स्कंद पुराण

 

स्कन्द पुराण २३

 

सनत्कुमार उवाच

भगवान्देवदेवेशः सर्वभूतपतिर्हरः  ।

देवीमुवाच वागीश उमां गिरिवरात्मजाम्  ॥ २३.१ ॥

देवि नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम्  ।

गणानावाहयिष्यामि किं वा त्वं मन्यसेऽव्यये  ॥ २३.२ ॥

 

देव्युवाच

सप्तलोकाधिपत्यं च गणेशानां तथैव च  ।

सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः  ॥ २३.३ ॥

 

सनत्कुमार उवाच

ततः स भगवान्देवः सुरशत्रुनिषूदनः  ।

प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा  ॥ २३.४ ॥

ततः सहस्रशस्तत्र गणाध्यक्षा मुदा युताः  ।

सम्प्राप्ताः सर्वलोकेशास्तच्छृणुष्व महामुने  ॥ २३.५ ॥

ततः करालदशनो भृकुटीभूषिताननः  ।

शङ्खहाराम्बुगौरश्च दंष्ट्री स्रग्मी त्रिलोचनः  ॥ २३.६ ॥

जटासहस्रोर्ध्वशिरा ज्वालाकेशो महाहनुः  ।

अग्न्यङ्गारकनेत्रश्च भुजगाबद्धमेखलः  ॥ २३.७ ॥

विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः  ।

सर्पयज्ञोपवीती च परश्वधधरस्तथा  ॥ २३.८ ॥

भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः  ।

अट्टहासान्सृजानश्च अशनीपातसंनिभान्  ।

दिण्डिरित्येव विख्यातो गणपः समदृश्यत  ॥ २३.९ ॥

आत्मनः सदृशानां च कोटीभिर्दशभिर्वृतः  ।

गणपानां सुरेशानां योगिनां दीप्ततेजसाम्  ॥ २३.१० ॥

ततोऽपरो महाकेशो महाकायोर्ध्वमेहनः  ।

त्र्यक्षोऽनलशतप्रख्यः अशनीपातनर्दनः  ॥ २३.११ ॥

नृत्यन्गायंश्च चित्राणि कुर्वन्नाट्यान्यनेकशः  ।

ज्वलदंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक् ॥ २३.१२ ॥

कोटीभिर्दशभिः सार्धं द्विगुणाभिर्महात्मनाम्  ।

गणानां चित्ररूपाणां युगपत्सम्प्रदृश्यत  ॥ २३.१३ ॥

सिंहास्यगजकोकास्यैर्द्वीपिशार्दूलकाननैः  ।

सोऽषाढिर्नाम गणपो व्यास तत्र समागतः  ॥ २३.१४ ॥

 

सनत्कुमार उवाच

अथान्यो व्यास सम्प्राप्तो युगान्तादित्यसप्रभः  ।

शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः  ॥ २३.१५ ॥

अतिदीर्घोऽतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः  ।

वृत्तास्यश्च महाक्षश्च भृकुटीसंहताननः  ॥ २३.१६ ॥

पञ्चयोजनविस्तीर्णो दीर्घो वै तावदेव च  ।

दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छङ्खेन्दुपाण्डराः  ॥ २३.१७ ॥

पञ्चजिह्वोर्ध्वकर्णश्च पाशहस्तो मनोजवः  ।

वृतः कोटीशतेनैव सदृशानामदृश्यत  ॥ २३.१८ ॥

भारभूतीति विख्यातो महायोगबलान्वितः  ।

गणपो देवदेवस्य समीपं सोऽभ्यगच्छत  ॥ २३.१९ ॥

ततः कुन्देन्दुशङ्खाभं हिमराश्यम्बुसंनिभम्  ।

मृणालस्फटिकाभं च भस्मकक्षावलम्बनम्  ॥ २३.२० ॥

गृहीत्वा चाशनीहासं त्रिपादं चीरवाससम्  ।

शतोदरं त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम्  ॥ २३.२१ ॥

ज्वालामालाग्रकेशं च व्याघ्रचर्माजिनाम्बरम्  ।

वायुवेगं महाहासं भुजगाबद्धमेखलम्  ॥ २३.२२ ॥

महोरगकृतापीडं शङ्कुकर्णोर्ध्वमेहनम्  ।

भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम्  ॥ २३.२३ ॥

महागणपतिं वीरं ज्वर इत्येव विश्रुतम्  ।

कोटीशतवृतं तं च गणपं सोऽन्वपश्यत  ॥ २३.२४ ॥

ततोऽपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च  ।

त्रिशूलपाणिर्दिग्वासा महायोगबलान्वितः  ॥ २३.२५ ॥

बहुवेषधरश्चैव ध्यानयोगपरायणः  ।

सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः  ।

तादृशानां गणाध्यक्षो देवेनाहूत आगतः  ॥ २३.२६ ॥

अथापरो महाकायः शूलपाणिर्महाबलः  ।

युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः  ॥ २३.२७ ॥

चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः  ।

एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः  ॥ २३.२८ ॥

वृतः कोटीशतेनैव स्थाणुस्तत्राभ्यवर्तत  ।

समहापार्षदो रुद्रः सर्वासुरनिबर्हणः  ॥ २३.२९ ॥

ततोऽपरः पट्टिसेन ह्रस्वपादोदरः शुचिः  ।

सहस्रबाहुचरणः सहस्राक्षः प्रतापवान्  ॥ २३.३० ॥

करालदशनश्चैव कृष्णसर्पाम्बरच्छदः  ।

त्र्यक्षश्चन्द्रकृतापीडः कण्ठमालाविभूषितः  ॥ २३.३१ ॥

उग्रसेन इति ख्यातः कोटीशतवृतः स च  ।

आगात्समीपं देवस्य आहूतः स्वयमीश्वरः  ॥ २३.३२ ॥

ततोऽपरः समापेदे देवं चन्द्रार्धधारिणम्  ।

चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः  ॥ २३.३३ ॥

सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहनः  ।

करालदशनश्चैव शङ्कुकर्णो महानखः  ॥ २३.३४ ॥

असिपाणिर्महातेजाः शतपादः शतोदरः  ।

विद्युत्केशोऽतिहासश्च तथैवोभयतोगतिः  ॥ २३.३५ ॥

अजैकपादिति ख्यातो वृतः कोटीशतेन सः  ।

काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः  ॥ २३.३६ ॥

 

सनत्कुमार उवाच

आगात्ततोऽपरो व्यास गणपः सुमहाबलः  ।

सर्वतोवदनः श्रीमान् सर्वतःपाणिपादधृक् ॥ २३.३७ ॥

ह्रस्वबाहूरुपादश्च अशनिं धारयञ्छुभम्  ।

शतैर्वृतश्च कोटीनामष्टाभिस्त्वात्मनः समैः  ।

निकुम्भ इति विख्यातः शतपादोदराननः  ॥ २३.३८ ॥

आगात्ततोऽपरश्चापि विद्युत्केशो महाबलः  ।

चन्द्रमालाधरो घोरः प्रहसन्प्रविचालयन्  ॥ २३.३९ ॥

दण्डधारी महावक्त्रः शङ्खकुन्देन्दुसप्रभः  ।

गणकोटीशतवृतः परमं परतापनः  ॥ २३.४० ॥

ततोऽपरः सहस्रेण कोटीनां गणपो वृतः  ।

सूर्यमालास्रजं बिभ्रदाजगाम महातपाः  ॥ २३.४१ ॥

स सूर्याप्यायनो नाम देवस्य परमप्रियः  ।

धनुष्पाणिर्महातेजा विश्रुतः समहाद्युतिः  ॥ २३.४२ ॥

तथान्यः सर्पमालश्च चक्राभरण एव च  ।

चक्रायुधो महातेजा ह्रस्वपादकटीकरः  ॥ २३.४३ ॥

स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत  ।

गणकोटिशतैः षड्भिर्वृतः समनुधावत  ॥ २३.४४ ॥

शङ्कुकर्णोऽभ्ययाच्चैव गणकोट्या महाबलः  ।

नन्दिकश्चापि दशभिः पिङ्गाक्षोऽष्टाभिरेव च  ।

विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः  ॥ २३.४५ ॥

हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च  ।

धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा  ॥ २३.४६ ॥

सहस्रघण्टोऽष्टादशभिस्तपः पञ्चभिरेव च  ।

सहस्रशीर्षः षड्भिश्च भवः कोटिशतावृतः  ॥ २३.४७ ॥

वरो दशभिरभ्यागात्कुम्भकर्णस्तथाष्टभिः  ।

विष्वक्सेनः सहस्रेण अन्नदस्तु शतेन वै  ॥ २३.४८ ॥

आवेशनी तथाष्टाभिः सप्तभिश्च प्रवर्तनः  ।

महारवः सहस्रेण कोटीनां गणपो वृतः  ॥ २३.४९ ॥

चतुर्मुखो द्वादशभिस्तथा बाहूपहारकः  ।

महाकालः शतेनैव तथाग्निशिखरो गणः  ॥ २३.५० ॥

आदित्यमूर्धा कोट्या च तथा चैव धनावहः  ।

संनामश्च शतेनैव कुक्कुटोऽष्टाभिरेव च  ॥ २३.५१ ॥

कुन्दश्च पञ्चदशभिस्तथा संकोटकोऽपरः  ।

अमोघभूतिः कोट्या च तथा द्वौ मेघभूतिकौ  ॥ २३.५२ ॥

एकपादोऽपरः षष्ट्या तथा सप्तशिरा गणः  ।

महाबलश्च नवभिरपस्मारश्च विश्रुतः  ॥ २३.५३ ॥

नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च  ।

निरृतिश्चैव सप्तत्या कोटीनामभ्यगात्सह  ॥ २३.५४ ॥

कोटीकोटीसहस्राणां शतैर्विंशतिभिर्वृताः  ।

ईतयस्तत्र चाजग्मुर्महायोगबलान्विताः  ॥ २३.५५ ॥

भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रिभिः  ।

वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः  ॥ २३.५६ ॥

मेघः सौदामनीमालो नवत्या संवृतोऽभ्यगात् ।

प्रभाकरश्च विंशत्या विट्पतिश्च महाबलः  ॥ २३.५७ ॥

गिरिको मेघनादश्च उदरो मणिरेव च  ।

काष्ठकर्णश्च दिव्यात्मा बिल्वरूपश्च विश्रुतः  ॥ २३.५८ ॥

शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान्  ।

तालकेतुश्च षण्डश्च कापाली गजनाशनः  ॥ २३.५९ ॥

संवर्तकस्तथा चैत्रस्त्रैलोक्यदहनस्तथा  ।

लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च  ॥ २३.६० ॥

मृत्युश्चैव यमश्चैव कालो विषहरस्तथा  ।

शतमायो महामायः सर्वत्राशरणस्तथा  ।

एकशृङ्गी च विख्यातस्तथा भृङ्गिरिटिश्च यः  ॥ २३.६१ ॥

एते चान्ये च गणपा गुह्या ये च महाबलाः  ।

तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः  ॥ २३.६२ ॥

गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः  ।

मुखाडम्बरवाद्यानि नादयन्तस्तथैव च  ॥ २३.६३ ॥

रथैर्नागैर्हयैश्चैव वायुमर्कटवाहनाः  ।

व्याघ्रसिंहबिडालैश्च सर्पैः पक्षिभिरेव च  ॥ २३.६४ ॥

श्वापदैश्च तथानेकैरन्यैश्च विविधैः शुभैः  ।

विमानेषु तथारूढा मनुष्येषु तथापरे  ॥ २३.६५ ॥

भेरीशङ्खमृदङ्गैश्च पणवानकगोमुखैः  ।

वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः  ॥ २३.६६ ॥

भेरीझर्झरसंनादैराडम्बरकडिण्डिमैः  ।

मड्डुकैर्वेणुवीणाभिर्विवृषैस्तुणवैरपि  ॥ २३.६७ ॥

दर्दुरैस्तालघातैश्च कच्छपैः पणवैरपि  ।

वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम्  ॥ २३.६८ ॥

ते विश्वकर्माणममित्रसाहा विश्वेशमेकाक्षरमव्ययं च  ।

सहस्रनेत्रप्रतिमातिभास्वराः प्रणेमुरुच्चैरपि चाभिनेदुः  ॥ २३.६९ ॥

 

इति स्कन्दपुराणे त्रयोविंशतिमोऽध्यायः

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!