स्कंद पुराण

 

स्कन्द पुराण १९

 

सनत्कुमार उवाच

एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् ।

समापयित्वा च पुनस्तपस्तेपे च भास्वरम्  ॥ १९.१ ॥

तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम्  ।

उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः  ॥ १९.२ ॥

 

वसिष्ठ उवाच

पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम्  ।

पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम्  ॥ १९.३ ॥

अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः  ।

करिष्यति गतिं चैव इति वेदविदो विदुः  ॥ १९.४ ॥

स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः  ।

पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो  ॥ १९.५ ॥

तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर  ।

सुतमुत्पादय क्षिप्रमधिकं सममेव वा  ॥ १९.६ ॥

 

सनत्कुमार उवाच

स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना  ।

मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम्  ॥ १९.७ ॥

तस्य कालेन महता तपसा भावितस्य तु  ।

उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम्  ॥ १९.८ ॥

स लब्धवर आगम्य ययाचे पुत्रकारणात् ।

क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत् ॥ १९.९ ॥

सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम्  ।

पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम्  ॥ १९.१० ॥

मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा  ।

अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम्  ॥ १९.११ ॥

तस्यां स जनयामास वरं दत्त्वा महातपाः  ।

भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम्  ॥ १९.१२ ॥

तव पुत्रोऽभवच्चापि शुको योगविदां वरः  ।

तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा  ॥ १९.१३ ॥

 

व्यास उवाच

कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः  ।

कथं चापगतं भूय एतदिच्छामि वेदितुम्  ॥ १९.१४ ॥

 

सनत्कुमार उवाच

पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते  ।

सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः  ॥ १९.१५ ॥

तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता  ।

मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा  ॥ १९.१६ ॥

मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान्  ।

सरस्वतीमथैकान्ते वसिष्ठं मे महापगे  ।

स्रोतसा महताक्षिप्य स्नायमानमिहानय  ॥ १९.१७ ॥

सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता  ।

यदुक्तवांस्तु गाधेयः स चोवाच महानदीम्  ॥ १९.१८ ॥

एवं कुरु महाभागे मां नयस्व यथेप्सितम्  ।

मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम्  ॥ १९.१९ ॥

 

सनत्कुमार उवाच

गाधेयस्य ततः सा तु जुह्वतोऽग्निं दिवाकरे  ।

मध्यं प्राप्तेऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा  ॥ १९.२० ॥

तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम्  ।

उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया  ।

तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि  ॥ १९.२१ ॥

विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा  ।

अवहद्रुधिरं चैव मांसमेदस्तथैव च  ॥ १९.२२ ॥

अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः  ।

अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत् ॥ १९.२३ ॥

महतस्तपसः शक्त्या कालेन महता तदा  ।

वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः  ॥ १९.२४ ॥

विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् ।

एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ  ॥ १९.२५ ॥

 

सनत्कुमार उवाच

य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा  ।

स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः  ॥ १९.२६ ॥

ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः  ।

भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम्  ॥ १९.२७ ॥

एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः  ।

वैरं समाप्तं लोकानां हितार्थं पुनरेव च  ॥ १९.२८ ॥

 

 

इति स्कन्दपुराणे ऊनविंशतितमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!