स्कंद पुराण

 

स्कन्द पुराण १५

 

सनत्कुमार उवाच

प्रविष्टे भवनं देवे सूपविष्टे वरासने  ।

स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् ॥ १५.१ ॥

तमनाचारसंयुक्तं दुरात्मानं कुलाधमम्  ।

लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम्  ॥ १५.२ ॥

ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह  ।

चक्राह्वयस्य रूपेण रत्या सह तमागतम्  ॥ १५.३ ॥

अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम्  ।

नयनेन तृतीयेन सावज्ञं तमवैक्षत  ॥ १५.४ ॥

ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान्  ।

संवृत्य रतिभर्तारमदहत्सपरिच्छदम्  ॥ १५.५ ॥

स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम्  ।

प्रसादयंश्च तं देवं पपात स महीतले  ॥ १५.६ ॥

आशु सोऽग्निपरीताङ्गो मन्मथो लोकतापनः  ।

पपात भस्मसाच्चैव क्षणेन समपद्यत  ॥ १५.७ ॥

पत्नी तु करुणं तस्य विललाप सुदुःखिता  ।

देवं देवीं च दुःखार्ता अयाचत्करुणायती  ॥ १५.८ ॥

तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ  ।

ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम्  ॥ १५.९ ॥

दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते  ।

अशरीरोऽपि ते काले कार्यं सर्वं करिष्यति  ॥ १५.१० ॥

यदा तु विष्णुर्भविता वसुदेवसुतः शुभे  ।

तदा तस्य सुतोऽयं स्यात्पतिस्ते स भविष्यति  ॥ १५.११ ॥

 

सनत्कुमार उवाच

ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना  ।

जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा  ॥ १५.१२ ॥

 

सनत्कुमार उवाच

एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम्  ।

प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह  ॥ १५.१३ ॥

वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते  ।

तस्याहं वरदानाय प्रयास्यामि महाव्रते  ॥ १५.१४ ॥

एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः  ।

जगाम तप्यतोऽभ्याशं वसिष्ठस्य मुनेर्विभुः  ॥ १५.१५ ॥

ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम्  ।

वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः  ॥ १५.१६ ॥

पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम्  ।

उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते  ।

ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज  ॥ १५.१७ ॥

दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम्  ।

शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः  ॥ १५.१८ ॥

 

वसिष्ठ उवाच

नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः  ।

नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः  ॥ १५.१९ ॥

नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः  ।

नमः पवनलिङ्गाय ब्रह्मलिङ्गाय वै नमः  ॥ १५.२० ॥

नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः  ।

नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः  ॥ १५.२१ ॥

नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने  ।

नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने  ॥ १५.२२ ॥

नमोऽस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः  ।

नमोऽहंकारलिङ्गाय भूतलिङ्गाय वै नमः  ॥ १५.२३ ॥

नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने  ।

नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः  ॥ १५.२४ ॥

नमः सर्वार्थलिङ्गाय तमोलिङ्गाय वै नमः  ।

नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः  ॥ १५.२५ ॥

नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः  ।

नमो वायूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः  ॥ १५.२६ ॥

नमो ऋक्स्तुतलिङ्गाय यजुर्लिङ्गाय वै नमः  ।

नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय वै नमः  ॥ १५.२७ ॥

नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः  ।

नमस्तेऽनन्तलिङ्गाय देवानुगतलिङ्गिने  ॥ १५.२८ ॥

दिश नः परमं योगमपत्यं मत्समं तथा  ।

ब्रह्म चैवाक्षयं देव शमं चैव परं विभो  ।

अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम्  ॥ १५.२९ ॥

 

सनत्कुमार उवाच

एवं स भगवान्व्यास वसिष्ठेनामितात्मना  ।

स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् ॥ १५.३० ॥

 

भगवानुवाच

तुष्टस्तेऽहं ददान्येतत्तव सर्वं मनोगतम्  ।

योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम्  ॥ १५.३१ ॥

पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम्  ।

ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते  ॥ १५.३२ ॥

दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च  ।

नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः  ॥ १५.३३ ॥

अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा  ।

वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया  ।

ब्रूहि चान्यानपि वरान् ददामि ऋषिसत्तम  ॥ १५.३४ ॥

 

वसिष्ठ उवाच

भगवन्विदितं सर्वं भविष्यं देवसत्तम  ।

न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो  ॥ १५.३५ ॥

 

देव उवाच

भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः  ।

अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा  ॥ १५.३६ ॥

तथा तन्नात्र संदेहो विहितं यद्यथा मया  ।

तस्मात्तेऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः  ॥ १५.३७ ॥

 

सनत्कुमार उवाच

एवमुक्त्वा ततो देवः कपर्दी नीललोहितः  ।

पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत  ॥ १५.३८ ॥

 

 

इति स्कन्दपुराणे पञ्चदशमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!