स्कंद पुराण
सनत्कुमार उवाच
अथ तस्मिन्सुखासीनौ शैलजावृषभध्वजौ ।
आसने काञ्चने दिव्ये नानारत्नोपशोभिते ॥ २७.१ ॥
अथाचलसुता देवी सुखासीना विभावरी ।
सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम् ॥ २७.२ ॥
भगवन्देवतारिघ्न चन्द्रावयवभूषण ।
कथयैतन्मम विभो यत्त्वां पृच्छामि मानद ॥ २७.३ ॥
किं फलं तव देवेश लभन्ते भक्तवत्सल ।
भक्ता ये फलमुद्दिश्य कुर्वते तव किंचन ॥ २७.४ ॥
सनत्कुमार उवाच
स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः ।
अवोचत्सर्वमव्यग्रो देवदेवः शुभाशुभम् ॥ २७.५ ॥
व्यास उवाच
किं तत्स भगवान्देवः प्रीयमाणो महातपाः ।
प्रणयात्स तदा देव्या पृष्टोऽकथयदव्ययः ॥ २७.६ ॥
सनत्कुमार उवाच
मयाप्येतत्पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः ।
यथोक्तवान्मयि ब्रह्मंस्तथा तत्कथयामि ते ॥ २७.७ ॥
गणेशानं महाभागं सूर्यायुतसमप्रभम् ।
अपृच्छमहमव्यग्रो नन्दीश्वरं महाद्युतिम् ॥ २७.८ ॥
ईशेन यत्पुरा देव्याः कथितं गणसत्तम ।
तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे ॥ २७.९ ॥
नन्दीश्वर उवाच
श्रूयतामभिधास्यामि पृच्छतस्ते महामुने ।
देवदेवेन पार्वत्या यत्पुरा कथितं हितम् ॥ २७.१० ॥
देव उवाच
श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते ।
हिताय देवि भक्तानां पृष्टस्ते कथयामि ते ॥ २७.११ ॥
प्रासादं यस्तु मे देवि शुभ्रं कुर्यादनिन्दिते ।
विदधाम्यर्जुनं तस्य गृहं शिवपुरेऽक्षयम् ॥ २७.१२ ॥
विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च यः ।
चरते स मया सार्धं नित्यमष्टगुणान्वितः ॥ २७.१३ ॥
काञ्चनं तुटिमात्रं वा यो दद्याद्बहु वा मम ।
तस्य हैमवते शृङ्गे ददानि गृहमुत्तमम् ॥ २७.१४ ॥
यो मे गास्तु हिरण्यं वा दद्यादविमनाः प्रिये ।
लोकान्ददान्यहं तस्मै सर्वकामसमन्वितान् ॥ २७.१५ ॥
वृषभं यः प्रयच्छेत श्वेतं नीलमथापि वा ।
स कुलानामुभयतस्तारयेदेकविंशतिम् ॥ २७.१६ ॥
गोचर्मद्वयसां वापि यो मे दद्याद्वसुन्धराम् ।
स मे पुरं समासाद्य गणेशैः सह मोदते ॥ २७.१७ ॥
यो मे पुण्यफलं दद्यादात्मना पूर्वमार्जितम् ।
सोऽनन्तफलमाप्नोति मोदते च त्रिविष्टपे ॥ २७.१८ ॥
योऽनुयानं चतुर्दश्यां कृष्णस्य कुरुते मम ।
रथेन वृषयुक्तेन मम लोके स मोदते ॥ २७.१९ ॥
महिमानोपचारैश्च यो मां जप्यैश्च पूजयेत् ।
ददानि ब्रह्मणो लोके वासं तस्य सुपूजितम् ॥ २७.२० ॥
मनसा चिन्तयेद्यश्च पूजयेयमहं हरम् ।
अशक्तो नास्ति च द्रव्यं यस्य नित्यं सुमध्यमे ॥ २७.२१ ॥
स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः ।
मम लोकमवाप्नोति भिन्ने देहे न संशयः ॥ २७.२२ ॥
स्नात्वा यः पूर्वसंध्यायां सदा मामुपगच्छति ।
स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान् ॥ २७.२३ ॥
संमार्जनं पञ्चशतं सहस्रमुपलेपनम् ।
गन्धाश्च दशसाहस्रा आनन्त्यं चार्चनं स्मृतम् ॥ २७.२४ ॥
अभ्यङ्गोऽष्टशतं चैव स्नपनं त्रिशतं भवेत् ।
गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च ॥ २७.२५ ॥
क्षीरं पञ्चगुणं देवि तस्माद्भूयश्च कापिलम् ।
तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा ॥ २७.२६ ॥
क्षमामि देवि चास्येह अपराधान्बहूनपि ।
भस्माभिषेकमानन्त्यं गुह्यं चैतन्ममेप्सितम् ॥ २७.२७ ॥
अगरुं दशसाहस्रं षट्सहस्रं तु चन्दनम् ।
चतुर्दशसहस्राणि धूपः कालागरुः स्मृतः ॥ २७.२८ ॥
अक्षतास्तण्डुलयवाः शालयो द्विशताः स्मृताः ।
आनन्त्यो गुग्गुलुश्चैव सहाज्येन सुधूपितः ॥ २७.२९ ॥
द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत् ।
देवि संवत्सरं पूर्णं स मे नन्दिसमो भवेत् ॥ २७.३० ॥
दक्षिणायां तु यो मूर्तौ पायसं सघृतं शुभे ।
निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत् ॥ २७.३१ ॥
चरवो दशसाहस्रा यावकश्च चतुर्गुणः ।
शेषाश्च चरवः सर्वे यावकार्धेन संमिताः ॥ २७.३२ ॥
घृतपात्रमसंख्येयमिह प्रेत्य च शाश्वतम् ।
प्रीणाति च पितॄन्सर्वान् विमाने चैव मोदते ।
छत्त्रं दद्याच्च यः सोऽपि दीप्यते तेजसा दिवि ॥ २७.३३ ॥
उभे पक्षे त्रयोदश्यामष्टम्यां चोपवासिकः ।
उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते ।
ददान्यस्य स्वकं लोकं तुष्टोऽहं देवि शाश्वतम् ॥ २७.३४ ॥
रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि ।
पूजितोऽहं सदा भक्त्या पुत्रत्वे कल्पयामि तम् ॥ २७.३५ ॥
एकरात्रं च यो मर्त्यो दीपं धारयति स्थितः ।
सर्वयज्ञफलं तस्य ददानि श्रियमेव च ॥ २७.३६ ॥
मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः ।
न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः ॥ २७.३७ ॥
ध्यानिनो नित्ययुक्ता ये सत्यधर्मपरायणाः ।
एकाग्रमनसो दान्तास्ते मां पश्यन्ति नित्यदा ॥ २७.३८ ॥
ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः ।
सर्वं पश्यन्ति च मयि मां च सर्वत्र योगतः ॥ २७.३९ ॥
त्रींल्लोकान्समतिक्रम्य ब्रह्मलोकं तथैव च ।
गच्छन्ति मम ते लोकं तमो भित्त्वा सुदुर्भिदम् ॥ २७.४० ॥
न शक्योऽस्मि तपोयुक्तैर्द्रष्टुं मुनिगणैरपि ।
ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः ॥ २७.४१ ॥
यानि लोकेषु तीर्थानि देवतायतनानि च ।
पादयोस्तानि सुश्रोणि सदा संनिहितानि मे ॥ २७.४२ ॥
मय्यर्पितमना नित्यं तथा मद्भावभावितः ।
ममैव स प्रभावेन सर्वपापैः प्रमुच्यते ॥ २७.४३ ॥
सर्वथा वर्तमानोऽपि देवि यो मां सदा स्मरेत् ।
कल्मषेण न युज्येत नरः कर्ता कदाचन ॥ २७.४४ ॥
सर्वावस्थोऽपि पापात्मा ज्ञाननिष्ठेन चेतसा ।
योऽभ्यर्चयति मां नित्यं स ममात्मसमो भवेत् ॥ २७.४५ ॥
षडङ्गेन च योगेन यो मामर्चयते सदा ।
प्रविशेत स मां क्षिप्रमत्र नास्ति विचारणा ॥ २७.४६ ॥
योऽप्यसज्जनरतो वियोनिजः पातकैरपि समन्वितः सदा ।
सोऽपि मद्गतमना मदर्पणो याति देवि गतिमप्रतर्किताम् ॥ २७.४७ ॥
इति स्कन्दपुराणे सप्तविंशतितमोऽध्यायः