम्  ।

त्वमेव वेत्सि सर्वं वै विदितं कुरु साम्प्रतम्  ॥ ४०.२ ॥

येन देवाः सगन्धर्वा मानुषाः पापयोनयः  ।

तत्र यागप्रभावेण दिवि देवत्वमागताः  ॥ ४०.३ ॥

 

मार्कण्डेय उवाच –

श्रूयतां राजशार्दूल सूत्रयागस्य लक्षणम्  ।

चन्द्रसूर्योपरागे तु षडशीतिमुखे तथा  ॥ ४०.४ ॥

युगादौ विषुवे चैव व्यतीपाते च संक्रमे  ।

कार्त्तिक्यां च तथा माघ्यां वैशाख्यां चैव भारत  ॥ ४०.५ ॥

सूर्योपरागतुल्यायां षष्ठ्यां हि कपिलस्य तु  ॥ ४०.६ ॥

वैशाखमासस्य तु या तृतीया नवम्यथोर्जस्य च शुक्लपक्षे  ।

माघे त्वमा चैव नभस्यकृष्णा त्रयोदशी चेति युगादयस्तथा  ॥ ४०.७ ॥

पर्वस्वेतेषु कौन्तेय सूत्रयागं तु कारयेत् ।

अनन्तफलसंयुक्तं शिवेन कथितं पुरा  ॥ ४०.८ ॥

सूत्रेण वेष्टयेद्यस्तु पर्वतं शिवसन्निभम्  ।

उमया सहितं देवं गणेशेन तथैव च  ॥ ४०.९ ॥

तावद्युगसहस्राणि स्वर्गलोके महीयते  ।

पुत्रिणी भर्तृसंयुक्ता नारी तद्वेष्टिनी भवेत् ॥ ४०.१० ॥

कौशेयं पट्टसूत्रं च कार्पासं च महीपते  ।

नवतन्तुं च यः कुर्याद्दश द्वादशतन्तुकम्  ॥ ४०.११ ॥

अष्टादश महाराज चतुर्विंशति वा क्रमात् ।

क्षालयेत्कोटितीर्थे तु गन्धधूपेन वासयेत् ॥ ४०.१२ ॥

बध्नीयात्पुष्पमालां च दीपमालां च बोधयेत् ।

रात्रौ जागरणं कृत्वा ओंकारे विधिपूर्वकम्  ॥ ४०.१३ ॥

शिवध्यानपरो भूत्वा निराहारो निशां नयेत् ।

प्रभाते चोत्सवं कुर्यादोंकाराभ्यर्चनं तथा  ॥ ४०.१४ ॥

न्यग्रोधे बन्धयेत्सूत्रं समाधिस्थो नरेश्वर  ।

कोटितीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम्  ॥ ४०.१५ ॥

ऋणमोक्षं पापनाशं नरकेश्वरमुत्तमम्  ।

गन्धर्वेश्वरलिङ्गं तु गच्छेत्परमशोभनम्  ॥ ४०.१६ ॥

अदृश्यं सर्वभूतानां नागकन्याभिरर्च्यते  ।

तत्र स्नात्वा नरो राजन् गान्धर्वं लोकमाप्नुयात् ॥ ४०.१७ ॥

ततो गच्छेन्नृपश्रेष्ठ अङ्गारेश्वरमुत्तमम्  ।

दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्यते  ॥ ४०.१८ ॥

अङ्गारेण तपस्तप्तं दिव्यं वर्षशतं तथा  ।

ग्रहत्वमगमत्सोऽपि तीर्थस्यऽस्य प्रभावतः  ॥ ४०.१९ ॥

ब्रह्मावर्तं ततो गच्छेत्सर्वतीर्थमयं शुभम्  ।

तत्र स्नात्वा नरो राजन् छिवलोकमवाप्नुयात् ॥ ४०.२० ॥

तिलोदकप्रदानेन पितॄणां परमा गतिः  ।

दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम्  ॥ ४०.२१ ॥

ब्रह्मा चैव पुराकल्पे लोकानुग्रहकारकः  ।

लिङ्गं मध्येश्वरं नाम जलमध्ये व्यवस्थितम्  ॥ ४०.२२ ॥

पूज्यते नागकन्याभिर्न तत्पश्यन्ति मानवाः  ।

दारुकेश्वरलिङ्गं तु सर्वपापप्रणाशनम्  ॥ ४०.२३ ॥

अर्चनात्तस्य देवस्य नरो विद्याधरो भवेत् ।

भृगुलिङ्गं ततो गच्छेद्भैरवो यत्र संस्थितः  ॥ ४०.२४ ॥

भृगुं गत्वा नरश्रेष्ठ मुच्यते ब्रह्महत्यया  ।

जालेश्वरं ततो गच्छेत्पर्वतीर्थोत्तमोत्तमम्  ॥ ४०.२५ ॥

स्नानमात्रो नरस्तत्र स भवे न पुनर्भवेत् ।

तिलोदकप्रदानेन पितॄणामक्षया गतिः  ॥ ४०.२६ ॥

भैरवं रूपमास्थाय बाणस्य च पुरत्रयम्  ।

पातितं जलमध्ये तु नर्मदाया हरेण वै  ॥ ४०.२७ ॥

ज्वलत्पाशुपतास्त्रेण तत्रैव तदनन्तरम्  ।

तदस्त्रसङ्गमाच्छीघ्रं पातालाच्चोत्थितं ततः  ॥ ४०.२८ ॥

लिङ्गं जालेश्वरं नाम ब्रह्महत्यां व्यपोहति  ।

कोटितीर्थं ततो गच्छेत्स्नात्वा च विधिपूर्वकम्  ॥ ४०.२९ ॥

वलक्षं बन्धयेत्सूत्रमोंकारस्य तु भारत  ।

ओंकारं च समभ्यर्च्य दीपमालां च बोधयेत् ॥ ४०.३० ॥

सफलः सूत्रयागस्तु त्वत्प्रसादान्महेश्वर  ।

यतींश्च भोजयेत्तत्र दद्याच्छक्त्या च दक्षिणाम्  ॥ ४०.३१ ॥

सार्द्धं च बन्धुभृत्यैश्च पारणं क्रियते नृप  ।

यः शारीरेण कष्टेन पर्यटेच्छिवपर्वतम्  ॥ ४०.३२ ॥

पदे पदे यज्ञफल तस्य स्याच्छङ्करोऽब्रवीत् ।

पुरा देवगणैः सर्वैः सिद्धगन्धर्वकिन्नरैः  ॥ ४०.३३ ॥

विद्याधरैस्तथा यक्षैरसुरैर्दैत्यदानवैः  ।

चन्द्रादित्यग्रहैश्चैव नक्षत्रध्रुवमण्डलैः  ॥ ४०.३४ ॥

विश्वेदेवैश्च साध्यैश्च मरुद्भिर्वसुभिस्तथा  ।

देवराजेन चेन्द्राण्या सावित्र्या चैव भारत  ॥ ४०.३५ ॥

अरुन्धत्या सरस्वत्या गायत्र्या स च पर्वतः  ।

सूत्रेण वेष्टितो भक्त्या फलं प्राप्तं शिवोदितम्  ॥ ४०.३६ ॥

अहल्या मेनका रम्भा घृताची चोर्वशी तथा  ।

तिलोत्तमा तथा चान्या सरितः सागराश्च वै  ॥ ४०.३७ ॥

वेष्टनात्पर्वतस्यास्य दिग्देवत्वमवाप्तवान्  ।

यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी  ॥ ४०.३८ ॥

सूत्रयागप्रभावेण तावच्छिवपुरे वसेत् ।

एतत्ते कथितं राजन् सूत्रयागस्य यत्फलम्  ॥ ४०.३९ ॥

श्रवणात्कीर्तनादस्य रुद्रस्यानुचरो भवेत् ॥ ४०.४० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे सूत्रयागवर्णनो नाम चत्वारिंशोऽध्यायः ॥

 

 

अध्याय ४१

 

युधिष्ठिर उवाच –

कीर्तनं कोटितीर्थस्य मानसंख्याप्रमाणतः  ।

तीर्थानि चोत्तरे याम्ये प्राकारे संस्थितानि च  ॥ ४१.१ ॥

कथयस्व प्रसादेन तानि मे मुनिसत्तम  ।

तेषां तु दर्शनादेव पापं दुष्कृतकर्मिणाम्  ॥ ४१.२ ॥

प्रणश्येत्तत्क्षणादेव तमः सूर्योदये यथा  ।

मार्कण्डेय उवाच –

उत्तरे यानि तीर्थानि यानि तीर्थानि दक्षिणे  ॥ ४१.३ ॥

लीयन्ते कोटितीर्थे तु साक्षाच्छिवपदे नृप  ।

पृथिव्यां यानि तीर्थानि आसमुद्रान्तगोचरे  ॥ ४१.४ ॥

तानि साक्षात्कोटितीर्थे लीयन्ते परमे पदे  ।

कपिलाऽमरयोर्मध्ये नर्मदोंकारमध्यतः  ॥ ४१.५ ॥

अत्रान्तरे नृपश्रेष्ठ कोटितीर्थं व्यवस्थितम्  ।

दशायुतानि तीर्थानां पातालतलवासिनाम्  ॥ ४१.६ ॥

कपिलानर्मदामध्ये शिवेन स्थापितानि च  ।

अत्रान्तरे महाराज रुद्रावर्तजलेन तु  ॥ ४१.७ ॥

स्नात्वा विधानतस्ते वै गच्छन्ति शिवमन्दिरम्  ।

ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते  ॥ ४१.८ ॥

वसन्ति वामभागे वै ते लोकं यान्ति वैष्णवम्  ।

ये पूर्वपश्चिमे भागे वसन्त्यमरकण्टके  ॥ ४१.९ ॥

रुद्रस्य ब्रह्मणो लोकं ते प्रयान्ति च वैष्णवम्  ।

जले चैकादशाग्नौ तु पतने षोडशैव तु  ॥ ४१.१० ॥

सहस्राणि तथाशीतिर्मरणाद्गोगृहे तथा  ।

अनशने ब्रह्मलोकः सार्द्धं लक्षमुदाहृतः  ॥ ४१.११ ॥

कपिलानर्मदातोये जलाग्नी साधयन्ति ये  ।

चतुर्युगसहस्राणि रुद्रलोके वसन्ति ते  ॥ ४१.१२ ॥

अवशः स्ववशो वाऽपि मृगपक्षिसरीसृपाः  ।

तिर्यग्योनिगताः पापा म्रियन्ते ये युधिष्ठिर  ॥ ४१.१३ ॥

राजानस्ते प्रजायन्ते शुभे वैद्याधरे पुरे  ।

राहुसोमसमायोगे कोटितीर्थे नराधिप  ॥ ४१.१४ ॥

पुण्यं यत्कीर्तितं पुंसां तस्य संख्या न विद्यते  ।

गयायां च कुरुक्षेत्रे पुष्करेऽमरकण्टके  ॥ ४१.१५ ॥

तुल्यं फलमवाप्नोति राहुग्रस्ते दिवाकरे  ।

प्राची सरस्वती यत्र स्थाणुः सारस्वतं जलम्  ॥ ४१.१६ ॥

सार्द्धं द्वादश लक्षं तु दत्तं तत्र प्रवर्तते  ।

तत्तुल्यं तु भवेत्सर्वं कोटितीर्थे न संशयः  ॥ ४१.१७ ॥

न्यायोपार्जितवित्तस्य राहुग्रस्ते दिवाकरे  ।

नानाविधं तु पुण्यं च मतं वै परिकीर्तितम्  ॥ ४१.१८ ॥

ब्रह्मविष्णुशिवोक्तं च प्रमाण सर्वसम्मतम्  ।

अल्पसत्त्वा नरा राजन् काले मायाविमोहिताः  ॥ ४१.१९ ॥

ओंकारं ये न पश्यन्ति तथा वै सप्तकल्पगाम्  ।

गोछागयोर्महाराज हेमरूप्ये यदन्तरम्  ॥ ४१.२० ॥

शूद्रब्राह्मणयोर्यद्वद्यथा वद्दधितक्रयोः  ।

अमरेश्वरतीर्थं हि ज्ञेयं तीर्थान्तरैः सह  ॥ ४१.२१ ॥

दीयते कोटितीर्थे यद्गुञ्जामात्रं हिरण्यकम्  ।

तस्य संख्या न विद्यते यावदाहूत संप्लवम्  ॥ ४१.२२ ॥

चतुर्हस्तप्रमाणं तु कोटितीर्थं न संशयः  ।

हस्तमात्रं तथा चान्ये वितस्तिं च तथाऽपरे  ॥ ४१.२३ ॥

चतुरङ्गुलमयं केऽपि केचिदङ्गुलमानतः  ।

अर्द्धाङ्गुलं यवमात्रं ब्रह्मसूत्रप्रमाणतः  ॥ ४१.२४ ॥

चतुर्विंशे द्वादशाब्दे कुरुक्षेत्रात्सरस्वती  ।

कोटितीर्थे तथा स्नातुं राहुग्रस्ते दिवाकरे  ॥ ४१.२५ ॥

करिणीरूपमास्थाय आयात्स्वपुण्यकक्षयात् ।

स्नानं कृत्वा पुनर्याति कुरुक्षेत्रं न संशयः  ॥ ४१.२६ ॥

कावेरीसङ्गमं यावदारभ्यो दधिसङ्गमम्  ।

अत्रान्तरे महाराज तीर्थकोट्यो दश स्मृताः  ॥ ४१.२७ ॥

कोटितीर्थं समारभ्य नीलगङ्गावसानतः  ।

अष्टलक्षाणि तीर्थानां ब्रह्मसूत्रप्रमाणतः  ॥ ४१.२८ ॥

कावेर्याः पूर्वभागे च यावत्पर्यङ्कपर्वतः  ।

दश लक्षाणि तीर्थानां संख्या च कथिता तव  ॥ ४१.२९ ॥

नर्मदायां समासाद्य जमदग्नेर्महाश्रमम्  ।

श्रीकण्ठं नीलकण्ठं च लिङ्गं पापप्रणाशनम्  ॥ ४१.३० ॥

कन्यातीर्थं महापुण्यं कपिलेश्वरमुत्तमम्  ।

कपिलावर्तसंज्ञं तु तीर्थं पापहरं परम्  ॥ ४१.३१ ॥

तत्र पूषा च सूर्यस्तु शिवध्यानपरायणः  ।

दिव्यं वर्षसहस्रं तु तपस्तेपे सुदुष्करम्  ॥ ४१.३२ ॥

ततस्तुष्टः सुरेशानस्तमुवाच तदा नृप  ।

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ४१.३३ ॥

 

पूषोवाच –

यदि तुष्टोऽसि देवेश वरं दातुं त्वमिच्छसि  ।

सूर्यपिङ्गलसंज्ञं तु लिङ्गं परमसिद्धिदम्  ॥ ४१.३४ ॥

आकाशे प्रतपद्रश्मिसहस्रांशु समप्रभम्  ।

मासे मासेऽन्यमित्रस्तु संक्रमश्चान्यराशिषु  ॥ ४१.३५ ॥

इमं वरमहं मन्ये जगद्द्योतनकारकम्  ।

 

ईश्वर उवाच –

सर्वसम्पत्समृद्धिस्ते मत्प्रसादाद्भविष्यति  ॥ ४१.३६ ॥

कृते युगे महाराज मयैतद्दृष्टमेव च  ।

चतुर्दश्यां तथाऽष्टम्यां पिङ्गलेश्वरपूजनात् ॥ ४१.३७ ॥

कोटियज्ञफलं प्राप्य शिवलोके महीयते  ।

रेवातीरेषु ये देवाः क्रोशमात्रं स्वयंभुवः  ॥ ४१.३८ ॥

सर्वे ते सिद्धिदा ज्ञेयाः कामभोगफलप्रदाः  ।

केचित्कूष्माण्डमात्रा वै केचिद्वै पुष्पमात्रकाः  ॥ ४१.३९ ॥

एरण्डफलमात्राश्च वज्रमौक्तिकमानतः  ।

कृते मणिमयाः प्रोक्तास्त्रेतायां तु हिरण्मयाः  ॥ ४१.४० ॥

द्वापरे रौप्यताम्राश्च कलौ चाश्ममयाः स्मृताः  ।

ब्राह्मं कृतयुगं प्राहुस्त्रेतां वै क्षत्रियं तथा  ॥ ४१.४१ ॥

द्वापरं वैश्यमित्येवं कलिं शूद्रं तथैव च  ।

नापुण्यालिङ्गमासाद्य म्रियतेऽमरकण्टके  ॥ ४१.४२ ॥

को न मुच्येत कौन्तेय सप्तजन्मजकिल्बिषात् ।

यादृशोऽयं गिरिः पुण्यः सर्वतोऽमरकण्टकः  ॥ ४१.४३ ॥

तादृशं नानुपश्यामि त्रिषु लोकेषु भारत  ।

पर्वतस्य समन्तात्तु तीर्थकोटिर्व्यवस्थिता  ॥ ४१.४४ ॥

स्वर्गसोपानमासाद्य प्रात्यक्षं शिवदर्शनम्  ।

सुपुण्यं कोटितीर्थं वै तथा चामरकण्टकम्  ॥ ४१.४५ ॥

स्वर्गदं मोक्षदं विद्धि सर्वसिद्धिप्रदायकम्  ।

वैदूर्यपर्वते सिद्धो मान्धाता च कृते युगे  ॥ ४१.४६ ॥

कथितो नृपशार्दूल तथान्यत्कथयामि ते  ।

कावेरीसङ्गमः पुण्यः सर्वलोकेषु विश्रुतः  ॥ ४१.४७ ॥

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ।

कावेर्यां भूतजाभौमे व्यतीपातो यदा भवेत् ॥ ४१.४८ ॥

सहस्रगुणितं पुण्यं भवेत्तस्यास्तु सङ्गमे  ।

शस्त्रेण निहता ये वै तिलमिश्राम्बुदानतः  ॥ ४१.४९ ॥

ते चैकोद्दिष्टश्राद्धेन स्वर्गलोकमवाप्नुयुः  ।

चाण्डालाद्गुहकात्सर्पाद्विद्युतो ब्राह्मणादपि  ॥ ४१.५० ॥

दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मिणाम्  ।

सर्वे ते नृपशार्दूल कावेरीसङ्गमे शुभे  ॥ ४१.५१ ॥

श्राद्धस्य करणात्सत्यं तृप्ता यान्ति परां गतिम्  ।

कुबेरेण तपस्तप्तं दिव्यं वर्षसहस्रकम्  ॥ ४१.५२ ॥

आराधितः पूजितश्च लोकनाथ उमापतिः  ।

शिवप्रसादसम्पन्नो लोकपालत्वमाप्तवान्  ॥ ४१.५३ ॥

तत्र यस्त्यजति प्राणांस्तस्य पुण्यफलं शृणु  ।

षष्टिवर्षसहस्राणि देवराज्यमवाप्नुयात् ॥ ४१.५४ ॥

अवशः स्ववशो वाऽपि प्राणत्यागं करोति यः  ।

दशवर्षसहस्राणि राजा वैद्याधरे पुरे  ॥ ४१.५५ ॥

रेवाकावेरिकैस्तोयैस्तिलैरारण्यकैस्तथा  ।

पितरस्तर्पितास्तत्र तृप्ता यान्ति परां गतिम्  ॥ ४१.५६ ॥

नानामुखसहस्रैस्तु कावेरी प्रथिता भुवि  ।

चराचरं यथा व्याप्तं वायुना सूर्यरश्मिभिः  ॥ ४१.५७ ॥

तथा तोयेन कावेर्या व्याप्तं च वसुधातलम्  ।

नर्मदादक्षिणे कूले वाराहे विन्ध्यपर्वते  ॥ ४१.५८ ॥

प्रत्यक्षा सर्वदेवानां पयोष्णी निर्गता यतः  ।

सोमस्य दुहिता चासीथिमगर्भेन्दुशीतला  ॥ ४१.५९ ॥

हरेणाराधिता पूर्वमुमामूर्तिः पयस्विनी  ।

लोकानां तारणार्थाय सोमगङ्गेति गीयते  ॥ ४१.६० ॥

विनिष्क्रान्ता शरीराच्च वाराहस्य यशस्विनः  ।

तत्र स्नात्वा नरो राजन् भवे वै न पुनर्भवेत् ॥ ४१.६१ ॥

तिलोदकप्रदानेन पितरस्तस्य भारत  ।

दशायुतसहस्राणि लोके क्रीडन्ति शाङ्करे  ॥ ४१.६२ ॥

कार्त्तिक्यां यत्फलं तस्य वाराहे विन्ध्यपर्वते  ।

संख्या न शक्यते स्नानादत्र वर्षशतैरपि  ॥ ४१.६३ ॥

शिवेन कथितं पूर्वं पुराणे स्कन्दकीर्तिते  ।

तत्र यद्दीयते दानं तस्य संख्या न विद्यते  ॥ ४१.६४ ॥

ये चार्चयन्ति वाराहं न ते प्राकृतमानुषाः  ।

प्राणत्यागे कृते तत्र शिवलोकमवाप्नुयुः  ॥ ४१.६५ ॥

राहुसोमसमायोगे वाराहे विन्ध्यपर्वते  ।

कुरुक्षेत्रसमं पुण्यं पुरा वै शङ्करोऽब्रवीत् ॥ ४१.६६ ॥

गिरेरारभ्य वाराहात्पयोष्ण्याः सङ्गमावधि  ।

अत्रान्तरे नृपश्रेष्ठ तीर्थकोटिरुदाहृता  ॥ ४१.६७ ॥

पयोष्णीसङ्गमे तत्र सोमावर्तः स उच्यते  ।

स देशः सर्वतः पुण्यः सत्यमेतत्तवोदितम्  ॥ ४१.६८ ॥

पयोष्णीसङ्गमे पापहरे लिङ्गस्य दर्शनात् ।

तत्र स्नानस्य दानस्य संख्या कर्तुं न शक्यते  ॥ ४१.६९ ॥

तापीपयोष्णीसंभेदश्चन्द्रसूर्यग्रहे नृप  ।

कुरुक्षेत्राच्छतगुणः शिवेन परिकीर्तितः  ॥ ४१.७० ॥

चतुर्भुजो हरिर्यत्र श्रीपतिः पुरुषोत्तमः  ।

विष्णुक्षेत्रं तु विज्ञेयं क्रोशमात्रं तु तन्नृप  ॥ ४१.७१ ॥

आश्विनस्य तु मासस्य कृष्णपक्षे चतुर्दशी  ।

अमावास्या सिनीवाली पर्वाण्येतान्यनुक्रमात् ॥ ४१.७२ ॥

चतुर्दश्यां चतुर्योगे पीयूषं वहते नृप  ।

पितरस्तृप्तिमायान्ति दिने तस्मिन्न संशयः  ॥ ४१.७३ ॥

सुर्यग्रहे कुरुक्षेत्रे यत्फलं परिकीर्तितम्  ।

तापीपयोष्णीसम्पर्के तत्फलं परिकीर्तितम्  ॥ ४१.७४ ॥

दीपोत्सर्गे तु कौमुद्यां फलं संख्या न विद्यते  ।

पुरुषश्चक्रवर्ती स्याद्दीपं तत्र चकार यः  ॥ ४१.७५ ॥

कार्त्तिक्यामाश्विने मासि पक्षयोरुभयोरपि  ।

मासमेकं न भुञ्जीत तस्य पुण्यफलं शृणु  ॥ ४१.७६ ॥

यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः  ।

तावत्कालं वसेत्स्वर्गे विष्णुलोके च भारत  ॥ ४१.७७ ॥

नर्मदादक्षिणे भित्त्वा पातालात्तु समुत्थितम्  ।

कावेरी कुण्डमित्येवं त्रिषु लोकेषु विश्रुतम्  ॥ ४१.७८ ॥

स्नातमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ।

कुण्डेश्वरं सिद्धलिङ्गं सुरसिद्धनिषेवितम्  ॥ ४१.७९ ॥

प्रमादात्कुरुते यस्तु पूतलिङ्गस्य पूजनम्  ।

न तत्पुण्यस्य संख्यास्ति यावच्चन्द्रार्कतारकम्  ॥ ४१.८० ॥

तिलोदकप्रदानेन पिण्डपातेन भारत  ।

असंख्यकालिका तृप्तिः पितॄणां नास्ति संशयः  ॥ ४१.८१ ॥

कावेर्यास्तु प्रभावेण नर्मदासङ्गमात्पुनः  ।

यज्ञावर्तोऽभवद्देशः सत्यमेतच्छिवोदितम्  ॥ ४१.८२ ॥

स्वयम्भुवानि लिङ्गानि स्वर्गमोक्षप्रदानि तु  ।

यत्र तत्र नरः स्नात्वा कावेर्या नृपसत्तम  ॥ ४१.८३ ॥

अश्वमेधफलं प्राप्य विष्णुलोके महीयते  ।

त्यक्त्वा प्राणांस्तु कौवेर्यां कौबेरं लोकमाप्नुयात् ॥ ४१.८४ ॥

कौबेरेश्वरलिङ्गं तु सर्वसिद्धिप्रदायकम्  ।

कावेरीनर्मदामध्ये न तत्पश्यन्ति मानवाः  ॥ ४१.८५ ॥

पूज्यते सुरदैत्यैस्तु नागकन्याभिरर्च्यते  ।

अर्चनात्तस्य देवस्य द्वादशादित्यसन्निभः  ॥ ४१.८६ ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते  ।

कावेरीनर्मदाभेदे बाणलिङ्गं प्रतिष्ठितम्  ॥ ४१.८७ ॥

कुबेरेण पुरा दृष्टं सङ्गमेश्वरनामतः  ।

अर्चनात्तस्य देवस्य लोकपुरे वसेत् ॥ ४१.८८ ॥

गङ्गायमुनसंभेदे यत्फलं परिकीर्तितम्  ।

भौमे तु भूतजायोगे व्यतीपाते च संक्रमे  ॥ ४१.८९ ॥

राहुसोमसमायोगे तदेवाष्टगुणं स्मृतम्  ।

अशीतिश्च गुणाः प्रोक्ता गङ्गायमुनसङ्गमे  ॥ ४१.९० ॥

कावेरीनर्मदायोगे बाणा अष्टगुणाः स्मृताः  ।

गङ्गाषष्टिसहस्रैस्तु क्षेत्रपालैः प्रपूज्यते  ॥ ४१.९१ ॥

तदर्धैरन्यतीर्थानि रक्षन्ते नात्र संशयः  ।

अमरेश्वरयाम्ये तु लिङ्गं चैव जलेश्वरम्  ॥ ४१.९२ ॥

दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ।

लक्षैश्च रक्षिता देवैर्नर्मदा सप्तकल्पगा  ॥ ४१.९३ ॥

धन्विभिः षष्टिपुरुषैः सहस्रैश्च युधिष्ठिर  ।

ओंकारं शतसाहस्र्या पर्वतो लिङ्गमेव च  ॥ ४१.९४ ॥

अन्यदेशे कृतं पापं पुण्यक्षेत्रे विनश्यति  ।

पुण्यक्षेत्रे कृतं पापं वज्रलेपो भविष्यति  ॥ ४१.९५ ॥

क्षणमात्रेण दुःखेन अत्यन्तसुखमश्नुते  ॥ ४१.९६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कावेरीमाहात्म्यं नामैकचत्वारिंशोऽध्यायः ॥

 

अध्याय ४२

 

मार्कण्डेय उवाच –

रेवा भित्त्वा चण्डवेगा महाभागा विनिःसृता  ।

तत्र स्नात्वा नरव्याघ्र ब्रह्महत्यां व्यपोहति  ॥ ४२.१ ॥

तिलोदकं तत्र तीर्थे हविषा पिण्डदानतः  ।

पितॄन् समुद्धरेद्घोरात्नरकान्नात्र संशयः  ॥ ४२.२ ॥

पापमृत्युमृता ये तु चण्डकर्मकृतो नराः  ।

मुच्यन्ते तेन पापेन चण्डवेगासमागमे  ॥ ४२.३ ॥

चण्डेश्वरं तत्र लिङ्गं सर्वदेवमयं शुभम्  ।

दर्शनात्पूजनादस्य पुष्पगन्धादिदानतः  ॥ ४२.४ ॥

ब्रह्महत्या सहस्रैर्हि तत्क्षणादेव मुच्यते  ।

चन्द्रसेनः पुरा चासीद्दुरात्मा पापकर्मकृत् ॥ ४२.५ ॥

परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः  ।

रघुवंशी च पापात्मा ऋषिपत्नीं च ब्राह्मणीम्  ॥ ४२.६ ॥

अन्याश्च या वै सुभगाः पतिं हत्वा समाहरत् ।

नैमिषारण्यवासी च शाण्डिल्यो ब्रह्मवित्तमः  ॥ ४२.७ ॥

सौदामिनी तस्य भार्या धर्मपत्नी यशस्विनी  ।

रूपयौवनसम्पन्ना चन्द्रकान्तिसमप्रभा  ॥ ४२.८ ॥

कामिनी वल्कलधरा पीनोन्नतपयोधरा  ।

आख्यानं कथयिष्यामि तस्यास्तस्य पुरातनम्  ॥ ४२.९ ॥

हयारूढश्चन्द्रसेनो नैमिषारण्यवासिनः  ।

शाण्डिल्यस्याश्रमं प्राप्तो वने स मृगयन्मृगान्  ॥ ४२.१० ॥

दष्टा सौदामिनी तेन शाण्डिल्यस्य प्रिया तदा  ।

उवाच वचनं तां वै त्वं मे राज्ञी भवेदिति  ॥ ४२.११ ॥

वल्कलाजिनधारी च कुशकाशपवित्रकः  ।

कन्दमूलफलाशी च ब्राह्मणश्च पतिस्तव  ॥ ४२.१२ ॥

किं करिष्यसि तत्तेन मम भोगांश्च पुष्कलान्  ।

सर्वदा मत्प्रसादेन भुङ्क्ष्व त्वं वरवर्णिनि  ॥ ४२.१३ ॥

तस्य तद्वचनं श्रुत्वा नृपतेः पापकर्मणः  ।

आह सौदामिनी वाक्यं चन्द्रसेनं नृपाधमम्  ॥ ४२.१४ ॥

याचस्व मे पतिं राजंस्तस्याहं वशवार्तिनी  ।

शाण्डिल्यमब्रवीद्राजा ततोऽमूं वरयामि ते  ॥ ४२.१५ ॥

कन्यामिमां च पत्नी ते चेदद्य त्वं ददस्व मे  ।

मौल्ये ददामि ते द्रव्यमस्याः शतसहस्रशः  ॥ ४२.१६ ॥

 

शाण्डिल्य उवाच –

सर्वाः स्त्रियः कैतवबद्धमूलास्तासां प्रियो नास्ति मनुष्यलोके  ।

यथेष्टचेष्टो भव भूमिपाल किं मां द्विजं पृच्छसि दुर्बलं च  ॥ ४२.१७ ॥

कामान्धस्तु ततो राजा करे जग्राह तां तदा  ।

सा निरीक्ष्या हतं पापं ज्वलन्ती तीव्रकोपतः  ।

रजस्वलाऽहं मां स्पृष्ट्वा चाण्डालस्त्वं भविष्यसि  ॥ ४२.१८ ॥

तां दृष्ट्वा तादृशीं नग्नां भयार्तां प्राणवल्लभाम्  ।

चाण्डालस्तत्क्षणाज्जातः सर्वभूतभयावहः  ॥ ४२.१९ ॥

हाहाकारं ततश्चक्रुः सर्वे देवाः समानुषाः  ।

अश्वमारुह्य राजाऽसावयोध्यामाविशत्पुरीम्  ॥ ४२.२० ॥

दृष्ट्वा चाण्डालरूपं तं ब्राह्मणाः पुरवासिनः  ।

राजपुत्रा महीपालस्यान्तःपुरनिवासिनः  ॥ ४२.२१ ॥

बभूवुर्भयभीताश्च गर्हयन्तो महीपतिम्  ।

वशिष्ठं शरणं प्राप्तः शोचित्वा चात्मनस्तनुम्  ॥ ४२.२२ ॥

राजा विषण्णवदन उवाच स्वपुरोहितम्  ।

जगामाहं समुद्देशं नैमिषारण्यवासिनम्  ॥ ४२.२३ ॥

शाण्डिल्यं च नमस्कृत्य साष्टाङ्गं प्रणिपत्य च  ।

अब्रवं देहि भार्यां स्वां वित्तेन बहुलेन मे  ॥ ४२.२४ ॥

शाण्डिल्यस्य तु पत्न्या वै तया शप्तोऽहमन्तिके  ।

श्रुत्वा तस्य चरित्रं च पापस्य भो नराधिप  ॥ ४२.२५ ॥

वशिष्ठोऽप्यब्रवीद्वाक्यं चन्द्रसेनं नराधिपम्  ।

शाण्डिल्यं गच्छ राजेन्द्र तापसं ऋतुगामिनम्  ॥ ४२.२६ ॥

सौदामिनीमृषेर्भार्यां ज्वलन्तीमिव तेजसा  ।

एवमस्त्विति चोक्त्वा तं नमस्कृत्य पुरोधसम्  ॥ ४२.२७ ॥

स जगाम तमुद्देशं नैमिषारण्यवासिनम्  ।

शाण्डिल्यं तु नमस्कृत्य साष्टाङ्गं च पुनः पुनः  ॥ ४२.२८ ॥

अब्रवीत्तं मुनिश्रेष्ठं भयत्रस्तो नराधिपः  ।

क्षमस्व मे मुनिश्रेष्ठ त्वद्भार्यां प्रति कामिनः  ॥ ४२.२९ ॥

त्वं माता मे पिता चासि रघुवंशं समुद्धर  ।

मया त्वपकृतं तेऽद्य तस्य प्राप्तं फलं हि वै  ॥ ४२.३० ॥

उवाच ब्राह्मणः प्रीतो भार्या चैव पतिव्रता  ।

मार्कण्डेयः पिता राजन् छिष्योऽहं तस्य धीमतः  ॥ ४२.३१ ॥

भार्यार्थमिह संप्राप्तो नैमिषारण्यवासिनः  ।

त्वं तु गच्छ नृपश्रेष्ठ चण्डवेगासमागमम्  ॥ ४२.३२ ॥

चण्डेश्वरं तमभ्यर्च्य तत्र स्नात्वा नृपोत्तम  ।

अवाप्स्यसि परं स्थानं मुक्तश्चास्माच्च किल्बिषात् ॥ ४२.३३ ॥

तस्य तद्वचनं श्रुत्वा शाण्डिल्यस्य महात्मनः  ।

शाण्डिल्यं च नमस्कृत्य तथा सौदामिनीं नृपः  ॥ ४२.३४ ॥

स्वस्ति वोऽस्तु गमिष्यामि चण्डवेगासमागमम्  ।

एवमुक्त्वा गतस्तत्र समागत्य क्षमापतिः  ॥ ४२.३५ ॥

चण्डेश्वरं समभ्यर्च्य तत्र स्नात्वा विधानतः  ।

दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः  ॥ ४२.३६ ॥

सर्वपापविनिर्मुक्तस्तीर्थस्यास्य प्रभावतः  ।

क्षणाच्छिवपुरं प्राप्तश्चन्द्रसेनो महीपतिः  ॥ ४२.३७ ॥

स्वारोचिषेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ।

भूतानां च सहस्राणि संसिद्धिं तत्र चान्वयुः  ॥ ४२.३८ ॥

एतत्ते कथितं राजंश्चण्डवेगासमागमम्  ।

श्रवणात्कीर्तनाद्वापि भ्रूणहत्या प्रणश्यति  ॥ ४२.३९ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे चण्डवेगामाहात्म्यवर्णनो नाम द्विचत्वारिंशोऽध्याय

 

 

अध्याय ४३

 

मार्कण्डेय उवाच –

एरण्डीनर्मदायोगं ततो गच्छेद्युधिष्ठिर  ।

तृतीया चण्डवेगा च स्वर्गसोपानपद्धतिः  ॥ ४३.१ ॥

तत्र स्नात्वा दिवं यान्ति ये मृता न पुनर्भवाः  ।

तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ ४३.२ ॥

अनेककालिका तृप्तिः पितॄणामुपजायते  ।

अमासोमसमायोगे राहुग्रस्ते दिवाकरे  ॥ ४३.३ ॥

एरण्डीसङ्गमस्थाने पुण्यसंख्या न विद्यते  ।

एरण्डीश्वरलिङ्गं तु सर्वपापप्रणाशनम्  ॥ ४३.४ ॥

कुङ्कुमेन समालिप्य गन्धधूपैः प्रपूजयेत् ।

दिव्यं वर्षसहस्रं तु मोदते शिवसन्निधौ  ॥ ४३.५ ॥

दर्शनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ।

भद्ररुद्रेश्वरं नाम लिङ्गं परमसिद्धिदम्  ॥ ४३.६ ॥

भद्ररुद्रौ पुराकल्पे गन्धर्वौ भ्रातरौ तथा  ।

तमभ्यर्च्य विधानेन गतौ वैद्याधरं पुरम्  ॥ ४३.७ ॥

गायन्ति पितरो गाथां तथैव च पितामहाः  ।

तिलोदकप्रदानेन पिण्डपातेन भारत  ॥ ४३.८ ॥

वसेत्मन्वन्तराणीह रुद्रलोके चतुर्दश  ।

अस्त्रेण तु हता ये वै दैवात्पापमृता नराः  ॥ ४३.९ ॥

चतुर्दश्यां तु श्राद्धेन वृषोत्सर्गेण भारत  ।

वीरलोकमवाप्यैव तत्र क्रीडन्ति मानवाः  ॥ ४३.१० ॥

तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा  ।

तीर्थस्यास्य प्रभावेण स भवे न पुनर्भवेत् ॥ ४३.११ ॥

चतुर्युगसहस्राणि राजा वैद्याधरे पुरे  ।

आख्यानं कथयिष्यामि यथादृष्टं पुराऽनघ  ॥ ४३.१२ ॥

चाक्षुषे चान्तरे प्राप्ते आदिकल्पे कृते युगे  ।

निमिर्नाम पुरा राजा चक्रवर्ती विशाम्पते  ॥ ४३.१३ ॥

पक्षियोनौ च संप्राप्तः कोपाद्वै ब्राह्मणस्य च  ।

अस्य तीर्थस्य माहात्म्याद्दर्शसोमसमागमे  ॥ ४३.१४ ॥

स्नात्वा संत्यज्य तां योनिं राज्यं कृत्वा दिवं गतः  ।

 

युधिष्ठिर उवाच –

कथं स राजा संप्राप्तो मानुषीं च तनुं पुनः  ॥ ४३.१५ ॥

एतदाश्चर्यभूतं मे कथयस्व महामते  ।

 

मार्कण्डेय उवाच –

सुकन्यां नाम कन्यां वै ययाचे च्यवनो नृपम्  ॥ ४३.१६ ॥

राज्ञी चन्द्रवती नाम निमेरासीत्पतिव्रता  ।

सा पुत्रीं जनयामास प्राणेभ्योऽपि गरीयसीम्  ॥ ४३.१७ ॥

एकदा तु नृपश्रेष्ठः सुखासीनो यदृच्छया  ।

आगतं च्यवनं दृष्ट्वा अर्घपाद्यैरपूजयत् ॥ ४३.१८ ॥

अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् ।

अनुग्रहमिमं मन्ये भोजनं कर्तुमर्हसि  ॥ ४३.१९ ॥

तस्य तद्वचनं श्रुत्वा प्रोवाच च्यवनो मुनिः  ।

कन्यां ददासि चेत्मह्यं भार्यार्थं धर्मतत्पराम्  ॥ ४३.२० ॥

तदा भोक्ष्ये महीपाल नो चेत्पापमवाप्स्यसि  ।

 

राजोवाच –

एका मे दुहिता ब्रह्मन् राज्ञीं याचस्व वर्णिनीम्  ॥ ४३.२१ ॥

कन्यादाने न शक्तोऽहं सत्यमेतत्तवोदितम्  ।

ततः श्रुत्वा वचो राज्ञीं मुनिर्वचनमब्रवीत् ॥ ४३.२२ ॥

कन्यां देहि च मे राज्ञि गृहिणः पुत्रकारणात् ।

प्रहस्य चाब्रवीद्राज्ञी न ते योग्या द्विजोत्तम  ॥ ४३.२३ ॥

अन्यदाचक्ष्व ब्रह्मर्षे तद्ददामि न संशयः  ।

ततः कोपाच्छशापैनां पक्षियोनिं तु गच्छसि  ॥ ४३.२४ ॥

शापं श्रुत्वा ततो राज्ञी शशापाथ महामुनिम्  ।

यदि मे विद्यते सत्यं भर्तृभक्तिश्च निश्चला  ॥ ४३.२५ ॥

शप्ता निरपराधाहं नेत्रहीनो भविष्यसि  ।

परस्परं च तौ शप्तौ नर्मदातीरमागतौ  ॥ ४३.२६ ॥

चचार च्यवनश्चोग्रमेरण्डीसङ्गमे तपः  ।

दिव्यं वर्षसहस्रं तु वल्मीकेन तु पूरितः  ॥ ४३.२७ ॥

गिरेर्वै पूर्वभागे तु मध्यारण्यमिति स्मृतम्  ।

कदम्बवृक्षमासाद्य वने तस्मिंश्च दम्पती  ॥ ४३.२८ ॥

पुष्पिते फलिते रम्ये संजातौ पक्षिरूपिणौ  ।

अन्येऽपि पक्षिणस्तत्र समुद्भूताः सहस्रशः  ॥ ४३.२९ ॥

जातिस्मरा व्याहरन्तो मानुषीं गिरमुत्तमाम्  ।

सारङ्गाः पक्षिणस्ते तु सर्वदा हृष्टमानसाः  ॥ ४३.३० ॥

ज्येष्ठे मासे तु संप्राप्ते दावाग्निरदहद्वनम्  ।

प्रणष्टाश्चाण्डजाः सर्वे ज्वालामालाकुलीकृताः  ॥ ४३.३१ ॥

कोटरे तु समालम्ब्य पुत्रैः सह यथा सुखम्  ।

एकदा गर्भिणी जाता पक्षिणी तत्र भारत  ॥ ४३.३२ ॥

भर्तारं पक्षिणी प्राह किं त्वं तिष्ठसि निर्भयम्  ।

गताश्च पक्षिणः सर्वे किं त्वं संहारयिष्यसि  ॥ ४३.३३ ॥

तस्यास्तद्वचनं श्रुत्वा खेचरो वाक्यमब्रवीत् ।

भार्यां त्यक्त्वा सुतांश्चैव याम्येकाकी कथं प्रिये  ॥ ४३.३४ ॥

इति लोके न वेदे च दृष्टं केनापि कुत्रचित् ।

पाणिग्रहेण या भार्या सुशीला धर्मचारिणी  ॥ ४३.३५ ॥

त्यक्त्वा गच्छति तां मोहाद्भ्रूणघ्नः स तु कीर्तितः  ।

 

पक्षिण्युवाच –

आत्मानं रक्ष जीवेश मूलभूतं कुलस्य तु  ॥ ४३.३६ ॥

भूयोऽन्यास्ते भविष्यन्ति भार्याः शतसहस्रशः  ।

जीवमाने तु या पत्यावन्यं कामयते वरम्  ॥ ४३.३७ ॥

सा पापिष्ठा दुराचारा विष्ठायां जायते कृमिः  ।

विधवा भर्तृहीना याऽनुगता न स्वकं पतिम्  ॥ ४३.३८ ॥

जीवेद्वर्षशतं यावत्सा पापिष्ठा प्रकीर्तिता  ।

पत्यौ जीवति या नारी म्रियते भर्तुरग्रतः  ॥ ४३.३९ ॥

भर्तृदत्तोदकश्राद्धैः सा याति परमां गतिम्  ।

प्रसादाद्यस्य लभ्येत पुत्रालङ्कारकीर्तयः  ॥ ४३.४० ॥

कोऽन्यः प्रियतरस्तस्मादिह लोके परत्र च  ।

स्वयं प्राप्तस्तु दावाग्निः शीघ्रं गच्छ कथं सुतान्  ॥ ४३.४१ ॥

त्यक्त्वा गच्छामि जीवेश संहारो वर्ततेऽधुना  ।

हस्तौ पादौ न विद्येते पावको नैव शाम्यति  ॥ ४३.४२ ॥

अशक्ता नीयमाने तु पक्षिणश्चाण्डजीविनः  ।

सुतांस्त्यक्त्वा तु या माता भयार्ता याति गर्हिता  ॥ ४३.४३ ॥

सा सप्तजन्मपर्यन्तं सर्पिणी जायते ध्रुवम्  ।

एवमुक्त्वा तु तत्रैव पुत्राणां च परस्परम्  ॥ ४३.४४ ॥

सा संगृह्य प्रयत्नेन युग्मं युग्मं दम्पती  ।

संस्थाप्यैरण्डिकायोगे भर्ता भार्यामुवाच ह  ॥ ४३.४५ ॥

दंष्ट्रिभ्यश्च प्रयत्नेन रक्षणीयाः सुता मम  ।

गच्छामि च सुतानन्यानानेतुं सांप्रतं प्रिये  ॥ ४३.४६ ॥

एवमुक्त्वा गतः पक्षी कदम्बाश्रितमन्दिरम्  ।

सोऽपश्यत्तदा तत्र मन्दिरं वह्निसंकुलम्  ॥ ४३.४७ ॥

स्नेहात्प्रविष्टः पुत्रार्थी ज्वालामालावृतं गृहम्  ।

तं ददाह तदा वह्णिः ससुतं स महीरुहम्  ॥ ४३.४८ ॥

दग्धस्तु वह्णिना तेन वह्निपुञ्ज इवाभवत् ।

भस्मीभूते वने तस्मिन् प्रावट्कालः समागतः  ॥ ४३.४९ ॥

एरण्ड्यन्तर्जले तत्र सर्वं तत्प्लावितं नृप  ।

अमासोमसमायोगे पक्षिणस्तस्य चास्थि वै  ॥ ४३.५० ॥

एरण्ड्याः सङ्गमे प्राप्तं दैवाद्वै नृपसत्तम  ।

तत्क्षणाद्दिव्यदेहस्तु दिव्ययानं समाश्रितः  ॥ ४३.५१ ॥

ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः  ।

दिव्यवस्त्रपरीधानो दिव्यालङ्कारभूषितः  ॥ ४३.५२ ॥

उपरिव्याहरन् भार्यां स जगामात्मनः पुरीम्  ।

आगच्छ सुभगे शीघ्रं भार्या त्वं मे भविष्यसि  ॥ ४३.५३ ॥

सिद्धविद्याधरैर्यक्षैः साधुवादेन पूजितः  ।

पुष्पवृष्टिः पपातोच्चैर्देवराजोपकल्पिता  ॥ ४३.५४ ॥

एतस्मिन्नन्तरे राजन् पत्नीं भूयोऽपि चाब्रवीत् ।

कन्यार्थं त्वं सुशप्तासि च्यवनेन महात्मना  ॥ ४३.५५ ॥

मुञ्चात्मानमवाप्य त्वं भवनं धर्मचारिणाम्  ।

स्मारिताकाशवचसा नृपेणैवं पुरं गता  ॥ ४३.५६ ॥

सुतान् प्रगृह्य चागत्य भर्तारमिदमब्रवीत् ।

या गतिर्मम भर्तुः स्यात्सा मे नित्यं भविष्यति  ॥ ४३.५७ ॥

उवाच वचनं भर्ता शीघ्रं विश हुताशनम्  ।

अमासोमसमायोगे एरण्डीतीर्थसङ्गमे  ॥ ४३.५८ ॥

तत्र यत्पतितं चास्थि पापात्त्वां तारयिष्यति  ।

एवमस्त्विति तं चोक्त्वा पक्षिणी सत्वरं तदा  ॥ ४३.५९ ॥

आहृत्य तृणकाष्ठानि सम्प्रदीप्य हुताशनम्  ।

ततो यानं समारूढा भर्तुः सा च सुतैः सह  ॥ ४३.६० ॥

उमामहेश्वरं यद्वच्छ्रीपतिं च यथा रमा  ।

तद्वच्चावाप भर्तारं तीर्थस्यास्य प्रभावतः  ॥ ४३.६१ ॥

एवं यानं समारुह्य सभार्यस्तु तदा नृपः  ।

चन्द्रसेनो देवसेनो यज्ञसेनस्तथापरः  ॥ ४३.६२ ॥

त्रिभिः पुत्रैः परिवृतो धर्मवृत्तिपरायणः  ।

विवेश नगरीं रम्यामयोध्यां देवनिर्मिताम्  ॥ ४३.६३ ॥

मुदा परमया युक्तः सान्तः पुरपरिच्छदः  ।

राज्यं कृत्वा वर्षलक्षं ततः प्राप्तः शिवालयम्  ॥ ४३.६४ ॥

एरण्डीश्वरमभ्यर्च्य एरण्ड्याः सङ्गमे नृप  ।

पञ्चाशीतिसहस्राणि क्षत्रियाणां महात्मनाम्  ॥ ४३.६५ ॥

गतानि तत्र राजेन्द्र सत्यं वै शाम्भवं पुरम्  ।

एतत्ते कथितं राजन्नाख्यानं वै पुरातनम्  ॥ ४३.६६ ॥

श्रवणात्कीर्तनाद्वाऽपि गोसहस्रफलं लभेत् ॥ ४३.६७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीसङ्गममहिमानुवर्णनो नाम त्रिचत्वारिंशोऽध्यायः ॥

 

 

अध्याय ४४

 

युधिष्ठिरौवाच –

सुकन्यार्थे मुनिः शप्तश्चन्द्रवत्या महामुने  ।

वल्मीकाच्च कथं मुक्तश्च्यवनः काममोहितः  ॥ ४४.१ ॥

परलोकं कथं प्राप्तो ब्राह्मणो ब्रह्मवित्तमः  ।

कथयस्व महाबाहो परं कौतूहलं हि मे  ॥ ४४.२ ॥

 

मार्कण्डेय उवाच –

शृणु त्वं राजशार्दूल कथ्यमानं निबोध मे  ।

निमिः पुत्रं च राज्ये वै सूर्यसेनं निवेश्य च  ॥ ४४.३ ॥

आदिदेशाथ मतिमाञ्ज्येष्ठा वै भगिनी तथा  ।

च्यवनाय प्रदातव्या ब्राह्मणाय न संशयः  ॥ ४४.४ ॥

एरण्ड्याः सङ्गमे चेष्ट्वा हयमेधं मखोत्तमम्  ।

सर्वयज्ञकृतं पुण्यं ब्राह्मणाय प्रदास्यसि  ॥ ४४.५ ॥

उक्त्वैवं सूर्यसेनं तु स गतः शिवमन्दिरे  ।

एवमस्त्विति तं चोक्त्वा सूर्यसेनः प्रतापवान्  ॥ ४४.६ ॥

एवं संचिन्त्य मनसा सर्वसंभारसंवृतः  ।

स जगाम सुरैः सार्द्धं कन्यामादाय भूपतिः  ॥ ४४.७ ॥

मण्डपांश्चैव यूपांश्च पञ्चयोजनविस्तरान्  ।

स चकार ततो राजा पितुराज्ञामनुस्मरन्  ॥ ४४.८ ॥

यज्ञस्तेन समारब्धः समाप्तवरदक्षिणः  ।

रममाणा सुकन्या च कन्याभिर्नृपतिस्वसा  ॥ ४४.९ ॥

श्रुत्वा शब्दं च वल्मीके कर्तुं क्रीडां समाययौ  ।

तत्रापश्यत्मानुषं सा चक्षुर्हीनमधोमुखम्  ॥ ४४.१० ॥

दृष्ट्वा सा कण्टकेनैव विव्याध च गृहं गता  ।

हाहाकारो महानासीत्किमेतदिति भारत  ॥ ४४.११ ॥

दुर्मनाः सूर्यसेनस्तु ब्राह्मणैः सह सत्वरम्  ।

आजुहाव ततो देवावश्विनौ पाकशासनम्  ॥ ४४.१२ ॥

यज्ञं निवर्तयामास यथावद्विधिपूर्वकम्  ।

निवर्त्य च ततो यज्ञं राजा परमधार्मिकः  ॥ ४४.१३ ॥

देवानभ्यर्चयामास च्यवनाय महात्मने  ।

दिव्यं चक्षुर्ददध्वं हि वपुः कान्तं नवं वयः  ॥ ४४.१४ ॥

एवमभ्यर्थितैर्देवैर्दत्तं चक्षुर्युधिष्ठिर  ।

रूपयौ वनसंपन्नं कामदेवसमं वपुः  ॥ ४४.१५ ॥

ततः प्रसादयित्वाऽसौ च्यवनं वाक्यमब्रवीत् ।

तत्क्षमस्व महाभाग यत्कृतं ते सुकन्यया  ॥ ४४.१६ ॥

गृहाण पाणिमस्यास्त्वं मुने कोपं परित्यज  ।

एवमभ्यर्थितो राज्ञा मुनिरोमित्युवाच ह  ॥ ४४.१७ ॥

ततश्चावभृथे युग्मं चण्डवेगासमागमे  ।

संस्थाप्य विधिवद्राजा तस्मै दत्त्वा क्रतोः फलम्  ॥ ४४.१८ ॥

चकार पाणिग्रहणं सुकन्याया मनोहरम्  ।

दिव्यरूपधरौ तौ तु लक्ष्मीनारायणाविव  ॥ ४४.१९ ॥

संजातौ दम्पती तत्र हर्षेणोत्फुल्ललोचनौ  ।

दत्त्वा कन्यां मुनेस्तत्र सूर्यसेनः पुरं ययौ  ॥ ४४.२० ॥

बुभुजे विविधान् भोगान् छक्रतुल्यपराक्रमः  ।

सूर्यसेनं सुकन्यां च च्यवनं शक्रमश्विनौ  ॥ ४४.२१ ॥

भोजनान्ते स्मरेद्यस्तु चक्षुस्तस्य न हीयते  ।

एतत्ते कथितं राजंश्चण्डैरण्डकसङ्गमम्  ॥ ४४.२२ ॥

तत्र स्नातो दिवं याति न पुनर्गर्भमाविशेत् ।

यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ ४४.२३ ॥

आख्यानं कथयिष्यामि यथा दृष्टं यथाश्रुतम्  ।

बभ्राम सर्वतीर्थानि दुर्वासाश्चोग्रतापसः  ॥ ४४.२४ ॥

पितृतीर्थं समागम्य पितॄणां हितकाम्यया  ।

तत्र स्नात्वार्चयित्वा च शूलपाणिं पितामहम्  ॥ ४४.२५ ॥

जलाञ्जलिं कुशतिलां पितृपिण्डमवासृजत् ।

दत्त्वा पिण्डं मुनीन् प्राह परं विस्मयमागतः  ॥ ४४.२६ ॥

करे गृह्णन्ति पितरः पिण्डानीह मया श्रुतम्  ।

तदद्य भो न पश्यामि तीर्थयात्रा निरर्थिका  ॥ ४४.२७ ॥

तमुग्रतापसं ज्ञात्वा प्रोचुस्ते मुनयस्तदा  ।

करे गृह्णन्ति पितरः पिण्डं दर्शे प्रकल्पितम्  ॥ ४४.२८ ॥

सत्यमेतन्मुनिश्रेष्ठ नान्यथा वेदभाषितम्  ।

तद्दर्शं च प्रतीक्ष त्वं तीर्थान्तरदिदृक्षया  ॥ ४४.२९ ॥

चुकोप वै तदा विप्र ऋषिश्चैवाब्रवीद्वचः  ।

अत्र नो पातये पिण्डं स्नानं दानं करोमि न  ॥ ४४.३० ॥

दुर्वासास्तु ततः प्राह एरण्डं मुनिपुङ्गवम्  ।

करे कमण्डलुं कृत्वा जलपूर्णं महामुनिम्  ॥ ४४.३१ ॥

शरीरं क्लिश्यसे कस्मात्तवात्र निष्फलं तपः  ।

ओंकारं कल्पगां गच्छ गृहीत्वैकं कमण्डलुम्  ॥ ४४.३२ ॥

एकः पितामहः पूज्यो गयायां प्रभुरव्ययः  ।

उक्त्वैवमृषिभिः सार्द्धं गिरिं त्वमरकण्टकम्  ॥ ४४.३३ ॥

आजगाम महातेजा गत्वा तत्र च भारत  ।

ओंकारस्यार्चनं कृत्वा स्तोत्रमेतदुदाहरत् ॥ ४४.३४ ॥

नमः कालाय देवाय त्रिदेवाय त्रिमूर्तये  ।

अव्यक्ताव्यक्तरूपाय अनन्तानन्तगामिने  ॥ ४४.३५ ॥

ऋग्यजुः सामरूपाय सर्वज्ञाय नमोऽस्तु ते  ।

भवोद्भव जगन्नाथ उमाकान्त नमोऽस्तु ते  ॥ ४४.३६ ॥

असुरघ्नाय देवाय त्रिपुरघ्नाय ते नमः  ।

सद्योजातस्तथा घोरः पुरुषेशाय ते नमः  ॥ ४४.३७ ॥

जयकालाग्निरुद्राय संवर्ताय नमो नमः  ।

हृषीकेश्वररुद्राय पुरुषेशाय ते नमः  ॥ ४४.३८ ॥

नमः शम्भवाय मयोभवाय शङ्कराय नमोऽस्तु ते  ।

ब्रह्मविष्ण्विन्द्रवरद त्रिनेत्राय नमोऽस्तु ते  ॥ ४४.३९ ॥

श्रीकण्ठनीलकण्ठाय नमः सोमार्धधारिणे  ।

कपालमालिने तुभ्यं नमः खट्वाङ्गधारिणे  ॥ ४४.४० ॥

नमः त्रिशूलहस्ताय नागाभरणभूषिणे  ।

नमः पिनाकिने तुभ्यं महानाथ नमोऽस्तु ते  ॥ ४४.४१ ॥

शर्वाय सर्वरूपाय चराचर नमोऽस्तु ते  ।

जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो  ॥ ४४.४२ ॥

क्षमस्व मे सुरेशान इह लोके परत्र च  ।

त्वत्समो नास्ति देवेश कश्चिदन्य उमापते  ॥ ४४.४३ ॥

श्रुत्वा स्तोत्रमिदं दिव्यं शिव ओंकाररूपधृक् ।

वरं वृणु महाभाग इति वाक्यमुवाच ह  ॥ ४४.४४ ॥

 

दुर्वासा उवाच –

यदि तुष्टोऽसि देवेश यदि देयो वरो मम  ।

पितृतीर्थसमं तीर्थमेतदस्त्विति देहि मे  ॥ ४४.४५ ॥

 

ओंकार उवाच –

एतत्सर्वं भवत्वद्य मत्प्रसादात्तपोधन  ।

असाध्यमपि साध्यं ते त्रैलोक्ये सचराचरे  ॥ ४४.४६ ॥

एवं लब्ध्वा वरं विप्रो गिरेर्वै पूर्वभागतः  ।

उवास मुनिभिः सार्द्धं दुर्वासा उग्र तापसः  ॥ ४४.४७ ॥

अत्रान्तरे नृपश्रेष्ठ ब्रह्माणं प्राह नारदः  ।

पितृतीर्थं गया नष्टा दुर्वाससः कोपतस्ततः  ॥ ४४.४८ ॥

आस्ते स नर्मदातीरे ओंकारेऽमरकण्टके  ।

नारदस्य वचः श्रुत्वा ब्रह्मा लोकानुकम्पया  ॥ ४४.४९ ॥

हंसयानं समारूढो देवैः सह नृपोत्तम  ।

आजगामाश्रमं तत्र दुर्वासा यत्र संस्थितः  ॥ ४४.५० ॥

दृष्ट्वा पितामहं देवमेरण्डो मुनिपुंगवः  ।

कमण्डलुं समादाय पादमूले तु ब्रह्मणः  ॥ ४४.५१ ॥

विनिक्षिप्य यथा न्यायमर्घं दत्त्वा च तस्थिवान्  ।

कमण्डलुजलोद्भूतः प्रवाहो नर्मदां गतः  ॥ ४४.५२ ॥

ततः संपूज्य विधिवद्दुर्वासास्तं पितामहम्  ।

 

ब्रह्मोवाच –

उद्भवेद्यदि ते तीर्थममासोमसमागमे  ॥ ४४.५३ ॥

इदानीं पितृतीर्थं तु जनैर्नेहोपदृश्यते  ।

अनिवर्त्यस्तु शापस्ते तत्पूर्णं कुरु सांप्रतम्  ॥ ४४.५४ ॥

 

दुर्वासा उवाच –

मया निवर्तितः शापो वचनात्ते पितामह  ।

पितॄणां दर्शनं तत्र गयापितृविसर्जिनी  ॥ ४४.५५ ॥

भविष्यति प्रसादात्ते तस्मिंस्तीर्थे पितामह  ।

एवमस्त्विति तं चोक्त्वा दिवं ब्रह्मा ययौ नृप  ॥ ४४.५६ ॥

नमस्कृत्य महेशानं सुरासुरनमस्कृतम्  ।

हर्षेण महताविष्टः पूज्यमानो द्विजोत्तमैः  ॥ ४४.५७ ॥

दुर्वासास्तु मुनिश्रेष्ठस्तत्रैवान्तरधीयत  ।

तेन पुण्यतमं लोके तत्रैरण्डी समागता  ॥ ४४.५८ ॥

एरण्डीश्वरलिङ्गं तु सुरासुरनमस्कृतम्  ।

पुण्यकर्मानुपश्येदमासोमसमागमे  ॥ ४४.५९ ॥

दृष्ट्वा तत्परमं लिङ्गं यमलोकं न पश्यति  ।

एतत्तु कथितं राजन्मया त्वां प्रति भारत  ॥ ४४.६० ॥

श्रवणात्कीर्तनादस्य गच्छेत्माहेश्वरं पुरम्  ॥ ४४.६१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे दुर्वासश्चरित्रे एरण्डीतीर्थवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः

 

 

अध्याय ४५

 

मार्कण्डेय उवाच –

ततो गच्छेत्महाभाग रेवाशल्याविशल्ययोः  ।

तत्र स्नात्वा दिवं याति फलं यज्ञेश्वराज्ञया  ॥ ४५.१ ॥

तत्र यज्ञेश्वरां लिङ्गं धूपेश्वरमनुत्तमम्  ।

सिद्धिदं मोक्षदं विद्धि न ते पश्यन्ति मानवाः  ॥ ४५.२ ॥

तिलोदकप्रदानेन चान्नदानेन भारत  ।

पितरस्तृप्तिमायान्ति यावच्चन्द्रार्कतारकम्  ॥ ४५.३ ॥

पौर्णमास्यां तु सोमे वै व्यतीपाते च संक्रमे  ।

दानं यत्क्रियते तत्र तस्य पुण्यफलं शृणु  ॥ ४५.४ ॥

भरतेन कृतस्तत्र हयमेधः पुरा यथा  ।

तत्तेऽहं कथयिष्यामि शृणु कौन्तेय साम्प्रतम्  ॥ ४५.५ ॥

भरतो नाम राजासीत्सूर्यवंशे विशाम्पते  ।

प्रशशास महाराज कृत्स्नं वै स महीतलम्  ॥ ४५.६ ॥

यावत्तृणं विजानीया यावत्कीर्तिश्च भास्करः  ।

तावद्वै भरतक्षेत्रं सशैलवनकाननम्  ॥ ४५.७ ॥

एकदा स नृपश्रेष्ठो यज्ञकर्मपरायणः  ।

भृगोर्दक्षिणभागे तु कुण्डमण्डपमण्डिताम्  ॥ ४५.८ ॥

दशयोजनविस्तीर्णां यज्ञभूमिं चकार ह  ।

गवां हि दशलक्षाणि सवत्सानां पयोमुचाम्  ॥ ४५.९ ॥

लक्षमेकं हयानां च दन्तिनामयुतं तथा  ।

मणिमाणिक्यरत्नानि वासांसि विविधानि च  ॥ ४५.१० ॥

यज्ञोपस्करमादाय सर्वसंभारसंवृतः  ।

वेदध्वनिनिनादेन दिवं भूमिं च संस्पृशन्  ॥ ४५.११ ॥

होमेन देवतास्तृप्ताः सप्तलोकनिवासिनः  ।

एवं प्रवर्तिते यज्ञे राज्ञश्चामिततेजसः  ॥ ४५.१२ ॥

यज्ञविध्वंसनार्थं तु राक्षसा रौद्ररूपिणः  ।

माल्यवांश्च सुमाली च सुकेशी शङ्खदूषणौ  ॥ ४५.१३ ॥

राक्षसाना सहस्राणि समायातास्तु सत्वरम्  ।

भग्नानि यज्ञवस्तूनि त्रिषु लोकेषु दारुणैः  ॥ ४५.१४ ॥

प्रणष्टा देवताः सर्वा ऋत्विजश्च निपातिताः  ।

एवं विनाशिते यज्ञे रक्षोभिश्च ततोऽनघ  ॥ ४५.१५ ॥

कोपाज्जज्वाल राजापि हुताशन इवाहुतः  ।

जघान राक्षसान् सर्वान् गिरीन् वज्रधरो यथा  ॥ ४५.१६ ॥

प्रणष्टान् भयमीतांश्च पतितान् धरणीतले  ।

राक्षसैर्निहतान् दृष्ट्वा ब्राह्मणानृत्विजस्तथा  ॥ ४५.१७ ॥

शोकाविष्टस्ततः प्राह भरतो देवमन्त्रिणम्  ।

गुरुस्त्वं सर्वदेवानां त्रिकालज्ञस्त्रिवेदवित् ॥ ४५.१८ ॥

ब्रह्महत्यादिकं पापं ममार्थे देवकण्टकैः  ।

प्रायश्चित्तं मया कार्यं किं त्वं ब्रूहि बृहस्पते  ॥ ४५.१९ ॥

 

बृहस्पतिरुवाच –

विद्यां संजीवनीं तेऽहं ददामि नृपसत्तम  ।

जीविता ब्राह्मणा देवाः शशंसुर्देवमन्त्रिणम्  ॥ ४५.२० ॥

ततो निवर्तितो यज्ञः समग्रवरदक्षिणः  ।

यूपमूलसमुद्भूता शल्या चैव विशल्यका  ॥ ४५.२१ ॥

प्रविवेश महाराज नर्मदां लोकपावनीम्  ।

ततो देवाः समारुह्य स्वं स्वं यानं दिवं ययुः  ॥ ४५.२२ ॥

भरतोऽपि द्विजैः सार्द्धं प्रविवेश पुरीं ततः  ।

तेन शल्या विशल्या च विख्याता भुवनत्रये  ॥ ४५.२३ ॥

भरतेश्वरलिङ्गं च ब्रह्मयोन्यां समास्थितम्  ।

एतत्ते कथितं राजन्यथादृष्टं यथाश्रुतम्  ॥ ४५.२४ ॥

श्रवणात्कीर्तनादस्य न विशेद्योनिसङ्कटे  ॥ ४५.२५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शल्याविशल्यामाहात्म्यानुवर्णनो नाम पञ्चचत्वारिंशोऽध्यायः ॥

 

 

अध्याय ४६

भृगुं पतन्ति ये शूराः कां गतिं प्राप्नुवन्ति ते  ।

श्रोतुमिच्छाम्यहं त्वे तत्कथयस्व महामुने  ॥ ४६.१ ॥

 

मार्कण्डेय उवाच –

अनाशकेन भो राजन् भृगुगोग्रहसङ्गरैः  ।

प्राणांस्त्यजन्ति ये शूरा गतिं तेषां निबोध मे  ॥ ४६.२ ॥

पृथक्पृथङ्निवासांश्च तेषां कर्म्माणि भारत  ।

चतुर्विंशतिकोट्यस्तु सप्तविंशतिरेव च  ॥ ४६.३ ॥

उमया तु पुरा ज्ञप्ता मध्यमोत्तमकन्यकाः  ।

अनेन विधिना ये तु प्राणांस्त्यक्ष्यन्ति मानवाः  ॥ ४६.४ ॥

तांश्च भुङ्ग्ध्वं मया दत्ता युष्माकं सुप्रसादतः  ।

अमरेशे प्रमृताश्च भ्रंशितुं ये पतन्ति ते  ॥ ४६.५ ॥

भृगून् दृष्ट्वा नृपश्रेष्ठ मुच्यन्ते ब्रह्महत्यया  ।

चतुरशीतिभृगवो जम्बूद्वीपे प्रकीर्तिताः  ॥ ४६.६ ॥

तथाऽन्ये सप्तनिर्दिष्टाः स्वर्गसोपानमुत्तमम्  ।

भैरवस्तु भृगुश्रेष्ठो ज्ञेयस्त्वमरकण्टके  ॥ ४६.७ ॥

शूद्राश्च क्षत्रिया वैश्या अन्त्यजाश्चाधमास्तथा  ।

एते त्यजन्ति प्राणान् वै वर्जयित्वा द्विजं नृप  ॥ ४६.८ ॥

पतितो ब्राह्मणस्तत्र ब्रह्महा चात्महा भवेत् ॥ ४६.९ ॥

द्वाविंशतिसहस्राणि राहुसोमसमागमे  ।

वर्षाणां जायते राजन् राजा वैद्याधरे पुरे  ॥ ४६.१० ॥

ग्रस्ते तु राहुणा सूर्ये द्विगुणं फलमश्नुते  ।

अवशः स्ववशो वाऽपि जलपूरानलाहतः  ॥ ४६.११ ॥

म्रियते यो भृगुं प्राप्य स विद्याधरराड्भवेत् ।

भृगुर्भैरवरूपेण विन्ध्यकैलाससन्निभः  ॥ ४६.१२ ॥

गर्हयन्ति भृगुं ये तु ते लिङ्गब्रह्मभेदिनः  ।

भैरवः क्षमते तेषां नेति स्कन्देन कीर्तितम्  ॥ ४६.१३ ॥

मन्यासाच्च च्युतो विप्रो मातृहा पितृहा तथा  ।

स्वसृगः स्वस्नुषागश्च तथा स्वज्ञातिगस्तथा  ॥ ४६.१४ ॥

एतेषां पतनं शस्तं करीषाग्नौ प्रसाधनम्  ।

मुच्यते तेन पापेन शिवलोकं सगच्छति  ॥ ४६.१५ ॥

हरिश्चन्द्रपुरे चन्द्रे श्रीशैले त्रिपुरान्तिके  ।

त्रैयम्बके धौतपापे वाराहे विन्ध्यपर्वते  ॥ ४६.१६ ॥

कावेर्यास्तु तथा कुण्डे पतनात्स्वर्गमाप्नुयात् ।

भृगोर्दक्षिणभागे तु लिङ्गं वै चपलेश्वरम्  ॥ ४६.१७ ॥

क्षेत्रसंरक्षणायेह विख्यातं पापनाशनम्  ।

धनुः षष्ट्यां ततः क्षेत्रं विज्ञेयं चापलेश्वरम्  ॥ ४६.१८ ॥

आरोहति गिरिं यस्तु तमदृष्ट्वा तु मानवः  ।

तस्य पुण्यफलं सर्वं स गृह्णाति न संशयः  ॥ ४६.१९ ॥

आलेख्य च पटे सूर्यं पताकादण्डमण्डितम्  ।

वलयं च करे कृत्वा वीज्यमानस्तु चामरैः  ॥ ४६.२० ॥

वीरस्तु पतितुं गच्छेदारोहेद्भृगुपर्वतम्  ।

पदे पदे यज्ञफलं तस्य स्याच्छङ्करोऽब्रवीत् ॥ ४६.२१ ॥

प्रतीक्षन्ते सर्वकालेऽप्सरसः काममोहिताः  ।

दिव्यं यानं समारूढा दिव्या भरणभूषिताः  ॥ ४६.२२ ॥

वीरस्तु पतितस्तत्र स्वं च त्यक्त्वा कलेवरम्  ।

तत्क्षणाद्दिव्यदेहस्तु शक्रतुल्यपराक्रमः  ॥ ४६.२३ ॥

कामदं यानमारुह्य विवादेन परस्परम्  ।

गच्छेच्छिवपुरं सार्द्धमप्सरोभिः समन्वितः  ॥ ४६.२४ ॥

क्लीबस्य सत्त्वहीनस्य उत्तीर्णस्य भृगोः पुनः  ।

पदे पदे ब्रह्महत्या भवेत्तस्य न सशयः  ॥ ४६.२५ ॥

न चिरायुर्भवेत्मर्त्यः कस्मात्मृत्योर्बिभेत्यसौ  ।

न कोऽपि रक्षितुं शक्तः कालमृत्युवशं गतम्  ॥ ४६.२६ ॥

स पापिष्ठो दुराचारश्चाण्डालो लोकगर्हितः  ।

सन्यासादिकमारुह्य च्यवते यस्तु मानवः  ॥ ४६.२७ ॥

सन्यासात्प्रच्युतं विप्रं दृष्ट्वा स्नानार्कवीक्षणम्  ।

कुर्यात्सर्वप्रयतेन स्पर्शाच्चान्द्रायणं स्मृतम्  ॥ ४६.२८ ॥

ऋतानृतं न वक्तव्यं तेन सार्द्धं कदाचन  ।

स्थातव्यं चैव मौनेन नो चेत्पापमवाप्नुयात् ॥ ४६.२९ ॥

निश्चिते मरणे प्राप्ते कथं मृत्युरुपेक्षते  ।

जरामृत्युश्च रोगाश्च संसारोदधि सम्प्लवे  ॥ ४६.३० ॥

एवं ज्ञात्वा नृपश्रेष्ठ ह्यारोहेद्भृगुपर्वतम्  ।

एतत्ते कथितं राजन् भृगोर्माहात्म्यमुत्तमम्  ॥ ४६.३१ ॥

न ब्रूयाद्दुष्टबुद्धीनां कलौ पाखण्डकर्म्मणाम्  ।

दिगम्बरश्वेतपटबौद्धादीनां विशेषतः  ॥ ४६.३२ ॥

असंभाष्या दुराचाराः पुराणस्मृतिनिन्दकाः  ।

न तैः सह प्रकर्तव्यः संवादो हि कदाचन  ॥ ४६.३३ ॥

प्रत्येकं सर्वदेवानां स्वयमाह वृषध्वजः  ।

न मन्यन्ते तु ये मूढास्तीर्थराजं मयोदितम्  ॥ ४६.३४ ॥

प्रयान्ति नरकं घोरं भृगोर्येऽवतरन्ति ते  ॥ ४६.३५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे भृगुपर्वतमहिमाऽनुवर्णनो नाम षट्चत्वारिंशोऽध्यायः ॥

 

 

अध्याय ४७

 

युधिष्ठिर उवाच –

ओंकारकीर्तनं विप्रदानं यज्ञस्तपस्तथा  ।

सम्भवं पञ्चवक्त्राणां लिङ्गानां संभवं तथा  ॥ ४७.१ ॥

युगसंख्यां कलां चैव चरितं च महामुने  ।

कथयस्व प्रसादेन यथोद्दिष्टं तु शंभुना  ॥ ४७.२ ॥

 

मार्कण्डेय उवाच –

श्रूयतां राजराजेन्द्र पुराणं स्कन्दकीर्तितम्  ।

द्वात्रिंशतिसहस्राणि लक्षाण्यष्टादशैव च  ॥ ४७.३ ॥

एषा कृतयुगे संख्या सन्ध्यासन्ध्यांशमानतः  ।

लक्ष्याण्यष्टौ तथा चाष्टौ सहस्राणि युधिष्ठिर  ॥ ४७.४ ॥

द्वापरे भानमिच्छन्ति सन्ध्यासन्ध्यांशमानत  ।

सहस्राणि च चत्वारि तथा लक्षचतुष्टयम्  ॥ ४७.५ ॥

मानं कलियुगस्यैतत्सन्ध्यासन्ध्यांशमानतः  ।

अल्पक्षीरप्रदा गावो ह्यल्पसस्या च मेदिनी  ॥ ४७.६ ॥

अल्पोदकास्तथा मेघाः स्वल्पविद्यास्तथा द्विजाः  ।

पूर्णे तु षोडशे वर्षे नराः पलितयौवनाः  ॥ ४७.७ ॥

दशमे द्वादशे वर्षे नारी गर्भधरा भवेत् ।

शूद्रा धर्मपरा नित्यं कलौ काले दिगम्बराः  ॥ ४७.८ ॥

एकवर्णाः प्रजाः सर्वा राजा म्लेच्छो भविष्यति  ।

कलौ युगे तथा प्राप्ते कलिरूपे च माधवे  ॥ ४७.९ ॥

नाग्निहोत्रं न वेदाश्च न धर्मो न च याजनम्  ।

न सत्यं न तपो दानं न सत्त्वं न च देवताः  ॥ ४७.१० ॥

वेदविक्रयिणो विप्रा अन्त्यजानां गृहे गृहे  ।

वेदादेशं करिष्यन्ति वेदविप्लवकारकाः  ॥ ४७.११ ॥

कन्याविक्रयिणः पापास्तथा कन्योपजीविनः  ।

सहस्रांशो न धर्मस्य कला चैका प्रवर्तिता  ॥ ४७.१२ ॥

यत्र सिद्धस्तत्र तीर्थं जले स्नास्यन्ति मानवाः  ।

शूद्रा पत्नी द्विजानां तु भविष्यति गृहे गृहे  ॥ ४७.१३ ॥

अधरोत्तरभावेन भविष्यन्ति कलौ नराः  ।

बौद्धाः क्षपणकाः पापा नग्ना मलिनकश्मलाः  ॥ ४७.१४ ॥

विडम्बयन्ति बालानां मोहिताः पापकर्मणाम्  ।

न गुरुं मन्यते शिष्यः पुत्रश्च पितरं तथा  ॥ ४७.१५ ॥

स्ववंशद्रव्यहर्तारः प्रव्रज्यावेषधारिणः  ।

लिङ्गोपजीविनः पापास्तथा भस्मोपजीविनः  ॥ ४७.१६ ॥

वैवस्वतेऽन्तरे प्राप्ते कलौ सर्वं भविष्यति  ।

एतत्ते कथितं राजन् कलौ यद्यद्भविष्यति  ॥ ४७.१७ ॥

ओंकारस्यैव चोत्पत्तिं विधानं विधिपूर्वकम्  ।

कथयामि समासेन यत्पृष्टोऽहं त्वयाऽनघ  ॥ ४७.१८ ॥

कीर्तनादस्य देवस्य मुच्यते भवबन्धनात् ।

ओं मित्येकाक्षर राजन् व्याहरन् समनुस्मरन्  ॥ ४७.१९ ॥

यः प्रयाति त्यजन् देहं स याति परमां गतिम्  ।

वेदमाता च गायत्री ओंकारप्रभवा तथा  ॥ ४७.२० ॥

ओंमित्येकाक्षरे तत्त्वे ब्रह्मविष्णुमहेश्वराः  ।

ओंकारो वेदमूलं तु श्रुतिशाखः प्रतिष्ठितः  ॥ ४७.२१ ॥

फलं चैव तु पुष्पं च पर्णानि स्मृतिरागमः  ।

यथादौ सर्वविद्यानामोंकारः परिपठ्यते  ॥ ४७.२२ ॥

तथादौ सर्वदेवानामादिदेवो महेश्वरः  ।

सन्ध्यात्रयं त्रिकालादि ओंकारे परिकीर्तितम्  ॥ ४७.२३ ॥

अग्नित्रयं त्रयो लोकास्त्रिवर्गश्च प्रतिष्ठितः  ।

अष्टषष्टिं च तीर्थानां ब्रह्मणे शिवकीर्तितम्  ॥ ४७.२४ ॥

एकेन च शतं पूर्णं रुद्राणां परिकीर्तितम्  ।

केदारे शतमेकं ओंकारैकोत्तरं शतम्  ॥ ४७.२५ ॥

पञ्चब्रह्म पञ्चवक्त्रमोंकारं लिङ्गमुत्तमम्  ।

पृथिव्यां यानि लिङ्गानि आसमुद्रान्तगोचरे  ॥ ४७.२६ ॥

न तेषां पञ्चवक्त्राणि त्यक्त्वोंकारं युधिष्ठिर  ।

स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ॥ ४७.२७ ॥

दानवैर्निर्जिता देवा नर्मदातीरमाश्रिताः  ।

अवद्रुताः कङ्कोलैस्तु कालिकेयैश्च कालकैः  ॥ ४७.२८ ॥

ते देवा ब्रह्मसहिता ईश्वरं शरणं गताः  ।

बृहस्पतिस्ततः प्राह ब्रह्माणं प्रति भारत  ॥ ४७.२९ ॥

इष्टिं कुरु महारौद्रीं दानवानां क्षयंकरीम्  ।

उवाच वचनं ब्रह्मा तदा तं देवमन्त्रिणम्  ॥ ४७.३० ॥

ममैव विस्मृता मन्त्रा दानवानां भयेन च  ।

एतस्मिन्नन्तरे भित्त्वा पातालानि च सप्त च  ॥ ४७.३१ ॥

ओंकारपूर्वकं राजन् भूर्भुवःस्वश्च कीर्तयन्  ।

पर्वतादुत्थितं लिङ्गं ज्वलत्कालानलप्रभम्  ॥ ४७.३२ ॥

सूर्यकोटिसमप्रख्यं ज्वालामालासमाश्रितम्  ।

आदिमध्यान्तहीनं च न दृष्टं परमं क्वचित् ॥ ४७.३३ ॥

चतुर्वर्गैश्चतुर्वेदैर्वेदाङ्गनिगमैः स्वयम्  ।

उवाच वचनं शम्भुर्ब्रह्माणं लोकभावनम्  ॥ ४७.३४ ॥

सौम्यां चैव तु भो ब्रह्मंल्लोकानां शान्तिकारिणीम्  ।

मया समार्पिता वेदा इष्टिं कुरु यथेप्सया  ॥ ४७.३५ ॥

ततो ब्रह्मा चकारेष्टिं रौद्रीं दैत्यक्षयंकरीम्  ।

इष्टिं चैव तत सौम्यां लोकानां शान्तिकारिणीम्  ॥ ४७.३६ ॥

ततोऽसुरा महाराज दृष्ट्वा चेष्टिं भयंकरीम्  ।

ब्रह्मशापभयोद्विग्ना गतास्ते तु दिशो दश  ॥ ४७.३७ ॥

ओंकारस्य प्रभावेण सर्वे देवास्तु निर्भयाः  ।

ततोऽभ्यर्च्य सुरेशानं देवास्ते त्रिदिवं ययुः  ॥ ४७.३८ ॥

कल्पान्तगं महालिङ्गं सुरासुरनमस्कृतम्  ।

कामदं मोक्षदं चैव ओंकारं विद्धि पार्थिव  ॥ ४७.३९ ॥

तस्मिंल्लिङ्गे तु लीयन्ते कल्पान्ते सर्वदेवताः  ।

अमरं ब्रह्म वेत्याहुर्हरिं सिद्धेश्वरं तथा  ॥ ४७.४० ॥

पिङ्गलेश्वरमादित्यं सोमं पित्रीश्वरं तथा  ।

यत्र सिद्धास्त्रयो वेदाः सषडङ्गपदक्रमाः  ॥ ४७.४१ ॥

तेन सिद्धेश्वरं विद्धि सर्वसिद्धिप्रदायकम्  ।

कथितं पर्वतस्याग्रे लिङ्गकोटिसमन्वितम्  ॥ ४७.४२ ॥

अर्चनात्तस्य लिङ्गस्य विष्णुलोके महीयते  ।

कल्पे कल्पे महाराज क्षीयन्ते सर्वदेवताः  ॥ ४७.४३ ॥

मुक्त्वा तु पञ्चलिङ्गानि मार्कण्डं नार्मदं नृप  ।

अविमुक्तं च केदारमोंकारममरेश्वरम्  ॥ ४७.४४ ॥

तथैव च महाकालमेवं लिङ्गं तु भारत  ।

पुण्यानि पञ्चलिङ्गानि प्रातरुत्थाय यः पठेत् ॥ ४७.४५ ॥

सर्वतीर्थफलं प्राप्य शिवलोके महीयते  ।

एका काली महाकाले वसेद्वै व्यापिनी सदा  ॥ ४७.४६ ॥

सपादकोटिस्तीर्थानां महाकाले वसेत्नृप  ।

शिवलोकेन कावेरी शिवक्षेत्रे स्थिता नृप  ॥ ४७.४७ ॥

चतुः क्रोशाभ्यन्तरतो ब्रह्महत्या न सर्पति  ।

आग्नेयं सिद्धलिङ्गं च तस्यास्तीरे समाश्रितम्  ॥ ४७.४८ ॥

शिवख्यातमिति ख्यातं तीर्थे तु कुरुनन्दन  ।

स्नातमात्रो नरस्तत्र स भवे न पुनर्भवेत् ॥ ४७.४९ ॥

कीटपक्षिपतङ्गादि तिर्यग्योनिगता नराः  ।

मुच्यन्ते तत्र पापेन शिवस्य वचनं यथा  ॥ ४७.५० ॥

तत्र यः कुरुते श्राद्धं पितॄणां च तिलोदकम्  ।

युगकोटिसहस्रं तु पितरस्ते न तर्पिताः  ॥ ४७.५१ ॥

सर्वेषामेव लिङ्गानां दिव्यं वाऽत्र प्रकीर्तितम्  ।

तत्र स्नातो दिवं याति न विशेद्योनिसङ्कटे  ॥ ४७.५२ ॥

कोटियज्ञफलं प्राप्य शिवलोके महीयते  ।

अष्टकोटिस्तु तीर्थानां केदारे कथिता नृप  ॥ ४७.५३ ॥

दर्शनादर्चनात्तस्य स्पर्शात्मोक्षफलं नृणाम्  ।

केदारस्योदके पीते पुनर्जन्म न विद्यते  ॥ ४७.५४ ॥

अहोरात्रोषितो भूत्वा पयः पानं करोति यः  ।

तस्योदरे भवेल्लिङ्गं षण्मासाद्ब्रह्मचारिणः  ॥ ४७.५५ ॥

केदारदर्शनादेव शिवलोके महीयते  ।

वाराणसी महापुण्या त्रिषु लोकेषु विश्रुता  ॥ ४७.५६ ॥

अन्तरिक्षे पुरी सा तु मृत्युलोकस्य बाह्यतः  ।

पञ्चक्रोशान्तरे यावद्ब्रह्महत्या न सर्पति  ॥ ४७.५७ ॥

अष्टाविंशतिकोट्यस्तु लिङ्गानां तत्र भारत  ।

गङ्गावरुणयोर्मध्ये स्नानं कृत्वा यथोदितम्  ॥ ४७.५८ ॥

सर्वपापविनिर्मुक्तो देववन्मोदते दिवि  ।

तत्र यस्त्यजति प्राणान् छिवं ध्यात्वा तु मानवः  ॥ ४७.५९ ॥

सहस्रकुलमुद्धृत्य शिवलोकं स गच्छति  ।

तत्र यद्दीयते दानं तस्य संख्या न विद्यते  ॥ ४७.६० ॥

तिलोदकप्रदानेन पितृणां प्रीतिरक्षया  ।

तत्र यस्त्यजति प्राणानवशः स्ववशोऽपि वा  ॥ ४७.६१ ॥

त्रिनेत्रः शूलपाणिस्तु शिवस्यानुचरो भवेत् ।

अविमुक्तस्य लिङ्गस्य स्पर्शनात्मुक्तिराप्यते  ॥ ४७.६२ ॥

कलात्रयं तु तत्रास्ते काशीपुर्यां न संशयः  ।

गङ्गासागरसंभेदे चतस्रस्तु कलाः स्मृताः  ॥ ४७.६३ ॥

गङ्गासहस्रवक्त्रेण प्रविष्टा यत्र सागरम्  ।

स्नानावगाहनात्पानात्पिण्डदानाच्च तर्पणात् ॥ ४७.६४ ॥

गच्छेच्छिवपुरं तत्र पितृभिः सह मानवः  ।

अपरं कालरुद्रं तु सप्तपातालवासिनम्  ॥ ४७.६५ ॥

हाटकं विद्धि तं देवं न तु पश्यन्ति मानवाः  ।

पूज्यते सुरदैत्यैश्च सुरसिद्धनिषेवितम्  ॥ ४७.६६ ॥

गङ्गेश्वरद्वितीयं तु तृतीयं सागरेश्वरम्  ।

चतुर्थं शूलपाणिं तु चतस्रश्च कला इति  ॥ ४७.६७ ॥

कलापञ्चात्मकं रुद्रमासमुद्रान्तगोचरे  ।

वर्जयित्वा महेशानमोंकारं कामरूपिणम्  ॥ ४७.६८ ॥

पञ्चब्रह्मपञ्चवक्त्रं नवशक्तिसमन्वितम्  ।

ओंकारं कल्पगातीरे शिवेन कथितं पुरा  ॥ ४७.६९ ॥

तेन पुण्यात्मके लोके लोकत्रितयपूजितम्  ।

शङ्खकुन्देन्दुसंकाशं सद्योवक्त्रं तु पश्चिमम्  ॥ ४७.७० ॥

ऋग्वेदो निर्गतो यस्माद्ब्रह्मा तत्राधिदेवता  ।

उत्तरं वामदेवं तु पीताभं सुमनोहरम्  ॥ ४७.७१ ॥

यजुर्वेदोद्भवं विद्धि विष्णुस्तत्राधिदेवता  ।

अघोर मेघवर्णाभं याम्यां च दिशि चास्थितम्  ॥ ४७.७२ ॥

सामवेदोद्भवं विद्धि सूर्यकालाग्निदैवतम्  ।

पूर्वे तत्पुरुषं ज्ञेयं कुङ्कुमारुणसन्निभम्  ॥ ४७.७३ ॥

अथर्वं निर्गतं तुर्यमापस्तत्राधिदेवताः  ।

ईशानस्तव वक्त्रं तु पञ्चवर्णं महातनुम्  ॥ ४७.७४ ॥

श्रुतिसिद्धान्तसङ्गीतं सोमं तत्राधिदेवता  ।

षष्ठं सदाशिवं नाम निर्भागं च निरामयम्  ॥ ४७.७५ ॥

निर्लक्षं लक्षहीनं तु ज्ञात्वा मोक्षे न संशयः  ।

एतत्ते कथितं राजन्नोंकारस्य तु वर्णनम्  ॥ ४७.७६ ॥

सहस्रास्यस्य नो शक्तिरेकवक्त्रस्य का कथा  ।

स्नापयित्वोदकेनैव बिल्वपत्रेण पूजयेत् ॥ ४७.७७ ॥

चतुर्वर्षसहस्राणि रुद्रलोके महीयते  ।

ओंकारदक्षिणामूर्तौ प्राणत्याग करोति यः  ॥ ४७.७८ ॥

वर्षकोटिसहस्राणि वसेत्माहेश्वरे पुरे  ।

प्रासादं च मठं चापि सुधयेष्टकसंयुतम्  ॥ ४७.७९ ॥

चित्रमालेख्यमूले च पताकाध्वजशोभितम्  ।

वितानां किङ्किणीयुक्तं नेत्रं वंशोद्भवं शुभम्  ॥ ४७.८० ॥

पञ्चवर्णकशोभाढ्यमोंकारस्य तु कारयेत् ।

पञ्चामृतैः स्नापयित्वा चन्दनागुरुकुंकमैः  ॥ ४७.८१ ॥

समावेष्ट्य परीधानैर्नानावस्त्रैः सुशोभनैः  ।

हेममौक्तिकरत्नैश्च सघृतं गुग्गुलुं दहेत् ॥ ४७.८२ ॥

घण्टां च दीपकं चैव विधूमारार्तिकं च यत् ।

मृदङ्गान् पटहांश्चैव वेणुं वीणां च गीतकम्  ॥ ४७.८३ ॥

काहली शङ्खवाद्यानि कांस्यतालाद्यमेव च  ।

व्यजनं गेडुकं छत्रं चामरं ध्वजदण्डकम्  ॥ ४७.८४ ॥

हेम चान्नधरादीनि गृहांश्च ग्रामपत्तनम्  ।

यद्वा तद्वा नृपश्रेष्ठ ओंकाराय निवेदयेत् ॥ ४७.८५ ॥

तस्य दानफलस्येह संख्या कर्तुं न शक्यते  ।

सिद्धेश्वरौंकारयोस्तु चन्द्रसूर्यग्रहग्रहे  ॥ ४७.८६ ॥

ध्वजमालाकुलं कुर्यात्तस्य पुण्यफलं शृणु  ।

यावती तं तु संख्याऽस्ति वायुनोद्धूयते पुनः  ॥ ४७.८७ ॥

तावद्युगसहस्राणि शिवलोके वसेन्नृप  ।

युगकोटिसहस्राणि युगकोटिशतानि च  ॥ ४७.८८ ॥

सर्वकामसमृद्धात्मा ब्रह्मविष्णुशिवालये  ।

एतत्ते कथितं राजनोंकारोत्पत्तिलक्षणम्  ॥ ४७.८९ ॥

ब्रह्मणा तु कृतं तस्य स्तोत्रं त्वं शृणु साम्प्रतम्  ॥ ४७.९० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे ओंकारमहिमानुवर्णनो नाम सप्तचत्वारिंशोऽध्यायः ॥

 

 

अध्याय ४८

 

मार्कण्डेय उवाच –

ब्रह्मणे कथितो मन्त्र ओंकारेण ततोऽनघ  ।

ब्रह्मापि तद्वचः श्रुत्वा स्तोत्रमेतदुदाहरत् ॥ ४८.१ ॥

ओं व्योमसंख्यायिते व्योमहराय सर्वव्यापिने  ।

अनन्ताय अनाथाय अमृताय ध्रुवाय च  ॥ ४८.२ ॥

शम्भवाय शाश्वताय योगपीठसंस्थिताय  ।

नित्यं योगयोगिने व्योमहराय  ॥ ४८.३ ॥

ओं नमः शिवाय सर्वप्रभवाय शिवाय ईशानाय  ॥ ४८.४ ॥

मूर्धाय तत्पुरुषाय वक्त्राय अघोराय हृदयाय वासुदेवाय गुह्याय सद्योजाताय मूर्तये ओंकाराय नमो नमः  ॥ ४८.५ ॥

कलातीतोऽव्ययो बुद्धो वज्रदेहोपमर्दनः  ॥ ४८.६

अध्यक्षश्च विधुः शास्ता पिनाकी त्रिदशाधिपः  ।

अग्नी रुद्रो हुताशश्च पिङ्गलः पावनो हर  ॥ ४८.७ ॥

ज्वलनो दहनो वस्तुर्भस्मान्तश्च क्षमान्तकः  ।

अपमृत्युहरो धाता विधाता कर्तृसंज्ञकः  ॥ ४८.८ ॥

कालो धर्मपतिः शास्ता वियोक्ता नवमः प्रियः  ।

निर्मित्तो वारुणो हन्ता क्रूरदृष्टिर्भयावहः  ॥ ४८.९ ॥

ऊर्ध्वदृष्टिर्विरूपाक्षो दंष्ट्रावान् धूम्रलोचनः  ।

वालो ह्यतिबलश्चैव पाशहस्तो महाबलः  ॥ ४८.१० ॥

श्वेतो विरूपो रुद्रश्च दीर्घबाहुर्जडान्तकः  ।

शीघ्रो लघुर्वायुवेगो भीमश्च वडवामुखः  ॥ ४८.११ ॥

पञ्चशीर्षा कपर्दी च सूक्ष्मस्तीक्ष्णः क्षपान्तकः  ।

निधीशो रौद्रवान् धन्वी सौम्यदेहः प्रमर्दनः  ॥ ४८.१२ ॥

अनन्तपालको धारः पातालेशो वृषध्वजः  ।

सधूम्रः शाश्वतः शर्वः सर्वपिङ्गः करालवान्  ॥ ४८.१३ ॥

विष्णुरीशो महात्मा च सुखो मृत्युविवार्जितः  ।

शम्भुर्विभुर्गणाध्यक्षस्त्र्यक्षश्चैव दिवस्पतिः  ॥ ४८.१४ ॥

संवादश्च विवादश्च प्रभविष्णुर्विवर्धनः  ।

शतमेकोत्तरं यावद्रुद्राणां संख्यया स्मृतम्  ॥ ४८.१५ ॥

शतमेकोत्तरं सर्वमोंकारे च प्रतिष्ठितम्  ।

स्तोत्रं कृत्वा तथा ब्रह्मा देवदेवं महेश्वरम्  ॥ ४८.१६ ॥

भूमौ प्रणम्य साष्टाङ्गं कृत्वा चैव प्रदक्षिणम्  ।

मनसा संस्मरन् देवं तस्थौ लोकपितामहः  ॥ ४८.१७ ॥

स्तोत्रं श्रुत्वा भगवतो ब्रह्मणो लोमहर्षणम्  ।

देवदेवोऽब्रवीद्वाक्यं ब्रह्माणं प्रति भारत  ॥ ४८.१८ ॥

स्तोत्रेणानेन दिव्येन तुष्टोऽहं ते वरं वृणु  ।

ददामि ते न सन्देहो दुष्प्राप्यं त्रिदशैरपि  ॥ ४८.१९ ॥

 

ब्रह्मोवाच –

यदि तुष्टोऽसि देवेश यदि देयो वरो मम  ।

पञ्चवक्त्रेषु यजनं ब्रह्म नाम भवत्विह  ॥ ४८.२० ॥

 

हर उवाच –

एवं भवतु वै ब्रह्मन् सत्यमेतत्तवोदितम्  ।

ब्रह्मणो धर्मपूजा वै तदा प्रभृति भारत  ॥ ४८.२१ ॥

 

ब्रह्मोवाच –

पठिष्यन्ति स्तवं रौद्रमोंकारस्य तवाग्रतः  ।

ब्राह्मणाः क्षत्रिया वैश्याः सदा तद्गतमानसाः  ॥ ४८.२२ ॥

सर्वकाममवाप्स्यन्ति चेह लोके परत्र च  ।

यं यं कामयते कामं तं तं प्राप्नोति मानवः  ॥ ४८.२३ ॥

शतमेकोत्तरं नित्यं पठित्वा च दिवं व्रजेत् ।

एवमुक्त्वा तदा ब्रह्मा नमस्कृत्य महेश्वरम्  ॥ ४८.२४ ॥

दिव्ययानसमारूढो ब्रह्मलोकं मुदा ययौ  ।

चतुर्युगसहस्रेण ब्रह्मणोऽहः प्रकीर्तितम्  ॥ ४८.२५ ॥

अनेनैव तु मानेन शतं ब्रह्मा हि जीवति  ।

पितामहशतं यावद्विष्णोर्मानं विधीयते  ॥ ४८.२६ ॥

ओंकारनिमिषार्धेन सहस्राणि चतुर्दश  ।

विनश्यन्ति परं विष्णोरसंख्याताः पितामहाः  ॥ ४८.२७ ॥

एवं ब्रह्मगतिं ज्ञात्वा शिवमन्तः सदार्चयेत् ।

शिवाज्ञा वर्तते लिङ्गे तस्माल्लिङ्गं सदार्चयेत् ॥ ४८.२८ ॥

द्वेष्टि लिङ्गं तु यो मोहात्सर्वदेवनमस्कृतम्  ।

स याति नरकं घोरं शिवस्य वचनं यथा  ॥ ४८.२९ ॥

बौद्धक्षपणपाखण्डा मिथ्यातत्त्वविचक्षणाः  ।

नष्टास्तु नाशिता ये वै शिवाराधनवार्जिताः  ॥ ४८.३० ॥

जन्मजन्मान्तराभ्यासात्ते प्रयान्ति रसातलम्  ।

पुराणेषु तथा युद्ध्वा शिवोक्तं धर्ममाचरेत् ॥ ४८.३१ ॥

सदुष्टः पापबुद्धिस्तु योऽन्यं धर्मं समाचरेत् ।

एतत्ते कथितं राजन् पुराणं स्कन्दकीर्तितम्  ॥ ४८.३२ ॥

श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ४८.३३ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चब्रह्मात्मकस्तवो नामाष्टचत्वारिंशोऽध्यायः ॥

 

 

अध्याय ४९

 

मार्कण्डेय उवाच –

ततो गच्छेत्महाभाग रेवाकपिलसङ्गमम्  ।

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ४९.१ ॥

तिलोदकप्रदानेन पितॄणां परमा गतिः  ।

दिनानि नवसार्धानि राहुग्रस्ते निशाकरे  ॥ ४९.२ ॥

वृद्धिं याति महाराज पुण्यवृद्ध्या न संशयः  ।

ग्रस्ते तु राहुणा सूर्ये दिनानि च दशैव तु  ॥ ४९.३ ॥

वर्धते कपिलाभेदस्तद्वदेव विशाम्पते  ।

रेवायाः कपिलायोगे वाराणस्याः समागमे  ॥ ४९.४ ॥

समानं फलां उद्दिष्टं तिलोदकेनापि विद्यते  ।

वाराणसीसमा रेवा कपिलायाश्च सङ्गमे  ॥ ४९.५ ॥

स्वायम्भुवेऽन्तरे प्राप्ते ब्रह्मलब्धवरोद्भवाः  ।

रुद्रावर्तं ब्रह्मावर्तं सूर्यावर्तं तथाऽपरम्  ॥ ४९.६ ॥

कपिलानर्मदायोगे ज्ञेयमेतत्त्रयं पुनः  ।

नर्मदाभेदनं यत्र चतुर्हस्तप्रमाणतः  ॥ ४९.७ ॥

रेवाकपिलयो राजंस्तत्रावर्तद्वयं स्मृतम्  ।

पिप्पलावाहिनी तत्र सप्तपातालवासिनी  ॥ ४९.८ ॥

तत्रैव कपिलावर्तं पिप्पलावर्तमेव च  ।

कामयन्ति हि तीर्थं च पितरस्तृप्तिदायकम्  ॥ ४९.९ ॥

तस्मात्पुत्रः प्रयत्नेन पितृभ्यश्च यथाविधि  ।

जलाञ्जलिं तिलैर्मिश्रं दद्यात्पिण्डं च यत्नतः  ॥ ४९.१० ॥

पितॄन् समुद्धरेद्घोराच्छ्राद्धं कृत्वा तु मानवः  ।

रेवाकपिलयोर्योगे शुचिः स्नात्वा तु मानवः  ॥ ४९.११ ॥

यः पश्येदमरं तत्र फलं तस्याश्वमेधिकम्  ।

चन्द्रसूर्योपरागे तु पर्वकाले विशेषतः  ॥ ४९.१२ ॥

गन्धं धूपं च नैवेद्यं दीपमालां च कारयेत् ।

तिलतण्डुलमिश्रैर्यः कुर्याल्लिङ्गस्य चार्चनम्  ॥ ४९.१३ ॥

कुङ्कुमेन समालिप्य रक्तवस्त्रैः प्रवेष्टयेत् ।

पुष्पमालार्चनं कृत्वा हेमरत्नादिभिस्तथा  ॥ ४९.१४ ॥

यावच्चन्द्रश्च सूर्यश्च हिमवांश्च महोदधिः  ।

तावद्युगसहस्त्राणि रुद्रलोके महीयते  ॥ ४९.१५ ॥

कौशेयं पट्टसूत्रं च कार्पासं रक्ततान्तवम्  ।

वैजयन्तीवितानं च कलशोपरि वर्धयेत् ॥ ४९.१६ ॥

पञ्चरत्नसमायुक्तं किङ्किणीरवसंयुतम्  ।

तत्तन्तुसंख्यया यावन्मुहूर्तमिह भारत  ॥ ४९.१७ ॥

तावत्कालं वसेत्स्वर्ग उमामाहेश्वरे पुरे  ।

ईशानमपरं चैव सामान्यात्कथितं पुरा  ॥ ४९.१८ ॥

कपिलापूर्वभागे तु नातिदूरे व्यवस्थितम्  ।

अर्चनात्तस्य लिङ्गस्य गाणपत्यमवाप्नुयात् ॥ ४९.१९ ॥

शुक्लाष्टं यां कार्त्तिके तु फलं शतगणोत्तरम्  ।

संक्रमे च व्यतीपाते तस्य संख्या न विद्यते  ॥ ४९.२० ॥

उपहारप्रदानेन कपिलेश्वरपूजनात् ।

वर्षाणामयुतं सार्द्धं लोके क्रीडति भास्करे  ॥ ४९.२१ ॥

मृतवत्सा तथा बन्ध्या गर्भस्रावा च या भवेत् ।

रक्तवस्त्रैः पञ्चरत्नैः स्नानं सा च समाचरेत् ॥ ४९.२२ ॥

चतुर्दश्यां तथाष्टम्यां कपिलायां युधिष्ठिर  ।

सुभगा जीवपुत्रा च सत्यमेतच्छिवोदितम्  ॥ ४९.२३ ॥

उमया च वरो दत्तो नारीभ्यश्च प्रसादतः  ।

कपिला निर्गता यस्मात्नर्मदायां प्रसर्पति  ॥ ४९.२४ ॥

तीर्थानामष्टसाहस्रं कामभोगफलप्रदम्  ।

आस्ते तत्र महाराज शिवेन कथितं पुरा  ॥ ४९.२५ ॥

कपिला च ततो देया सर्वाभरणभूषिता  ।

ब्राह्मणान् भोजयेत्तत्र यथा विभवविस्तरैः  ॥ ४९.२६ ॥

उपवासपरो नित्यं तार्पिताः पितृदेवताः  ।

हेमजालेश्वरं नाम लिङ्गं तत्रैव सिद्धिदम्  ॥ ४९.२७ ॥

अर्चनात्तस्य देवस्य यमलोकं न पश्यति  ।

वसुदानो धुन्धुमारश्चक्रवर्ती पुराऽभवत् ॥ ४९.२८ ॥

अस्य तीर्थस्य माहात्म्याद्दिवि देवत्वमाप्तवान्  ।

अनेकानि सहस्राणि संसिद्धिं परमां गताः  ॥ ४९.२९ ॥

क्षत्रियाणां नृपश्रेष्ठ कोटितीर्थप्रभावतः  ।

उलूकैः पातितान् यत्र कोटितीर्थे शिरांस्यथ  ॥ ४९.३० ॥

काकानां जलमध्ये तु शतशोऽथ सहस्रशः  ।

तत्क्षणाद्दिव्यदेहास्तु ते काका यानमाश्रिताः  ॥ ४९.३१ ॥

विद्याधराणां राजानो मया दृष्टाः पुरानघ  ।

वृन्दाश्च जम्बुकानां तु व्याघ्राणां च भयेन वै  ॥ ४९.३२ ॥

तथा मेघावृते काले नर्मदाजलमाविशन्  ।

यक्षलोकं तु ते प्राप्ताः सर्वकामफलोदयम्  ॥ ४९.३३ ॥

जम्बुकेश्वरमित्येवं तिर्यग्योनिविमोक्षणम्  ।

पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्  ॥ ४९.३४ ॥

वाराणसीप्रयागं च त्रैलोक्ये त्वमरेश्वरम्  ।

त्रयस्त्रिंशत्कोटिभिस्तु सुरासुरनमस्कृतम्  ॥ ४९.३५ ॥

तत्र स्नातश्च राजेन्द्र हयमेधफलं लभेत् ।

सिद्धा सरस्वती तत्र तीर्थस्यास्य प्रभावतः  ॥ ४९.३६ ॥

यः कश्चित्कुरुते श्राद्धं पितॄणां प्रीतिवर्द्धनम्  ।

स याति परमं स्थानं पितृभिः सह मानवः  ॥ ४९.३७ ॥

लिङ्गं सारस्वतं नाम ब्रह्महत्याव्यापोहनम्  ।

आख्यानं कथयिष्यामि इतिहासं पुरातनम्  ॥ ४९.३८ ॥

स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ।

अयोध्याधिपतिः श्रीमाञ्छक्रतुल्यपराक्रमः  ॥ ४९.३९ ॥

धुन्धुमार इति ख्यातः सत्यवादी जितेन्द्रियः  ।

यज्ञयाजी दानशीलो देवतातिथिपूजकः  ॥ ४९.४० ॥

निरवद्याः प्रजास्तस्य भयदारिद्र्यवर्जिताः  ।

सपादलक्षवर्षाणि प्रजा जीवन्ति भारत  ॥ ४९.४१ ॥

यज्ञोत्सवविवाहैश्च वेदमङ्गलनिःस्वनैः  ।

स्वयं कामदुघा धेनुः पृथिवी सस्यशालिनी  ॥ ४९.४२ ॥

चतुर्वर्षसहस्राणि प्राकृता इतरे जनाः  ।

कौशेयपट्टं वृक्षेषु बद्धं सर्वत्र भारत  ॥ ४९.४३ ॥

यज्ञहोमसहस्रैस्तु सदा दोहमयीं नृप  ।

एवं शशास पृथिवीं यथा शक्रस्त्रिविष्टपम्  ॥ ४९.४४ ॥

एकस्मिन् समये राजा प्रतीहारमुवाच ह  ।

आदेशय नृपान् सर्वान्नानादेशसमुद्भवान्  ॥ ४९.४५ ॥

प्रतीहारसमादिष्टाः समायातास्ततो नृपाः  ।

मृगयां तु स तैः सर्वैः कर्तुं विन्ध्यं जगाम ह  ॥ ४९.४६ ॥

वेदध्वनितनिर्घोषैर्द्विजानामग्निहोत्रिणाम्  ।

नादिता त्रिषु लोकेषु विख्याता सप्तकल्पगा  ॥ ४९.४७ ॥

तत्रोपशोभितं रम्यं विचित्रं वनमण्डलम्  ।

हत्वा जीवसहस्राणि क्षत्रियैः सह भारत  ॥ ४९.४८ ॥

विवेश च वनं सर्वं ततः परमदारुणम्  ।

भीमरूपं महाघोरं दुष्प्रेक्ष्यं च सुदुःसहम्  ॥ ४९.४९ ॥

मेघनादेन गर्जन्तं सुतरां लोमहर्षणम्  ।

वाराहं श्वेतवर्णं च दंष्ट्रायुगलभीषणम्  ॥ ४९.५० ॥

तं दृष्ट्वा तादृशं तत्र वाराहं नृपसत्तमः  ।

उवाच क्षत्रियान् सर्वान्न दृष्टं न मया श्रुतम्  ॥ ४९.५१ ॥

एतादृशं वराहस्य रूपं वै लोमहर्षणम्  ।

इत्युक्त्वा पाशमादाय यावद्धन्तुं समुद्यतः  ॥ ४९.५२ ॥

तावद्वायुवपुर्भूत्वा निर्यातः प्राणपीडितः  ।

विवेश जलमध्ये च कोटितीर्थे नराधिप  ॥ ४९.५३ ॥

पृष्ठतोऽनुजगामऽथ स राजा हयवाहनः  ।

प्रविष्टमात्रः पयसि वराहस्तु विशाम्पते  ॥ ४९.५४ ॥

तत्क्षणाद्दिव्यदेहस्तु कामिकं यानमास्थितः  ।

किमिदं प्राह तं राजा वाराहं देवरूपणम्  ॥ ४९.५५ ॥

हृदि विस्मयमापन्नो सत्यमेतच्च ब्रूहि मे  ।

तस्य तद्वचनं श्रुत्वा वाराहो देवरूपधृक् ॥ ४९.५६ ॥

प्रहसन्नब्रवीद्वाक्यं शृणु राजन्महामते  ।

अङ्गदं नाम तु गणं विद्धि मां शङ्करस्य तु  ॥ ४९.५७ ॥

गणैश्च देवमुख्यैश्च उमया च महेश्वरः  ।

क्रीडन्नास्ते कदाचित्तु तस्याग्रे नृपसत्तम  ॥ ४९.५८ ॥

तत्र गीतं मया गीतं रम्यं दण्डकलक्षणम्  ।

दृष्ट्वोर्वशीं तथा रम्भामभूवं काममोहितः  ॥ ४९.५९ ॥

व्याहरं छूकरीं वाणीं विस्वरो विकृताननः  ।

विह्वलेन मया तत्र ह्यप्सरोभिस्तु क्रीडितम्  ॥ ४९.६० ॥

तादृशं मां तुदृष्ट्वावैकामक्रीडावशगतम्  ।

शशाप नन्दी कोपात्मा शुकरोऽमेध्यभुग्भव  ॥ ४९.६१ ॥

दशवर्षसहस्राणि भ्रमिष्यसि महीतले  ।

ब्रह्मापि नैव शक्नोति शिवस्य तु प्रकीर्तितम्  ॥ ४९.६२ ॥

त्वं तु गामटमानोऽपि किङ्करस्यापि किङ्करः  ।

कुपितं नन्दिनं ज्ञात्वा भयभीतान्तरात्मना  ॥ ४९.६३ ॥

प्रसादितो मया नन्दी शापान्तं वरमादिशत् ।

दर्शनाद्धुन्धुमारस्यकोटितीर्थप्रभावतः  ॥ ४९.६४ ॥

त्यक्त्वा तु शूकरीं योनिं पुनः प्रत्यागमिष्यसि  ।

एतत्ते कथितं राजन्वाराहीं योनिमाश्रितः  ॥ ४९.६५ ॥

यथा हि किल्विषात्मुक्तस्तीर्थस्यास्य प्रभावतः  ।

ओंकारदर्शनाद्राजन् रेवातोयपरिष्कृतः  ॥ ४९.६६ ॥

प्राप्तो गन्धर्वयोनिं तु दर्शनात्तव सुव्रत  ।

विषादं त्यज राजेन्द्र गहना कर्मणां गतिः  ॥ ४९.६७ ॥

धर्मे बुद्धिं समाधाय सर्वभूतहितो भव  ।

जन्मतो मरणं राजन्मरणाज्जन्मसम्भवः  ॥ ४९.६८ ॥

ज्ञात्वा शुभाशुभं कर्म त्वमात्मानं समुद्धर  ।

स्वयमेवार्जितं कर्म स्वयमेवोपभुज्यते  ॥ ४९.६९ ॥

स्वयं कर्ता च भोक्ता च शुभस्याप्यशुभस्य च  ।

स्वस्ति वोऽस्ति गमिष्यामि एवमुक्त्वा जगाम ह  ॥ ४९.७० ॥

ध्रियमाणातपत्रस्तु वीज्यमानोऽप्सरोगणैः  ।

शिवध्यानपरो भूत्वा कैलासे न्यवसत्सुखम्  ॥ ४९.७१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहस्वर्गारोहणं नामैकोनपञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५०

 

मार्कण्डेय उवाच –

स तस्मिन्नृपति श्रेष्ठस्तृषितः श्रान्तवाहनः  ।

हयं मुमोच राजा वै सर्वोपस्करमेव च  ॥ ५०.१ ॥

स्मरनूर्ध्वगतिं तावदुपविष्टः शिलातले  ।

रेणुध्वस्तस्ततोऽश्वो वै प्रविष्टः सप्तकल्पगाम्  ॥ ५०.२ ॥

पानस्नानादिकं कृत्वा ह्यन्तरिक्षस्थितो हयः  ।

ब्रह्मतेजः स्थितो भूत्वा ब्रह्मयानं समाश्रयत् ॥ ५०.३ ॥

अत्यद्भुतं तु तं दृष्ट्वा परं विस्मयमागत  ।

उवाच वचनं राजा तुरङ्गं तं द्विजर्षभम्  ॥ ५०.४ ॥

किमेतत्कारणं ब्रह्मञ्च्छंस मेऽद्ययथोचितम्  ।

उवाच तद्वचः श्रुत्वा हयरूपो द्विजोत्तमः  ॥ ५०.५ ॥

ब्रह्मर्षिर्गालवश्चाहं कुरुक्षेत्रे पुरा स्थितः  ।

अश्वप्रतिग्रहाद्दग्धस्त्वश्वयोनिं समाश्रित  ॥ ५०.६ ॥

दावाग्निना च यद्दग्धमुदकात्तत्प्ररोहति  ।

दुष्टप्रतिग्रहाद्दग्धो न प्ररोहेत्कदाचन  ॥ ५०.७ ॥

द्रुमसेनः पुरा चासीद्राजा परमधार्मिक  ।

अयोध्याधिपतिश्चासौ चक्रवर्ती महाबलः  ॥ ५०.८ ॥

राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह  ।

गजानश्वान् समादाय हिरण्यं गास्तथैव च  ॥ ५०.९ ॥

माणिक्यवज्रवैदूर्यवासांसि विविधानि च  ।

ब्राह्मणार्थे नृपश्रेष्ठ मुदा परमया युतः  ॥ ५०.१० ॥

गृहाणि साप्तभौमानि धूपितानि तु काञ्चनैः  ।

सर्वकामसमृद्धानि ब्राह्मणेभ्यो यथाविधि  ॥ ५०.११ ॥

दत्त्वा स याचयामास सक्तुप्रस्थव्रते स्थितम्  ।

राजोत्तमकुलं विप्रमुञ्छवृत्तिं समाश्रितम्  ॥ ५०.१२ ॥

श्राद्धकालः पितॄणां मे भोजनं क्रियतामिति  ।

 

ऋषिरुवाच –

राज्ञो हि दर्शनं घोरं मेधामथनमक्षमम्  ॥ ५०.१३ ॥

दृष्ट्वा चैव महीपालमादित्यं चावलोकयेत् ।

द्विजात्परतरो नास्ति प्रतिग्रहपराङ्मुखात् ॥ ५०.१४ ॥

असत्प्रतिग्रहं गृह्णन्नरकं याति वै ध्रुवम्  ।

भार्याप्रतिग्रहग्राही याचस्वाऽन्यं द्विजोत्तमम्  ॥ ५०.१५ ॥

ऋषे राजा वचः श्रुत्वा प्रतीहारं तथाब्रवीत् ।

घोषणा क्रियतां शीघ्रं स्थानेश्वरनिवासिनाम्  ॥ ५०.१६ ॥

प्रतिग्रहाय यः कश्चित्स चायातु इह सत्वरम्  ।

कृते तु घोषणे कश्चित्नासीत्नृपप्रतिग्रही  ॥ ५०.१७ ॥

ततस्तु कुपितो राजा स्थानं तच्च निनिन्द च  ।

अब्रह्मण्यमिदं स्थानं न वेदो न च याजनम्  ॥ ५०.१८ ॥

जुगुप्सित्वा तु तान् सर्वांस्तूष्णीं चैव बभूव ह  ।

तस्य वाक्यं तु तच्छ्रुत्वा राजानं चेदमब्रुवम्  ॥ ५०.१९ ॥

गालवोऽहं द्विजश्रेष्ठश्चतुर्वेदी महातपाः  ।

यज्ञयाजी तपस्वी च सर्वभूतहिते रतः  ॥ ५०.२० ॥

अनुग्रहमिमं विद्धि उद्धरिष्ये भवार्णवात् ।

 

राजोवाच –

ददामि ते न सन्देहः त्वमेको मुनिसत्तमः  ॥ ५०.२१ ॥

मुद्गलाद्यैर्द्विजैः सर्वैर्वार्यमाणोऽपि चानघ  ।

गृहीतोऽश्वरथस्तत्र मयाभरणभूषितः  ॥ ५०.२२ ॥

ततः स मां नमस्कृत्य द्रुमसेनो ययौ नृप  ।

मयापि चाग्निहोत्रादिकर्म त्यक्त्वा यथासुखम्  ॥ ५०.२३ ॥

नानाविधानि दिव्यानि स्त्रीभिः सार्द्धं सुखानि तु  ।

क्रीडतोऽपि तदर्थं वै यावत्मे च क्षयं गतम्  ॥ ५०.२४ ॥

एवमुक्त्वा ययौ विप्रो ब्रह्मलोकं सनातनम्  ।

एकाकी च ततो राजा चिन्तयामास भारत  ॥ ५०.२५ ॥

एकाकी यदि यास्यामि गताश्वश्चरणेन तु  ।

राजानो मां हसिष्यन्ति वचनैः स्वैः परस्परम्  ॥ ५०.२६ ॥

दस्युभिर्निहतश्चास्य हय इत्येवमादिभिः  ।

अश्वोपस्करमादाय शिरसा च कथं मया  ॥ ५०.२७ ॥

प्रवेष्टव्यं पुरं चैतत्महालज्जाकरं मम  ।

अद्य यावत्मया तावद्ब्राह्मणारोहणं कृतम्  ॥ ५०.२८ ॥

पापस्यास्य विशुद्ध्यर्थं प्रवेक्ष्यामि हुताशनम्  ।

एवं विचिन्तयाभास राजा तत्रैव सत्वरम्  ॥ ५०.२९ ॥

दक्षिणां दिशमाश्रित्य शुष्ककाष्ठानि चाहरत् ।

ततः प्रज्वाल्य काष्ठानि कृत्वा च त्रिःप्रदक्षिणम्  ॥ ५०.३० ॥

नमस्कृत्य हुताशं च विवेश स्वगृहं यथा  ।

निर्जित्य तेजसा तेजः पावकस्य तदा नृपः  ॥ ५०.३१ ॥

चतुर्भुजा त्रिनेत्रा तु मुक्ताभरणभूषिता  ।

तं गृहीत्वा करेणैव इदं वचनमब्रवीत् ॥ ५०.३२ ॥

अप्राप्तं मरणं राजन् कालो विहितस्तव  ।

अकस्मात्साहसं देव युक्तं न प्रतिभाति मे  ॥ ५०.३३ ॥

कालप्राप्तं पुमांसं तु न रक्षेदीश्वरः स्वयम्  ।

 

राजोवाच –

काऽसि त्वं च वरारोहे ह्युमा गङ्गाऽथवा रमा  ॥ ५०.३४ ॥

कथयस्व महाभागे मम त्वं भक्तिदायिनी  ।

 

स्त्र्युवाच –

नाहं गङ्गा न वाणी वा कपिलां विद्धि मां नृप  ॥ ५०.३५ ॥

एनां रुद्राद्विनिष्क्रान्तां नर्मदातलवाहिनीम्  ।

वसुदानस्य यज्ञे तु रेवाकपिलसङ्गमः  ॥ ५०.३६ ॥

उमा कात्यायनी गङ्गा यमुना गौतमी तथा  ।

सरस्वती तथा शिप्रा वरणा च शुभापगा  ॥ ५०.३७ ॥

शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा  ।

वितस्ता चर्मणा देवी सोमावभृथमध्यतः  ॥ ५०.३८ ॥

ब्रह्मविष्णुमहेशानां स्नानार्थं हृतवारिभिः  ।

तिलोदकैर्मुनीनां तु प्रणीतः कलशोदकैः  ॥ ५०.३९ ॥

तथा सोमरसैश्चैव घृतखण्डादिमिश्रितैः  ।

बभूवातिप्रवाहो वै इज्याजन्यो महान् पुरा  ॥ ५०.४० ॥

एतद्भूतं महत्पुण्यमुदयाचलमाश्रितम्  ।

रुद्रावर्तपदं चात्र विद्यते नृपसत्तम  ॥ ५०.४१ ॥

एवमुक्तो ययौ राजा देवी चान्तरधीयत  ।

हृष्टस्तुष्टश्चक्रवर्ती मार्कण्डेयाश्रमं ययौ  ॥ ५०.४२ ॥

गत्वा प्रणम्य तमृषिमुपविष्टस्तथाग्रतः  ।

 

मार्कण्डेय उवाच –

कुशलं ते नृपश्रेष्ठ धर्माचारविदां वर  ॥ ५०.४३ ॥

सन्त्यज्य च कथं सैन्यमेकाकी त्वमिहागतः  ।

 

राजोवाच –

अद्य मे सफलं जन्म त्वत्पादाम्बुजदर्शनात् ॥ ५०.४४ ॥

धुन्धुमारस्तथा राजा कथयामास पूर्वकम्  ।

मार्कण्डेयस्ततः श्रुत्वा वृत्तान्तं पृथिवीपतेः  ॥ ५०.४५ ॥

रेवाकपिलयोर्योगे स्नात्वा स्तोत्रं चकार ह  ।

तत्र स्नाता दिवं यान्ति रेवाकपिलसङ्गमे  ॥ ५०.४६ ॥

उमा कात्यायनी गङ्गा यमुना गौतमी तथा  ।

सरस्वती तथा शिप्रा वरणा च शुभापगा  ॥ ५०.४७ ॥

शतद्रूश्चन्द्रभागा च सिन्धू रेवामला तथा  ।

वितस्ता चर्मणादेवी बाहुदा वारुणी तथा  ॥ ५०.४८ ॥

सरयूर्गण्डकी चैव घर्घरा बदरी तथा  ।

गोमती वेणुकी चैव पारा वेत्रवती शुभा  ॥ ५०.४९ ॥

विपाशा च तथा वाहा शङ्खिनी च पयोष्णिका  ।

गोदावरी च कावेरी भीमा कृष्णा तथा शुभा  ॥ ५०.५० ॥

सुभद्रा च तथा भद्रा करतोयाथ मालिनी  ।

एताः सर्वास्त्वमेवासि सर्वगे त्वां नमाम्यहम्  ॥ ५०.५१ ॥

लोकत्रयं त्वया व्याप्तमपां रूपेण सुव्रते  ।

प्रसीद त्वं महाभागे लोकत्रितयपावनी  ॥ ५०.५२ ॥

श्रुत्वा स्तोत्रमिदं देवी मार्कण्डेयात्तपोधनात् ।

पुष्पकं यानमारुह्य सर्वाभरणभूषिता  ॥ ५०.५३ ॥

चतुर्भुजा त्रिनेत्रा च चन्द्रबिम्बनिभानना  ।

उवाच वचनं देवी मार्कण्डेयं महामुनिम्  ॥ ५०.५४ ॥

स्तोत्रेणानेन तुष्टाहं वरं वृणु यथेप्सितम्  ।

 

मार्कण्डेय उवाच –

परितुष्टासि देवेशि वरं दातुं त्वमिच्छसि  ॥ ५०.५५ ॥

कलुषं हर कल्याणि लोकानां हरसंभवे  ।

स्नानं कृत्वा स्तुवन् तोये लोकानापुः शिवाज्ञया  ॥ ५०.५६ ॥

वरं ददस्व देवि त्वं धुन्धुमाराय सांप्रतम्  ।

राज्यं कृत्वा दिवं यातु सान्तःपुरपरिच्छदः  ॥ ५०.५७ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति सुव्रते  ।

एवं भवतु विप्रेन्द्र मत्तो यद्वाञ्छितं त्वया  ॥ ५०.५८ ॥

एवमुक्त्वा ययौ देवी कपिला लोकपावनी  ।

मार्कण्डेयं मुनिं राजा मुनिभिः परिवारितम्  ॥ ५०.५९ ॥

प्रणिपत्य यथा न्यायं गतश्च स्वपुरं तदा  ।

ततः कालेन महताराजा धर्मपरायणः  ॥ ५०.६० ॥

राज्यं कृत्वा क्रतूनिष्ट्वा धुन्धुमारो दिवं गतः  ।

एतत्ते कथितं सर्वं मया दृष्टं पुरानघ  ॥ ५०.६१ ॥

श्रवणात्कीर्तनादस्य मुच्यते भवबन्धनात् ॥ ५०.६२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलामाहात्म्ये धुन्धुमारस्वर्गारोहणं नाम पञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५१

 

युधिष्ठिर उवाच –

द्वीपसंख्या भुवो मानं सागराणां च कीर्तनम्  ।

पाताललोकसंख्यानं सर्वतो विदितं कुरु  ॥ ५१.१ ॥

नरकं स्वर्गमानं च यत्किंचिदन्यदीदृशम्  ।

उक्तानुक्तं यत्किंचित्कर्माकर्मशुभावहम्  ॥ ५१.२ ॥

एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना  ।

कथितं तु पुराणं वै यथावृत्तं पुरातनम्  ॥ ५१.३ ॥

भविष्यभूततत्त्वज्ञस्त्रिकालज्ञस्त्रिवेदवित् ।

त्वमेव वेत्सि सर्वं च प्रसादाद्वक्तुमर्हसि  ॥ ५१.४ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग कथ्यमानं निबोध मे  ।

अनेकानि सहस्राणि मया दृष्टानि भारत  ॥ ५१.५ ॥

युगे युगे क्षत्रियाणां दानयज्ञक्रियाणि च  ।

नान्यस्तु त्वादृशो राजा दृष्टस्तेषां तु मध्यतः  ॥ ५१.६ ॥

एतत्सर्वं समासेन स्कन्दपृष्टेन शम्भुना  ।

कथितं तु पुराणं वै सर्वं ते कथयाम्यहम्  ॥ ५१.७ ॥

चन्द्रद्वीपः प्रभासे तु ताम्रपर्णिर्गभस्तिमान्  ।

नागद्वीपश्च सौम्यश्च गन्धर्वो वरुणस्तथा  ॥ ५१.८ ॥

नवमः कुमारिकाख्यस्तु इति द्वीपाः प्रकीर्तिताः  ।

नवखण्डवती चैषा कथिता ते समासतः  ॥ ५१.९ ॥

खण्डेष्वेतेषु सर्वेषु प्रवाहो नार्मदः स्मृतः  ।

जम्बूशाककुशक्रौञ्चशाल्मल्यश्च युधिष्ठिर  ॥ ५१.१० ॥

प्लक्षश्च पुष्करश्चैव सप्तद्वीपाः प्रकीर्तिताः  ।

क्षारं क्षीरं दधि सर्पिस्तथैवेक्षुरसोऽपि च  ॥ ५१.११ ॥

सुरोदो मधुरोदश्च समुद्राः सप्तकीर्तिताः  ।

भूर्लोकश्च भुवर्लोकः स्वर्लोकश्च महस्तथा  ॥ ५१.१२ ॥

जनलोकस्तपोलोकः सत्यलोकस्तथा परः  ।

भूर्लोकादित्ययोर्विद्धि त्वन्तरालं युधिष्ठिर  ॥ ५१.१३ ॥

योजनानां चतुर्लक्ष पातालं यत्प्रमाणतः  ।

रुद्राश्च वसवश्चाष्टौ निवसन्त्यत्र भारत  ॥ ५१.१४ ॥

कथिताश्च मया लोकाः पातालानि निबोध मे  ।

अतलं वितलं चैव शर्करं च गभस्तिकम्  ॥ ५१.१५ ॥

महातलं च सुतलं रसातलमतः परम्  ।

सौवर्णमष्टमं विद्धि सर्वकामसमन्वितम्  ॥ ५१.१६ ॥

वह्नेर्दाहो ह्यपां शैत्यं मरुतां वहनं तथा  ।

काठिन्यं च तथा धात्र्या गगने शुषिरं तथा  ॥ ५१.१७ ॥

स्वभाव एव भूतानां स्वस्वभावानुसारतः  ।

प्रकृतिं यान्ति भूतानि नात्र कार्या विचारणा  ॥ ५१.१८ ॥

लक्षाणि चतुरशीतिर्योनीनां पापकर्मणाम्  ।

नरकेषु च घोरेषु दारुणा यमयातनाः  ॥ ५१.१९ ॥

निरुद्धाः प्राणिनः सर्वे नीतास्तु यमकिङ्करैः  ।

यातना विविधा रौद्रास्तत्रस्थैरनुभूयते  ॥ ५१.२० ॥

स्वकर्मफलयोगेन प्राप्नुवन्ति शुभाशूभम्  ।

एतदर्थं तपो होमं दानं ध्यानं च पावनम्  ॥ ५१.२१ ॥

कारुण्यं सर्वभूतेषु नर्मदाश्रयणं तथा  ।

रेवायाः स्तवनं पूजा सूर्यस्य प्रभवो यथा  ॥ ५१.२२ ॥

आख्यानं कथयिष्यामि यथावृत्तं पुरातनम्  ।

मुचुकुन्दस्य संवादो दानवेन्द्रस्य भारत  ॥ ५१.२३ ॥

कुवलयाश्वोऽथ राजर्षिश्चक्रवर्ती महायशाः  ।

आसीत्कृतयुगे राजनन्तरे चाक्षुषे किल  ॥ ५१.२४ ॥

शक्रादष्टगुणं राज्यं राज्ञश्चामिततेजसः  ।

अनेकानि सहस्राणि दानानि विविधानि च  ॥ ५१.२५ ॥

दत्तानि तेन राज्ञा वै सर्वतीर्थेष्वनुत्तमम्  ।

इष्टाश्च क्रतवश्चापि वर्जयित्वा तु कल्पगाम्  ॥ ५१.२६ ॥

दानवो मुचुकुन्दश्च सर्वधर्मपरायणः  ।

ब्रह्मण्यः शिवभक्तश्च विष्णुभक्तो जितेन्द्रियः  ॥ ५१.२७ ॥

राहुसोमसमायोगे वैदूर्ये सिद्धपर्वते  ।

ओंकारनाथसहिता यत्रास्ते कल्पगा सरित् ॥ ५१.२८ ॥

अन्यानि यानि लिङ्गानि लोके चैव चराचरे  ।

कल्पान्ते तानि लीयन्त ओंकारे वै न संशयः  ॥ ५१.२९ ॥

शिवेन कथितं ह्येतद्विष्णोश्चैव शतक्रतोः  ।

पार्वत्याः षण्मुखस्यापि पुराणे स्कन्दकीर्तिते  ॥ ५१.३० ॥

आगतः कल्पगां देवीं कोटितीर्थे नराधिपः  ।

नर्मदाकपिलायोगे सर्वसम्भारसंवृतः  ॥ ५१.३१ ॥

लक्षमेकं तु दोग्ध्रीणां समादाय गवां नृप  ।

अयुतं च हयानां च सहस्रं दन्तिनां तथा  ॥ ५१.३२ ॥

कामिकानां तु यानानां सहस्रं हेममालिनाम्  ।

धनं धान्य च वासांसि रत्नानि विविधानि च  ॥ ५१.३३ ॥

स्नानं कृत्वा यथान्यायं ब्राह्मणेभ्यो ददौ तदा  ।

मूर्तौ तु दक्षिणां चापि ओंकारस्य नराधिप  ॥ ५१.३४ ॥

यो यं कामयते कामं तं तस्मै स प्रयच्छति  ।

राजा कुवलयाश्वस्तु धर्मकर्मपरायणः  ॥ ५१.३५ ॥

राहुसूर्यसमायोगे कुरुक्षेत्रं ययौ किल  ।

सान्तःपुरपरीवारो ह्ययोध्याधिपतिः स्वयम्  ॥ ५१.३६ ॥

राजपुत्रसहस्रैस्तु वृतः स्नानेप्सया किल  ।

लक्षमेकं हयानान् च दन्तिनामयुतं तथा  ॥ ५१.३७ ॥

हेममाणिक्यरत्नानि वासांसि विविधानि च  ।

श्रद्धया परया युक्तो ब्राह्मणेभ्यो ददौ नृप  ॥ ५१.३८ ॥

शेषं निर्वापितं क्षेत्रे स्थाने वायनपूर्वकम्  ।

कालान्तरे ततः प्राप्ते कुरुक्षेत्रप्रभावतः  ॥ ५१.३९ ॥

नानायानसहस्रैस्तु सान्तः पुरपरिग्रहः  ।

ध्रियमाणा तपत्रस्तु वीज्यमानोऽप्सरोगणैः  ॥ ५१.४० ॥

शङ्खवादित्रघोषेण नानाभरणभूषितः  ।

विचचार च तत्रस्थो विद्याधर इवापरः  ॥ ५१.४१ ॥

मुचुकुन्दोऽपि दैत्येन्द्रः सर्वकामसमन्वितः  ।

कामिकैश्च महायानैर्हेमरत्नविभूषणैः  ॥ ५१.४२ ॥

श्रुत्वा वाद्यसहस्राणि धर्मराजो विशाम्पते  ।

जगाम विस्मयं घोरं किमेतदिति चाब्रवीत् ॥ ५१.४३ ॥

ततः कुवलयाश्वोऽपि तस्मिनहनि तत्पुरम्  ।

उभौ निवेदितौ दूतैर्धर्मराजस्य धीमतः  ॥ ५१.४४ ॥

कुवलयाश्वोऽथ राजर्षिर्मुचुकुन्दो महाबलः  ।

लोकान्तरमुभावेतौ विमानस्थौ समागतौ  ॥ ५१.४५ ॥

तावदुत्पतितं यानं मुचुकुन्दस्य चोपरि  ।

योजनानां सहस्रेण ह्युपर्युपरि संस्थितम्  ॥ ५१.४६ ॥

अयोध्याधिपतेर्यानमधोभागे व्यवस्थितम्  ।

पप्रच्छ धर्मराजोऽपि चित्रगुप्तं तु लेखकम्  ॥ ५१.४७ ॥

किं तु यानं समासाद्य अर्घपाद्येन पूजये  ।

सप्तर्षीनृषिमुख्यांश्च धर्माधर्मविचारकान्  ॥ ५१.४८ ॥

चित्रगुप्तोऽब्रवीद्वाक्यं तथा सप्तर्षयोऽब्रुवन्  ।

मुचुकुन्दं समासाद्य त्वर्घपाद्येन पूजय  ॥ ५१.४९ ॥

दानेन कापिलेनेज्यो दानवेन्द्रो न चापरः  ।

अधः कुवलयाश्वश्च मुचुकुन्दस्तथोपरि  ॥ ५१.५० ॥

एवमुक्तो धर्मराजो दानवेन्द्रमुपाश्रयत् ।

श्वेतवस्त्रपरीधानो ज्वलत्कुण्डलभूषणः  ॥ ५१.५१ ॥

अञ्जलिं च ततो बद्ध्वा यानस्याग्रे व्यवस्थितः  ।

कुशलं तेऽद्य दैत्येन्द्र सर्वधर्मभृतां वर  ॥ ५१.५२ ॥

निर्जितास्ते त्रयो लोका दानेनाऽनेन सुव्रत  ।

ओंकारदक्षिणस्यान्ते मूर्तौ कापिलसङ्गमे  ॥ ५१.५३ ॥

सप्तकल्पवहातीरे दानसंख्या न विद्यते  ।

 

मुचुकुन्द उवाच –

धर्माधर्मे त्वमेवाद्य स्वर्गद्वारार्गलो यतः  ॥ ५१.५४ ॥

एवमुक्तो यमस्तत्र दैत्येन्द्रेण महात्मना  ।

पन्थानं दर्शयामास दैत्येन्द्रस्य युधिष्ठिर  ॥ ५१.५५ ॥

ततस्तु प्रेषितस्तेन मुचुकुन्दो जगाम ह  ।

मुदा परमया युक्त उमामाहेश्वरं पुरम्  ॥ ५१.५६ ॥

संस्मारयित्वा विधिवद्दैत्येन्द्रं धर्मराट्ततः  ।

आसाद्य कुवलयाश्वं धर्मराजोऽब्रवीदिदम्  ॥ ५१.५७ ॥

स्वागतं ते महाराज कुशलं तव सर्वदा  ।

 

कुवलयाश्व उवाच –

परस्परविरोधत्वं देवदानवयोः सदा  ॥ ५१.५८ ॥

मां त्यक्त्वा दानवेन्द्रस्तु पाद्यार्घेण त्वयार्चितः  ।

विपरीतं च तत्सर्वं धर्मराज कृतं कथम्  ॥ ५१.५९ ॥

 

यम उवाच –

विषादं त्यज राजेन्द्र गहना कर्मणां गतिः  ।

नाहं दाता च हर्ता च शुभाशुभफलस्य वै  ॥ ५१.६० ॥

कर्मसाक्षी च सर्वेषां देवासुरनृणां नृप  ।

सरस्वत्यां कुरुक्षेत्रे दानं दत्तं त्वयानघ  ॥ ५१.६१ ॥

द्वापरान्ते तु दानं वै रेवादानं समं नहि  ।

शिवेन कथितं चासीद्ब्रह्मविष्णुमरुद्गाणान्  ॥ ५१.६२ ॥

कलां नार्हन्ति तीर्थानि सार्द्धं कल्पगया क्वचित् ।

अनृतं न मया चोक्तं पुराणं श्रुतिसम्मतम्  ॥ ५१.६३ ॥

एतस्मिनन्तरे राजन् द्वयोः संवदतोस्तयोः  ।

उक्तः कुवलयाश्वस्तु तदाकाशगिरा स्वयम्  ॥ ५१.६४ ॥

धर्मश्चेत्थं महाराज मा कृथास्त्वं कथंचन  ।

कल्पगा तोयसंस्पृष्टो दैत्यः शिवमवाप्तवान्  ॥ ५१.६५ ॥

स राजा विस्मयापन्नः पुनर्व्यावृत्य चागतः  ।

नर्मदां स्नातुकामोऽपि कपिलासङ्गमं प्रति  ॥ ५१.६६ ॥

तत्र प्लुतस्ततो राजा शिवलोकं जगाम ह  ॥ ५१.६७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मुचुकुन्दकुवलयाश्वस्वर्गारोहणं नामैकपञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५२

 

युधिष्ठिर उवाच –

के व्रजन्ति यमं विप्र कीदृशा नरकास्तु ते  ।

एतन्मे सर्वमाख्याहि देवलोकं व्रजन्ति के  ॥ ५२.१ ॥

 

मार्कण्डेय उवाच –

यान्ति पुष्पकयानेन पुष्परागप्रदायिनः  ।

देवायतनकर्तारः शिवलोकं व्रजन्ति ते  ॥ ५२.२ ॥

अनाथमण्डपानां तु ते क्रीडन्ति गृहोत्तमैः  ।

देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकाः  ॥ ५२.३ ॥

पूज्यमाना नरा यान्ति कामिकैश्च यथा सुखम्  ।

द्योतयन्तो दिशः सर्वा यान्ति दीपप्रदानतः  ॥ ५२.४ ॥

प्रतिश्रयप्रदानेन सुखं यान्ति यमालयम्  ।

सर्वकामसमृद्धेन तथा गच्छति तोयदः  ॥ ५२.५ ॥

अन्नं पानं प्रयच्छन्ति सुखं यान्ति निराकुलाः  ।

दीपमालां हि यच्छन्ति गुरुशुश्रूषणे रताः  ॥ ५२.६ ॥

पादाभ्यङ्गं च यः कुर्यात्सोऽश्वपृष्ठेन गच्छति  ।

हेमरत्नप्रदानेन यान्ति रत्नविभूषिताः  ॥ ५२.७ ॥

सर्वकामसमृद्धात्मा भूमिदानेन गच्छति  ।

अन्नपानप्रदानेन पिबन् खादंश्च गच्छति  ॥ ५२.८ ॥

इत्येवमादिभिर्दानैः सुखं यान्ति शिवालयम्  ।

स्वर्गे च विपुलान् भोगान् प्राप्नोत्यन्नप्रदानतः  ॥ ५२.९ ॥

सर्वेषामेव दानानामन्नदानपरं विदुः  ।

सर्वप्रीतिकरं पुण्यं बलपुष्टिविवर्द्धनम्  ॥ ५२.१० ॥

नान्नदानसमं दानं त्रिषु लोकेषु विश्रुतम्  ।

अन्नादानसमं दानं त्रिषु लोकेषु विश्रुतम्  ।

अन्नाद्भवन्ति भूतानि म्रियन्ते तदभावतः  ॥ ५२.११ ॥

रक्तं मांसं मज्जशुक्रे क्रमादन्नात्प्रवर्तते  ।

शुक्राद्भवन्ति भूतानि तस्मादन्नमयं जगत् ॥ ५२.१२ ॥

हेमरत्नाश्वनागेन्द्रनारीस्रक्चन्दनादिभिः  ।

नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः  ॥ ५२.१३ ॥

अत एव महापुण्यमन्नदानं च भारत  ।

अन्नदः प्राणदः प्रोक्तस्तस्मादन्नप्रदो भवेत् ॥ ५२.१४ ॥

तस्मादन्नप्रदानेन दत्तान्यन्यानि सर्वशः  ।

त्रैलोक्ये यानि दानानि भोगस्त्रीवाहनानि च  ॥ ५२.१५ ॥

अन्नपानादि यत्किंचिदैश्वर्यं च युधिष्ठिर  ।

अन्नदानस्य तत्सर्वमिहामुत्र फलं स्मृतम्  ॥ ५२.१६ ॥

यस्मादन्नेन पुष्टाङ्गः कुरुते धर्मसंचयम्  ।

पवित्रममृतं दिव्यं शुद्धं सत्त्वं रसायनम्  ॥ ५२.१७ ॥

अन्नपानाश्वगोवत्सशय्याछत्राण्युपानहौ  ।

प्रेतलोकप्रशस्तानि दानान्यष्टौ युधिष्ठिर  ॥ ५२.१८ ॥

एवं दानविशेषेण धर्मराजपुरे नराः  ।

सुखेनैव तु गच्छन्ति तस्माद्धर्मं समाचरेत् ॥ ५२.१९ ॥

अन्नदानं महाराज जलं चैव तु पुष्कलम्  ।

पितृभ्यः प्रयतो दद्यात्तीर्थे चैवामरेश्वरे  ॥ ५२.२० ॥

तीर्थानि पुण्यक्षेत्राणि यानि वै कीर्तितानि च  ।

काममोक्षप्रदानीह सर्वसिद्धिकराणि च  ॥ ५२.२१ ॥

सर्वेषामेव तेषां तु माता वै परिकीर्तिता  ।

नर्मदा सरिता श्रेष्ठा सप्तकल्पवहा शुभा  ॥ ५२.२२ ॥

तपसो यज्ञदानानां संख्या तीर्थेषु विद्यते  ।

नर्मदायां न संख्यास्ति तेषामित्याह शङ्करः  ॥ ५२.२३ ॥

यथा शिवस्तथा रेवा पूजनीया प्रयत्नतः  ।

एषु ये तु कुकर्माणः पापा दानविवार्जिताः  ॥ ५२.२४ ॥

पथा घोरेण ते यान्ति दक्षिणेन यमालयम्  ।

षडशीतिसहस्राणि योजनानां समन्ततः  ॥ ५२.२५ ॥

पुरं ज्ञेयं महारौद्रं नानारूपैरधिष्ठितम्  ।

समीपस्थमिवाभाति नराणां क्रूरकर्मणाम्  ॥ ५२.२६ ॥

पापिनामपि दूरस्थं पथा रौद्रेण यान्ति ते  ।

तीव्रकण्टकयुक्तेन शर्कराभूषितेन च  ॥ ५२.२७ ॥

क्षुरधारावृतैस्तीक्ष्णैः पाषाणैर्निर्मितेन च  ।

केचित्त्वनेन महता दारुदारैश्च घातकैः  ॥ ५२.२८ ॥

लोहसूचीभिरुग्राभिर्ग्रस्तेन च क्वचित्क्वचित् ।

लताप्रतानविषमैः पर्वतैर्वृक्षसंकुलैः  ॥ ५२.२९ ॥

सुतप्ताङ्गारयुक्तेन यान्ति मार्गेण दुःखिताः  ।

क्वचिद्विषमगर्ताभिस्तप्तलोष्टेष्टकैरपि  ॥ ५२.३० ॥

सुतप्तबालुकाभिश्च तथा तीक्ष्णैश्च शङ्कुभिः  ।

अनेकभग्नशाखाभिरावृतेन क्वचित्क्वचित् ॥ ५२.३१ ॥

कष्टेन तमसा केचिद्गच्छन्ति हि यमालयम्  ।

मार्गस्थाङ्गारकैस्तप्तैर्ग्रस्ता दावाग्निभिस्तथा  ॥ ५२.३२ ॥

क्वचित्तप्तशिलाभिश्च पङ्केन कटिमानतः  ।

क्वचिद्दुष्टाम्बुना व्याप्तं दुष्करीषाग्निना क्वचित् ॥ ५२.३३ ॥

क्वचिद्गृध्रैर्बकैर्व्याघ्रैर्दुष्टैः कीटैः सुदारुणैः  ।

क्वचिन्महाकुलीराद्यैः क्वचित्त्वजगरैः पुनः  ॥ ५२.३४ ॥

मक्षिकाभिश्च रौद्राभिः क्वचित्सर्पैर्विषोल्वणैः  ।

मत्तमातङ्गयूथैश्च समन्ताच्च प्रमाथिभिः  ॥ ५२.३५ ॥

पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महाबलैः  ।

सिंहैर्विषाणमहिषैर्रौद्रैर्मत्तैश्च श्वापदैः  ॥ ५२.३६ ॥

डाकिनीभिश्च रौद्राभिर्विकरालैश्च राक्षसैः  ।

व्याधिभिश्च महाघोरैः पावकैश्च दुरासदैः  ॥ ५२.३७ ॥

महानलविमिश्रेण महाचण्डेन वायुना  ।

महापाषाणवर्षेण भिद्यमाना निराश्रयाः  ॥ ५२.३८ ॥

क्वचित्क्वचित्प्रतप्तेन दीप्यमाना व्रजन्ति हि  ।

महता व बाणवर्षेण भिद्यमानाः समन्ततः  ॥ ५२.३९ ॥

पतद्भिर्वज्रसङ्घातैरुल्कापातैश्च दारुणैः  ।

प्रदीप्ताङ्गारवर्षेण हन्यमाना व्रजन्ति हि  ॥ ५२.४० ॥

महाघोररवैर्घोरैर्वित्रस्यन्तो मुहुर्मुहुः  ।

निशितायुधवर्षेण पूर्यमाणाश्च सर्वशः  ॥ ५२.४१ ॥

महाक्षराम्बुधाराभिः सिच्यमाना मुहुर्मुहुः  ।

महाशीतेन रौद्रेण क्षुरधारादिभिस्तथा  ॥ ५२.४२ ॥

अन्यैर्बहुविधाकारैः शतशोऽथ सहस्रशः  ।

इत्थं च तप्तरौद्रेण मार्गेण विषमेण च  ॥ ५२.४३ ॥

अविश्रान्तेन महता ह्यविदूरेण भारत  ।

अविदूरेण कष्टेन सर्वदुःखाश्रयेण च  ॥ ५२.४४ ॥

नीयन्ते देहिनः सर्वे मूढाः पापपरायणाः  ।

यमदूतैर्महाघोरैर्यमाज्ञाकारिभिर्बलात् ॥ ५२.४५ ॥

एकाकिनः पराधीना मित्रबन्धुविवर्जिताः  ।

शोचन्तः स्वानि कर्माणि दह्यन्ते च मुहुर्मुहुः  ॥ ५२.४६ ॥

प्रेतभूतविमिश्राश्च शुष्ककण्ठोष्ठतालुकाः  ।

कृशाङ्गा भीतभीताश्च दह्यमाना हुताग्निना  ॥ ५२.४७ ॥

बद्धाः शृङ्खलया केचित्मज्जन्तः पापिनो भृशम्  ।

कृष्यन्ते दह्यमानास्तु यमदूतैर्बलोत्कटैः  ॥ ५२.४८ ॥

उरस्यधोमुखस्थाने तथैव खलु दुःखिताः  ।

केशपाशे विबद्धाश्च कृष्यन्ते पापिनस्तथा  ॥ ५२.४९ ॥

ललाटे चाशुगैर्बिद्ध्वा कृष्यन्ते देहिनः क्वचित् ।

उत्ताना दुष्टपन्थानं नीयन्ते पापकर्मणा  ॥ ५२.५० ॥

पार्श्वबाहुविबद्धाश्च जठरे परिपीडिताः  ।

ग्रीवापाशविकृष्याश्च केऽपि यान्ति सुदुःखिताः  ॥ ५२.५१ ॥

जिह्वाशङ्कुप्रदानेन समानीयकृकाटिकाः  ।

अर्द्धचन्द्रेण गृह्यन्ते क्षिप्यमाणा इतस्ततः  ॥ ५२.५२ ॥

शिश्ने च वृषणे चैव रज्ज्वा बद्धास्तथा परो  ।

विच्छिन्नहस्तपादाश्च छिन्नकर्णोष्ठनासिकाः  ॥ ५२.५३ ॥

विच्छिन्नशिश्नवृषणाश्छिन्नशीर्षाङ्गसंचयाः  ।

अङ्कुशैर्भिद्यमानास्तु खाद्यमानाः सरीसृपैः  ॥ ५२.५४ ॥

इतश्चेतश्च धावन्ति क्रन्दमाना निराश्रयाः  ।

मुद्गारैर्लोहदण्डैश्च हन्यमाना मुहुर्मुहुः  ॥ ५२.५५ ॥

कशाभिर्विविधाभिश्च घोराभिश्च समन्ततः  ।

भिन्दिपालैश्च तुद्यन्ते वमन्तः शोणितं मुहुः  ॥ ५२.५६ ॥

पात्यमानाश्च सलिले छायां वै प्रार्थयन्ति च  ।

दानहीनाः प्रयान्त्येवं प्रायश्चित्तकृतो नराः  ॥ ५२.५७ ॥

गृहीत्वा चैव पाथेयं सुखं याति यमालयम्  ।

एवं पथा निकृष्टेन प्राप्ता यमपुरं नराः  ॥ ५२.५८ ॥

प्राज्ञापितैस्तथा दूतैः प्रवेश्यन्ते यमाग्रतः  ।

तत्र ये शुभकर्माणस्तान् वै संस्मारयेद्यमः  ॥ ५२.५९ ॥

स्वागतासनदानेन पाद्यार्घेण प्रियेण च  ।

धन्या यूयं महात्मानात्मनो हितकारिणः  ॥ ५२.६० ॥

यैस्तु दिव्यसुखार्थं हि भवद्भिः सुकृतं कृतम्  ।

नर्मदातटमाश्रित्य पर्वतेऽमरकण्टके  ॥ ५२.६१ ॥

दानं दत्तं तपस्तप्तं हुतं चेष्टं विधानतः  ।

वाराणस्यां कुरुक्षेत्रे प्रयागे पुष्करे तथा  ॥ ५२.६२ ॥

गयायां नैमिषारण्ये गङ्गासागरसङ्गमे  ।

केदारे भरैवे चापि प्रभासे शशिभूषणे  ॥ ५२.६३ ॥

महाकालवने रम्ये श्रीशैले त्रिपुरान्तके  ।

त्रैयम्बके धौतपापे नीलकण्ठे तथैव च  ॥ ५२.६४ ॥

गङ्गाद्वारे हिमद्वारे तथा कालञ्जरे गिरौ  ।

एतेष्वन्येषु तीर्थेषु क्षेत्रेषु च यथाक्रमम्  ॥ ५२.६५ ॥

लब्धं जन्मफलं चैव भवद्भिर्नात्र संशयः  ।

इदं विमानमारुह्य दिव्यस्त्रीभोगभूषितम्  ॥ ५२.६६ ॥

संगच्छध्वं शिवं स्वर्गं सर्वकामसमन्वितम्  ।

तत्र भुक्त्वा महाभोगाननन्तान् पुण्यसंख्यया  ॥ ५२.६७ ॥

यत्किंचिदन्यदशुभं स्वल्पं तदपि भोक्ष्यथ  ।

आख्यातं तु मया तावत्कल्पगातीरवासिनः  ॥ ५२.६८ ॥

आरोहन्ति विमानानि सर्वेषामुपरि स्थिताः  ।

सर्वतीर्थेषु संख्यास्ति ह्युक्तं ब्रह्मादिभिः पुरा  ॥ ५२.६९ ॥

तत्र यद्दीयते दानं तेन स्वर्गे महीयते  ।

म्रियते तत्र यः कश्चिद्व्रतेनानशनेन च  ॥ ५२.७० ॥

दिव्ययानं समाश्रित्य स प्रयाति शिवालयम्  ।

एतत्ते कथितं राजन् कल्पगापुण्यमुत्तमम्  ॥ ५२.७१ ॥

पश्यन्ति पुण्यकर्माणो यमं मित्रमिवात्मनः  ।

ये पुनः क्रूरकर्माणस्ते पश्यन्ति भयानकम्  ॥ ५२.७२ ॥

दंष्ट्रा करालवदनं भ्रुकुटीकुटिलेक्षणम्  ।

ऊर्द्ध्वकेशं महाश्मश्रुं स्फुरदोष्ठाधरोत्तरम्  ॥ ५२.७३ ॥

अष्टादशभुजं क्रूरं नीलाञ्जनचयोपमम्  ।

सर्वायुधोह्यतकरं गर्जन्तं दण्डपाणिनम्  ॥ ५२.७४ ॥

महामहिषमारूढं तप्ताग्निसमलोचनम्  ।

रक्तमाल्याम्बरधरं महामेरुमिवोत्थितम्  ॥ ५२.७५ ॥

प्रलयाम्बुदनिर्घोषं पिबन्तमिव वारिधीन्  ।

ग्रसन्तमिव त्रैलोक्यमुद्गिरतमिवानलम्  ॥ ५२.७६ ॥

मृत्युस्तस्य समीपस्थः कालानलसमप्रभः  ।

कालश्चाञ्जनसंकाशः कृतान्तश्च भयानकः  ॥ ५२.७७ ॥

विविधा व्याधयस्तीक्ष्णा नानारूपा भयानकाः  ।

शक्तिशूलाङ्कुशधराः पाशचक्रासिपाणयः  ॥ ५२.७८ ॥

वज्रदंष्ट्राधरा रौद्राः क्रूराश्चाञ्जनसन्निभाः  ।

सर्वायुधोद्यतकरा यमदूताश्च घातकाः  ॥ ५२.७९ ॥

एवं विधं यमं तत्र पश्यन्ति पापचारिणः  ।

निर्भयो याति चात्यर्थं यमो वा पापकारिणम्  ॥ ५२.८० ॥

चित्रगुप्तश्च भगवान् धर्मं तेषां प्रबोधयन्  ।

भो भो दुष्कृतकर्माणः परद्रव्यापहारकाः  ॥ ५२.८१ ॥

गार्जिता रूपवीर्येण परदारोपमर्दकाः  ।

यस्तु यत्कुरुते कर्म तेन तद्भुज्यते पुनः  ॥ ५२.८२ ॥

तत्किमात्मोपघातार्थं भवद्भिर्दुष्कृतं कृतम्  ।

किमर्थं परितप्यध्वं पीड्यमानाः स्वकर्मभिः  ॥ ५२.८३ ॥

भुज्यन्ते स्वानि कर्माणि नास्ति दोषोऽत्र कस्यचित् ।

एते च पृथिवीपालाः संप्राप्ताश्च महीपते  ॥ ५२.८४ ॥

स्वकीयैः कर्मभिर्घोरैर्दुष्प्रज्ञाबलगर्विताः  ।

भो भो नृपा दुराचाराः प्रजाविध्वंसकारिणः  ॥ ५२.८५ ॥

स्वल्पकालस्य राज्यस्य किं वै तद्दुष्कृतं कृतम्  ।

भवद्भी राज्यलोभेन मोहेनान्यायवृत्तिभिः  ॥ ५२.८६ ॥

यद्गृहीतं फलं तस्य यूयं भुङ्ग्ध्वं यथातथम्  ।

कुत्र राज्यं कलत्रं वा यदर्थमशुभं कृतम्  ॥ ५२.८७ ॥

तत्सर्वस्वं परित्यज्य यूयमेकाकिनस्तथा  ।

त्वद्बान्धवा न पश्यन्ति येन विध्वंसिताः प्रजाः  ॥ ५२.८८ ॥

यमदूतैः पात्यमाना अधुना कीदृशं भवेत् ।

एवं बहुविधैर्वाक्यैरुपलब्धा यमेन ते  ॥ ५२.८९ ॥

शोचन्ति स्वानि कर्माणि तूष्णीं भूताश्च पार्थिव  ।

इति वाक्यैः समादिश्य नृपांस्तान् धर्मराट्ततः  ॥ ५२.९० ॥

तेषां पापविशुद्ध्यर्थं यमो दूतानथाब्रवीत् ।

भो भोश्चण्ड महाचण्ड गृहीत्वा नृपतीनिमान्  ॥ ५२.९१ ॥

विशोधयध्वं पापेभ्यः क्रमेण नरकाग्निना  ।

ततः शीघ्रं समास्थाय नृपान् संगृह्य पादयोः  ॥ ५२.९२ ॥

भ्रामयित्वा तु वेगेन चिक्षिपुर्यमकिङ्कराः  ।

सर्वे वेगेन महता सुप्रतप्ते महीतले  ॥ ५२.९३ ॥

आस्फालयन्ति महति चाश्मसारमये द्रुमे  ।

ततस्ते सर्व एवाशु प्रहारैर्जर्जरीकृताः  ॥ ५२.९४ ॥

विसंज्ञाश्च तदा सन्ति निश्चेष्टाश्च युधिष्ठिर  ।

ततस्ते वायुना स्पृष्टाः शनैस्तु जीविताः पुनः  ॥ ५२.९५ ॥

तानानीय विशुद्ध्यर्थं क्षिपन्ति नरकार्णवे  ।

अष्टाविंशतिरेवाद्यास्तीव्रानरककोटयः  ॥ ५२.९६ ॥

सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः  ।

अतिघोरा च रौद्रा च तथा घोरतमा स्थिता  ॥ ५२.९७ ॥

अत्यन्तदुःखजननी घोररूपा च पञ्चमी  ।

षष्ठी तरणताराख्या सप्तमी च भयानका  ॥ ५२.९८ ॥

अष्टमी कालरात्रिश्च नवमी च घटोत्कटा  ।

दशमी चैव चण्डा च महाचण्डा ततोऽप्यधः  ॥ ५२.९९ ॥

चण्डकोलाहला चैव प्रचण्डा च पराग्निका  ।

जघन्या ह्यवरा लोमा भीषणी चैव नायिका  ॥ ५२.१०० ॥

कराला विकराला च वज्रविंशतिराश्रिता  ।

अस्ता च पञ्चकोणा च सुदीर्घा परिवर्तुला  ॥ ५२.१०१ ॥

सप्तभौमाष्टभौमा च दीर्घमायेतिहापरा  ।

इति ता नामतः प्रोक्ता घोरा नरककोटयः  ॥ ५२.१०२ ॥

अष्टाविंशतिरेतास्तु भूतानां मानतः स्मृताः  ।

तासां क्रमेण विज्ञेयाः पञ्चपञ्चैव नायका  ॥ ५२.१०३ ॥

प्रत्येकं सर्वकोटीनां नामतस्तु विशाम्पते  ।

रौरवः प्रथमस्तेषां रुदन्ति यत्र देहिनः  ॥ ५२.१०४ ॥

महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि  ।

तमः शीतं तथा चोष्णं पञ्चैते नायकाः स्मृताः  ॥ ५२.१०५ ॥

अघोरः प्रथमस्तीक्ष्णः पद्मः संजीवनः शठः  ।

महामायो विलोमश्च कण्टकः कटकः स्मृतः  ॥ ५२.१०६ ॥

तीव्रो वामः करालश्च किङ्करालः प्रकम्पनः  ।

महाचक्रः सुपद्मश्च कालसूत्रः प्रगर्जनः  ॥ ५२.१०७ ॥

सूचीमुखः सुनेमिश्च खादकः सुप्रपीडितः  ।

कुम्भीपाकः सुपाकश्च क्रकचश्च सुदारुणः  ॥ ५२.१०८ ॥

अङ्गाररात्रिः पचनः असृक्पूयभवस्तथा  ।

सुतीक्ष्णाः शण्डशकुनी महासंवर्तकः क्रतुः  ॥ ५२.१०९ ॥

तप्तजन्तुः पङ्कलेषः पूतिमान् च ह्रदस्त्रपुः  ।

उच्छ्वासश्च निरुच्छ्वासः सुदीर्घः क्रूरशाल्मली  ॥ ५२.११० ॥

उष्ट्रितस्तु महानादः प्रवाहः सुप्रवाहनः  ।

वृषाश्रयो वृषाश्वश्च सिंहव्याघ्रगजाननाः  ॥ ५२.१११ ॥

श्वशूकराजमहिषमेषमूषखराननाः  ।

ग्राहकुम्भीरनक्रास्या महाघोरा भयानकाः  ॥ ५२.११२ ॥

सर्वभक्षाः स्वभक्षाश्च सर्वकर्माऽश्ववायसाः  ।

गृध्रोलूक उलूकश्च शार्दूलकपिकच्छुराः  ॥ ५२.११३ ॥

गण्डकः पूतिवक्त्रश्च रक्तास्यः पूतिमूत्रिकः  ।

कणधूम्रस्तुषाराग्निः कृमिमान्निरयस्तथा  ॥ ५२.११४ ॥

आतोद्यश्च प्रतोद्यश्च रुधिरोद्यश्च भोजनम्  ।

कालात्मगोऽनुभक्षश्च सर्वभक्षः सुदारुणः  ॥ ५२.११५ ॥

कर्कटस्तु विशालश्च विकटः कटपूतनः  ।

अम्बरीषः कटाहश्च कष्टा वैतरणी नदी  ॥ ५२.११६ ॥

सुतप्तो लोहशङ्कुश्च एकपादोऽश्रुपूरणः  ।

असिपत्रवनं घोरमस्थिलिङ्गं प्रतिष्ठितम्  ॥ ५२.११७ ॥

तिलातसीक्षुयन्त्राणि कूटपापप्रमर्दनाः  ।

महाचुल्ली विचुल्ली च तप्तलोहमयी शिला  ॥ ५२.११८ ॥

पर्वतः क्षुरधाराख्यो मयो यमलपर्वतः  ।

सूचीविष्ठान्धकूपाश्च पतनः पातनस्तथा  ॥ ५२.११९ ॥

मुशली वृषली चैवाशिवा सङ्कटला तथा  ।

तालपत्रासिगहनं महामोहक एव च  ॥ ५२.१२० ॥

संमोहनोऽस्थिभङ्गश्च तप्ताचलमयोऽगुणः  ।

बहुदुःखो महादुःखः कश्मलो यमलस्तथा  ॥ ५२.१२१ ॥

हालाहलो विरूपश्च श्वरूपश्च्युतमानसः  ।

एकपादस्त्रिपादश्च तीव्रश्च विदितस्ततः  ॥ ५२.१२२ ॥

अष्टाविंशतिरित्येते क्रमशः पञ्चकाः स्मृताः  ॥ ५२.१२३ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नरकवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५३

 

मार्कण्डेय उवाच –

कोटी नामनुरूपाश्च पञ्चपञ्चैव नायकाः  ।

रौरवाद्यं मरीच्यन्तं नरकानां शतं स्मृतम्  ॥ ५३.१ ॥

चत्वारिंशत्समधिकं महानरकमण्डलम्  ।

एकक्रमात्प्रभुज्यन्ते नरैः कर्मानुरूपतः  ॥ ५३.२ ॥

कामनाभिर्विरूपाभिरकर्मप्रचयाद्द्रुतम्  ।

सुगूढया ततो ध्वान्ते तप्तशृङ्खलया नराः  ॥ ५३.३ ॥

महावृक्षस्य शाखायां लम्ब्यन्ते यमकिङ्करैः  ।

ततस्तान् सर्वतश्चैव दोलयन्ति हि किङ्कराः  ॥ ५३.४ ॥

दोलिताश्चातिवेगेन निःसंज्ञां यान्ति पापिनः  ।

अन्तरिक्षे स्थितानां च लोहभारशतं तदा  ॥ ५३.५ ॥

पादयोर्बध्यते तेषां यमदूतैर्बलोत्कटैः  ।

तेन भारेण महता भृशं सन्तापिता नराः  ॥ ५३.६ ॥

ध्यायन्ति स्वानि कर्माणि तूष्णीं तिष्ठन्ति निश्चलाः  ।

ततः क्रमादग्निवर्णैर्लोहदण्डैः सकण्टकैः  ॥ ५३.७ ॥

निहन्यन्ते प्रयत्नेन यमदूतैश्च मस्तके  ।

विष्ठापूर्णे ततः कूपे कृमीणां निलये ततः  ॥ ५३.८ ॥

समन्तात्किङ्करैर्घोरैः पच्यन्ते पापकारिणः  ।

ततः क्षारेण नीरेण वह्णावपि विशेषतः  ॥ ५३.९ ॥

वार्ताकवत्प्रपच्यन्ते तप्ते लोहकटाहके  ।

अमेध्यकूपे प्रक्षिप्य जलजन्तु समाकुले  ॥ ५३.१० ॥

मेदोसृक्पूयपूर्णायां वाप्यां क्षिप्तास्तु ते ततः  ।

भक्षन्ते कृमिभिस्तीक्ष्णैर्लोहतुण्डैश्च वायसैः  ॥ ५३.११ ॥

पच्यन्ते मांसवच्चापि प्रदीप्ताङ्गारराशिषु  ।

प्रोताः शूलेषु तीक्ष्णेषु नराः पापसमन्विताः  ॥ ५३.१२ ॥

पच्यन्ते पापिनस्ते वै यमदूतैरनेकधा  ।

तैलपूर्णकटाहेषु सुतप्तेषु ततः पुनः  ॥ ५३.१३ ॥

तेषां चोत्पाट्यते जिह्वा असत्या प्रियवादिनाम्  ।

सुदृढेन सुतप्तेन प्रपीड्योरसि पादतः  ॥ ५३.१४ ॥

मिथ्यागमप्रयुक्तस्य द्विजस्यापि तथैवच  ।

यज्ञार्थकोशविस्तीर्णं भल्लैस्तीक्ष्णैः प्रतोद्यते  ॥ ५३.१५ ॥

निर्भत्सयन्ति ये मूढा मातरं पितरं तेषां  ।

तेषां वक्त्रं बालुकाभिर्मुहुरापूर्य सिच्यते  ॥ ५३.१६ ॥

ततः क्षारेण दीप्तेन पयसा तु पुनः पुनः  ।

द्रुतं सम्पूर्यतेऽत्यर्थं तप्ततैलेन तन्मुखम्  ॥ ५३.१७ ॥

विष्ठाभिः कृमिपूर्णाभिः श्वानवच्चरणैर्भटैः  ।

परिपीड्य विषाणेन प्रविष्टा लोहशाल्मलीम्  ॥ ५३.१८ ॥

हन्यन्ते पृष्ठदेहेषु पुनर्भीमैर्महाबलैः  ।

दन्तुरेणातिकुण्ठेन क्रकचेन बलीयसा  ॥ ५३.१९ ॥

शिरः प्रभृति पाट्यन्ते घोरैः कर्मभिरात्मजैः  ।

खादयन्ति स्वमांसानि पाययन्ति स्वशोणितम्  ॥ ५३.२० ॥

अन्नं पानं न दत्तं यैर्मूढैर्नाप्यनुमोदितम्  ।

इक्षुवत्ते प्रपीड्यन्ते जर्जरीकृत्य मुद्गरैः  ॥ ५३.२१ ॥

असितालवने घोरे छिद्यन्ते खण्डखण्डशः  ।

सूचीभिर्भिन्नसर्वाङ्गास्ततः शूले प्ररोपिताः  ॥ ५३.२२ ॥

चाचल्यमानाः कृष्यन्ते न म्रियन्ते तथापि च  ।

देहादुत्पाट्यते मांसं तेषामस्थीनि मुद्गरैः  ॥ ५३.२३ ॥

बहुशः कृष्यते तूर्णं यमदूतैर्बलोत्कटैः  ।

तेऽनुच्छ्वासेनानुछ्वासास्तिष्ठन्ति नरके चिरम्  ॥ ५३.२४ ॥

उच्छ्वासे च सदोच्छ्वासा बालुकावदनावृताः  ।

रौरवेषु तु दन्ते वै पीड्यन्ते विविधैश्चरैः  ॥ ५३.२५ ॥

महारौरवपीडाभिर्महान्तोऽपि रुदन्ति हि  ।

उपस्थास्ये गुदे पार्श्वे पादे चोरसि मस्तके  ॥ ५३.२६ ॥

निहन्यन्ते भटैस्तीक्ष्णैः सुतप्तैर्लोहमुद्गरैः  ।

निन्दन्ति ये स्वरूपेण परदारान् हसन्ति च  ॥ ५३.२७ ॥

आलिङ्गन्ति पतीनन्यान्न विन्दन्ति स्वकान् स्त्रियः  ।

किमु धावसि वेगेन न स्मरेरतिशाश्वतीम्  ॥ ५३.२८ ॥

वञ्चितश्च त्वया भर्ता पापान्धश्च यथा सुखम्  ।

लोहकुम्भे विनिक्षिप्ताः चिताश्च शनैः शनैः  ॥ ५३.२९ ॥

समृद्धाग्नौ प्रपाच्यन्ते प्रवेश्यन्ते शिलासु च  ।

क्षिप्यन्ते चान्धकूपेषु दश्यन्तेऽजगरैर्भृशम्  ॥ ५३.३० ॥

ये निन्दन्ति महात्मानमाचार्यं धर्मर्दर्शिनम्  ।

शिवभक्तं च विप्रं च शिवधर्मं च शाश्वतम्  ॥ ५३.३१ ॥

तेषामुरसि कण्ठे च जिह्वायां देहसन्धिषु  ।

कीलकैरोष्ठपुटके कील्यन्ते यमकिङ्करैः  ॥ ५३.३२ ॥

एवमादिमहाघोरा यातनाः पापकर्मिणाम्  ।

एकैक नरके ज्ञेयाः शतशोऽथ सहस्रशः  ॥ ५३.३३ ॥

यातना गहना राजन् सर्वेषां पापकर्मिणाम्  ।

इत्येव यातनानन्ताः सर्वेषु नरकेषु च  ॥ ५३.३४ ॥

कस्ता वर्षशतेनापि वक्तुं शक्नोति मानवः  ।

इत्येवं विविधैर्घोरैः पात्यमानाः स्वकर्मभिः  ॥ ५३.३५ ॥

क्रमात्सर्वेषु पच्यन्ते नरकेषु न संशयः  ।

महापातकिनश्चापि सर्वेषु नरकेषु च  ॥ ५३.३६ ॥

आचन्द्रतारकं यावत्पीड्यन्ते विविधैश्चरैः  ।

तथा पातकिनः सर्वे निरयेष्वेषु सर्वदा  ॥ ५३.३७ ॥

चतुर्दिक्षु सुपच्यन्ते नरकेषु न संशयः  ।

उपपातकिनश्चापि तदर्द्धं यान्ति मानवाः  ॥ ५३.३८ ॥

मृत्युर्न ज्ञायते तात कदा कस्य भविष्यति  ।

प्राप्ते चाकस्मिके मृत्यौ वर्षं विन्दति को नरः  ॥ ५३.३९ ॥

परित्यज्य यतः सर्वमेकाकी यास्यसि ध्रुवम्  ।

तस्मात्सर्वप्रयत्नेन सत्यधर्मपरो भव  ॥ ५३.४० ॥

एतत्ते सर्वमाख्यातं नरकाणा तु लक्षणम्  ॥ ५३.४१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नरकायातनानुवर्णनो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५४

 

युधिष्ठिर उवाच –

तीर्यते केन धर्मेण संसाराब्धिः सुदुस्तरः  ।

 

मार्कण्डेय उवाच –

तेन निर्भर्त्सितैः पापैः कथ्यमानां कथां शृणु  ॥ ५४.१ ॥

रक्तो मूढश्च लोकोऽयमकार्ये संप्रवर्तते  ।

न चात्मानं विजानाति न परं न च दैवतम्  ॥ ५४.२ ॥

न शृणोति परं श्रेयः सति चक्षुषि नेक्षते  ।

समे पथि शनैर्गच्छन् प्लवते स्म पदे पदे  ॥ ५४.३ ॥

एवमुक्तो धर्मराजः संक्षेपात्पापदेहिनाम्  ।

विस्तरेण यदा चख्यौ तेषां तच्छृणु साम्प्रतम्  ॥ ५४.४ ॥

 

यम उवाच –

मया मुक्तो न जानाति बोध्यमानो बुधैरपि  ।

संसारे क्लिश्यते नाना रागलोभवशात्नरः  ॥ ५४.५ ॥

गर्भपातेन भावेन शास्त्रमुक्तं न बुध्यते  ।

नरैर्न श्रूयते कर्म स्वर्गमोक्षप्रसाधकम्  ॥ ५४.६ ॥

सन्तप्यति शिवध्याने सर्वकामार्थसाधने  ।

नरकादात्मनः श्रेयो यदत्र महदद्भुतम्  ॥ ५४.७ ॥

प्रेतभूता नराः सर्वे यमलोकं समागताः  ।

आख्यानं कथयिष्यामि यथोद्दिष्टं पुरातनम्  ॥ ५४.८ ॥

सूर्येण कथितं त्वासीन्नर्मदाख्यानमुत्तमम्  ।

देवतानां पितॄणां च मम पित्रानुकम्पया  ॥ ५४.९ ॥

सपादलक्षमधिकं ब्रह्मणा कथितं रवेः  ।

तत्र श्रुतं मया कृत्स्नं ब्रह्मणा तु शिवाच्छ्रुतम्  ॥ ५४.१० ॥

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य तु  ।

जम्बूद्वीपं समासाद्य मानुषीं योनिमाश्रितः  ॥ ५४.११ ॥

नाश्रयेन्नर्मदां देवीं सप्तकल्पवहां तु यः  ।

स्नानावगाहनात्पानात्तथा दानक्रियादिभिः  ॥ ५४.१२ ॥

लोकेऽस्मिन् गतिदा कान्या पापोपहतचेतसाम्  ।

ये ध्यायन्ति महादेवीं नर्मदां पापहारिणीम्  ॥ ५४.१३ ॥

अघानि तेषां नश्यन्ति तमः सूर्योदये यथा  ।

नर्मदां संस्मरेद्यस्तु कीर्तयेद्यस्तु वा गिरा  ॥ ५४.१४ ॥

परलोकं समायातो यमदूतैर्न बाध्यते  ।

नर्मदां कीर्तयेद्यस्तु पापकर्मा नराधमः  ॥ ५४.१५ ॥

नरकान् समयोद्दिष्टान्न च क्रामति कर्हिचित् ।

गङ्गाद्याः सरितस्तत्र तीर्थकोटिरनेकधा  ॥ ५४.१६ ॥

रेवातेजः प्रतापेन शुद्धिं गच्छन्ति तत्क्षणात् ।

नरकस्थः स्मरेद्यस्तु मेकलां तु हरं हरिम्  ॥ ५४.१७ ॥

मुच्यते यमदूतैः स तत्क्षणान्नात्र संशयः  ।

यदि तिष्ठति वैदूर्यपर्वतेऽमरकण्टके  ॥ ५४.१८ ॥

ओंकारः परमेशानो भुक्तिमुक्तिफलप्रदः  ।

किमर्थं त्विह शोचन्ति पापोपहतचेतसः  ॥ ५४.१९ ॥

सिद्धेश्वरं सिद्धलिङ्गं लोकानुग्रहकारकम्  ।

यज्ञेश्वरं च मध्ये तु तत्रैव शशिभूषणम्  ॥ ५४.२० ॥

नर्मदा दक्षिणे भागे लिङ्गं चैव महेश्वरम्  ।

चतुर्थं कपिलेशं च शिवक्षेत्रं विदुर्बुधाः  ॥ ५४.२१ ॥

येऽर्चयन्ति सदा भक्त्या पुष्पधूपार्तितर्पणैः  ।

शिवलोकं तु ते यान्ति नरकान्नात्र संशयः  ॥ ५४.२२ ॥

एतत्ते सर्वमाख्यातं यथा पृष्टं त्वयानघ  ।

पापिष्ठान्नॄनधर्मस्थान् कथयामास भारत (?)  ॥ ५४.२३ ॥ [स्तेह्त्सो दोर्त्]

गोदानं हेमदानं च तिलदानं तथैव च  ।

अन्नदानं पयोदानं सर्वोपस्करमेव च  ॥ ५४.२४ ॥

प्रासादारामदानं च ये कुर्वन्ति नरोत्तमाः  ।

यमलोकं न ते यान्ति नरकं घोररूपिणम्  ॥ ५४.२५ ॥

मुच्यन्ते सर्वपापेभ्यः शिवस्य वचनं यथा  ।

सन्मानं चापमानेन वियोगेनेष्टसङ्गमम्  ॥ ५४.२६ ॥

यौवनं जरया ग्रस्तं कष्टात्सौख्यमुपद्रुतम्  ।

वलिभिः पलितैश्चापि जर्जरीकृतविग्रहः  ॥ ५४.२७ ॥

किं करोति नरः प्राज्ञो जरया जर्जरीकृतः  ।

स्त्रीपुंसोर्यौवनं रूपं यदन्योऽन्यं प्रियंकरम्  ॥ ५४.२८ ॥

तदेव जरया ग्रस्तमुभयोरपि न प्रियम्  ।

अपूर्ववत्तथात्मानं शैथिल्येन समन्वितम्  ॥ ५४.२९ ॥

यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः  ।

जराभिभूतः पुरुषः पत्नीपुत्रादिबान्धवैः  ॥ ५४.३० ॥

अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते  ।

धर्ममर्थं च कामं च मोक्षं न जरया युतः  ॥ ५४.३१ ॥

शक्तः साधयितुं तस्मात्पुरा धर्मं समाचरेत् ।

वातपित्तकफादीनां वैषम्यं च युधिष्ठिर  ॥ ५४.३२ ॥

वातादीनां समूहश्च देहजः परिकीर्तितः  ।

तस्माद्व्याधिपरं ज्ञेयं शरीरमिदमात्मनः  ॥ ५४.३३ ॥

वातोत्पत्त्यतिरेकेण बाधितो वै ज्वरेण च  ।

रोगैर्नानाविधिभवैर्बहुदुःखान्यनेकधा  ॥ ५४.३४ ॥

तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम्  ।

एकोत्तरं मृत्युशतमस्मिन् देहे प्रतिष्ठितम्  ॥ ५४.३५ ॥

अत्रैकं कालरूपं च शेषास्त्वागन्तवः स्मृताः  ।

ये त्विहागन्तवः प्रोक्तास्ते प्रशाम्यन्ति भैषजैः  ॥ ५४.३६ ॥

जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति  ।

अपमृत्युश्च सर्वस्य विषमद्यादिसम्भवः  ॥ ५४.३७ ॥

न चातिपुरुषस्तस्मादपमृत्योर्बभेति वै  ।

विविधा व्याधयः कष्टाः सवैद्याः प्राणिनस्तथा  ॥ ५४.३८ ॥

विषाणि त्वभिचाराश्च मृत्योर्द्वाराणि देहिनाम्  ।

पीडितं रोगसर्पाद्यैरपि धन्वन्तरिः स्वयम्  ॥ ५४.३९ ॥

स्वस्थं कर्तुं न शक्नोति कालप्राप्तं हि देहिनम्  ।

नैषधं न तपो दानं न मित्राणि न बान्धवाः  ॥ ५४.४० ॥

परित्रातुं नो समर्थाः कालेन परिपीडितम्  ।

नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमो रिपुः  ॥ ५४.४१ ॥

नास्ति मृत्युसमः कालः सर्वेषामेव देहिनाम्  ।

सद्भार्या पुत्रमित्राणि राज्यैश्वर्यसुखानि च  ॥ ५४.४२ ॥

मृत्युश्छिनत्ति सर्वाणि विविधान्यपि भारत  ।

इदं ते कथितं राजञ्ज्ञातिसंसारदुस्तरम्  ॥ ५४.४३ ॥

परिणाम इति ज्ञात्वा सर्वङ्कालस्य भोजनम्  ।

तस्मात्सर्वप्रयत्नेन संसेव्या सप्तकल्पगा  ॥ ५४.४४ ॥

सर्वदुःखापहा नित्यं सर्वशोकविनाशिनी  ।

यो यान् कामयते कामांस्तांस्तान् देवी प्रयच्छति  ॥ ५४.४५ ॥

इदं ज्ञानमिदं ध्यानं पाण्डित्यं वेद वेदनम्  ।

निवासः सर्वभूतानां सेव्यते सप्तकल्पगा  ॥ ५४.४६ ॥

यज्ञो दानं तपः सत्यं स्वाध्यायः पितृतर्पणम्  ।

सफलं लभते तेषां यो रेवाम्बु निषेवते  ॥ ५४.४७ ॥

ब्रह्मकूर्चसहस्राणि सोमपानायुतं तथा  ।

नर्मदातोयपानस्य कलां नार्हन्ति षोडशीम्  ॥ ५४.४८ ॥

संयुक्तोऽपि महापापैर्नानाजन्मकृतैरपि  ।

ओंकारदक्षिणे घोरं मुच्यते तत्क्षणाज्जपन्  ॥ ५४.४९ ॥

गोदानान्न परं दानं त्रिषु लोकेषु विश्रुतम्  ।

नर्मदापयसि स्नात्वा यो दद्याद्गां द्विजन्मने  ॥ ५४.५० ॥

संख्यां कर्तुं यथावच्च न देवैरपि शक्यते  ॥ ५४.५१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कर्मगतियमवाक्यं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५५

 

युधिष्ठिर उवाच –

धेनुः कतिविधा प्रोक्ता कस्मिन् काले च दीयते  ।

सर्वोपस्करसंयुक्ता त्वत्त इच्छामि वेदितुम्  ॥ ५५.१ ॥

 

मार्कण्डेय उवाच –

शृणु राजन्महाबाहो कथ्यमानं निबोध मे  ।

कथयामि तवाख्यानमादिकल्पे कृते युगे  ॥ ५५.२ ॥

चक्रवर्ती शशाङ्कोऽभूत्सर्वधर्मभृतां वरः  ।

न च वर्णयितुं शक्यः सत्यधर्मव्रते स्थितः  ॥ ५५.३ ॥

बुभुजे स महीमेतामेकच्छत्रां समाहितः  ।

नवखण्डां सप्तद्वीपा यथा शक्रोऽमरावतीम्  ॥ ५५.४ ॥

हरिश्चन्द्रस्य तस्यापि संवादश्चक्रवर्तिनः  ।

हरिश्चन्द्रः कुरुक्षेत्रे गवामयुतमुत्तमम्  ॥ ५५.५ ॥

हेमभारमलङ्कारसर्वरत्नविभूषितम्  ।

ब्रह्मर्षिर्मुद्गलो नाम स्वयं ब्रह्म प्रतिष्ठितः  ॥ ५५.६ ॥

मुद्गलाश्च द्विजाः सर्वे सत्यधर्मपरायणाः  ।

शतमष्टोत्तरं साग्रं ब्राह्मणा ब्रह्मवादिनः  ॥ ५५.७ ॥

हरिश्चन्द्रो ददौ तेभ्यो राहुसूर्यसमागमे  ।

द्विजान् सम्पूज्य विधिच्छ्रद्धया परया युतः  ॥ ५५.८ ॥

अर्चयित्वा महेशानं स्थानं परमसिद्धिदम्  ।

चक्रपाणिं हृषीकेशं मुदा परमया युतः  ॥ ५५.९ ॥

सरस्वत्यां नृपश्रेष्ठ तिलदर्भान्वितस्य तु  ।

दानस्यास्य प्रभावेण लोकास्तेनाखिला जिताः  ॥ ५५.१० ॥

अन्तरिक्षे पुरी प्राप्ता सर्वलोकमनोहरा  ।

हरिश्चन्द्रपुरी ख्याता साऽस्मिल्लोके चराचरे  ॥ ५५.११ ॥

सत्यदानसर्वत्यागैरित्यादिभिरलंकृतः  ।

हरिश्चन्द्रसमो राजा न भूतो न भविष्यति  ॥ ५५.१२ ॥

एवं गाथा पुरा गीता शक्राद्यैः सुरसत्तमैः  ।

शशाङ्कोऽप्यकरोत्सर्वं नर्मदातीरमाश्रितः  ॥ ५५.१३ ॥

दानं यज्ञ तपः सत्यं पर्वतेऽमरकण्टके  ।

ददौ चार्धप्रसूतां ब्राह्मणाय महात्मने  ॥ ५५.१४ ॥

दानस्यास्य प्रभावेण हरिश्चन्द्राधिकोऽभवत् ।

अनेकभाविकं पापं दग्ध्वा तूलौघवच्छिखी  ॥ ५५.१५ ॥

यावद्वत्सस्य पादौ द्वौ मुखं योनौ प्रदृश्यते  ।

तावद्गौः पृथिवी ज्ञेया सशैलवनकानना  ॥ ५५.१६ ॥

स्वर्णशृङ्गी रौप्यखुरी सवत्सा कांस्यदोहना  ।

नर्मदास्नानयुक्ता तु सकुशा तिलसंयुता  ॥ ५५.१७ ॥

ओंकारामरयोर्मध्ये कोटितीर्थे नराधिपः  ।

एताः सहस्रसख्याता ब्राह्मणेभ्यो न्यवेदयत् ॥ ५५.१८ ॥

एतस्मिन्नन्तरे नेदुर्देवदुन्दुभयो दिवि  ।

तत्क्षणाद्यानमारूढो ज्वलन्मणिगणैरिव  ॥ ५५.१९ ॥

स्तूयमानः समीपस्थैरसंख्यातैर्विमानिभिः  ।

धृतस्वर्णातपत्रस्तु वीज्यमानस्तु चामरैः  ॥ ५५.२० ॥

योजनानां सहस्रेण हरिश्चन्द्रोऽप्यधः स्थितः  ।

तद्दृष्ट्वा तादृशं कर्म शशाङ्कस्य विशाम्पतेः  ॥ ५५.२१ ॥

स विनिन्द्य कुरुक्षेत्रं विस्मयाविष्टचेतनः  ।

महानद्यां शशाङ्केन राहुसोमसमागमे  ॥ ५५.२२ ॥

दत्तं दानं न सामान्यं भवेदिति समासतः  ।

विषण्णवदनो भूत्वा हरिश्चन्द्रो नृपोत्तमः  ॥ ५५.२३ ॥

ब्रह्मलोकं गतः क्षिप्रं यत्र लोकेश्वरः प्रभुः  ।

अभिवाद्य यथा न्यायं पप्रच्छ स पितामहम्  ॥ ५५.२४ ॥

दानेन निर्जिता देवाः शशाङ्केन महात्मना  ।

किं च पुण्यमिदं ब्रह्मन् कुरुक्षेत्राद्विशिष्यते  ॥ ५५.२५ ॥

अमरेश्वरतीर्थं तु नाम रेवासमुद्भवम्  ।

केनापि न समं भूतमुपर्युपरि दीप्यते  ॥ ५५.२६ ॥

इति श्रुत्वा वचस्तस्य हरिश्चन्द्रस्य धीमतः  ।

उवाच वचनं ब्रह्मा हरिश्चन्द्रं नृपोत्तमम्  ॥ ५५.२७ ॥

विषादं त्यज राजेन्द्र गहना कर्मणां गतिः  ।

शशाङ्कसदृशो राजा न दृष्टो न श्रुतो मया  ॥ ५५.२८ ॥

एवं वक्तुं न योग्योऽहं न देवापि सवासवाः  ।

अनेकानि सहस्राणि पुरा वै चक्रवर्तिना  ॥ ५५.२९ ॥

इष्टानि च विधानेन पर्वतेऽमरकण्टके  ।

राहुसूर्यसमायोगे तीर्थलक्षाणि भारत  ॥ ५५.३० ॥

सरस्वतीं कुरुक्षेत्रं पुष्करं नैमिषं तथा  ।

तीर्थान्येतानि चान्यानि स्नानं कर्तुं समाययुः  ॥ ५५.३१ ॥

मेकलायां हरिश्चन्द्र कोटितीर्थे नराधिप  ।

तीर्थानां त्यज राजेन्द्र साम्यं मेकलया सह  ॥ ५५.३२ ॥

वाराणस्या कुरुक्षेत्रं तोलितं च मया पुरा  ।

तीर्थानि न समं यान्ति तीर्थस्यास्य प्रभावतः  ॥ ५५.३३ ॥

ख्यातमात्रं कुरुक्षेत्रं लोकयात्राप्रवर्तकम्  ।

पुराणं न श्रुतं यैस्तु मिथ्याज्ञानसमन्वितैः  ॥ ५५.३४ ॥

सेव्यतां कल्पगा देवी यदीच्छेत्परमं पदम्  ।

नमस्कृत्य विधातारमयोध्याधिपतिस्तदा  ॥ ५५.३५ ॥

मुदा परमया युक्तः स ययावमरेश्वरम्  ।

एतत्सर्वं समाख्यातं यथावत्तव सुव्रत  ॥ ५५.३६ ॥

यः शृणोति नरो राजन् गोसहस्रफलं लभेत् ॥ ५५.३७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे गोदानमहिमानुवर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५६

 

मार्कण्डेय उवाच –

माहिष्मत्याः पश्चिमे वै तीर्थं पापहरं परम्  ।

अशोकवनिका नाम सर्वशोकविनाशनम्  ॥ ५६.१ ॥

स्नात्वा तत्रार्चयेद्गौरीं यथा विभवविस्तरैः  ।

मातङ्गस्याश्रम तद्वत्सिद्धगन्धर्वसेवितम्  ॥ ५६.२ ॥

शुक्लकृष्णातृतीयायां गन्धधूपविलेपनैः  ।

उपहारैरनेकैश्च दीपमालाप्रबोधनैः  ॥ ५६.३ ॥

तत्र या पूजयेन्नारी गौरीं भक्तिसमन्विता  ।

रूपसौभाग्यसम्पन्नं लभते सत्पतिं तु सा  ॥ ५६.४ ॥

कार्त्तिक्यां तु गतप्राणा मोदमाना तु संयता  ।

अस्य तीर्थस्य माहात्म्यात्प्राप्ता माहेश्वरं पुरम्  ॥ ५६.५ ॥

मातङ्गो नाम देवर्षिः पुराकल्पे युधिष्ठिर  ।

नर्मदातीरमाश्रित्य तपस्तेपे सुदुष्करम्  ॥ ५६.६ ॥

पुरा जन्मनिषादः स जातिं स्मरति पूर्विकाम्  ।

अघमर्षणदेशस्थः सर्वधर्म बुबोध च  ॥ ५६.७ ॥

महर्षीणां प्रसङ्गेन नर्मदादर्शनेन च  ।

पापबुद्धिं परित्यज्य धर्मबुद्धिं चकार सः  ॥ ५६.८ ॥

निर्विण्णोऽहं च भिक्षुश्चाधुना श्वपचयोनिषु  ।

एवमुक्त्वा ततो राजन्नशोकवनिकां गतः  ॥ ५६.९ ॥

जटावल्कलधारी च कन्दमूलफलाशनः  ।

दिव्यं वर्षसहस्रं तु शिवाराधनतत्परः  ॥ ५६.१० ॥

शिवध्यानपरः सोऽभूदुग्रे तपसि संस्थितः  ।

दिव्यं वर्षसहस्रं हि तथा तस्य तपस्यतः  ॥ ५६.११ ॥

एकाशीतिसहस्राणि जटाग्रेभ्यो विनिःस्मृताः  ।

स्वयं पतन्ति विविधा नर्मदातोयमध्यतः  ॥ ५६.१२ ॥

तत्क्षणाद्यक्षिणीरूपा अनन्ताश्चाप्रमाणिकाः  ।

श्यामवर्णाः सुतेजः काः सर्वाभरणभूषिताः  ॥ ५६.१३ ॥

यक्षलोकं व्रजन्त्याशु तीर्थस्यास्य प्रभावतः  ।

मन्त्रयन्त्रविहीनोऽपि शिवभक्तिपरायणः  ॥ ५६.१४ ॥

षडक्षरमिमं मन्त्रं हृदि चक्रे दिवानिशम्  ।

ओंनमः शिवाय इति सर्वमन्त्रोत्तमोत्तमम्  ॥ ५६.१५ ॥

तस्य भक्तिं परां ज्ञात्वा देवदेव उमापतिः  ।

प्रत्यक्षरूपो भगवान् छूलपाणिः समागतः  ॥ ५६.१६ ॥

उवाच वचनं देवो मातङ्गं प्रति भारत  ।

वरं वृणीष्व भद्रं ते ध्यानेनानेन सुव्रत  ॥ ५६.१७ ॥

 

मातङ्ग उवाच –

यदि तुष्टोऽसि देवेश वरं दातुमिहेच्छसि  ।

मातङ्गनाम्ना विख्यातिं तीर्थमेतत्प्रयातु वै  ॥ ५६.१८ ॥

चाण्डालाः श्वपचाश्चैव पापयोनिगताऽपि  ।

जपादि रहिताश्चापि मुच्यन्तेऽत्रापि किल्बिषात् ॥ ५६.१९ ॥

मातङ्गनामलिङ्गं तु नर्मदातीरमाश्रितम्  ।

स्नात्वा योऽत्रार्चयेत्तस्य भवेद्बन्धविमोक्षणम्  ॥ ५६.२० ॥

इदं वरमहं मन्ये त्वत्प्रसादात्महेश्वर  ।

तस्य तद्वचनं श्रुत्वा प्रत्युवाच शिवापतिः  ॥ ५६.२१ ॥

एवं भवतु तत्सर्वं मत्प्रसादान्न संशय  ।

एवमुक्त्वा ययौ देव कैलासं पर्वतोत्तमम्  ॥ ५६.२२ ॥

वरं सम्प्राप्य मातङ्ग उमामाहेश्वरं पुरम्  ।

कामिकं यानमारूढः सर्वाभरणभूषित  ॥ ५६.२३ ॥

जगामाशु चिरं भोक्तुं भोगान् स्नानप्रभावतः  ।

या चैत्रमासेऽमावास्या कृष्णपक्षे चतुर्दशी  ॥ ५६.२४ ॥

तस्यां तत्र हुतं दत्तमनन्तफलमश्नुते  ।

तिलोदकप्रदानेन पापयोनिगताऽपि  ॥ ५६.२५ ॥

सक्त्वाढ्यगुडपिण्डेन पितॄन्मोदयते तु यः  ।

पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश  ॥ ५६.२६ ॥

तिलतण्डुलमिश्रं यः कुर्याल्लिङ्गस्य पूजनम्  ।

सोऽपि वर्षसहस्राणि शिवलोके महीयते  ॥ ५६.२७ ॥

अशोकवनिका नाम मातङ्गं तीर्थमुच्यते  ।

रेवाया उत्तरे कूले कथितं तव भारत  ॥ ५६.२८ ॥

अथान्यत्कथयिष्यामि याम्यभागे व्यवस्थितम्  ।

तीर्थं मृगवनं नाम सर्वपापप्रणाशनम्  ॥ ५६.२९ ॥

तत्र स्नात्वाऽर्चयेद्विष्णुं शङ्खचक्रगदाधरम्  ।

एकादश्यां महाराज निराहारो निशां नयेत् ॥ ५६.३० ॥

हरिं मृगवने तत्र गन्धपुष्पैश्च पूजयेत् ।

एकस्मिन् भोजिते विप्रे लक्षं भवतु भोजितम्  ॥ ५६.३१ ॥

तिलोदकप्रदानेन पितॄणां वैष्णवं पदम्  ।

तत्रैव सन्निविष्टं तु वाराहं तीर्थमुत्तमम्  ॥ ५६.३२ ॥

यत्र वाराहरूपेण धरा चैव समुद्धृता  ।

विश्वरूपं तथा चान्यद्धरिणामिततेजसा  ॥ ५६.३३ ॥

पतिव्रता च नारी वै तथा मासोपवासिनी  ।

तत्र स्नात्वा विधानेन लोकं प्राप्नोति वैष्णवम्  ॥ ५६.३४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मातङ्गाश्रमवर्णनो नाम षट्पञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५७

 

मार्कण्डेय उवाच –

आख्यानं कथयिष्यामि ख्यातं मृगवनं यथा  ।

व्याध कश्चिद्दुराचारः सर्वभूतेषु निर्दयः  ॥ ५७.१ ॥

पाशहस्तो धनुष्पाणिर्विचरन् गिरिकन्दरे  ।

आजघान मृगान् सर्वान् कुटुम्बार्थे नृपोत्तम  ॥ ५७.२ ॥

ज्येष्ठे मासि तु संप्राप्ते निदाघे ज्वलनप्रभे  ।

भ्रमति स्म तृषार्तश्च वृक्षमूले समाश्रितः  ॥ ५७.३ ॥

रात्रौ स्वपिति निश्चेष्टो दुःखार्तश्च क्षुधान्वितः  ।

वनसंघर्षजो वह्निरुत्थितो गिरिकन्दरात् ॥ ५७.४ ॥

प्रदग्धं च वन तेन मृगव्याघ्रसमावृतम्  ।

भस्मीभूतं च तत्सर्वं रेणुभूतं च कृत्स्नशः  ॥ ५७.५ ॥

मेघागमोक्तकाले तु प्रवाहे नार्मदे शुभे  ।

कन्याराशिगते भानौ द्वादश्यां श्रवणेन तु  ॥ ५७.६ ॥

नर्मदातोय संसर्गाद्यक्षा जातास्तु पन्नगाः  ।

तत्क्षणाद्दिव्यदेहास्तु वैष्णवं यानमास्थिताः  ॥ ५७.७ ॥

स व्याधश्चाभवद्राजा तीर्थस्यास्य प्रभावतः  ।

दशवर्षसहस्राणि भोगान् भुङ्क्ते मनोहरान्  ॥ ५७.८ ॥

येऽपि दग्धा मृगास्तत्र तेऽपि गन्धर्वतां गताः  ।

वैष्णवेनैव यानेन प्राप्तास्तु वैष्णवं पदम्  ॥ ५७.९ ॥

अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् ।

दिव्यवर्षसहस्रं तु विष्णुलोके स मोदते  ॥ ५७.१० ॥

तिलोदकप्रदानेन पितॄणां परमा गतिः  ।

मनोरथं नाम तीर्थमन्यत्परमसिद्धिदम्  ॥ ५७.११ ॥

त्रिषु लोकेषु विख्यातं रेवातीरसमुद्भवम्  ।

यं यं प्रार्थयते कामं तं तं स्नात्वापि मानवः  ॥ ५७.१२ ॥

सर्व च समवाप्नोति तीर्थस्यास्य प्रभावतः  ।

अङ्गरावर्तसंभेदो गोसहस्रफलप्रदः  ॥ ५७.१३ ॥

अङ्गारेश्वरदेवश्च तत्र तिष्ठति सङ्गमे  ।

स्नानमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ॥ ५७.१४ ॥

अङ्गारश्च चतुर्थ्यां च यदा भवति भारत  ।

हिरण्यपुरुषं कृत्वा रक्तवस्त्रेण वेष्टयेत् ॥ ५७.१५ ॥

घृतपूर्णं ताम्रपात्रं गुडेनापि प्रपूरितम्  ।

तत्सर्वं विधिवद्दद्याच्छ्रोत्रियाय विशेषतः  ॥ ५७.१६ ॥

दानतीर्थप्रभावेण शक्रार्द्धासनभाग्भवेत् ।

यस्मात्पापानि दुःखानि तीव्राण्यपि बहून्यपि  ॥ ५७.१७ ॥

तस्मात्पापं न कर्तव्यमात्मपीडाकरं हि तत् ।

यस्मिन् काले च देशे च वयसा यादृशेन च  ॥ ५७.१८ ॥

कृतं शुभाशूभं कर्म तत्तथा तेन भुज्यते  ।

तस्मात्सदैव दातव्यमविच्छिन्न तयार्थिने  ॥ ५७.१९ ॥

विच्छिद्यन्तेऽन्यथा भोगा ग्रीष्मे कुसरितो यथा  ।

संसेव्यते यथा देवी सप्तकल्पवहा शुभा  ॥ ५७.२० ॥

संसारस्य समुच्छित्त्यै ज्ञानयोगं ब्रवीमि ते  ।

शिवप्रकाशकं ज्ञानं योगस्तत्रैव चिन्तितः  ॥ ५७.२१ ॥

दुर्विज्ञेय गतिर्योगो नर्मदाशिवसन्निधौ  ।

शिवाज्ञा वर्तते तत्र स्नानपूजाविधिर्यथा  ॥ ५७.२२ ॥

स सिद्धान्ताऽविरोधेन पुस्तकैर्न विरोधयेत् ।

धर्मज्ञानापवर्गार्थं सहितं विन्दते नरः  ॥ ५७.२३ ॥

पूर्वोत्तरविरोधेन कुत्रार्थोऽभिमतो भवेत् ।

दृष्ट्वाद्यमूलतस्तर्कं श्रुत्या सह विवर्जयेत् ॥ ५७.२४ ॥

तस्मादागमयुक्तेन सदात्मार्थविचारणम्  ।

कर्तव्यं नानुमानेन केवलेन विपश्चिता  ॥ ५७.२५ ॥

हीनोत्तमाद्यस्य फलं बहुधा स्वं च तत्स्मृतम्  ।

तस्मात्परीक्षां कुर्वीत पुण्यं साधु महत्फलम्  ॥ ५७.२६ ॥

पाखण्डिनो विकर्मस्थान् वैडालव्रतिकां शठान्  ।

वर्जयेद्दूरतो धीमान् हैतुक्यान् तीर्थनिन्दकान्  ॥ ५७.२७ ॥

दिगम्बरान् श्वेतपटान् ये चान्ये हेतुवादिनः  ।

एतैः सह न संवादं संसर्गं न कथंचन  ॥ ५७.२८ ॥

विपरीतं कलौ धर्मं नग्ना मुण्डा मलाशिनः  ।

तस्मात्तं च परित्यज्य त्रेताधर्मं समाचरेत् ॥ ५७.२९ ॥

प्रमाणं सर्वधर्मेषु ब्रह्मविष्णुशिवोदितम्  ।

अन्यथा कुरुते यस्तु नरके पतति ध्रुवम्  ॥ ५७.३० ॥

सर्वेषामेव शास्त्राणामेवं शास्त्रविनिश्चयः  ।

सेव्यतां कल्पगा देवी शिवपूजारतैः सदा  ॥ ५७.३१ ॥

पितॄणां तर्पणं कुर्याद्भिक्षां दद्याच्च भिक्षवे  ।

कारुण्यं सर्वभूतेषु नर्मदाख्यानचिन्तनम्  ॥ ५७.३२ ॥

इदं ज्ञानमशेषं च सर्वकर्मविशोधनम्  ।

आदिमध्यान्तरहितः स्वभावविमलः प्रभुः  ॥ ५७.३३ ॥

सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागमे  ।

सर्वार्थसाधकं ज्ञानं तत्प्रणीतमसंशयम्  ॥ ५७.३४ ॥

यः सर्वज्ञः सुसम्पूर्णः स्वभावविमलः शिवः  ।

सर्वदोषविनिर्मुक्तः स ब्रूयात्कथमन्यथा  ॥ ५७.३५ ॥

शिवाज्ञामन्तरेणापि जगत्सृष्टिः कथं भवेत् ।

अचैतन्यात्प्रधानेन अज्ञत्वात्पुरुषस्य च  ॥ ५७.३६ ॥

प्रधानं परमाण्वादि यावत्किंचिदचेतनम्  ।

तन्न कर्तृ स्वयं द्रष्टृ बुद्धिमत्करणं विना  ॥ ५७.३७ ॥

न यथा घटमानेन मृत्पिण्डः स्वयमृच्छति  ।

तथाज्ञाबुद्धिभावेन न तिष्ठेत्प्रकृतिः स्वयम्  ॥ ५७.३८ ॥

धर्माधर्मोपदेशो न धर्माधर्मविचारणम्  ।

सर्वज्ञेन विना जातु नादिसर्गे प्रसिद्ध्यति  ॥ ५७.३९ ॥

यथानादि प्रवृत्तोऽयं घोरः संसारसागरः  ।

शिवोऽपि हि तथानादिः संसारान्मोचकः स्मृतः  ॥ ५७.४० ॥

व्याधीनां भैषजं यद्वत्प्रतिपक्षं स्वभावतः  ।

तद्वत्संसारघोराणां प्रतिपक्षः शिवः स्मृतः  ॥ ५७.४१ ॥

वैद्यं विना निराक्रन्दाः क्लिश्यन्ते रोगिणो यथा  ।

शिवेन तु विना सर्वं निराक्रन्दं जगत्तथा  ॥ ५७.४२ ॥

तस्मादनादिः सर्वज्ञः परिपूर्णः परः शिवः  ।

अस्ति नातः परित्राता पुमान् संसारसागरे  ॥ ५७.४३ ॥

येऽभ्यसन्ति शिवज्ञानं हृदये शिवभाविताः  ।

यदि वेदाः प्रमाणं तु तेषां ज्ञानं प्रजायते  ॥ ५७.४४ ॥

इयं च सर्वभूतानां शरणं भुवि नर्मदा  ।

अपां रूपतया देवी लोकानुग्रहकारिणी  ॥ ५७.४५ ॥

स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्  ।

भगवत्युद्धरत्येषां पतन्तं नरके ध्रुवम्  ॥ ५७.४६ ॥

एवंज्ञात्वा नरश्रेष्ठ शिवमन्वीक्ष्य कल्पगाम्  ।

उच्चैर्गृहाणि दिव्यानि धनधान्यान्वितानि च  ॥ ५७.४७ ॥

सर्वोपस्करदिव्यानि ब्राह्मणेभ्यो निवेदयेत् ।

अनाथायातिवृद्धाय विकलाय कुटुम्बिने  ॥ ५७.४८ ॥

काष्ठमृन्मयगेहं च यो द्विजाय प्रयच्छति  ।

एवं विधान् गृहान् रम्यान् सर्वतोऽमरकण्टके  ॥ ५७.४९ ॥

कारयेद्यः पुमान् दिव्यांस्तस्य पुण्यफलं शृणु  ।

किं तस्य बहुभिर्दत्तैर्दानैर्भवति भारत  ॥ ५७.५० ॥

एतदेव परं दानं सर्वकामार्थसाधकम्  ।

यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते  ॥ ५७.५१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये सप्तपञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५८

 

युधिष्ठिर उवाच –

श्रुत्वैतत्परमं गुह्यं गवां देवसमुद्भवम्  ।

ब्रह्मकूर्चस्य माहात्म्यं श्रोतुमिच्छामि तत्त्वतः  ॥ ५८.१ ॥

आख्याहि भगवन् सर्वं गोलोकः कीदृशः स्मृतः  ।

प्राप्यते कर्मणा केन के तस्मिन्ननिशं स्थिताः  ॥ ५८.२ ॥

 

मार्कण्डेय उवाच –

श्रूयतामभिधास्यामि नमस्कृत्य महेश्वरम्  ।

गोमातृलोकं परमं सर्वकामसमन्वितम्  ॥ ५८.३ ॥

यथावत्सर्वलोकानामुपर्युपरि संस्थितम्  ।

पातालानि ततः सप्त पातालं च ततस्तथा  ॥ ५८.४ ॥

यावत्प्रमाणं परितः परिच्छिन्नं महीतलम्  ।

तावत्प्रमाणं तस्याः समुद्रास्तानि चैव तु  ॥ ५८.५ ॥

तेषां प्रत्येकमुत्सेधप्रमाणं परिकीर्तितम्  ।

योजनानां सहस्राणि दशार्धानि ततस्ततः  ॥ ५८.६ ॥

सहस्रयोजनोत्सेधस्तस्याभ्यन्तरतस्तथा  ।

विवराणां समस्तानां सहस्राणि नव स्मृतम्  ॥ ५८.७ ॥

तेषां रुचिरमाहात्म्यं नामतस्तु महीतले  ।

दिव्यदिव्योपसम्पन्नः श्रीमच्चामीकरद्युतिः  ॥ ५८.८ ॥

नागराजः सदैवास्ते तस्मिन् कृतनिकेतनः  ।

अनन्तोऽनन्तधामा च मुकुन्दो नृपशैवलः  ॥ ५८.९ ॥

ततो रसातलं नाम शिवसन्तोषभूमिकम्  ।

वासुकेर्नागराजस्य तत्र चारु महापुरम्  ॥ ५८.१० ॥

पुर च सुरलोम्नस्तु दानवाधिपतेर्महत् ।

सुपर्णस्य च दैत्यानामशेषाणां महात्मनाम्  ॥ ५८.११ ॥

ततः सुतलनामास्ति शर्कराञ्चितभूमिकम्  ।

नागादीनां स्वस्तिकानां तत्रैव वसतिः सदा  ॥ ५८.१२ ॥

दानवाधिपतीनां च तत्रैव निलयः परः  ।

वैरोचनहिरण्याख्यप्रभृतीनां महात्मनाम्  ॥ ५८.१३ ॥

ततश्चातलमित्युक्तं पातालानां तस्य तु वै  ।

तेषामूर्ध्ववस्तुसर्वेषां मृन्मयं च तलं क्षितेः  ॥ ५८.१४ ॥

असुराधिपतेस्तावत्कालनेमेर्महापुरम्  ।

चारुचामीकराभासं वैनतेयस्य चापरम्  ॥ ५८.१५ ॥

ततश्च वितलं नाम पातालं रक्तभूतलम्  ।

तस्मिन्महान्तको नाम दानवेन्द्रकृतालयः  ॥ ५८.१६ ॥

तालकोऽग्निमुखस्तस्मिन्नलह्रादश्च दानवाः  ।

निवसन्ति कृतागारास्तथा प्रह्लादवर्चसः  ॥ ५८.१७ ॥

पातालं वितलं नाम शुक्लं क्षितितलं ततः  ।

कम्बलाश्वतरौ नागौ सहितौ तत्र तिष्ठतः  ॥ ५८.१८ ॥

महाजम्भहयग्रीवप्रभृतीनां महात्मनाम्  ।

वाराणस्यसुरेन्द्राणां निवासस्तत्रकल्पितः  ॥ ५८.१९ ॥

कृष्णं क्षितितलं तस्मात्पातालतलसंज्ञकम्  ।

शङ्कुकर्णमहानादनमुचीनां निकेतनम्  ॥ ५८.२० ॥

पातालात्सप्तमादूर्ध्वं सप्तद्वीपा मही स्थिता  ।

समुद्रैः सप्तभिर्युक्ता पर्वतैः समलंकृता  ॥ ५८.२१ ॥

जम्बूद्वीपश्च तन्मध्ये प्लक्षद्वीपस्ततः परः  ॥ ५८.२२ ॥

क्रौञ्चद्वीपश्च परतः शाकद्वीपश्च तद्बहिः  ।

परतः पुष्करद्वीपः सप्तमः परिकीर्तितः  ॥ ५८.२३ ॥

क्षारोदकश्चेक्षुरसः सुरोदश्च घृतोदधिः  ।

दधितोयः क्षीरपूर्णः स्वादूदः सप्तमः स्मृतः  ॥ ५८.२४ ॥

सप्तद्वीपसमुद्राणां द्विगुणद्विगुणान्तरः  ।

प्रमाणविस्तरो ज्ञेयो नियुतः प्रथमः स्मृतः  ॥ ५८.२५ ॥

हिमवान् हेमकूटश्च निषधश्चेति दक्षिणे  ।

नीलश्च श्वेतः शृङ्गश्च मेरोरुत्तरतः स्मृताः  ॥ ५८.२६ ॥

मेरुरस्ति स्थितो मध्ये जम्बूद्वीपस्य भारत  ।

माल्यवान् पूर्वतो ज्ञेयः पश्चिमे गन्धमादनः  ॥ ५८.२७ ॥

एते पर्वतराजानो जम्बूद्वीपे नव स्मृताः  ।

प्लक्षद्वीपादिषु ज्ञेयाः सप्तसप्तैव पर्वताः  ॥ ५८.२८ ॥

पुष्करद्वीपमध्ये तु पर्वतो वलयाकृतिः  ।

एकः स्मृतः समन्ताच्च नामतो मानसः स्मृतः  ॥ ५८.२९ ॥

विन्ध्यो नाम महाभागो जम्बूद्वीपे व्यवस्थितः  ।

यत्रैषा नर्मदादेवी प्लवन्ती लोकतारिणी  ॥ ५८.३० ॥

विन्ध्यस्य चानुजो भ्राता सह्यो दक्षिणतः स्मृतः  ।

उर्वी कूर्मतलाकारा काञ्चनी परिमण्डला  ॥ ५८.३१ ॥

अणुरेव तथा सा तु निर्दिष्टातिविदः क्षितिः  ।

तस्याः प्रमाणं निर्दिष्टं दशयोजनकोटयः  ॥ ५८.३२ ॥

लोकालोक इति ख्यातस्तस्याः प्रान्ते समन्ततः  ।

स्फीतो हेममयः श्रीमान् सरलः परिमण्डलः  ॥ ५८.३३ ॥

योजनानां सहस्राणि चार्धमस्य व्यवस्थितम्  ।

तावदेव च विस्तीर्णं तदर्धे भानुराहितः  ॥ ५८.३४ ॥

प्रकाशयति स ज्योतिः परभागे निहन्यते  ।

लोकालोक इति प्रोक्तस्ततोऽसावचलो महान्  ॥ ५८.३५ ॥

लोकालोकावसानोऽयं भूर्लोकः परिकीर्तितः  ।

गन्धर्वयक्षरक्षोभिः पिशाचैश्च निषेवितः  ॥ ५८.३६ ॥

मानुषैः पशुभिश्चैव मृगपक्षिसरीसृपैः  ।

स्थावरैर्विविधाकारैर्भूतैरेतैश्च षड्विधैः  ॥ ५८.३७ ॥

भूर्लोकश्च भुवर्लोको यावदादित्यमण्डलम्  ।

वसन्ति सततं रुद्रास्सततं वक्त्रभास्कराः  ॥ ५८.३८ ॥

आदित्यमण्डलादूर्ध्वं स्मृता स्वर्लोकसंस्थितिः  ।

विमानकोटयस्तस्मिन्नष्टाविंशतिराशयः  ॥ ५८.३९ ॥

मेढीभूतो विमानानां सर्वेषामुपरि ध्रुवः  ।

नियुता अनिलस्कन्धाः सप्तास्मिन्नन्तरे स्थिताः  ॥ ५८.४० ॥

पृथिव्याः प्रथमः स्कन्धः स्थितश्चामेघमण्डलम्  ।

आहवो नाम वै वातो व्यूहानां व्यूहकृत्तथा  ॥ ५८.४१ ॥

द्वितीयः प्रवहो नाम निबद्धः सूर्यमण्डले  ।

तृतीयः संवहो माम सुस्कन्धोऽसौ प्रतिष्ठितः  ॥ ५८.४२ ॥

चतुर्थः सोद्वहः स्कन्धः स्थितो नक्षत्रमण्डले  ।

ततो द्वयोर्विनिर्दिष्टा विमानोद्वहनक्रिया  ॥ ५८.४३ ॥

योजनानां ध्रुवः कोटिर्महर्लोकः समुच्छ्रितः  ।

स्कन्धः परिवहो नाम निबद्धः सप्तमो ध्रुवे  ॥ ५८.४४ ॥

अन्नादीनि करोत्येष पर्वणामुपरि स्थितः  ।

विनिर्वृत्तं विकाराणामधिवासो महात्मनाम्  ॥ ५८.४५ ॥

तत्राधिकारिदेवानामष्टाविंशति कोटयः  ।

जनात्स्वर्लोकमागत्य नियोगात्पद्मजन्मनः  ॥ ५८.४६ ॥

स्थिता मन्वन्तरं तत्र स्वव्यापारावसायिनः  ।

आरुह्य च महर्लोकमागच्छन्ति ततः पुनः  ॥ ५८.४७ ॥

ब्रह्मणो दिवसैकेन देवाः स्वर्गे चतुर्दश  ।

क्रमेण कृत्वा कर्माणि महर्लोके वसन्ति ते  ॥ ५८.४८ ॥

कोटिद्वयं महर्लोकाज्जनलोकः समुच्छ्रितः  ।

साध्यानामसुरास्तत्र वसन्ति सुखिनः सदा  ॥ ५८.४९ ॥

योजनानां चतुःकोट्यः जनादप्युच्छ्रितं तपः  ।

प्रजानां पतयस्तत्र स्थितास्तु ब्रह्मणः सुताः  ॥ ५८.५० ॥

सत्यलोकस्तपोलोकात्कोटिषट्कं समुच्छ्रितम्  ।

आस्ते परिवृतस्तत्र देवासुरगणैर्विराट् ॥ ५८.५१ ॥

ब्रह्मलोकाद्विष्णुलोको द्विगुणेन समुच्छ्रितः  ।

विस्तरेण तदूर्ध्वे च दिव्यलोकः समन्वितः  ॥ ५८.५२ ॥

विष्णुलोकाच्च परतः श्रीमच्छिवपुरं महत् ।

द्वाविंशत्कोटिविस्तीर्णं तदूर्ध्वे समुपस्थितम्  ॥ ५८.५३ ॥

सूर्यायुतप्रतीकाशं सर्वकामसमन्वितम्  ।

अनेकारण्यविन्यासं स्वर्गनद्युपशोभितम्  ॥ ५८.५४ ॥

सर्वरत्नान्वितैर्दिव्यैस्तप्तजाम्बूनदप्रभैः  ।

सहस्रखण्डभौमैश्च सर्वशोभासमन्वितैः  ॥ ५८.५५ ॥

विमानैः सर्वतो व्याप्तं चन्द्रैरिवनभस्तलम्  ।

अप्सरोगणसंकीर्णं सर्वविद्याधरान्वितम्  ॥ ५८.५६ ॥

नृत्यगीतरवोपेतैरप्रमेयगुणान्वितैः  ।

मनोजवैरसंख्यातैः परिवारसमन्वितैः  ॥ ५८.५७ ॥

क्वचिद्दोलागृहैर्रम्यैः किङ्किणीरवकान्वितैः  ।

उद्गतैरर्धचन्द्रैश्च घण्टाभरणभूषितैः  ॥ ५८.५८ ॥

मणिमुक्तावितानैश्च मणिरत्नचयैः शुभैः  ।

सर्वरत्नार्चितैर्द्रव्यैर्मुक्तादामसुशोभनैः  ॥ ५८.५९ ॥

महासिंहासनैर्दिव्यैः सर्वरत्नविभूषितैः  ।

क्वचित्पुण्यगृहैर्व्याप्तमसंख्यगुणान्वितैः  ॥ ५८.६० ॥

सदा पुष्पफलैर्वृक्षैः क्वचिद्व्याप्तं मनोरमैः  ।

पुष्पोद्यानैर्महारम्यैः शतशोऽथ सहस्रशः  ॥ ५८.६१ ॥

सप्तकल्पवहा पुण्या तत्रैवास्ते सरिद्वरा  ।

तत्कलायाः सहस्रांशो जम्बूद्वीपे प्रदृश्यते  ॥ ५८.६२ ॥

अवतीर्णा महीपृष्ठे लोकानुग्रहकाम्यया  ।

सर्वात्मनाऽवतारश्च गङ्गादिसरितामिह  ॥ ५८.६३ ॥

अमृतस्यन्दिनीभिश्च नदीभिरुपशोभितम्  ।

हेमरत्नाञ्चिता वाप्यः सोपानैः स्फाटिकैर्युताः  ॥ ५८.६४ ॥

सितरक्तासितैः पीतैः सरोजैर्याः सुगन्धिभिः  ।

पञ्चवर्णैश्च गुरुभिः शोभिताः काञ्चनाकुलैः  ॥ ५८.६५ ॥

महाविकाशि संस्निग्धैः श्रीमद्भिः पञ्चहस्तकैः  ।

दश द्वादशहस्तैश्च तथा विंशतिहस्तकैः  ॥ ५८.६६ ॥

नालैर्मरकतप्रख्यैर्मनोहरदलान्वितैः  ।

पूर्णनीलोत्पलैश्चान्यैर्दीर्घिकाश्च क्वचित्क्वचित् ॥ ५८.६७ ॥

सिंहव्याघ्रमुखैर्दिव्यैर्गजवाजिमृगाननैः  ।

गोमुखैश्छागवदनैः कपिपक्षिमुखैस्तथा  ॥ ५८.६८ ॥

एकवक्त्रैर्महावक्त्रैर्बहुवक्त्रैरवक्त्रकैः  ।

एकपादैस्त्रिपादैश्च बहुपादैरपादकैः  ॥ ५८.६९ ॥

वामनैर्जटिलैर्मुण्डैर्दीर्घग्रीवैर्महोदरैः  ।

महाकायैर्महानासैर्महाकर्णैरकर्णकैः  ॥ ५८.७० ॥

नानारूपाकृतिधरैर्नानाभरणभूषितैः  ।

नानावेषधरैर्दिव्यैः कामरूपैर्महाबलैः  ॥ ५८.७१ ॥

नानाप्रभावसंयुक्तैर्नानाशास्त्रविशारदैः  ।

असंख्या जातयश्चान्या निवसन्ति तथा विधाः  ॥ ५८.७२ ॥

कुब्जावामनकादीर्घा वरदेहा वराननाः  ।

मुण्डाश्च विकटा नीचा ह्रस्वदीर्घश्च तादृशाः  ॥ ५८.७३ ॥

लम्बोदरा ह्रस्वभुजा विनता ह्रस्वजानुकाः  ।

मृगेन्द्रवदनाश्चान्या गजवाजिमुखास्तथा  ॥ ५८.७४ ॥

ह्रस्वकुञ्चितकेशाश्च सुन्दरप्रियदर्शनाः  ।

पञ्चाशत्कोटयस्तत्र शिवस्य परिचारिकाः  ॥ ५८.७५ ॥

मणिमाणिक्यगेहेषु रमन्ते ता बहिः क्वचित् ।

तत्र गेहेषु यद्द्वारिसहस्रशतभूमिषु  ॥ ५८.७६ ॥

विचित्रभूमयस्तत्र वज्रवैदूर्यभूषिताः  ।

इति सर्वगुणोपेतैः स्त्रीसहस्रैर्वराननैः  ॥ ५८.७७ ॥

असंख्यातैः पुरं व्याप्तमीश्वरस्य समन्ततः  ।

तन्मध्ये सर्वतोभद्रं दिव्यमायतनं महत् ॥ ५८.७८ ॥

शुद्धस्फटिकसंकाशं स्थानमाद्यमुमापतेः  ।

तत्रास्ते भगवान् सोमः पूज्यमानो गणेश्वरैः  ॥ ५८.७९ ॥

सिद्धैः स्वस्थानसंप्राप्तैर्ब्रह्मविष्ण्वादिभिस्तथा  ।

धर्मस्तत्र स्थितः श्रीमानीश्वरायतनेऽनघ  ॥ ५८.८० ॥

यत्र वीरवृषः तत्र नित्यं गोमातरः स्थिताः  ।

तत्र सा नर्मदादेवी पूज्यमाना सुरासुरैः  ॥ ५८.८१ ॥

तेनोदकेन तृप्यन्ति गोवत्साः सर्वदेवताः  ।

ब्रह्माविष्णुः सुरेशान उमया सहितोऽनघ  ॥ ५८.८२ ॥

सुराश्च ऋषयो भूताः पितरो मातरस्तथा  ।

स लोकः शिवलोकोऽत्र नर्मदालोक एव च  ॥ ५८.८३ ॥

ये गुणा रुद्रलोकस्य गोलोकस्य तथैव च  ।

नन्दा भद्रा सुभद्रा च सुशीला सुरभिस्तथा  ॥ ५८.८४ ॥

इति गोमातरः पञ्च शिवलोकविनिर्गताः  ।

षष्ठी तु नर्मदादेवी लोकानुग्रहकाम्यया  ॥ ५८.८५ ॥

एताः सर्वा जगत्सर्वं सर्वलोकस्य मातरः  ।

तर्पयन्ति महाराज नित्यमत्रात्मिकैर्गुणैः  ॥ ५८.८६ ॥

कारणाच्च शिवस्थानादीश्वरेच्छावशाऽनुगा  ।

ओंकारात्सर्वलोकानामिमं लोकं समाश्रिताः  ॥ ५८.८७ ॥

तृणानि खादन्ति चरन्त्यरण्ये पिबन्ति तोयानि सुनिर्मलानि  ।

दुग्धं प्रयच्छन्ति पुनन्ति देहं गावो यतो जीवति जीवलोकः  ॥ ५८.८८ ॥

कुतस्तेषां हि पापानि येषां गृहमलंकृतम्  ।

सततं बालवत्साभिर्गोभिः स्त्रीभिरिव स्वयम्  ॥ ५८.८९ ॥

ये स्मरन्ति सदोंकारं नर्मदां च शिवात्मना  ।

न तेषां पुनरावृत्तिर्घोरे संसारसागरे  ॥ ५८.९० ॥

ये कुर्वन्ति परां भक्तिं तृणतोयप्रदानतः  ।

प्रसादात्तु गवां तासां शिवलोकं व्रजन्ति ते  ॥ ५८.९१ ॥

एताः सदानुकूलेन मातरः सर्वकामदाः  ।

ये रक्षन्ति शुभा गाश्च शिवलोकं व्रजन्ति ते  ॥ ५८.९२ ॥

येऽर्चयन्ति शिवं भक्त्या सद्विधानैः समाहिताः  ।

ते विन्दन्ति महाभोगान् पुरं यान्ति शिवस्य वै  ॥ ५८.९३ ॥

ये शिवाश्रयतीर्थानि श्रद्धया यान्ति मानवाः  ।

कल्पगां च विशेषेण शैलं चामरकण्टकम्  ॥ ५८.९४ ॥

ते क्रीडन्ति महाभोगैर्ब्रह्मविष्णुशिवालये  ।

पयोऽमृतं घृतं क्षीरं मधुदध्यादिकं तु यत् ॥ ५८.९५ ॥

न पश्यति महाभाग कल्पगायां विमोहितः  ।

एतत्ते कथितं राजन् रेवावतरणं शुभम्  ॥ ५८.९६ ॥

अस्याख्यानेन भगवान्  ।॰

प्रीयतां मे शिवः स्वयम्  ॥ ५८.९७ ॥॰

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शिवलोकवर्णनो नामाष्टपञ्चाशत्तमोऽध्यायः ॥

 

 

अध्याय ५९

 

युधिष्ठिर उवाच –

दानधर्मविधानं च श्रोतुमिच्छामि कल्पग  ।

दरिद्रा भिक्षवो वापि कथं यान्ति शिवालयम्  ॥ ५९.१ ॥

विधिना केन दानेन मुच्यते दुष्कृतं तथा  ।

लोकानां च हितार्थाय कथयस्व महामुने  ॥ ५९.२ ॥

 

मार्कण्डेय उवाच –

शृणु राजन् यथा न्यायं कथयामि तवानघ  ।

पुष्करं बिल्वपत्रं च कुशास्तोयं च नार्मदम्  ॥ ५९.३ ॥

स्वयम्भूर्भगवानाह सामान्यं धर्मकारणम्  ।

श्रद्धापूताः सर्वधर्माः पुराणं श्रुतयस्तथा  ॥ ५९.४ ॥

तस्योपदेशधर्मेण नरा यान्ति त्रिविष्टपम्  ।

यस्तूलपूर्णविस्तीर्णं रक्तवस्त्रं ससूत्रकम्  ॥ ५९.५ ॥

व्याघ्रचर्मकृतं वापि नववस्त्रावगुण्ठितम्  ।

कृष्णाजिनोपवीतं च पुण्यधूपाधिवासितम्  ॥ ५९.६ ॥

शिवध्यानाभियुक्ताय श्रद्धया विनिवेदयेत् ।

तत्तूलवस्त्रतन्तूनां रोमसंख्यास्ति यावती  ॥ ५९.७ ॥

तावद्वर्षसहस्राणि शिवलोके महीयते  ।

मोदते सर्वलोकेषु भुक्त्वा भोगाननेकशः  ॥ ५९.८ ॥

पुनश्च क्षितिमासाद्य सिंहासनपतिर्भवेत् ।

तृणवल्कलपर्णानि शय्या प्रावरणादिकम्  ॥ ५९.९ ॥

दत्त्वा तदर्थिने भूमौ शिवलोके महीयते  ।

शिवमुद्दिश्य नैवेद्यं यो दद्याच्छिवदर्शिने  ॥ ५९.१० ॥

शाकं मूलं फलं वापि तस्य पुण्यफलं शृणु  ।

यावत्स्यात्तण्डुलादीनां संख्याफलदलेषु च  ॥ ५९.११ ॥

तावद्वर्षसहस्राणि शिवलोके महीयते  ।

भिक्षां सव्यञ्जनां दत्त्वा शिवभक्ताय भक्तितः  ॥ ५९.१२ ॥

वर्षलक्षं महाभाग शिवलोके महीयते  ।

दधिभक्तं सुसम्पूर्णं भिक्षापात्रं सुशोभनम्  ॥ ५९.१३ ॥

दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु  ।

वर्षकोटिसमं दिव्यं महाभोगैः समन्वितम्  ॥ ५९.१४ ॥

स्थित्वा शिवपुरे दिव्ये तस्यान्ते च महीपतिः  ।

सुशीतलेन तोयेन शिवभक्तं सितायुजा  ॥ ५९.१५ ॥

तर्पयित्वा शम्भुलोके वर्षलक्षं च मोदते  ।

कलशं शर्करोपेतं वस्त्रपूताम्बुपूरितम्  ॥ ५९.१६ ॥

दद्याद्यः शिवभक्ताय तस्य पुण्यफलं शृणु  ।

शुद्धस्फटिकसंकाशं विमानं सर्वकामिकम्  ॥ ५९.१७ ॥

संप्राप्य शिवलोके तु वर्षकोटिं स मोदते  ।

पलाशपर्णैः पत्रैर्वा यः कुर्यात्पुटकानि तु  ॥ ५९.१८ ॥

प्रदद्याच्छिवयोगिभ्यस्ताम्रपात्रप्रदो हि सः  ।

यस्ताम्रपात्रं सुकृतं प्रदद्याच्छिवयोगिने  ॥ ५९.१९ ॥

कोटिषट्कं स कल्पानां शिवलोके महीयते  ।

शूलं वहति यः पाणौ शक्तिं पृष्ठे कमण्डलुम्  ॥ ५९.२० ॥

तं भोजयित्वा यत्नेन शिवलोकमवाप्नुयात् ।

भोजयेच्च यथा शक्त्या यः शिवव्रतचारिणम्  ॥ ५९.२१ ॥

भोगैः स क्रीडति श्रेष्ठैः शिवलोके व्यवस्थितः  ।

यः शिवाश्रमधर्मं च गृहस्थं भोजयेद्बुधः  ॥ ५९.२२ ॥

विपुलैः स महाभोगैः शिवलोके महीयते  ।

शिवाश्रमव्रतस्थं यः कन्दाद्यैर्भोजयेत्नरः  ॥ ५९.२३ ॥

स दिव्यानाप्नुयाद्भोगानीश्वरस्य पुरे स्थितः  ।

एवं पाशुपतं भक्तं भोजयित्वा प्रणम्य च  ॥ ५९.२४ ॥

नानाविधैर्महाभोगैः शिवलोके महीयते  ।

महाव्रतधरायैव भिक्षां यः प्रतिपादयेत् ॥ ५९.२५ ॥

स दिव्यैः शोभनैर्भोगैः शिवलोके महीयते  ।

सयमनियमाचारं शिवभक्तिपरं नरम्  ॥ ५९.२६ ॥

भोजयित्वा यथाशक्त्या शिवलोके महीयते  ।

ज्ञानयोगबहिःस्था ये लोकसामान्यधर्मिणः  ॥ ५९.२७ ॥

पूजयन्ति शिवं भक्त्या शिवलोकं व्रजन्ति ते  ।

अनाशिकेनापि करीषवह्णिना पयः प्रदानेन तपोभिरुग्रैः  ॥ ५९.२८ ॥

प्रयान्ति यज्ञैश्च न तां गतिं नरा  ।

नीचोऽपि यां याति हि रुद्रभक्तः  ॥ ५९.२९ ॥

यथा रेवाजलस्पर्शाल्लभन्ते सद्गतिं नराः  ।

न तथा यज्ञदानाद्यैरुपायैर्भरतर्षभ  ॥ ५९.३० ॥

इत्येष शिवलोकस्तु प्रसङ्गात्समुदाहृतः  ।

गोलोकः कल्पगालोकः शिवभक्तैः समन्वितः  ॥ ५९.३१ ॥

ज्ञानयोगेन ये शान्ता जपन्ति परमं शिवम्  ।

ते सर्वदुःखनिर्मुक्ता भवन्ति सुखिनः सदा  ॥ ५९.३२ ॥

शिवलोकश्च विज्ञेयो मण्डलावरणात्मकः  ।

पञ्चभूतान्यहंकारः सत्त्वं प्रकृतिरष्टमी  ॥ ५९.३३ ॥

ईदृशानां तु नागानां कोट्यो ज्ञेयाः सहस्रशः  ।

सर्वाङ्गत्वात्प्रधानस्य तिर्यगूर्ध्वमधः स्थितम्  ॥ ५९.३४ ॥

विष्णुलोकात्परं स्थानं कुमारस्य महात्मनः  ।

स्वच्छमौक्तिकसंकाशं परमा श्रीसमन्वितम्  ॥ ५९.३५ ॥

स्कन्दलोकात्परं स्थानमुमादेव्याः प्रकीर्तितम्  ।

तप्तचामीकरप्रख्यमशेषगुणसंयुतम्  ॥ ५९.३६ ॥

उमास्थानात्परं चैव हरस्थानं तदुत्तमम्  ।

सूर्यकोटिप्रतीकाशं सर्वकामसमन्वितम्  ॥ ५९.३७ ॥

गणैरध्युषितं सर्वैरसंख्यैर्योगतत्परैः  ।

हिरण्यगर्भकूर्माद्यैर्वसुरुद्रदिवाकरैः  ॥ ५९.३८ ॥

स्तूयते भगवान्नित्यं तस्यान्ति प्रतिकाङ्क्षिभिः  ।

ज्ञानध्यानपरैः शान्तैर्भिक्षाहारैर्जितेन्द्रियैः  ॥ ५९.३९ ॥

प्राप्यं तैश्च परं स्थानं सूर्यायुतसमप्रभम्  ।

तत्सत्कर्मकरैर्नित्यं ब्राह्मणैर्दग्धकल्मषैः  ॥ ५९.४० ॥

वसन्ति यदृतं सिद्धाशयास्तु क्लेशवर्जिताः  ।

नर्मदा सेव्यमानाश्च लभन्ते तत्पदं नराः  ॥ ५९.४१ ॥

एतत्ते कथितं पार्थ यथोद्दिष्टं तु शम्भुना  ।

यन्मया कथितं दानं नर्मदातीरमाश्रितम्  ॥ ५९.४२ ॥

गच्छन्ति येऽन्यत्तीर्थं तु सहस्रांशो विशिष्यते  ।

सर्वज्ञाः सर्वगाः शुद्धाः परिपूर्णा भवन्ति ते  ॥ ५९.४३ ॥

शुद्धकर्मकरा ये तु परमैश्वर्यसंयुताः  ।

सदेहाश्च विदेहाश्च भवन्ति स्वेच्छया पुनः  ॥ ५९.४४ ॥

इति नित्यं विशुद्धं च स्थानमाद्यमुमापतेः  ।

दिव्यं श्रीकण्ठनाथस्य जगद्भर्तुः समंस्थितम्  ॥ ५९.४५ ॥

स्थानं नवकमित्येवं निर्गता यत्र कल्पगा  ।

परमाष्टगुणैश्वर्यनित्यमक्षयमव्ययम्  ॥ ५९.४६ ॥

शश्वद्गुरुप्रणीतेन ध्यानयोगेन ये नराः  ।

ध्यायन्ति देवतां नित्यं ते सिद्धा यान्ति तत्पदम्  ॥ ५९.४७ ॥

येऽभ्यसन्ति शिवज्ञानं नर्मदातीरमाश्रिताः  ।

कामतृष्णाविनिर्मुक्तास्तेऽपि यान्ति च तत्पुरम्  ॥ ५९.४८ ॥

अप्येकदिवसं यावच्छिवध्यानपरायणः  ।

शिवधर्मपरस्तस्य धर्मस्यान्तो न विद्यते  ॥ ५९.४९ ॥

योगधर्मसु सारत्वादभेद्यं पापमुद्गरैः  ।

वज्रतण्डुलवज्ज्ञेयं तस्मात्तस्य फलं महत् ॥ ५९.५० ॥

देहान्तेनैव धर्मेण स्थानमाद्यं शिवालयम्  ।

यत्रास्ते विपुलैर्भोगैः क्रीडन् कल्पायुतं नरः  ॥ ५९.५१ ॥

ततः कल्पायुतस्यान्ते स्थानं कौमारमाप्नुयात् ।

तत्रार्धसम्मितं कालं स क्रीडन् ससुखं वसेत् ॥ ५९.५२ ॥

तदन्ते विष्णुलोकं च संप्राप्य वसते पुनः  ।

ब्रह्मलोकं गतश्चान्ते तत्रापि वसते नरः  ॥ ५९.५३ ॥

ब्रह्मलोकपरिभ्रष्टो वसेच्छिवपुरे सुखम्  ।

तत्तस्माद्ब्रह्मविष्ण्वाद्यांल्लोकान् प्राप्नोत्यनुक्रमात् ॥ ५९.५४ ॥

इत्येवं सर्वलोकेषु रमित्वा क्रमशस्ततः  ।

मनुष्यलोकमासाद्य शिवं रेवां समाश्रयेत् ॥ ५९.५५ ॥

मया ते कथिताऽन्यत्र यानि दानानि भारत  ।

तानि सर्वे प्रशंसन्ति पर्वतेऽमरकण्टके  ॥ ५९.५६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये शिवमहिमानुवर्णनो नामैकोनषष्टितमोऽध्यायः ॥

 

 

अध्याय ६०

 

मार्कण्डेय उवाच –

वैष्णवं दानधर्मं च कथ्यमानं निबोध मे  ।

विष्णुयोगं समभ्यस्य सर्वक्लेशापनुत्तये  ॥ ६०.१ ॥

विष्णुं सम्पूज्य विधिना घृतस्नानादिभिः स्तवैः  ।

द्वादश्यां विष्णुमुद्दिश्य दद्यादेकां पयस्विनीम्  ॥ ६०.२ ॥

नर्मदातीरमासाद्य तस्य पुण्यफलं शृणु  ।

पूज्यते धर्मराजेन यथा विष्णुस्तथैव सः  ॥ ६०.३ ॥

शैवानां वैष्णवानां च सहस्रं भोजयेत्तु यः  ।

गर्भिणी धेनुसंमिश्रं वृषभैर्दशभिर्युतम्  ॥ ६०.४ ॥

अर्चितं गन्धपुष्पाद्यैर्हेमवस्त्रैरलंकृतम्  ।

प्रदक्षिणमुपाक्रम्य मन्त्रराजं च भक्तितः  ॥ ६०.५ ॥

ओं नमो भगवते वासुदेवयेति समुच्चरन्  ।

वेदविद्भिः समाकीर्णं विष्णोराराधनैः शुभैः  ॥ ६०.६ ॥

नर्मदातोयमासाद्य दीपमालां प्रबोधयेत् ।

गावो ममाग्रतो नित्यं गावः पृष्ठत एव च  ॥ ६०.७ ॥

गावो मे हृदये वापि गवां मध्ये वसाम्यहम्  ।

इमं मन्त्रं समुत्थाय जपेदासां पुरो गवाम्  ॥ ६०.८ ॥

गन्धतो याक्षतैर्मिश्रैर्गृहीत्वा ताम्रभाजनम्  ।

शृङ्गपुच्छ जलस्नातः शुक्लवस्त्रसमन्वितः  ॥ ६०.९ ॥

नर्मदास्नानपानेन गवां पुच्छाम्भसा तथा  ।

सर्वकल्मषनिर्मुक्तः सुसिद्धः सुचिरव्रतः  ॥ ६०.१० ॥

स्नापयित्वा गतस्तत्र स विप्रो नर्मदातटे  ।

पौर्णमास्यां पूर्णचन्द्रे राहुसोमसमागमे  ॥ ६०.११ ॥

तैरेव सार्द्धं विप्रेन्द्रैः संप्रपूज्य हरिं स्मरेत् ।

भृत्यपुत्रकलत्राद्यैर्युक्तः स्वजनबान्धवैः  ॥ ६०.१२ ॥

निवेदयेत्तु कृष्णाय मन्त्रेण श्रद्धयान्वितः  ।

श्राद्धे दाने च होमे च विवाहे मङ्गले तथा  ॥ ६०.१३ ॥

गोमातरः स्थिता नित्यं विष्णुलोके शिवात्मिकाः  ।

शिवायैता मया दत्ता विष्णवे च महात्मने  ॥ ६०.१४ ॥

एवं विप्राय यो दद्याद्यज्ञार्थं समलंकृताः  ।

एवं निवेद्य पुरुषो गोसहस्रफलं लभेत् ॥ ६०.१५ ॥

कुलानि त्रिंशदुत्तार्य नरकाद्भृत्यबान्धवान्  ।

स्थापयेद्वैष्णवे लोके शिवस्य च महात्मनः  ॥ ६०.१६ ॥

सर्वज्ञः परिपूर्णश्च विशुद्धः सर्वगः प्रभुः  ।

संसारसागरान्मुक्तो हरितुल्यः प्रजायते  ॥ ६०.१७ ॥

अनेनैव विधानेन गृहस्थाः प्राप्नुयुर्दिवम्  ।

विनापि ज्ञानयोगेन गोसहस्रप्रदानतः  ॥ ६०.१८ ॥

ब्राह्मणः क्षत्रियो वापि शूद्रोऽथापि च भक्तितः  ।

नर्मदाकपिलायोगे यथा विभवविस्तरैः  ॥ ६०.१९ ॥

ब्राह्मणाय दरिद्राय दीक्षितायोपशोभिने  ।

चन्द्रसूर्योपरागे तु व्यतीपाते च संक्रमे  ॥ ६०.२० ॥

षडशीति मुखे दद्यादमासोमसमागमे  ।

कार्त्तिक्या वा युगादौ वा पुण्ये वाहनि भारत  ॥ ६०.२१ ॥

यद्धि गायन्ति पितरो गाथामेतां नराधिप  ।

अपि स्यात्स कुलेऽस्माकं पुत्रः परमधार्मिकः  ॥ ६०.२२ ॥

नर्मदाकपिलायोगे कोटितीर्थे च मुक्तिदे  ।

नरकादुद्धरेदस्मान् दत्त्वा गा यस्तु संयुताः  ॥ ६०.२३ ॥

दशवर्षसहस्राणि लोके क्रीडति वैष्णवे  ।

तस्मात्त्वमपि राजेन्द्र गोसहस्रप्रदो भव  ॥ ६०.२४ ॥

देववद्दिवि मोदन्ते येन ते पितरः सदा  ।

कथयामि तवाथाहमितिहासं पुरातनम्  ॥ ६०.२५ ॥

युवनाश्वः पुरा राजा चक्रवर्ती महायशाः  ।

शक्राच्छतगणं पुण्यं प्रजापालनतत्परः  ॥ ६०.२६ ॥

अयोध्यानगरी यस्य ब्रह्मलोकसमप्रभा  ।

तस्या कृतयुगे चादौ सर्वधर्मपरायणः  ॥ ६०.२७ ॥

बृहस्पतिब्रह्मसमं वशिष्ठं स्वपुरोहितम्  ।

अभिवाद्य यथान्यायमुवाच मुनिसत्तमम्  ॥ ६०.२८ ॥

कस्मिन् स्थाने यजेद्यज्ञं तीर्थे देशे सुरालये  ।

वशिष्ठप्रमुखाः सर्वे मुनयश्चेदमब्रुवन्  ॥ ६०.२९ ॥

पृथिव्यां नैमिषं तीर्थं सर्वतीर्थमयं शुभम्  ।

सफलो हयमेधस्तु कोटिकोटिगणोत्तरः  ॥ ६०.३० ॥

पुराणे कीर्तितं राजन्मत्स्यरूपेण विष्णुना  ।

सूर्येण कीर्तितं राजन्मनुपुत्राय चात्मनः  ॥ ६०.३१ ॥

सर्वेषां तु पुराणानां पुराणं मत्स्यकीर्तितम्  ।

वेदाश्चैव पुरा नष्टा मत्स्यरूपेण चोद्धृताः  ॥ ६०.३२ ॥

वेदहीनाश्च वर्तन्ते द्विजा वै यज्ञकर्मसु  ।

एवं विधं तु तत्तीर्थं युवनाश्व तवोदितम्  ॥ ६०.३३ ॥

एवं श्रुत्वा ततो वाक्यं वशिष्ठस्य पुरोधसः  ।

आदिदेश ततोऽमात्यान् धर्मिष्ठान् सत्यवादिनः  ॥ ६०.३४ ॥

यज्ञोपस्करमादाय समागच्छत सत्वरम्  ।

घोषणा क्रियतां राष्ट्रे दण्डहस्तैश्च किङ्करैः  ॥ ६०.३५ ॥

आहूतास्तु ततो देवा नृपतेर्यज्ञकर्मणि  ।

ब्रह्मा विष्णुः सुरेशश्च स्कन्दो वैश्रवणस्तथा  ॥ ६०.३६ ॥

शम्भुश्चैव विशेषेण सुरासुरनमस्कृतः  ।

धेनूनां दशलक्षाणि हेमरत्नान्वितानि च  ॥ ६०.३७ ॥

लक्षमेकं हयानां च दन्तिनामयुतत्रयम्  ।

मणिमाणिक्यमुक्ताश्च हिरण्यं चाप्यनन्तकम्  ॥ ६०.३८ ॥

नानाविधानि द्रव्याणि भक्ष्यभोज्यमलंकृतम्  ।

यज्ञद्रव्यं च यच्चान्यत्तत्सर्वसहितो नृपः  ॥ ६०.३९ ॥

नानासहस्रयानैस्तु नानादेशगतैर्नृपैः  ।

नानावाद्यसहस्रैस्तु नानागीतैर्मनोहरैः  ॥ ६०.४० ॥

वेदघोषेण महता दिवं भूमिं विनादयन्  ।

विवेश नैमिषं तीर्थं यत्र देवो महेश्वरः  ॥ ६०.४१ ॥

हरिं सद्यः प्रभुं दृष्ट्वा मुच्यते यत्र किल्बिषात् ।

स्वर्गसोपानमेतत्तु प्रत्यक्षं देवलोकवत् ॥ ६०.४२ ॥

तत्र स्नात्वाऽभ्यर्च्य हरिं हरं स्वर्गमवाप्नुयात् ।

कीर्तनान्नैमिषस्यास्य नरो दहति तत्क्षणात् ॥ ६०.४३ ॥

अनेकभाविकं घोरं तूलराशिमिवानलः  ।

दीक्षिता ब्राह्मणा देवाः कुतश्चित्तु समागताः  ॥ ६०.४४ ॥

आर्तानामयुतं तेभ्यो ददौ देवाय चानघ  ।

सहस्रमेकं नृपतिर्भूषणानां च भारत  ॥ ६०.४५ ॥

ओं नमः शङ्करायेति माधवायेति चोत्तमः  ।

जलदर्भौ समादाय पात्रे राजा हिरण्मये  ॥ ६०.४६ ॥

एवं संकल्प्य राजेन्द्र यज्ञवाटमकारयत् ।

दशयोजनपर्यन्तं यज्ञयूपाश्च हेमजान्  ॥ ६०.४७ ॥

ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर्द्विजैः  ।

मुदिता देवताः सर्वा दिव्ययानसमाश्रिताः  ॥ ६०.४८ ॥

जयशब्दं प्रचक्रुस्ता राजा नान्यो भवत्समः  ।

नान्यो मम समः कश्चिदित्यहंकारवान्नृपः  ॥ ६०.४९ ॥

यावद्यानं समारुह्य सान्तःपुरपरिच्छदः  ।

निःसृतो नैमिषारण्यात्तावत्पश्यति वानरम्  ॥ ६०.५० ॥

तिष्ठ तिष्ठेत्युवाचाथ शृणु राजन् वचो मम  ।

किं ते यज्ञविधानेन देवतादानकर्मणि  ॥ ६०.५१ ॥

अहंकारविमूढात्मा कर्ताहमिति मन्यसे  ।

पुरामरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः  ॥ ६०.५२ ॥

वर्जयित्वा मुखं मेऽभूत्कण्ठाधो हेमवर्णकम्  ।

ये गताः शिशवस्तेषां सर्वाङ्गाश्च हिरण्मयाः  ॥ ६०.५३ ॥

कपिला नर्मदायोगे यज्ञतोयप्रवाहतः  ।

स्नानावगाहनात्पानाल्लोडनात्कर्दमे तथा  ॥ ६०.५४ ॥

गन्धर्वलोकं सम्प्राप्तो भूतग्रामश्चतुर्विधः  ।

त्वदीये लुलितं यज्ञे नैमिषारण्यसम्भवे  ॥ ६०.५५ ॥

पङ्केन लिप्तं गात्रं मे क्षालितं चाम्बुना तथा  ।

न किंचित्फलमासीन्मे तव यज्ञो निरर्थकः  ॥ ६०.५६ ॥

गवां त्वयायुते दत्तं धनं धान्यं तथा बहु  ।

भूभुजा सत्यधर्मेण किंतु तावन्निरर्थकम्  ॥ ६०.५७ ॥

दानेन तपसा वापि त्रयो लोकाः समर्जिताः  ।

सर्वेषामेव तीर्थानां माता वै मेकला स्मृता  ॥ ६०.५८ ॥

एतत्ते कथितं राजन् यथाभूदमरेश्वरे  ।

स्वस्ति वोऽस्तु गमिष्यामि त्वं वायोध्या प्रति व्रज  ॥ ६०.५९ ॥

अहमेव गमिष्यामि नर्मदां सप्तकल्पगाम्  ।

श्रुत्वा त्वदीयं यज्ञं हि नैमिषारण्यमागतः  ॥ ६०.६० ॥

निराशोऽहं गमिष्यामि नाभून्मे कांचनं मुखम्  ।

वानरस्य वचः श्रुत्वा युवनाश्वोऽब्रवीद्वचः  ॥ ६०.६१ ॥

कस्त्वं वानररूपेण सत्यमेतद्ब्रवीषि मे  ।

 

वानर उवाच –

अहं जाबालिनः पुत्रः कदम्बो नाम विश्रुतः  ॥ ६०.६२ ॥

तिर्यग्योनौ प्रविष्टश्च प्राकृतैः कर्मभिः स्वकैः  ।

भ्रान्तानि सर्वतीर्थानि वेषेणानेन सुव्रत  ॥ ६०.६३ ॥

परित्राणं परं नाभूत्सत्यधर्ममखोत्तमे  ।

वपुर्हिरण्मयं सर्वं मुखवर्जं ममाभवत् ॥ ६०.६४ ॥

वानरस्य वचं श्रुत्वा सन्निवृत्य नृपोत्तमः  ।

आराध्य देवदेवेशं नैमिषे यज्ञपूरुषम्  ॥ ६०.६५ ॥

उवाच वचनं श्लक्ष्णं प्रणिपत्य प्रसाद्य च  ।

मदीययज्ञे दानेन तपसा नियमेन च  ॥ ६०.६६ ॥

शमिच्छं छ्रावयामास एको वानररूपधृक् ।

हिरण्मयं मुखं चास्य यथा स्यात्त्वं तथा कुरु  ॥ ६०.६७ ॥

उवाच वचनं देवो युवनाश्वं महीपतिम्  ।

प्रत्यक्षं नैमिषं तीर्थं सूर्यकोटिसमप्रभम्  ॥ ६०.६८ ॥

पृथिव्यां नैमिषं तीर्थमन्तरिक्षे च पुष्करम्  ।

त्रिषु लोकेषु विख्यातो गिरिश्चामरकण्टकः  ॥ ६०.६९ ॥

न च श्रुतं त्वया तात पुराणं स्कन्दकीर्तितम्  ।

माता सा यत्र सरितां तीर्थानां च सरिद्वरा  ॥ ६०.७० ॥

नामसंकीर्तनादस्या मुच्यते भवबन्धनात् ।

विषादं त्यज तीर्थानां प्रधानोऽमरकण्टकः  ॥ ६०.७१ ॥

सत्यधर्मः पुनस्तत्र करिष्यति मखोत्तमम्  ।

रेवाकपिलयोर्योगे मुखं तत्र हिरण्मयम्  ॥ ६०.७२ ॥

भविष्यति न सन्देहस्तव वानरसत्तम  ।

नैमिषं स नमस्कृत्य आदिदेवं हरं हरिम्  ॥ ६०.७३ ॥

स्थानं स्वं च जगामाथ मुदा परमया युतः  ।

नैमिषस्य वचः श्रुत्वा अयोध्याधिपतिस्तथा  ॥ ६०.७४ ॥

विवेश नगरीं पुण्यां यथा शक्रोऽमरावतीम्  ।

वानरोऽपि गतस्तत्र सत्यधर्मो यतः स्वयम्  ॥ ६०.७५ ॥

प्रणम्य सत्यधर्माख्यमिदं वचनमब्रवीत् ।

रेवाकपिलयोर्योगे त्वदीये च महामखे  ॥ ६०.७६ ॥

अवभृथस्नानजनिते कर्दमे लुठनान्मम  ।

शरीरं काञ्चनीभूतं मुखमेवावशिष्यते  ॥ ६०.७७ ॥

यज्ञमिष्ट्वा पुनस्तत्र मुखं मे काञ्चनं कुरु  ।

गन्धर्वाधिपतिर्भूयो मुक्तो वानरयोनितः  ॥ ६०.७८ ॥

हेमीभूतवपुस्तत्र यदा वानरसत्तमः  ।

देवन्दुन्दुभिनादेन नानालङ्कारभूषितः  ॥ ६०.७९ ॥

हंसयुक्तेन यानेन वीज्यमानोऽप्सरोगणैः  ।

जगाम शाङ्करं लोकं तीर्थस्यास्य प्रभावतः  ॥ ६०.८० ॥

तत्र ये श्वापदास्सर्वे तेऽपि स्नात्वा दिवङ्गताः  ।

एतत्ते कथितं पार्थ यथावृत्तं पुरातनम्  ॥ ६०.८१ ॥

श्रवणात्कीर्तनाच्चास्य गोसहस्रफलं लभेत् ॥ ६०.८२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये षष्टितमोऽध्यायः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!