स्कंद पुराण

 

स्कन्द पुराण २०

 

व्यास उवाच

उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ  ।

तन्मे सर्वमशेषेण कथयस्व महामुने  ॥ २०.१ ॥

 

सनत्कुमार उवाच

उमाहरौ तु संगम्य परस्परमनिन्दितौ  ।

शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह  ॥ २०.२ ॥

स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम्  ।

रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ  ॥ २०.३ ॥

 

व्यास उवाच

कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम्  ।

समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च  ॥ २०.४ ॥

 

सनत्कुमार उवाच

अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान्  ।

तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सोऽभवत् ॥ २०.५ ॥

अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः  ।

विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः  ॥ २०.६ ॥

तैरुक्तोऽपत्यकामैस्तु देवं लोकेशमव्ययम्  ।

आराधय महादेवं सुतार्थं द्विजसत्तम  ॥ २०.७ ॥

तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् ।

शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत  ॥ २०.८ ॥

तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः  ।

हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम्  ॥ २०.९ ॥

नमः परमदेवाय महेशाय महात्मने  ।

स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः  ॥ २०.१० ॥

नमः कामाङ्गनाशाय योगसम्भवहेतवे  ।

नमः पर्वतवासाय ध्यानगम्याय वेधसे  ॥ २०.११ ॥

ऋषीणां पतये नित्यं देवानां पतये नमः  ।

वेदानां पतये चैव योगिनां पतये नमः  ॥ २०.१२ ॥

प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे  ।

वरदाय च भक्तानां नमः सर्वगताय च  ॥ २०.१३ ॥

तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह  ।

स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे  ॥ २०.१४ ॥

जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा  ।

प्रकृतेः पतये नित्यं पुरुषात्परगामिने  ॥ २०.१५ ॥

ईश्वराय नमो नित्यं योगगम्याय रंहसे  ।

संसारोत्पत्तिनाशाय सर्वकामप्रदाय च  ॥ २०.१६ ॥

शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे  ।

नमस्तेऽयोग्रहस्ताय तेजसां पतये नमः  ॥ २०.१७ ॥

सूर्यानिलहुताशाम्बु चन्द्राकाशधराय च  ।

स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे  ॥ २०.१८ ॥

स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते  ।

यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः  ॥ २०.१९ ॥

अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः  ।

प्रसादं परमालम्ब्य वरदो भव विश्वकृत् ॥ २०.२० ॥

 

सनत्कुमार उवाच

यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः शुचिर्नियमवान्पुरतो द्विजानाम्  ।

तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो द्विपदपन्नगपूतनाश्च  ॥ २०.२१ ॥

ततः स भगवान्देवः स्तूयमानः सहोमया  ।

उवाच वरदोऽस्मीति ब्रूहि यत्ते मनोगतम्  ॥ २०.२२ ॥

तमेवंवादिनं देवं शिलादोऽभ्यर्चयत्तदा  ।

उवाच चेदं देवेशं स वाचा सज्जमानया  ॥ २०.२३ ॥

भगवन्यदि तुष्टोऽसि यदि देयो वरश्च मे  ।

इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम्  ॥ २०.२४ ॥

एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः  ।

एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत  ॥ २०.२५ ॥

गते तस्मिन्महेष्वासे ऋषिः परमपूजितः  ।

स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः  ॥ २०.२६ ॥

तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम  ।

यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम्  ॥ २०.२७ ॥

तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः  ।

संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत  ॥ २०.२८ ॥

स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम्  ।

राक्षसोऽयमिति ज्ञात्वा भयान्नोपससार तम्  ॥ २०.२९ ॥

कुमारोऽपि तथोद्भूतः पितरं दीप्ततेजसम्  ।

उपासर्पत दीनात्मा तात तातेति चाब्रवीत् ॥ २०.३० ॥

स तातेत्युच्यमानोऽपि यदा तं नाभ्यनन्दत  ।

ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम्  ॥ २०.३१ ॥

 

वायुरुवाच

शालङ्कायन पुत्रस्ते योऽसौ देवेन शम्भुना  ।

अयोनिजः पुरा दत्तः स एष प्रतिनन्दय  ॥ २०.३२ ॥

यस्मान्नन्दीकरस्तेऽयं सदैव द्विजसत्तम  ।

तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव  ॥ २०.३३ ॥

 

सनत्कुमार उवाच

ततः स वायुवचनान्नन्दिनं परिषस्वजे  ।

गृहीत्वा चाश्रमं स्वेन सोऽनयत्तुष्टिवर्धनम्  ।

चूडोपनयनादीनि कर्माण्यस्य चकार सः  ॥ २०.३४ ॥

कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः  ।

आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम्  ॥ २०.३५ ॥

हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम्  ।

शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च  ॥ २०.३६ ॥

भूतग्रामचिकित्सां च मातॄणां चरितं च यत् ।

भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम्  ।

अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च  ॥ २०.३७ ॥

दक्षः शुचिरदीनात्मा प्रियवागनसूयकः  ।

सर्वलोकप्रियो नित्यं मनोनयननन्दनः  ॥ २०.३८ ॥

तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ  ।

आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ  ॥ २०.३९ ॥

तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः  ।

सुखासीनौ समालक्ष्य आसने परमार्चितौ  ॥ २०.४० ॥

मित्रावरुणनामानौ तपोयोगबलान्वितौ  ।

अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे  ॥ २०.४१ ॥

ताभ्यामनुज्ञातश्चैव निषसाद वरासने  ।

उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत् ॥ २०.४२ ॥

ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः  ।

स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः  ॥ २०.४३ ॥

कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते  ।

कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम्  ॥ २०.४४ ॥

स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः  ।

उवाच गुणवान्सम्यक्कुलवंशविवर्धनः  ॥ २०.४५ ॥

तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम्  ।

तयोः पादेषु शिरसा अपातयत नन्दिनम्  ॥ २०.४६ ॥

तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम्  ।

गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान्  ॥ २०.४७ ॥

 

सनत्कुमार उवाच

शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा  ।

विसृज्य नन्दिनं भीतः सोऽपृच्छदृषिसत्तमौ  ॥ २०.४८ ॥

 

शिलाद उवाच

भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम्  ।

किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि  ।

प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ  ॥ २०.४९ ॥

 

मित्रावरुणावूचतुः

तवैष तनयस्तात अल्पायुः सर्वसंमतः  ।

अतोऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति  ॥ २०.५० ॥

 

सनत्कुमार उवाच

ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः  ।

विसृज्य ऋषिशार्दूलावेकाकी विललाप च  ॥ २०.५१ ॥

तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः  ।

नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम्  ॥ २०.५२ ॥

 

नन्द्युवाच

केन त्वं तात दुःखेन दूयमानः प्ररोदिषि  ।

दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः  ॥ २०.५३ ॥

 

शिलाद उवाच

पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि  ।

ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत् ॥ २०.५४ ॥

 

नन्द्युवाच

सत्यं देवऋषी तात न तावनृतमूचतुः  ।

तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः  ॥ २०.५५ ॥

 

शिलाद उवाच

किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते  ।

येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम्  ॥ २०.५६ ॥

 

नन्द्युवाच

न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया  ।

महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा  ॥ २०.५७ ॥

द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् ।

नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः  ॥ २०.५८ ॥

 

शिलाद उवाच

मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम्  ।

महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः  ॥ २०.५९ ॥

भवांस्तु वर्षेणैकेन तपसा नातिभावितः  ।

कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम्  ॥ २०.६० ॥

 

नन्द्युवाच

न तात तपसा देवो दृश्यते न च विद्यया  ।

शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः  ॥ २०.६१ ॥

त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम्  ।

द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम्  ॥ २०.६२ ॥

तिष्ठन्तं मां यमोऽभ्येत्य पश्यतस्तेऽभिसंमतम्  ।

न हिंसति तथा तस्मादितस्तात व्रजाम्यहम्  ॥ २०.६३ ॥

तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा  ।

न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज  ॥ २०.६४ ॥

अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः  ।

अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम्  ॥ २०.६५ ॥

जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च  ।

न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम्  ॥ २०.६६ ॥

 

सनत्कुमार उवाच

तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा  ।

व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः  ॥ २०.६७ ॥

अभिवन्द्य पितुः पादौ शिरसा स महायशाः  ।

प्रदक्षिणं समावृत्य सम्प्रतस्थेऽतिनिश्चितः  ॥ २०.६८ ॥

अभिवाद्य ऋषीन्सर्वान् स दिदृक्षुरुदारधीः  ।

मुनिः स देवमगमत्प्रणतार्तिहरं हरम्  ॥ २०.६९ ॥

 

 

इति स्कन्दपुराणे विंशतितमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!