स्कंद पुराण

 

स्कन्द पुराण २५

 

सनत्कुमार उवाच

ततस्तत्रागतान्देवान् देवताधिपतिर्भवः  ।

मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः  ॥ २५.१ ॥

मरुतो ये महावेगा महासत्त्वा महौजसः  ।

आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः  ॥ २५.२ ॥

युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी  ।

दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः  ॥ २५.३ ॥

 

मरुत ऊचुः

त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा  ।

प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि  ॥ २५.४ ॥

त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा  ।

मा नः परानिवेशान याचनेन विभावय  ॥ २५.५ ॥

पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः  ।

पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः  ।

स त्वं पितामहोऽस्माकं न परान्कर्तुमर्हसि  ॥ २५.६ ॥

स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः  ।

सुयशां मरुतां कन्यामानयामास तत्क्षणात् ॥ २५.७ ॥

स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः  ।

कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ  ।

अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः  ॥ २५.८ ॥

नारदः पर्वतश्चैव चित्रसेनश्च गायनः  ।

विश्वावसू रुचिश्चैव हाहा हूहू तथैव च  ॥ २५.९ ॥

तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः  ।

ईतिश्चैवेन्द्रवाहश्च यज्ञवाहोऽथ दक्षिणः  ।

एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः  ॥ २५.१० ॥

उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि  ।

तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः  ।

अनृत्यन्त महाभागा नृत्तं सुरमनोहरम्  ॥ २५.११ ॥

 

सनत्कुमार उवाच

स एवमभवद्व्यास विवाहस्तस्य धीमतः  ।

नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः  ॥ २५.१२ ॥

ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः  ।

पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च  ।

शिलादस्य च लोकेशः श्रिया परमया युतः  ॥ २५.१३ ॥

 

देव उवाच

वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया  ।

वरं ददामि ते वत्स अनया सहमीप्सितम्  ॥ २५.१४ ॥

 

नन्द्युवाच

भगवन्यदि तुष्टोऽसि त्वयि भक्तिर्दृढास्तु मे  ।

सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः  ॥ २५.१५ ॥

पितरं चैव मे देव उत्पादकमिमं प्रभो  ।

अनुग्रहेण युक्तेन योक्तुमर्हसि कामद  ॥ २५.१६ ॥

 

देव उवाच

सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः  ।

पार्वत्या सहितो धीमन्निदं च शृणु मे वचः  ॥ २५.१७ ॥

सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः  ।

महायोगी महेष्वासो महाबलपराक्रमः  ॥ २५.१८ ॥

अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव  ।

अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम्  ॥ २५.१९ ॥

अयं च ते पिता विप्रः परमैश्वर्यसंयुतः  ।

भविष्यति गणाध्यक्षो महागणपतिर्मम  ॥ २५.२० ॥

पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम्  ।

उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम्  ।

तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम्  ॥ २५.२१ ॥

स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम्  ।

भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः  ।

स कामचारी वैभ्राजे गणपोऽस्य भविष्यति  ॥ २५.२२ ॥

 

सनत्कुमार उवाच

ततो देवी महाभागा शैलादेरददद्वरम्  ।

सोऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् ॥ २५.२३ ॥

ततो मरुत्सुता चैव उभाभ्यामपि चोदिता  ।

वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह  ॥ २५.२४ ॥

युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि  ।

नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा  ।

एतदिच्छामि देवेशौ वरं वरसहस्रदौ  ॥ २५.२५ ॥

 

सनत्कुमार उवाच

ततस्तावेवमेतत्ते भवितेति शुचिस्मिते  ।

ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम्  ॥ २५.२६ ॥

गणाश्चास्य ततोऽभ्येत्य सर्वे देवप्रियेप्सया  ।

वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः  ॥ २५.२७ ॥

युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम्  ।

वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च  ॥ २५.२८ ॥

 

गणा ऊचुः

भवान्मन्तानुमन्ता च गतिरागतिरेव च  ।

अस्माकमीशः सर्वेषां देवानामपि चेश्वरः  ॥ २५.२९ ॥

कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः  ।

ईतीनां द्वारपालश्च प्रमथानां तथैव च  ॥ २५.३० ॥

महाबलो महायोगी सेनानीस्त्वं हि नो मतः  ।

त्वं भूतो भूतनेता च नायकोऽथ विनायकः  ॥ २५.३१ ॥

ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा  ।

त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः  ॥ २५.३२ ॥

महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह  ।

जप्येश्वरनिकेतश्च जप्येश्वरविभावितः  ॥ २५.३३ ॥

भावनः सर्वभूतानां वरदो वरदार्चितः  ।

अस्माकं वरदश्चैव भव भूतेश्वर प्रभो  ॥ २५.३४ ॥

 

सनत्कुमार उवाच

स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः  ।

उवाच प्रणतः सर्वान् ब्रूत किं करवाणि वः  ॥ २५.३५ ॥

त एवमुक्ता गणपाः सर्व एव महाबलाः  ।

ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ  ॥ २५.३६ ॥

त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना  ।

अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः  ॥ २५.३७ ॥

स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि  ।

क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा  ॥ २५.३८ ॥

 

सनत्कुमार उवाच

एवमुक्तस्तदा सर्वान् प्रणम्य बहुमानतः  ।

शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा  ॥ २५.३९ ॥

 

नन्द्युवाच

नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च  ।

नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा  ॥ २५.४० ॥

नमः कामचरेभ्यश्च नम उग्रेभ्य एव च  ।

मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः  ॥ २५.४१ ॥

नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च  ।

नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च  ॥ २५.४२ ॥

नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः  ।

नमो वोऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च  ॥ २५.४३ ॥

नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च  ।

नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः  ॥ २५.४४ ॥

धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः  ।

नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः  ॥ २५.४५ ॥

नमः शरभरूपेभ्यः शतरूपेभ्य एव च  ।

नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च  ॥ २५.४६ ॥

नमो मार्जाररूपेभ्यः काककोकेभ्य एव च  ।

नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च  ॥ २५.४७ ॥

नमोऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च  ।

नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च  ॥ २५.४८ ॥

नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च  ।

नमो वामनरूपेभ्यो वामरूपेभ्य एव च  ॥ २५.४९ ॥

देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः  ।

नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः  ॥ २५.५० ॥

ग्रहेभ्यश्च नमो वोऽस्तु मोक्षेभ्यश्च नमस्तथा  ।

शुभेभ्यश्च नमो वोऽस्तु अशुभेभ्यस्तथैव च  ।

मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः  ॥ २५.५१ ॥

इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः  ।

दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे  ॥ २५.५२ ॥

तपोऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम्  ।

दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा  ॥ २५.५३ ॥

 

सनत्कुमार उवाच

इमौ नन्दिगणेन्द्राणां स्तवौ योऽध्येति नित्यशः  ।

सोऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते  ॥ २५.५४ ॥

सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम्  ।

पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन्  ॥ २५.५५ ॥

 

सनत्कुमार उवाच

ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता  ।

निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम्  ॥ २५.५६ ॥

देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः  ।

सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः  ।

ईप्सितं सह देव्या वै जगाम स्थानमव्ययम्  ॥ २५.५७ ॥

य इमं नन्दिनो जन्म वरदानं तथैव च  ।

अभिषेकं विवाहं च पठेद्वा श्रावयीत वा  ।

ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम्  ॥ २५.५८ ॥

यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या  ।

सोऽपि गतः परलोकविचारी नन्दिसमोऽनुचरो हि मम स्यात् ॥ २५.५९ ॥

 

 

इति स्कन्दपुराणे पञ्चविंशतिमोऽध्यायः

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!