स्कंद पुराण

स्कन्द पुराण १०

 

सनत्कुमार उवाच

सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः  ।

निराहारा कदाचिच्च एकपर्णाशना पुनः  ।

वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च  ॥ १०.१ ॥

तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम्  ।

उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते  ॥ १०.२ ॥

साब्रवीत्त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम्  ।

विचरेयं सुखं देव सर्वांल्लोकान्नमस्तव  ॥ १०.३ ॥

 

ब्रह्मोवाच

न हि येन शरीरेण क्रियते परमं तपः  ।

तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते  ॥ १०.४ ॥

तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः  ।

जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि  ॥ १०.५ ॥

ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी  ।

दक्षस्य दुहिता जज्ञे सती नामातियोगिनी  ॥ १०.६ ॥

तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम्  ।

ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान्  ॥ १०.७ ॥

आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान्  ।

अनेकानि सहस्राणि रुद्राणाममितौजसाम्  ॥ १०.८ ॥

तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् ।

मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः  ॥ १०.९ ॥

अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः  ।

तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः  ॥ १०.१० ॥

 

देव उवाच

न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन  ।

स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः  ॥ १०.११ ॥

ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः  ।

चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः  ॥ १०.१२ ॥

 

सनत्कुमार उवाच

अथ काले गते व्यास स दक्षः शापकारणात् ।

अन्यानाहूय जामातॄन् सदारानर्चयद्गृहे  ॥ १०.१३ ॥

सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः  ।

सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ॥ १०.१४ ॥

अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत  ।

मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम्  ॥ १०.१५ ॥

क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः  ।

निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव  ॥ १०.१६ ॥

मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः  ।

न त्वं तथा पूजयसे सह भर्त्रा महाव्रते  ॥ १०.१७ ॥

गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः  ।

श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम्  ॥ १०.१८ ॥

तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम्  ।

पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते  ॥ १०.१९ ॥

 

सनत्कुमार उवाच

ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता  ।

पूजामसंमतां हीनामिदं चोवाच तं शुभा  ॥ १०.२० ॥

यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि  ।

श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः  ॥ १०.२१ ॥

तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा  ।

असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह  ॥ १०.२२ ॥

 

सनत्कुमार उवाच

ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह  ।

उवाचेदं सुसंरब्धा वचनं वचनारणिः  ॥ १०.२३ ॥

यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया  ।

एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती  ।

गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः  ॥ १०.२४ ॥

ततः सा धारणां कृत्वा आग्नेयीं सहसा सती  ।

ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना  ॥ १०.२५ ॥

तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः  ।

उवाच दक्षं संगम्य इदं वचनकोविदः  ॥ १०.२६ ॥

यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् ।

जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे  ।

उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे  ॥ १०.२७ ॥

त्वं चैव मम शापेन क्षत्रियो भविता नृपः  ।

प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः  ।

धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः  ॥ १०.२८ ॥

 

सनत्कुमार उवाच

तमुवाच तदा दक्षो दूयता हृदयेन वै  ।

मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः  ।

किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा  ॥ १०.२९ ॥

यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर  ।

भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन  ॥ १०.३० ॥

भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः  ।

अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते  ॥ १०.३१ ॥

 

सनत्कुमार उवाच

ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः  ।

सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते  ॥ १०.३२ ॥

तमहं धारयाम्येको लोकानां हितकाम्यया  ।

भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः  ।

तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया  ॥ १०.३३ ॥

भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः  ।

अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः  ।

दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये  ॥ १०.३४ ॥

यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत  ।

अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च  ॥ १०.३५ ॥

देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः  ।

भागानपः स्पृशन्ति स्म तत्र का परिदेवना  ॥ १०.३६ ॥

त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः  ।

स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि  ॥ १०.३७ ॥

 

सनत्कुमार उवाच

एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः  ।

विरराम महातेजा जगाम च यथागतम्  ॥ १०.३८ ॥

चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम्  ।

गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः  ॥ १०.३९ ॥

य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम्  ।

शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः  ।

सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥ १०.४० ॥

 

 

इति स्कन्दपुराणे दशमोऽध्यायः

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!