स्कंद पुराण

स्कंद पुराण

नमः परमदेवाय त्रैगुण्याविजितात्मने  ।

सर्वतो योगरूपाय संसाराभावहेतवे  ॥ १.१ ॥

स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे  ।

षड्विंशाय प्रधानाय महादेवाय धीमते  ॥ १.२ ॥

प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे  ।

प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि  ॥ १.३ ॥

मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः  ।

तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः  ॥ १.४ ॥

पौराणिकमपश्यन्त सूतं सत्यपरायणम्  ।

स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम्  ॥ १.५ ॥

दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः  ।

आशास्यासनसंवेशं तद्योग्यं समकल्पयन्  ॥ १.६ ॥

स प्रणम्य च तान्सर्वान् सूतस्तान्मुनिपुंगवान्  ।

प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः  ॥ १.७ ॥

तमासीनमपृच्छन्त मुनयस्तपसैधिताः  ।

ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम्  ॥ १.८ ॥

कथितं भारताख्यानं पुराणं च परं त्वया  ।

तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः  ॥ १.९ ॥

सर्वागमपरार्थज्ञः सत्यधर्मपरायणः  ।

द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि  ॥ १.१० ॥

भारताख्यानसदृशं पुराणाद्यद्विशिष्यते  ।

तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः  ॥ १.११ ॥

इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः  ।

स्कन्दसंभवशुश्रूषा संजातौत्सुक्यमानसाः  ॥ १.१२ ॥

एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः  ।

प्रोवाचेदं मुनीन्सर्वान् वचो भूतार्थवाचकम्  ॥ १.१३ ॥

शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम्  ।

ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम्  ॥ १.१४ ॥

मुमुक्षया परं स्थानं याते शुकमहात्मनि  ।

सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत  ॥ १.१५ ॥

दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः  ।

विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः  ॥ १.१६ ॥

मेरुशृङ्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम्  ।

सनत्कुमारं वरदं योगैश्वर्यसमन्वितम्  ॥ १.१७ ॥

विमाने रविसंकाशे तिष्ठन्तमनलप्रभम्  ।

मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः  ॥ १.१८ ॥

वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः  ।

सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम्  ॥ १.१९ ॥

दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम्  ।

ववन्दे परया भक्त्या साक्षादिव पितामहम्  ॥ १.२० ॥

ब्रह्मसूनुरथ व्यासं समायातं महौजसम्  ।

परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम्  ॥ १.२१ ॥

दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् ।

अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम्  ॥ १.२२ ॥

श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः  ।

इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम्  ॥ १.२३ ॥

कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः  ।

किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम्  ॥ १.२४ ॥

कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम्  ।

उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः  ।

सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः  ॥ १.२५ ॥

कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः  ।

भूतसंमोहनं ह्येतत्कथयस्व यथातथम्  ॥ १.२६ ॥

सूत उवाच

एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः  ।

उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे  ।

तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः  ॥ १.२७ ॥

इति स्कन्दपुराणे प्रथमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!