स्कंद पुराण

स्कन्द पुराण १२

 

सनत्कुमार उवाच

ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम्  ।

देवि येनैव सृष्टासि मनसा यस्त्वया वृतः  ।

स भर्ता तव देवेशो भविता मा तपः कृथाः  ॥ १२.१ ॥

ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम्  ।

जगामादर्शनं तस्याः सा चापि विरराम ह  ॥ १२.२ ॥

सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह  ।

द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता  ॥ १२.३ ॥

अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः  ।

विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च  ॥ १२.४ ॥

विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः  ।

उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम्  ॥ १२.५ ॥

अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम्  ।

अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया  ॥ १२.६ ॥

तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि  ।

सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया  ॥ १२.७ ॥

 

देव्युवाच

भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा  ।

तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव  ॥ १२.८ ॥

गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम्  ।

स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम  ॥ १२.९ ॥

 

सनत्कुमार उवाच

ततः स भगवान्देवस्तथैव विकृतः प्रभुः  ।

उवाच शैलराजं तमुमां मे यच्छ शैलराट् ॥ १२.१० ॥

स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम्  ।

भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥ १२.११ ॥

भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान्  ।

मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः  ॥ १२.१२ ॥

स्वयंवरो मे दुहितुर्भविता विप्रपूजितः  ।

वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति  ॥ १२.१३ ॥

 

सनत्कुमार उवाच

तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः  ।

देव्याः समीपमागत्य इदमाह महामनाः  ॥ १२.१४ ॥

देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम्  ।

तत्र त्वं वरयित्री यं स ते भर्ता किलानघे  ॥ १२.१५ ॥

तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने  ।

रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम्  ॥ १२.१६ ॥

 

सनत्कुमार उवाच

तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम्  ।

भावं च रुद्रनिहितं प्रसादं मनसस्तथा  ॥ १२.१७ ॥

सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा  ।

अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन  ॥ १२.१८ ॥

अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन  ।

इहैव त्वां महाभाग वरयामि मनोरथम्  ॥ १२.१९ ॥

 

सनत्कुमार उवाच

गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम्  ।

स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे  ॥ १२.२० ॥

ततः स भगवान्देवस्तथा देव्या वृतस्तदा  ।

उवाच तमशोकं वै वाचा संजीवयन्निव  ॥ १२.२१ ॥

यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम्  ।

तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि  ॥ १२.२२ ॥

कामरूपः कामपुष्पः कामगो दयितो मम  ।

सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः  ॥ १२.२३ ॥

सर्वान्नभक्षदश्चैव अमृतस्रव एव च  ।

सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः  ।

निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः  ॥ १२.२४ ॥

आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम्  ।

योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति  ।

यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति  ॥ १२.२५ ॥

यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् ।

स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥ १२.२६ ॥

 

सनत्कुमार उवाच

एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम्  ।

अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः  ॥ १२.२७ ॥

सापि देवी गते तस्मिन् भगवत्यमितात्मनि  ।

तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह  ॥ १२.२८ ॥

उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ  ।

निशेव चन्द्ररहिता सा बभौ विमनास्तदा  ॥ १२.२९ ॥

अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा  ।

सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह  ॥ १२.३० ॥

स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः  ।

क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा  ॥ १२.३१ ॥

योगमायामथास्थाय प्रपञ्चोद्भवकारणम्  ।

तद्रूपं सरसो मध्ये कृत्वेदं समभाषत  ।

त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम्  ॥ १२.३२ ॥

धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः  ।

यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः  ॥ १२.३३ ॥

शोचामि न स्वकं देहं ग्राहग्रस्तोऽपि दुःखितः  ।

यथा शोचामि पितरं मातरं च तपस्विनीम्  ॥ १२.३४ ॥

मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ  ।

प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः  ॥ १२.३५ ॥

 

सनत्कुमार उवाच

श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना  ।

उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः  ॥ १२.३६ ॥

सापश्यदिन्दुवदना बालकं चारुरूपिणम्  ।

ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम्  ॥ १२.३७ ॥

सोऽपि ग्राहवरः श्रीमान् दृष्ट्वा देवीमुपागताम्  ।

तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह  ॥ १२.३८ ॥

स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् ।

अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता  ॥ १२.३९ ॥

ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम्  ।

विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम  ॥ १२.४० ॥

 

ग्राह उवाच

यो देवि दिवसे षष्ठे प्रथमं समुपैति माम्  ।

स आहारो मम पुरा विहितो लोककर्तृभिः  ॥ १२.४१ ॥

सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे  ।

ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन  ॥ १२.४२ ॥

 

देव्युवाच

यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम्  ।

तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते  ॥ १२.४३ ॥

 

ग्राह उवाच

मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने  ।

नैनं मोचयितुं शक्तो देवराजोऽपि स स्वयम्  ॥ १२.४४ ॥

मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना  ।

अमरत्वमवध्यत्वमक्षयं बलमेव च  ॥ १२.४५ ॥

स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः  ।

दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति  ॥ १२.४६ ॥

अथ वा ते कृपा देवि भृशं बाले शुभानने  ।

ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति  ॥ १२.४७ ॥

 

देव्युवाच

ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम्  ।

तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम्  ॥ १२.४८ ॥

 

ग्राह उवाच

यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः  ।

तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति  ॥ १२.४९ ॥

 

देव्युवाच

जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया  ।

तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः  ॥ १२.५० ॥

 

सनत्कुमार उवाच

प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः  ।

आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत् ॥ १२.५१ ॥

उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम्  ।

देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते  ।

तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते  ॥ १२.५२ ॥

गृहाण तप एतच्च बालं चेमं शुचिस्मिते  ।

तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते  ॥ १२.५३ ॥

सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता  ।

सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम्  ।

न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः  ॥ १२.५४ ॥

दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते  ।

न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत् ॥ १२.५५ ॥

दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः  ।

त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम्  ॥ १२.५६ ॥

तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च  ।

देवीमादित्यसद्भासं तत्रैवान्तरधीयत  ॥ १२.५७ ॥

बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा  ।

स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत  ॥ १२.५८ ॥

तपसोऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा  ।

भूय एव तपः कर्तुमारेभे यत्नमास्थिता  ॥ १२.५९ ॥

कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम्  ।

प्रोवाच वचनं व्यास मा कृथास्तप इत्युत  ॥ १२.६० ॥

मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते  ।

तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा  ॥ १२.६१ ॥

इति लब्ध्वा वरं देवी तपसोऽक्षय्यमुत्तमम्  ।

स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता  ॥ १२.६२ ॥

इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः  ।

स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः  ॥ १२.६३ ॥

 

 

इति स्कन्दपुराणे द्वादशमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!