सामवेद 1

सामवेद

1.1.1.1 प्रथमा दशतिः — —
अग्न आ याहि वीतये गृणानो हव्यदातये | नि होता सत्सि बर्हिषि || १ ||
त्वमग्ने यज्ञानां होता विश्वेषां हितः | देवेभिर्मानुषे जने || २ ||
अग्निं दूतं वृणीमहे होतारं विश्ववेदसं | अस्य यज्ञस्य सुक्रतुं || ३ ||
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया | समिद्धः शुक्र आहुतः || ४ ||
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियं | अग्ने रथं न वेद्यं || ५ ||
त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः | उत द्विषो मर्त्यस्य || ६ ||
एह्यूषु ब्रवाणि तेऽग्न इत्थेतरा गिरः | एभिर्वर्धास इन्दुभिः || ७ ||
आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात्| अग्ने त्वां कामये गिरा || ८ ||
त्वामग्ने पुष्करादध्यथर्वा निरमन्थत | मूर्ध्नो विश्वस्य वाघतः || ९ ||
अग्ने विवस्वदा भरास्मभ्यमूतये महे | देवो ह्यसि नो दृशे || १० ||

1.1.1.2 द्वितीया दशतिः — —
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः | अमैरमित्रमर्दय || ११ ||
दूतं वो विश्ववेदसं हव्यवाहममर्त्यं | यजिष्ठमृञ्जसे गिरा || १२ ||
उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः | वायोरनीके अस्थिरन् ||१३ ||
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयं | नमो भरन्त एमसि || १४ ||
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय | स्तोमं रुद्राय दृशीकं || १५ ||

1.1.1.3 तृतीया दशतिः — —
अग्निं वो वृधन्तमध्वराणां पुरूतमं | अच्छा नप्त्रे सहस्वते || २१ ||
अग्निस्तिग्मेन शोचिषा यंसद्विश्वं न्या३त्रिणं | अग्निर्नो वंसते रयिं || २२ ||
अग्ने मृड महां अस्यय आ देवयुं जनं | इयेथ बर्हिरासदं || २३ ||
अग्ने रक्षा णो अंहसः प्रति स्म देव रीषतः | तपिष्ठैरजरो दह || २४ ||
अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः | अरं वहन्त्याशवः || २५ ||
नि त्वा नक्ष्य विश्पते द्युमन्तं धीमहे वयं | सुवीरमग्न आहुत || २६ ||
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं | अपां रेतांसि जिन्वति || २७ ||
इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं | अग्ने देवेषु प्र वोचः || २८ ||
तं त्वा गोपवनो गिरा जनिष्ठदग्ने अङ्गरः | स पावक श्रुधी हवं || २९ ||
परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् | दधद्रत्नानि दाशुषे || ३० ||
उदु त्यं जातवेदसं देवं वहन्ति केतवः | दृशे विश्वाय सूर्यं || ३१ ||
१ कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे | देवममीवचातनं || ३२ ||
१ शं नो देवीरभिष्टये शं नो भवन्तु पीतये | शं योरभि स्रवन्तु नः || ३३ ||
१ १ कस्य नूनं परीणसि धियो जिन्वसि सत्पते | जोषाता यस्य ते गिरः || ३४ ||

1.1.1.4 चतुर्थी दशतिः — —
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं || ३५ ||
पाहि नो अग्न एकया पाह्यू३त द्वितीयया | पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो || ३६ ||
बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा | भरद्वाजे समिधानो यविष्ठ्य रेवत्पावक दीदिहि || ३७ ||
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः | यन्तारो ये मघवानो जनानामूर्वं दयन्त गोनां || ३८ ||
अग्ने जरितर्विश्पतिस्तपानो देव रक्षसः | अप्रोषिवान्गृहपते महां असि दिवस्पायुर्दुरोणयुः || ३९ ||
अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य | आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः || ४० ||
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय | अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः || ४१ ||
त्वमित्सप्रथा अस्यग्ने त्रातरृतः कविः | त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः || ४२ ||
आ नो अग्ने वयोवृधं रयिं पावक शंस्यं | रास्वा च न उपमाते पुरुस्पृहं सुनीती सुयशस्तरं || ४३ ||
यो विश्वा दयते वसु होता मन्द्रो जनानां | मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये || ४४ ||

1.1.1.5 पञ्चमी दशतिः — —
एना वो अग्निं नमसोर्जो नपातमा हुवे | प्रियं चेतिष्ठमरतिं स्वाध्वरं विश्वस्य दूतममृतं || ४५ ||
शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते | अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि || ४६ ||
अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः | उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः || ४७ ||
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे | ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यं || ४८ ||
अग्निमीडिष्वावसे गाथाभिः शीरशोचिषं | अग्निं राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः || ४९ ||
श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः | आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे || ५० ||
प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना | अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि || ५१ ||
अध ज्मो अध वा दिवो बृहतो रोचनादधि | अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण || ५२ ||
कायमानो वना त्वं यन्मात्ऱीरजगन्नपः | न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः || ५३ ||
नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते | दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः || ५४ ||

1.1.1.6 षष्ठी दशतिः — —
देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचं | उद्वा सिञ्जध्वमुप वा पृणध्वमादिद्वो देव ओहते || ५५ ||
प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता | अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः || ५६ ||
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता | ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे || ५७ ||
प्र यो राये निनीषति मर्तो यस्ते वसो दाशत् | स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणं || ५८ ||
प्र वो यह्वं पुरूणां विशां देवयतीनां | अग्निं सूक्तेभिर्वचोभिर्वृणीमहे यंसमिदन्य इन्धते || ५९ ||
अयमग्निः सुवीर्यस्येशे हि सौभगस्य | राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानां || ६० ||
त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे | त्वं पोता विश्ववार प्रचेता ताक्षि यासि च वार्यं || ६१ ||
सखायस्त्वा ववृमहे देवं मर्तास ऊतये | अपां नपातं सुभगं सुदंससं सुप्रतूर्तिमनेहसं || ६२ ||

1.1.1.7 सप्तमी दशतिः — —
आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वं | इडस्पदे नमसा रातहव्यं सपर्यता यजतं पस्त्यानां || ६३ ||
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे | अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्या३ं चरन् ||६४ ||
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व | संवेशनस्तन्वे३ चारुरेधि प्रियो देवानां परमे जनित्रे || ६५ ||
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया | भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव || ६६ ||
मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं | कविं सम्राजमतिथिं जनानामासन्नाः पात्रं जनयन्त देवाः || ६७ ||
वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरग्ने जनयन्त देवाः | तं त्वा गिरः सुष्टुतयो वाजयन्त्याजिं न गिर्ववाहो जिग्युरश्वाः || ६८ ||
आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः | अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वं || ६९ ||
इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन | नरो हव्येभिरीडते सबाध आग्निरग्रमुषसामशोचि || ७० ||
प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति | दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध || ७१ ||
अग्निं नरो दीधितिभिरण्योर्हस्तच्युतं जनयत प्रशस्तं | दूरेदृशं गृहपतिमथव्युं || ७२ ||
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे | मरुद्भिरग्न आ गहि || १६ ||
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः | सम्राजन्तमध्वराणां || १७ ||
और्वभृगुवच्छुचिमप्नवानवदा हुवे | अग्निं समुद्रवाससं || १८ ||
अग्निमिन्धानो मनसा धियं सचेत मर्त्यः | अग्निमिन्धे विवस्वभिः || १९ ||
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरं | परो यदिध्यते दिवि || २० ||

1.1.1.8 अष्टमी दशतिः — —
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं | यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ || ७३ ||
प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणं | नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वार्मणा धनर्चिं || ७४ ||
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि | विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु ||७५ ||
इडामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध | स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे || ७६ ||
प्र होता जातो महान्नभोविन्नृषद्मा सीददपां विवर्ते | दधद्यो धायी सुते वयांसि यन्ता वसूनि विधते तनूपाः || ७७ ||
प्र सम्राजमसुरस्य प्रश्स्तं पुंसः कृष्टीनामनुमाद्यस्य | इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारा वन्दमाना विवष्टु || ७८ ||
अरण्योर्निहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः | दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः || ७९ ||
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः | अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः || ८० ||

1.1.1.9 नवमी दशतिः — —
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो प्र नो राये पनीयसे रत्सि वाजाय पन्थां || ८१ ||
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः | आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यं || ८२ ||
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः | सूरो न हि द्युता त्वं कृपा पावक रोचसे || ८३ ||
त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे | त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि || ८४ ||
प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः | विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते || ८५ ||
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो | महिषीव त्वद्रयिस्त्वद्वाजा उदीरते || ८६ ||
विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं | अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः || ८७ ||
बृहद्वयो हि भानवेऽर्चा देवायाग्नये | यं मित्रं न प्रशस्तये मर्तासो दधिरे पुरः || ८८ ||
अगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवं | य स्म श्रुतर्वन्नार्क्षे बृहदनीक इध्यते || ८९ ||
जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः | पिता यत्कश्यपस्याग्निः श्रद्धा माता मनुः कविः || ९० ||

1.1.1.10 दशमी दशतिः — —
अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो प्र नो राये पनीयसे रत्सि वाजाय पन्थां || ८१ ||
यदि वीरो अनु ष्यादग्निमिन्धीत मर्त्यः | आजुह्वद्धव्यमानुषक्शर्म भक्षीत दैव्यं || ८२ ||
त्वेषस्ते धूम ऋण्वति दिवि सं च्छुक्र आततः | सूरो न हि द्युता त्वं कृपा पावक रोचसे || ८३ ||
त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे | त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि || ८४ ||
प्रातरग्निः पुरुप्रियो विष स्तवेतातिथिः | विश्वे यस्मिन्नमर्त्ये हव्यं मर्तास इन्धते || ८५ ||
यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो | महिषीव त्वद्रयिस्त्वद्वाजा उदीरते || ८६ ||

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!