स्कंद पुराण

 

स्कन्द पुराण १८

 

सनत्कुमार उवाच

ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया  ।

वनं विवेश तत्राभूत्पुरुषादो महाबलः  ॥ १८.१ ॥

सोऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम्  ।

ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः  ॥ १८.२ ॥

ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः  ।

नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति  ।

पुत्रशोकेन महता भृशमेवान्वकीर्यत  ॥ १८.३ ॥

स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः  ।

नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् ।

शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः  ॥ १८.४ ॥

पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी  ।

तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः  ॥ १८.५ ॥

ततोऽटवीं समासाद्य निराहारो जितेन्द्रियः  ।

वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन्  ॥ १८.६ ॥

अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम्  ।

अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत  ॥ १८.७ ॥

अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा  ।

उपतस्थेऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा  ॥ १८.८ ॥

तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः  ।

सोवाच दीनया वाचा रुदती श्वशुरं तदा  ॥ १८.९ ॥

 

अदृश्यन्त्युवाच

यदैव सुतदुःखेन निर्गतोऽस्याश्रमाद्गुरो  ।

तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता  ॥ १८.१० ॥

अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो  ।

उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः  ॥ १८.११ ॥

 

सनत्कुमार उवाच

इदानीमस्ति मे वत्से जीविताशेति सोऽब्रवीत् ।

क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः  ॥ १८.१२ ॥

तदाश्रमपदं गच्छन् पथि राजानमैक्षत  ।

वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम्  ॥ १८.१३ ॥

अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः  ।

ततोऽस्य निर्गतः कायाद्रक्षः परमदारुणः  ॥ १८.१४ ॥

उवाच चैनं दुष्टात्मन् दहेयं त्वां सबान्धवम्  ।

दग्धेन च त्वया किं मे गच्छ मुक्तोऽसि दुर्मते  ॥ १८.१५ ॥

ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् ।

प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम्  ॥ १८.१६ ॥

गते निशाचरे राजा प्रणम्य शिरसा मुनिम्  ।

प्रसादयामास तदा स चोवाचेदमर्थवत् ॥ १८.१७ ॥

न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै  ।

कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः  ॥ १८.१८ ॥

प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो  ।

ब्रूहि किं वा प्रियं तेऽद्य करोमि नरपुंगव  ॥ १८.१९ ॥

 

राजोवाच

इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत  ।

देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम्  ॥ १८.२० ॥

 

सनत्कुमार उवाच

एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः  ।

पुत्रं च शोणकं नाम जनयामास निर्वृतः  ॥ १८.२१ ॥

तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः  ।

जगाम वनमेवाशु सभार्यस्तपसि स्थितः  ॥ १८.२२ ॥

वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान्  ।

अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः  ॥ १८.२३ ॥

वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत  ।

तात तातेति च मुहुर्व्याजहार पितुर्गुरुम्  ॥ १८.२४ ॥

ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम्  ।

पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा  ॥ १८.२५ ॥

तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम्  ।

जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम्  ॥ १८.२६ ॥

सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः  ।

ऋषिभिर्दैवतैश्चैव इदमाह पराशरम्  ॥ १८.२७ ॥

 

ब्रह्मोवाच

देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः  ।

अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्  ॥ १८.२८ ॥

 

पराशर उवाच

सह देवैरहं सर्वांल्लोकान्धक्ष्यामि पावकैः  ।

दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः  ॥ १८.२९ ॥

 

सनत्कुमार उवाच

तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः  ।

उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः  ॥ १८.३० ॥

 

पितामह उवाच

कृतमेतन्न संदेहो यथा ब्रूषे महामते  ।

क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया  ॥ १८.३१ ॥

यैस्ते पिता महाभाग भक्षितः सह सोदरैः  ।

त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः  ।

अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः  ॥ १८.३२ ॥

तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् ।

वसिष्ठस्य महाभाग त्वं निवारय पुत्रक  ॥ १८.३३ ॥

देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम्  ।

ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा  ॥ १८.३४ ॥

ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् ।

विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम्  ॥ १८.३५ ॥

य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान्  ।

रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति  ॥ १८.३६ ॥

तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः  ।

विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ  ॥ १८.३७ ॥

 

सनत्कुमार उवाच

ततो देवाः सगन्धर्वाः पितामहपुरःसराः  ।

प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन्  ॥ १८.३८ ॥

हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु  ।

संजहार ततः सत्त्रं ब्रह्मणोऽनुमते तदा  ॥ १८.३९ ॥

 

सनत्कुमार उवाच

य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान्  ।

श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः  ॥ १८.४० ॥

पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम्  ।

निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम्  ॥ १८.४१ ॥

 

 

इति स्कन्दपुराणेऽष्टादशमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!