स्कंद पुराण
स्कन्दपुराण २
सनत्कुमार उवाच
प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ २.१ ॥
शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः ।
स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥ २.२ ॥
तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ॥ २.३ ॥
देहावतारो देवस्य रुद्रस्य परमात्मनः ।
प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ॥ २.४ ॥
दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् ।
नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम् ॥ २.५ ॥
ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा ।
शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥ २.६ ॥
सत्या विवादश्च तथा दक्षशापस्तथैव च ।
मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् ॥ २.७ ॥
देवानां वरदानं च वसिष्ठस्य च धीमतः ।
पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥ २.८ ॥
वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् ।
वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ॥ २.९ ॥
रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः ।
गणानां दर्शनं चैव कथनं चाप्यशेषतः ॥ २.१० ॥
कालीव्याहरणं चैव तपश्चरणमेव च ।
सोमनन्दिसमाख्यानं वरदानं तथैव च ॥ २.११ ॥
गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥ २.१२ ॥
गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥ २.१३ ॥
निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा ।
अभिषेकश्च कौशिक्या वरदानमथापि च ॥ २.१४ ॥
अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् ।
हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥ २.१५ ॥
बलिसंयमनं चैव देव्याः समय एव च ।
देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥ २.१६ ॥
देवानां वरदानं च शुक्रस्य च विसर्जनम् ।
सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ॥ २.१७ ॥
शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता ।
आर्यावरप्रदानं च शैलादिस्तव एव च ॥ २.१८ ॥
देवस्यागमनं चैव वृत्तस्य कथनं तथा ।
पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च ॥ २.१९ ॥
आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता ।
दूतस्यागमनं चैव संवादोऽथ विसर्जनम् ॥ २.२० ॥
अन्धकासुरसंवादो मन्दरागमनं तथा ।
गणानामागमश्चैव संख्यानश्रवणं तथा ॥ २.२१ ॥
निग्रहश्चान्धकस्याथ युद्धेन महता तथा ।
शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥ २.२२ ॥
भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।
रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् ॥ २.२३ ॥
उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः ।
निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ॥ २.२४ ॥
त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च ।
देवसेनाप्रदानं च सेनापत्याभिषेचनम् ॥ २.२५ ॥
नारदस्यागमश्चैव तारकप्रेषितस्य ह ।
वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥ २.२६ ॥
महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् ।
शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥ २.२७ ॥
देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।
प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च ।
महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥ २.२८ ॥
एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् ।
बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम् ॥ २.२९ ॥
इति स्कन्दपुराणे द्वितीयोऽध्यायः
_