श्रीलङ्केश्वरविरचिता शिवस्तुतिः
हे स्तोत्र म्हणून श्री शिवशंकराची कृपा दृष्टी प्राप्त होते ..
श्रीलङ्केश्वरविरचिता शिवस्तुतिः
गले कलितकालिम प्रकटितेन्दु भालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालकं जघनसीम्नि संदर्शित- द्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥
वृषोपरिपरिस्फुरद्धवलधाम धामश्रिया कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
रुचिरपुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥
उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् ।
विकासितजटाटवीविहरणोत्सवप्रोल्लस- त्तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥ ३ ॥
विहाय कमलालयाविलसितानि विद्युन्नटी- विडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४ ॥
भवद्भवनदेहलीविकटातुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथाम हे ॥ ५ ॥
त्वदर्चनपरायणप्रमथकन्यकालुण्ठित- प्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धसीमन्तिनी- प्रकीर्णसुमनोमनोरनमेरुणा मेरुणा ॥ ६ ॥
न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वस- न्नये शिव देवानिशं तव भवानि पूजापरः ॥ ७ ॥
विभूषणसुरापगाशुचितरालवालावली- वलद्बहलसीकरप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी नमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥ ८ ॥
बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं वटुविमृष्यमाणां भजे ॥ ९ ॥
त्वदीयसुरवाहिनीविमलवारिधारावल- ज्जटागहनगाहिनी मतिरियं ममाक्रामतु ।
उपोत्तमसरित्तटीविटपिताटवीप्रोल्लस- त्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥ १० ॥