स्कंद पुराण

स्कन्द पुराण १३

 

सनत्कुमार उवाच

विस्तृते हिमवत्पृष्ठे विमानशतसंकुले  ।

अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः  ॥ १३.१ ॥

अथ पर्वतराजोऽसौ हिमवान्ध्यानकोविदः  ।

दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम्  ॥ १३.२ ॥

जानन्नपि महाशैलः समाचारक्रियेप्सया  ।

स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत् ॥ १३.३ ॥

देवदानवसिद्धानां सर्वलोकनिवासिनाम्  ।

वृणुयात्परमेशानं समक्षं येन मे सुता  ॥ १३.४ ॥

तदेव सुकृतं श्लाघ्यं ममाभ्युदयसंमतम्  ।

इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्  ॥ १३.५ ॥

आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः  ।

कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥ १३.६ ॥

अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः  ।

देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः  ॥ १३.७ ॥

प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः  ।

विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम  ॥ १३.८ ॥

अक्ष्णां सहस्रं सुरराट्स बिभ्रद्दिव्याङ्गहारस्रगुदात्तरूपः  ।

ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम्  ।

आरुह्य सर्वामरराट्स वज्रं बिभ्रत्समागात्पुरतः सुराणाम्  ॥ १३.९ ॥

तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान्  ।

हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन  ॥ १३.१० ॥

मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने  ।

समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी  ॥ १३.११ ॥

पीनाङ्गयष्टिः सुकृताङ्गहारस्तेजोबलाज्ञासदृशप्रभावः  ।

दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन  ॥ १३.१२ ॥

महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः  ।

समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि  ॥ १३.१३ ॥

संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य  ।

वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी  ॥ १३.१४ ॥

नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम्  ।

आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोऽभ्यगाच्च  ॥ १३.१५ ॥

आप्याययन्सर्वसुरासुरेशान् कान्त्या च वेषेण च चारुरूपः  ।

ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात् ॥ १३.१६ ॥

श्यामाङ्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली  ।

तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोऽसौ त्वरितं समेतः  ॥ १३.१७ ॥

तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य  ।

मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ  ॥ १३.१८ ॥

शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः  ।

सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च  ॥ १३.१९ ॥

दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम्  ।

वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम्  ॥ १३.२० ॥

गन्धर्वराजः स च चारुरूपी दिव्यङ्गमो दिव्यविमानचारी  ।

गन्धर्वसंघैः सहितोऽप्सरोभिः शक्राज्ञया तत्र समाजगाम  ॥ १३.२१ ॥

अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः  ।

आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च  ॥ १३.२२ ॥

शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः  ।

आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार  ॥ १३.२३ ॥

हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम्  ।

पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था  ।

दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी  ॥ १३.२४ ॥

एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश  ।

वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते  ॥ १३.२५ ॥

ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः  ।

स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः  ॥ १३.२६ ॥

विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताङ्गी  ।

सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे  ॥ १३.२७ ॥

 

सनत्कुमार उवाच

मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि  ।

शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः  ॥ १३.२८ ॥

देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः  ।

उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः  ॥ १३.२९ ॥

अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम्  ।

ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता  ॥ १३.३० ॥

अथ सा शुद्धसंकल्पा काङ्क्षितप्राप्तसत्फला  ।

निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु  ॥ १३.३१ ॥

ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम्  ।

कोऽयमत्रेति संमन्त्र्य चुक्रुधुर्भृशमार्दिताः  ॥ १३.३२ ॥

वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा  ।

स बाहुरुत्थितस्तस्य तथैव समतिष्ठत  ॥ १३.३३ ॥

स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना  ।

वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च  ॥ १३.३४ ॥

भगो नाम ततो देव आदित्यः काश्यपो बली  ।

उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः  ।

तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा  ॥ १३.३५ ॥

शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत  ।

तस्यापि शिरसो देवः खालित्यं प्रचकार ह  ॥ १३.३६ ॥

पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः  ।

तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना  ॥ १३.३७ ॥

यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा  ।

बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम्  ।

बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः  ॥ १३.३८ ॥

अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु  ।

ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम्  ।

बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम्  ॥ १३.३९ ॥

स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम्  ।

ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः  ।

पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः  ॥ १३.४० ॥

अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः  ।

प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम्  ॥ १३.४१ ॥

अमृतं परमात्मा च ईश्वरः कारणं महत् ।

ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः  ॥ १३.४२ ॥

इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम्  ।

पत्नीरूपं समास्थाय जगत्कारणमागता  ॥ १३.४३ ॥

नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः  ।

प्रसादात्तव देवेश नियोगाच्च मया प्रजाः  ॥ १३.४४ ॥

देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः  ।

कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे  ॥ १३.४५ ॥

तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम्  ।

स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः  ॥ १३.४६ ॥

मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम्  ।

देवदेवमिहायातं ममैवोत्पत्तिकारणम्  ॥ १३.४७ ॥

अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान्  ।

उग्र ईशान आत्मा च अजः शंकर एव च  ॥ १३.४८ ॥

देवदेवः परं धाम ईशः पशुपतिः पतिः  ।

जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम्  ॥ १३.४९ ॥

गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः  ।

सार्धं मयैव देवेशं परमात्मानमव्ययम्  ॥ १३.५० ॥

ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः  ।

प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा  ॥ १३.५१ ॥

अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः  ।

यथापूर्वं चकाराशु देवतानां तनूस्तदा  ॥ १३.५२ ॥

तत एवं प्रवृत्ते तु सर्वदेवनिवारणे  ।

वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम्  ।

तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम्  ॥ १३.५३ ॥

तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ।

प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम्  ॥ १३.५४ ॥

ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम्  ।

ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः  ॥ १३.५५ ॥

तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम्  ।

पादयोः स्थापयामास स्रग्मालाममितद्युतेः  ॥ १३.५६ ॥

साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम्  ।

सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः  ॥ १३.५७ ॥

अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः  ।

हिमवन्तं महाशैलमिदमाह महाद्युतिः  ॥ १३.५८ ॥

श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि  ।

शर्वेण सह सम्बन्धो यस्य तेऽभूदयं महान्  ।

क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम्  ॥ १३.५९ ॥

ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत  ।

त्वमेव कारणं देव येन शर्वादयं मम  ॥ १३.६० ॥

प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि  ।

उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह  ॥ १३.६१ ॥

तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः  ।

उद्वाहः क्रियतां देव इति देवमुवाच ह  ।

तमाह शंकरो देवं यथेष्टमिति लोकपः  ॥ १३.६२ ॥

तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम्  ।

उद्वाहार्थं महेशस्य नानारत्नोपशोभितम्  ॥ १३.६३ ॥

रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च  ।

मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम्  ॥ १३.६४ ॥

चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता  ।

भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता  ॥ १३.६५ ॥

तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते  ।

शुशुभे देवदेवस्य महेशस्य महात्मनः  ॥ १३.६६ ॥

सोमादित्यौ समं तत्र भासयन्तौ महामणी  ।

सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः  ।

प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन्  ॥ १३.६७ ॥

समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः  ।

देवनद्यो महानद्यः सिद्धा मुनय एव च  ॥ १३.६८ ॥

गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः  ।

गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः  ॥ १३.६९ ॥

तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः  ।

रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम्  ॥ १३.७० ॥

ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः  ।

पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः  ॥ १३.७१ ॥

जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः  ।

गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः  ॥ १३.७२ ॥

ऋतवः षट्समं तत्र नानागन्धसुखावहाः  ।

उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः  ॥ १३.७३ ॥

नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः  ।

केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः  ॥ १३.७४ ॥

विलोलपिङ्गलस्पष्ट विद्युल्लेखावभासिता  ।

कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता  ॥ १३.७५ ॥

प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा  ।

शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता  ॥ १३.७६ ॥

प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम्  ।

मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री  ॥ १३.७७ ॥

तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः  ।

पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता  ॥ १३.७८ ॥

विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः  ।

विकम्पयन्ती पवनैर्मनोहरैः सुराङ्गनानामलकावलीः शुभाः  ॥ १३.७९ ॥

गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा  ।

निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः  ॥ १३.८० ॥

हंसनूपुरशब्दाढ्या समुन्नतपयोधरा  ।

चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना  ॥ १३.८१ ॥

असितजलदवृन्दध्वानवित्रस्तहंसा विमलसलिलधारापातनम्रोत्पलाग्रा  ।

सुरभिकुसुमरेणुकॢप्तसर्वाङ्गशोभा गिरिदुहितृविवाहे प्रावृडागाद्विभूत्यै  ॥ १३.८२ ॥

मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी  ।

हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा  ॥ १३.८३ ॥

विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला  ।

प्रफुल्लेन्दीवराभोग विलोचनमनोहरा  ॥ १३.८४ ॥

पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी  ।

नवश्यामालताश्याम रोमराजीपरिष्कृता  ॥ १३.८५ ॥

चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा  ।

प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम्  ॥ १३.८६ ॥

समदालिकुलोद्गीत मधुरस्वरभाषिणी  ।

चलत्कुमुदसंघात चारुकुण्डलशोभिनी  ॥ १३.८७ ॥

रक्ताशोकाग्रशाखोत्थ पल्लवाङ्गुलिधारिणी  ।

तत्पुष्पसंचयमयैर्वासोभिः समलंकृता  ॥ १३.८८ ॥

रक्तोत्पलाग्रचरणा जातीपुष्पनखावली  ।

कदलीस्तम्भचारूरुः शशाङ्कवदना तथा  ॥ १३.८९ ॥

पद्मकिञ्जल्कसम्पृक्त पवनाग्रकरैः सुरान्  ।

प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा  ॥ १३.९० ॥

निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी  ।

नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत् ॥ १३.९१ ॥

अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः  ।

ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती  ॥ १३.९२ ॥

ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः  ।

प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ  ॥ १३.९३ ॥

तेन प्रालेयवर्षेण घनेन स हिमाचलः  ।

अगाधेन तदा रेजे क्षीरोद इव सागरः  ॥ १३.९४ ॥

हिमस्थानेषु हिमवान्नाशयामास पादपान्  ।

साधूपचारान्सहसा कृतार्थ इव दुर्जनः  ॥ १३.९५ ॥

प्रालेयपटलच्छन्नैः शृङ्गैः स शुशुभे नगः  ।

छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः  ॥ १३.९६ ॥

पाण्डराणि विशालानि श्रीमन्ति सुभगानि च  ।

तुङ्गानि चाद्रिशृङ्गाणि सौधानीव चकाशिरे  ॥ १३.९७ ॥

तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्गकुलाकुलासु  ।

प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः  ॥ १३.९८ ॥

बहुकुसुमरजोभिरुत्कराङ्गा हिमकणसङ्गसुशीतलाः समीराः  ।

ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः  ॥ १३.९९ ॥

निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताङ्कुरकर्णपूरः  ।

वसन्तकालश्च तमद्रिपुत्री सेवार्थमागाद्धिमवन्तमाशु  ॥ १३.१०० ॥

तस्मिन्नृतावद्रिसुताविवाह सिषेवया तं गिरिमभ्युपेते  ।

प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः  ॥ १३.१०१ ॥

ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराङ्गाः  ।

मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः  ॥ १३.१०२ ॥

स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः  ।

ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः  ॥ १३.१०३ ॥

ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः  ।

चेतोभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः  ॥ १३.१०४ ॥

नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि  ।

चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः  ॥ १३.१०५ ॥

प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः  ।

तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे  ॥ १३.१०६ ॥

हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः  ।

शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः  ॥ १३.१०७ ॥

फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः  ।

कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः  ॥ १३.१०८ ॥

समदालिकुलोद्गीत लताकुसुमसंचयाः  ।

परस्परं हि मालत्यो भाषन्त्य इव रेजिरे  ॥ १३.१०९ ॥

नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः  ।

रक्तैश्च रक्तानि भृशं कृतानि मत्तद्विरेफार्धविदष्टपत्रैः  ॥ १३.११० ॥

हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् ।

वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः  ॥ १३.१११ ॥

वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः  ।

नानाविहगसंघुष्टा हेमसोपानपङ्क्तयः  ॥ १३.११२ ॥

शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः  ।

समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने  ॥ १३.११३ ॥

ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः  ।

सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः  ॥ १३.११४ ॥

कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः  ।

गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम्  ॥ १३.११५ ॥

चीरुवाकविघुष्टानि किंशुकानां वनानि च  ।

पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे  ॥ १३.११६ ॥

तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा  ।

नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु  ॥ १३.११७ ॥

निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च  ।

प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज  ॥ १३.११८ ॥

श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः  ।

तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः  ॥ १३.११९ ॥

पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः  ।

देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम्  ॥ १३.१२० ॥

स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः  ।

शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः  ॥ १३.१२१ ॥

तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः  ।

ववुः पाटलविस्तीर्ण कदम्बार्जुनगन्धिनः  ॥ १३.१२२ ॥

वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः  ।

अभवंस्तटसंघुष्ट कलहंसकदम्बकाः  ॥ १३.१२३ ॥

तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः  ।

सर्वेषु जज्ञुः शृङ्गेषु भ्रमरावलिसेविताः  ॥ १३.१२४ ॥

बकुलाश्च नितम्बेषु विशालेषु महीभृतः  ।

उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः  ॥ १३.१२५ ॥

इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः  ।

हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर  ॥ १३.१२६ ॥

तत एवं प्रवृत्ते तु सर्वभूतसमागमे  ।

नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम्  ॥ १३.१२७ ॥

शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा  ।

पुरं प्रवेशयामास स्वयमादाय लोकधृक् ॥ १३.१२८ ॥

ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम्  ।

हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः  ।

ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः  ॥ १३.१२९ ॥

तमाह शंकरो देवं देवदेवो जगत्पतिः  ।

यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम्  ।

कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो  ॥ १३.१३० ॥

ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः  ।

हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह  ॥ १३.१३१ ॥

ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितं   ।

श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः  ॥ १३.१३२ ॥

यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि  ।

त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम्  ॥ १३.१३३ ॥

मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः  ।

सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना  ।

वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम्  ॥ १३.१३४ ॥

योगेनैव तयोर्व्यास तदोमापरमेशयोः  ।

उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित् ॥ १३.१३५ ॥

इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम्  ।

उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम्  ॥ १३.१३६ ॥

 

 

इति स्कन्दपुराणे नाम त्रयोदशोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!