स्कंद पुराण
स्कन्द पुराण १६
व्यास उवाच
वरान्स लब्ध्वा भगवान् वसिष्ठोऽस्मत्पितामहः ।
कं पुत्रं जनयामास आत्मनः सदृशद्युतिम् ॥ १६.१ ॥
सनत्कुमार उवाच
तेनासौ वरदानेन देवदेवस्य शूलिनः ।
अरुन्धत्यामजनयत्तपोयोगबलान्वितम् ।
ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम् ॥ १६.२ ॥
तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः ।
परेण चेतसा भक्तिरभवद्गोवृषध्वजे ॥ १६.३ ॥
स कदाचिदपत्यार्थमाराधयदुमापतिम् ।
तस्य तुष्टो महादेवो वरदोऽस्मीत्यभाषत ॥ १६.४ ॥
अथ दृष्ट्वा तमीशानमिदमाहानताननः ।
केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः ।
सर्वान्धारयसे लोकानात्मना समयाद्विभो ॥ १६.५ ॥
त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया ।
उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः ॥ १६.६ ॥
आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो ।
इच्छामि दत्तं देवेश एष मे दीयतां वरः ॥ १६.७ ॥
सनत्कुमार उवाच
तमेवंवादिनं देवः प्रहस्य वदतां वरः ।
उवाच वचसा व्यास दिशः सर्वा विनादयन् ॥ १६.८ ॥
त्वयाहं याचितः शक्ते स च ते संभविष्यति ।
त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव ॥ १६.९ ॥
बीजात्मा च तथोद्भूतः स्वयमेवाङ्कुरात्मना ।
बीजात्मना न भवति परिणामान्तरं गतः ॥ १६.१० ॥
एवं स आत्मनात्मा वः संभूतोऽपत्यसंज्ञितः ।
स्वेनात्मना न भविता परिणामान्तरं गतः ॥ १६.११ ॥
सनत्कुमार उवाच
एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च ।
जगाम सहसा योगी अदृश्यत्वमतिद्युतिः ॥ १६.१२ ॥
तस्मिन्गते महादेवे शक्तिस्तव पितामहः ।
वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत ॥ १६.१३ ॥
अथ कालेऽतिमहति समतीते शुभव्रते ।
तपसा भावितश्चापि महताग्निसमप्रभः ।
अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम् ॥ १६.१४ ॥
तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् ।
भक्षयामास संरब्धो रक्षसा हृतचेतनः ॥ १६.१५ ॥
इति स्कन्दपुराणे षोडशोऽध्यायः