स्कंद पुराण
सनत्कुमार उवाच
एवं नन्दीश्वरो व्यास उत्पन्नोऽनुचरश्च ह ।
अभवद्देवदेवस्य सेनापत्येऽभिषेचितः ॥ २६.१ ॥
व्यास उवाच
देव्या सहाथ भगवानासीनस्तत्र कामदः ।
अकरोत्किं महादेव एतदिच्छामि वेदितुम् ॥ २६.२ ॥
सनत्कुमार उवाच
भगवान्हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया ।
गणेशैर्विविधाकारैर्हासं संजनयन्मुहुः ॥ २६.३ ॥
देवीं बालेन्दुतिलको रामयच्च रराम च ।
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥ २६.४ ॥
अथ देव्याससादैका मातरं परमेश्वरी ।
आसीनां काञ्चने शुभ्रे आसने परमार्चिते ॥ २६.५ ॥
अथ दृष्ट्वा सतीं देवीमागतां तु सुरूपिणीम् ।
आसनेन महार्हेण सम्पादयदनिन्दिताम् ॥ २६.६ ॥
आसीनां तां च सोवाच मेना हिमवतः प्रिया ।
चिरस्यागमनं ह्यद्य तव पुत्रि शुभेक्षणे ।
दरिद्रक्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता ॥ २६.७ ॥
ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।
उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥ २६.८ ॥
सनत्कुमार उवाच
सैवमुक्ता तु मात्राथ नातिहृष्टमनाभवत् ।
महत्याक्षमया युक्ता न किंचित्तामुवाच ह ॥ २६.९ ॥
विसृष्टा सा तदा मात्रा गत्वा देवमुवाच ह ।
भगवन्देवदेवेश नेह वत्स्यामि भूधरे ।
अन्यं वृणु ममावासं भुवनेश महाद्युते ॥ २६.१० ॥
देव उवाच
सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि ।
अन्यत्र रोचितवती नावासं देवि कर्हिचित् ॥ २६.११ ॥
इदानीं स्वयमेव त्वं वासमन्यत्र शोभने ।
कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ॥ २६.१२ ॥
देव्युवाच
गृहं गताहं देवेश पितुरद्य महात्मनः ।
दृष्ट्वा च मे तत्र माता विजने लोकभावनी ॥ २६.१३ ॥
आसनादिभिरभ्यर्च्य सा मामेवमभाषत ।
उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे ।
क्रीडते न हि देवानां क्रीडा भवति तादृशी ॥ २६.१४ ॥
यत्किल त्वं महादेव गणेशैर्विविधैः शुभैः ।
रमसे तदनिष्टं हि मम मातुर्वृषध्वज ॥ २६.१५ ॥
सनत्कुमार उवाच
ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः ।
एवमेतन्न संदेहः कस्मान्मन्युरभूत्तव ॥ २६.१६ ॥
कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह ।
अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च ।
विचरामि गणैर्नग्नैर्वृतोऽम्भोजविलोचने ॥ २६.१७ ॥
मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव ।
न हि मातृसमो बन्धुर्जन्तूनामस्ति शोभने ॥ २६.१८ ॥
देव्युवाच
न मेऽस्ति बन्धुभिः किंचित्कृत्यं सुरवरेश्वर ।
तथा कुरु महादेव यथान्यत्र वसामहे ॥ २६.१९ ॥
सनत्कुमार उवाच
स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः ।
पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम् ॥ २६.२० ॥
गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम् ।
शून्यां कुरु महाबाहो उपायेनैव मा बलात् ॥ २६.२१ ॥
तत्र राजा निवसति दिवोदासः प्रतापवान् ।
धार्मिको मम भक्तश्च महायोगी महाबलः ॥ २६.२२ ॥
स त्वं तथा गतः कुर्या यथास्मै नापराध्यसे ।
तस्यैव चापराधेन शून्यां वाराणसीं कुरु ॥ २६.२३ ॥
सनत्कुमार उवाच
स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तमः ।
उवाच देवं प्रणतः प्राञ्जलिर्हृषिताननः ॥ २६.२४ ॥
तथा करिष्ये देवेश यथा स हि नराधिपः ।
भविष्यत्यपराधीश त्वं च तुष्टो भविष्यसि ।
शून्या वाराणसी चैव भविष्यति न संशयः ॥ २६.२५ ॥
सनत्कुमार उवाच
एवमुक्त्वा निकुम्भोऽसौ प्रणम्य शिरसा हरम् ।
जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः ॥ २६.२६ ॥
तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः ।
मण्डूकाक्षाय रूपं च स्वं तस्यादर्शयत्तदा ॥ २६.२७ ॥
निकुम्भ उवाच
मण्डूकाक्ष निकुम्भोऽहं गणपः शोकनाशनः ।
तवानुग्रहकृत्प्राप्तो यद्ब्रवीमि कुरुष्व तत् ॥ २६.२८ ॥
दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम् ।
स्थापयस्व च तत्रार्चां मद्रूपसदृशीं शुभाम् ॥ २६.२९ ॥
वित्तं च ते प्रदास्यामि पुत्रान्सौभाग्यमेव च ।
प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः ॥ २६.३० ॥
सनत्कुमार उवाच
एवमुक्तो निकुम्भेन नापितो नृपतिं तदा ।
गत्वावदद्दिवोदासमिन्द्रवैवस्वतोपमम् ॥ २६.३१ ॥
नापित उवाच
स्वामिंस्तव गृहद्वारि करिष्ये गणपालयम् ।
स्थापयिष्ये गणेशं च तन्मेऽनुज्ञातुमर्हसि ॥ २६.३२ ॥
तथेति सोऽप्यनुज्ञातश्चक्रे तत्र तदालयम् ।
प्रत्यस्थापयदर्चां च यादृशीं दृष्टवानसौ ॥ २६.३३ ॥
तस्य पूजां च महतीं प्रावर्तयत शोभनाम् ।
गणेशस्य महासत्त्वः स च तां प्रत्यगृह्णत ॥ २६.३४ ॥
स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम् ।
पशूंश्चैव हि पुत्रांश्च सौभाग्यं चाददत्प्रभुः ॥ २६.३५ ॥
तस्य तां वृद्धिमतुलां नापितस्याभिवीक्ष्य तु ।
आरिराधयिषुर्लोकस्तस्य पूजां चकार ह ॥ २६.३६ ॥
चक्रुर्यात्रास्तथा केचिदुपवासांस्तथापरे ।
होमं जप्यं तथैवान्ये पूजां चान्ये वरार्थिनः ।
उपहारांस्तथैवान्ये गीतनृत्तं तथापरे ॥ २६.३७ ॥
तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः ।
ददौ सर्वानभिप्रायान् ये ये तेषामभीप्सिताः ॥ २६.३८ ॥
एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा ।
उवाच महिषीं व्यास कदाचित्पुत्रलिप्सया ॥ २६.३९ ॥
देवि सर्वानभिप्रायाञ्जनेभ्योऽयं प्रयच्छति ।
गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय ॥ २६.४० ॥
सैवमुक्ता तदा गत्वा गणेशं प्राप्य शोभना ।
उवाच भगवन्देव अनपत्याहमीश्वर ॥ २६.४१ ॥
उपवासं करिष्यामि तव देवाभिराधने ।
तावन्न भोक्ष्ये यावन्मे वरोऽदत्तस्त्वया प्रभो ॥ २६.४२ ॥
जाते च पुत्रे दास्यामि शतानां दशतीर्दश ।
त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर ॥ २६.४३ ॥
तथा घटसहस्रेण दध्नश्चैव घृतस्य च ।
क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते ॥ २६.४४ ॥
ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम् ।
पुरस्ताद्भोजयिष्ये ते पुत्रे जाते न संशयः ॥ २६.४५ ॥
बहून्दास्यति राजा च ग्रामान्दास्यस्तथैव च ।
सदा सत्त्रं च पूजां च करिष्यति तव प्रभो ॥ २६.४६ ॥
सनत्कुमार उवाच
सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता ।
सोपवासा तदा पूजां महतीं तस्य कुर्वती ॥ २६.४७ ॥
तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः ।
उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः ॥ २६.४८ ॥
एवं तेन गणेशेन निकुम्भेन महात्मना ।
असकृत्प्रोच्यमाना सा नियमाद्विरराम ह ॥ २६.४९ ॥
ततो नराधिपं देवी प्रोवाच विमना तदा ।
आर्यपुत्र न मे पुत्रं गणपोऽसौ प्रयच्छति ।
ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः ॥ २६.५० ॥
सनत्कुमार उवाच
एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः ।
सदा सनियमस्तस्थौ गणेशस्याग्रतो नृपः ॥ २६.५१ ॥
तमप्युवाच नृपतिं निकुम्भो नियमस्थितम् ।
मा स्था वृथेह नृपते न ते पुत्रं ददाम्यहम् ॥ २६.५२ ॥
एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः ।
क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम् ॥ २६.५३ ॥
राजोवाच
गणो वा त्वं पिशाचो वा भूतो वा राक्षसोऽपि वा ।
कृतघ्नस्त्वं न संदेहो न त्वं पूजामिहार्हसि ॥ २६.५४ ॥
मम चैव गृहद्वारि पौरैश्चैव समर्चितः ।
विषये मम वासी च न च पुत्रं प्रयच्छसि ॥ २६.५५ ॥
पूजार्हो न भवांस्तस्मान्मत्तो दण्डं त्वमर्हसि ।
नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः ॥ २६.५६ ॥
ततोऽस्य भेदयामास निलयं गजयूथपैः ।
स्थण्डिलं च बभञ्जाशु ददाहार्चां च सुप्रभाम् ॥ २६.५७ ॥
निकुम्भोऽपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः ।
उवाच तं दिवोदासं प्रदहन्निव तेजसा ॥ २६.५८ ॥
यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम् ।
न दत्तो यद्यसौ कोपः कस्तत्र भवतोऽभवत् ॥ २६.५९ ॥
यस्मान्ममालयो भग्नस्त्वया निरपकारिणः ।
तस्माद्वर्षसहस्रं ते पुरी शून्या भविष्यति ॥ २६.६० ॥
सनत्कुमार उवाच
स एवमुक्त्वा राजानं निकुम्भः परमात्मवान् ।
देवेशाय निवेद्यैवं तस्थौ पार्श्वगतः प्रभोः ॥ २६.६१ ॥
राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि ।
व्रीडां परां समासाद्य गृहानभ्यागमत्तदा ॥ २६.६२ ॥
अथ सा तेन शापेन पुरी वाराणसी तदा ।
शून्या समभवत्क्षिप्रं विशुद्धा मृगसेविता ॥ २६.६३ ॥
तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक् ।
सगणो नन्दिना सार्धमाजगाम महाद्युतिः ॥ २६.६४ ॥
स तत्र मानसं दिव्यं विमानं सूर्यवर्चसम् ।
अनौपम्यगुणं देवो मनसैवाभिनिर्मिमे ॥ २६.६५ ॥
न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।
एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत् ॥ २६.६६ ॥
देवोद्यानानि रम्याणि नन्दनाद्यानि यानि तु ।
तेभ्यः श्रेष्ठतमं श्रीमदुद्यानमसृजत्प्रभुः ॥ २६.६७ ॥
तस्मिन्विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये ।
रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचश्च मातुः ॥ २६.६८ ॥
इति स्कन्दपुराणे षड्विंशोऽध्यायः