स्कंद पुराण

 

स्कन्द पुराण १७

 

व्यास उवाच

कस्मात्स राजा तमृषिं चखाद तपसान्वितम्  ।

रक्षसा स किमर्थं च हृतचेताभवन्नृपः  ॥ १७.१ ॥

 

सनत्कुमार उवाच

वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः  ।

सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः  ॥ १७.२ ॥

तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम्  ।

तत्र मे निशि राजेन्द्र सदैव पिशिताशनम्  ॥ १७.३ ॥

इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम्  ।

अप्रतीकारसंयुक्तमेकदैकान्त एव च  ॥ १७.४ ॥

एवमस्त्विति तेनोक्तो जगाम स महामनाः  ।

अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा  ।

नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम  ॥ १७.५ ॥

गतेऽथ दिवसे तात संस्मृत्य प्रयतात्मवान्  ।

सूदमाहूय चोवाच आर्तवत्स नराधिपः  ॥ १७.६ ॥

 

सौदास उवाच

मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः  ।

पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम्  ।

तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा  ॥ १७.७ ॥

स एवमुक्तः प्रोवाच सूदोऽमृतवसुस्तदा  ।

राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव  ।

साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम्  ॥ १७.८ ॥

पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम्  ।

अमितस्य प्रदानाच्च न किंचिदवशिष्यते  ॥ १७.९ ॥

 

राजोवाच

जाने सर्वोपयोगं च जाने चादुष्टतां तव  ।

जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम्  ।

मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे  ॥ १७.१० ॥

 

सनत्कुमार उवाच

एवमुक्तोऽमृतवसुः प्रयत्नं महदास्थितः  ।

पिशितं मृगयन्सम्यङ्नाप्यविन्दत कर्हिचित् ॥ १७.११ ॥

यदा न लब्धवान्मांसं तदोवाच नराधिपम्  ।

गत्वा निशि महाराजमिदं वचनमर्थवत् ॥ १७.१२ ॥

राजन्न पिशितं त्वस्ति पुरेऽस्मिञ्छुचि कर्हिचित् ।

मृगयन्परिखिन्नोऽस्मि शाधि किं करवाणि ते  ॥ १७.१३ ॥

 

सनत्कुमार उवाच

स एवमुक्तः सूदेन तस्मिन्काले नराधिपः  ।

नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह  ॥ १७.१४ ॥

तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः  ।

राक्षसो रुधिरो नाम संविवेश नराधिपम्  ॥ १७.१५ ॥

रक्षसा स तदाविष्टो रुधिरेण दुरात्मना  ।

उवाच सूदं शनकैः कर्णमूले महाद्युतिः  ॥ १७.१६ ॥

गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः  ।

गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि  ॥ १७.१७ ॥

किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम्  ।

रसवद्गन्धवच्चैव क्षिप्रमेव समाचर  ॥ १७.१८ ॥

 

सनत्कुमार उवाच

स एवमुक्तस्तेनाथ मानुषं मांसमाददे  ।

राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित् ॥ १७.१९ ॥

अथार्धरात्रसमये भास्कराकारवर्चसम्  ।

शतानलसमप्रख्यमपश्यन्मुनिसत्तमम्  ॥ १७.२० ॥

स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च  ।

समर्चयित्वा विधिवदन्नमस्योपपादयत् ॥ १७.२१ ॥

स तदन्नं समानीतं समालभ्य महातपाः  ।

चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव  ॥ १७.२२ ॥

 

शक्तिरुवाच

पार्थिवाधम विप्राणां भोजनं राक्षसोचितम्  ।

न दीयते विधिज्ञेन त्वं तु मामवमन्यसे  ॥ १७.२३ ॥

यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम्  ।

तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि  ॥ १७.२४ ॥

 

सनत्कुमार उवाच

एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा  ।

उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः  ॥ १७.२५ ॥

पुरुषादो भवेत्येवं मामवोचद्भवान्यतः  ।

ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज  ॥ १७.२६ ॥

भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम्  ।

चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम्  ।

पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम्  ॥ १७.२७ ॥

 

 

इति स्कन्दपुराणे सप्तदशमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!