स्कंद पुराण

 

स्कन्द पुराण २४

 

सनत्कुमार उवाच

ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः  ।

प्रणम्य देवं देवीं च इदं वचनमब्रुवन्  ॥ २४.१ ॥

भगवन्देवतारिघ्न देवदेवाम्बिकापते  ।

किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ २४.२ ॥

किं सागराञ्छोषयामो यमं वा सह किंकरैः  ।

हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः  ॥ २४.३ ॥

बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना  ।

आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः  ॥ २४.४ ॥

कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया  ।

कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ २४.५ ॥

तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः  ।

उवाच देवः सम्पूज्य गणान्गणपतिर्भवः  ॥ २४.६ ॥

 

देव उवाच

शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः  ।

श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः  ॥ २४.७ ॥

नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः  ।

प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः  ॥ २४.८ ॥

तमिमं मम संदेशाद्यूयं सर्वेऽभिसंमताः  ।

सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम्  ॥ २४.९ ॥

अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः  ।

प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः  ॥ २४.१० ॥

 

सनत्कुमार उवाच

एवमुक्ते भगवता गणपाः सर्व एव ते  ।

एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः  ॥ २४.११ ॥

तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम्  ।

आसनं मेरुसंकाशं मनोरममथाहरन्  ॥ २४.१२ ॥

शातकुम्भमयं चापि चारुचामीकरप्रभम्  ।

मुक्तादामावलम्बं च मणिरत्नावभासितम्  ॥ २४.१३ ॥

स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम्  ।

चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम्  ।

कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम्  ॥ २४.१४ ॥

तस्याग्रतः पादपीठं नीलं वज्रावभासितम्  ।

चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ  ।

सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ  ॥ २४.१५ ॥

अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः  ।

सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे  ॥ २४.१६ ॥

छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम्  ।

शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम्  ॥ २४.१७ ॥

व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् ।

मालां कुशेशयानां च भ्रमरावलिसेविताम्  ॥ २४.१८ ॥

आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान्  ।

पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ  ॥ २४.१९ ॥

स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम्  ।

कीचका वेणवश्चैव कन्या चैवाभिपूजिता  ॥ २४.२० ॥

ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ  ।

ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम्  ॥ २४.२१ ॥

कलशानां सहस्रं च काञ्चनानां सुवर्चसाम्  ।

राजतानां सहस्रं च पार्थिवानां तथैव च  ॥ २४.२२ ॥

ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम्  ।

वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च  ॥ २४.२३ ॥

मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा  ।

कुण्डले चामले दिव्ये वज्रं चैव वरायुधम्  ॥ २४.२४ ॥

पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च  ।

जाम्बूनदमयं सूत्रं केयूरद्वयमेव च  ॥ २४.२५ ॥

हारं च मणिचित्राङ्गं रोचनारुचकं तथा  ।

{}नलभां पारियात्रं च वर्षं कङ्कणिमेव च{}  ॥ २४.२६ ॥

दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च  ।

समन्तान्निन्युरव्यग्रा गणपा देवसंमताः  ॥ २४.२७ ॥

ततो दिशः समुद्राश्च वरुणः सधनेश्वरः  ।

यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह  ॥ २४.२८ ॥

तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा  ।

रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः  ॥ २४.२९ ॥

गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा  ।

पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा  ॥ २४.३० ॥

वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः  ।

नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः  ॥ २४.३१ ॥

लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च  ।

भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः  ॥ २४.३२ ॥

तीर्थानि चैव सर्वाणि दानानि विविधानि च  ।

ऋचो यजूंषि सामानि अथर्वाङ्गिरसावपि  ॥ २४.३३ ॥

यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा  ।

छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः  ।

ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा  ॥ २४.३४ ॥

तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः  ।

सर्वकार्यविधिं कर्तुमादिदेश पितामहम्  ॥ २४.३५ ॥

एकैकं कलशं तत्र सर्वौषधिसमन्वितम्  ।

कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम्  ॥ २४.३६ ॥

जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च  ।

सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम्  ॥ २४.३७ ॥

कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि  ।

आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम्  ॥ २४.३८ ॥

तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः  ।

पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः  ॥ २४.३९ ॥

सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च  ।

दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ २४.४० ॥

राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह  ।

क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान्  ॥ २४.४१ ॥

औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा  ।

तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ २४.४२ ॥

एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च  ।

वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः  ॥ २४.४३ ॥

स जग्राह तदा ब्रह्मा एकं कलशमात्मना  ।

विष्णवे च ददावेकमेकमिन्द्राय धीमते  ।

गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः  ॥ २४.४४ ॥

ततस्तमासने तस्मिन्नुपवेश्य महामनाः  ।

अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत  ॥ २४.४५ ॥

ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः  ।

गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम्  ॥ २४.४६ ॥

वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च  ।

केयूरे कुण्डले चैव मुकुटं हारमेव च  ।

पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम्  ॥ २४.४७ ॥

छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च  ।

ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः  ॥ २४.४८ ॥

 

विष्णुरुवाच

नमः कुष्माण्डराजाय वज्रोद्यतकराय च  ।

शालङ्कायनपौत्राय हलमार्गोत्थिताय च  ॥ २४.४९ ॥

शिलादस्य च पुत्राय रुद्रजप्यकराय च  ।

रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने  ॥ २४.५० ॥

गणानां पतये चैव भूतानां पतये नमः  ।

उमापुत्राय देवाय पट्टिसायुधधारिणे  ॥ २४.५१ ॥

नमो दंष्ट्राकरालाय ललाटनयनाय च  ।

प्रमथाय वरेण्याय ईशानायार्पिताय च  ॥ २४.५२ ॥

द्वाराध्यक्षाय शूराय सुयशापतये नमः  ।

नमः प्रवरमालाय क्षीरोदनिलयाय च  ॥ २४.५३ ॥

महागणाधिपतये महायोगेश्वराय च  ।

दिण्डिमुण्डाय चण्डाय एकाक्षररताय च  ॥ २४.५४ ॥

अक्षयायामृतायैव अजरायामराय च  ।

पशूनां पतये चैव जेत्रे मृत्योस्तथैव च  ॥ २४.५५ ॥

नमः पवनवेगाय सर्वज्ञायाजिताय च  ।

अनेकशिरसे चैव अनेकचरणाय च  ॥ २४.५६ ॥

किरीटिने कुण्डलिने महापरिघबाहवे  ।

सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते  ॥ २४.५७ ॥

 

सनत्कुमार उवाच

एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने  ।

प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह  ॥ २४.५८ ॥

ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः  ।

ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च  ॥ २४.५९ ॥

ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा  ।

वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान्  ॥ २४.६० ॥

दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः  ।

अवादयन्त गणपा हर्षयन्तो मुदा युताः  ॥ २४.६१ ॥

 

सनत्कुमार उवाच

नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम्  ।

पठेत सततं मर्त्यः स गच्छेन्मम लोकताम्  ॥ २४.६२ ॥

नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् ।

तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ २४.६३ ॥

यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः  ।

न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा  ॥ २४.६४ ॥

नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः  ।

ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति  ॥ २४.६५ ॥

 

 

इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!