स्कंद पुराण
सनत्कुमार उवाच
ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा ।
अपृच्छद्व्रतसम्बद्धं फलं फलशतार्चिता ॥ २८.१ ॥
व्रतानां फलमल्पं वा महद्वा यत्त्रिलोकप ।
व्रतं भवति यादृग्वा तत्प्रब्रूहि महेश्वर ॥ २८.२ ॥
देव उवाच
महाफलं यद्भवति यच्चाप्यल्पफलं शुभे ।
व्रतं यादृक्च यत्प्रोक्तं तच्छृणुष्वमनिन्दिते ॥ २८.३ ॥
चतुर्दश्यां तथाष्टम्यामुभयोः पक्षयोः शुचिः ।
संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः ॥ २८.४ ॥
सत्त्रयाजिफलं यच्च सत्यवागृतुगामिनाम् ।
तच्चैव फलमाप्नोति यमं चैव न पश्यति ॥ २८.५ ॥
शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः ।
स तप्यत्या नखाग्रेभ्यो नित्यं यो मां समाश्रितः ॥ २८.६ ॥
मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते ।
लोकास्तस्याक्षया देवि यद्यपि स्यात्सुपापकृत् ॥ २८.७ ॥
पृथिवीभाजने भुङ्क्ते नित्यं पर्वसु यो नरः ।
स त्रिरात्रफलं देवि अहोरात्रेण विन्दति ॥ २८.८ ॥
संवत्सरं तु यो भुङ्क्ते नित्यमेव ह्यतन्द्रितः ।
निवेद्य पितृदेवेभ्यः पृथिव्यामेकराड्भवेत् ॥ २८.९ ॥
नवमी अष्टमी चैव पौर्णमासी त्रयोदशी ।
यो भुङ्क्ते देवि नैतेषु संयतस्तु नरः समाम् ॥ २८.१० ॥
गाणपत्यं स लभते निःसपत्नमनिन्दिते ।
भूतानां दयितश्चैव दिव्यं रूपं बिभर्ति च ॥ २८.११ ॥
श्रीवत्सं यश्च पिष्टेन दद्याद्धेमफलं शुभम् ।
किरेत्कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च ।
फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः ॥ २८.१२ ॥
स वै वर्षसहस्राणि द्विषष्टिं दिवि मोदते ।
दिव्यरूपधरः श्रीमान् देवतैः सह नित्यशः ॥ २८.१३ ॥
हरिबेरमयीं यो मे दद्यात्प्रतिकृतिं स्वकाम् ।
सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम् ॥ २८.१४ ॥
भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम् ।
पूर्वदक्षिणयोश्चात्र पश्चिमोत्तरयोस्तथा ॥ २८.१५ ॥
पार्श्वेषु हरितालं च कृष्णागरुमनःशिलाम् ।
चन्दनं चैव दद्याद्वै यथासंख्येन पूजितम् ॥ २८.१६ ॥
तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि ।
सर्वव्याधिविनिर्मुक्तस्तथा निष्कल्मषश्च ह ॥ २८.१७ ॥
वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम् ।
इह लोके सुखी जातो मामेव प्रतिपद्यते ॥ २८.१८ ॥
रत्नावलिं तु यो दद्याद्ब्राह्मणः क्षत्रियोऽथ विट् ।
शूद्रः स्त्री वा स मे लोके मत्सौख्यं प्राप्नुते परम् ॥ २८.१९ ॥
सिद्धार्थकैरथार्घार्थे दैवे पित्र्येऽथवा पुनः ।
त्रिंशद्वर्षसहस्राणि तर्पयेत्स पितॄनपि ॥ २८.२० ॥
ऋषींश्च सर्वदेवांश्च रूपं चाप्नोति पुष्कलम् ।
मन्वन्तरं च गोलोके गोकन्याभिः स पूज्यते ॥ २८.२१ ॥
सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च ।
कुर्वन्त्यर्घे हि सांनिध्यं तेभ्यस्तद्विद्धि निःसृतम् ॥ २८.२२ ॥
गुह्यमेतत्परं देवि यो वेत्ति स महातपाः ।
तस्य प्रभावाज्जायेत धनवान्प्रियदर्शनः ।
प्रज्ञारूपगुणैर्युक्तः संवत्सरशतायुतम् ॥ २८.२३ ॥
क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः ।
अपराधसहस्रं तु क्षमे तस्याहमन्तशः ॥ २८.२४ ॥
यश्च तत्स्नपनं पश्येत्सर्वपापैः प्रमुच्यते ।
मानसस्य च जाप्यस्य सहस्रस्य फलं लभेत् ॥ २८.२५ ॥
संवत्सरं तु यः कुर्यात्क्षीरेण स्नपनं शुचिः ।
गाणपत्यं स लभते वल्लभत्वं च नित्यशः ॥ २८.२६ ॥
सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः ।
द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत् ॥ २८.२७ ॥
अभिगम्यश्च देवानां स भवेत नरोत्तमः ।
निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत् ॥ २८.२८ ॥
संमार्जनं च यः कुर्यात्संवत्सरमनुव्रतः ।
वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम् ।
सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि ॥ २८.२९ ॥
लिङ्गपूजां तु यः कुर्यान्मम देवि दृढव्रतः ।
शतं वर्षसहस्राणि दिव्यानि दिवि मोदते ॥ २८.३० ॥
चतुर्णां पुष्पजातीनां गन्धमाघ्राति शंकरः ।
अर्कस्य करवीरस्य बिल्वस्य च बुकस्य च ।
सुवर्णनिष्कं पुष्पे तु सर्वस्मिन्नेव कथ्यते ॥ २८.३१ ॥
सहस्रे त्वर्कपुष्पाणां दत्ते यत्कथ्यते फलम् ।
एकस्मिन्करवीरस्य दत्ते पुष्पे हि तत्फलम् ॥ २८.३२ ॥
करवीरसहस्रस्य भवेद्दत्तस्य यत्फलम् ।
तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते ॥ २८.३३ ॥
पद्मानां तु सहस्रस्य मम दत्तस्य यत्फलम् ।
तत्फलं लभते पत्त्रे दत्ते बिल्वस्य शोभने ॥ २८.३४ ॥
बिल्वपत्त्रसहस्रे तु दत्ते मे यत्फलं स्मृतम् ।
बुकपुष्पे तदेकस्मिन्मम दत्ते लभेत्फलम् ॥ २८.३५ ॥
बुकपुष्पसहस्रस्य मम दत्तस्य यत्फलम् ।
पुष्पे दत्ते तदेकस्मिंल्लभेद्धुत्तूरकस्य तु ॥ २८.३६ ॥
निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति ।
अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः ॥ २८.३७ ॥
स्वैरी चैव तथायुक्तो नियमैश्च बहिष्कृतः ।
नरके स पतेद्घोरे तिर्यग्योनौ च सम्भवेत् ॥ २८.३८ ॥
ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।
तस्य पापमहं शीघ्रं नाशयामि महाव्रते ॥ २८.३९ ॥
दीपमालां तु यः कुर्यात्कार्त्तिके मासि वै मम ।
अवसाने च दीपानां ब्राह्मणांस्तर्पयेच्छुचिः ।
गाणपत्यं स लभते दीप्यते च रविर्यथा ॥ २८.४० ॥
दद्यात्कृष्णतिलांश्चैव सह सिद्धार्थकांश्च ह ।
यो मे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत् ॥ २८.४१ ॥
ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये ।
सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम् ॥ २८.४२ ॥
चित्रो नाम गणो मह्यं तेन सार्धं स मोदते ।
सर्वसम्प्रलये चैव प्राप्ते त्रैलोक्यसंक्षये ।
त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते ॥ २८.४३ ॥
न तुष्याम्यर्चितोऽर्चायां तथा देवि नगात्मजे ।
लिङ्गेऽर्चिते यथात्यर्थं परितुष्यामि पार्वति ॥ २८.४४ ॥
सर्वेन्द्रियप्रसक्तो वा युक्तो वा सर्वपातकैः ।
स प्रयाति दिवं देवि लिङ्गं योऽर्चयतीह मे ॥ २८.४५ ॥
त्यक्त्वा सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः ।
मदाशीर्मन्नमस्कारो मामेव प्रतिपद्यते ॥ २८.४६ ॥
सनत्कुमार उवाच
ततो भगवती भूयः पतिं सर्वजगत्पतिम् ।
अपृच्छत्पुष्प्यमाणास्या केन त्वं देव तुष्यसि ॥ २८.४७ ॥
ततः प्रहसमानास्यः सर्वलोकेश्वरेश्वरः ।
वचः प्रोवाच भगवांल्लोकानां हितकाम्यया ॥ २८.४८ ॥
देव उवाच
शृणु देवि यथातत्त्वं येन यान्ति शुभां गतिम् ।
त्रैलोक्ये जन्तवः सर्वे मद्भक्ता ये शुभानने ॥ २८.४९ ॥
यत्तत्परतरं गुह्यं तत्सर्वं त्वयि तिष्ठति ।
यो हि तत्त्वेन तद्वेद संसाराद्विप्रमुच्यते ॥ २८.५० ॥
न च प्रकाशयेद्गुह्यं नाम ते कीर्तयेन्नरः ।
सदा सर्वसहेत्येवं प्रातः प्राञ्जलिरुत्थितः ॥ २८.५१ ॥
तस्माच्च कीर्तनात्पापं सर्वमेव विनिर्दहेत् ।
यशः कीर्तिं च सम्प्राप्य रुद्रलोके महीयते ॥ २८.५२ ॥
सर्वमाल्यानि यो दद्यात्सर्वमूर्तिषु नित्यशः ।
मन्त्रेण विधिवच्चैव तस्य पुण्यफलं महत् ॥ २८.५३ ॥
मन्त्रः
सर्वगाय सुरेशाय सर्वदेवमयाय च ।
नमो भगवते चैव गुह्यागुह्याय वै सदा ॥ २८.५४ ॥
सोमाय भूतनाथाय भावनाय भवाय च ।
सर्वगुह्याय वै स्वाहा देवगुह्यमयाय च ॥ २८.५५ ॥
सर्वगुह्यमयो मन्त्रः स्वाहा सोमाय चैव ह ।
कटंकटाय वै स्वाहा स्वाहा देवाय शुष्मिणे ॥ २८.५६ ॥
पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत् ।
सहस्रं तेन जाप्यस्य मानसस्य कृतं भवेत् ॥ २८.५७ ॥
अथाञ्जलिममावास्यां सुसम्पूर्णां समाहितः ।
तिलानां चैव कृष्णानां सर्षपाणां च पार्वति ।
अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति ॥ २८.५८ ॥
इदं च वचनं ब्रूयात्सूर्येति च ममेति च ।
सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः ॥ २८.५९ ॥
अर्चयित्वा च मां देवि यो मे नामानि कीर्तयेत् ।
चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि ।
सोऽपि देवि प्रपश्येन्मां वियोनिं न स गच्छति ॥ २८.६० ॥
वामदेव सुदेवेति हर गुप्तेति वा पुनः ।
उमापते नीलकण्ठ शान्त श्रीकण्ठ गोपते ॥ २८.६१ ॥
शर्व भीम पशुपते शंकरोग्र भवेति च ।
महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयेत् ।
सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते ॥ २८.६२ ॥
एतेषामेकमपि यः कथयेद्वा पठेत वा ।
स देहपद्धतिं भित्त्वा मामेव प्रतिपद्यते ।
एवं सर्वप्रणामेन यन्मया परिकीर्तितम् ॥ २८.६३ ॥
अमावास्यां तु यो नित्यं सघृतं गुग्गुलुं दहेत् ।
क्षीरेण चैव संमिश्रं गुह्यमेतन्मम प्रिये ।
सोऽच्युतं स्थानमाप्नोति मत्प्रसादान्न संशयः ॥ २८.६४ ॥
इदं च परमं गुह्यं यो मे देवि निवेदयेत् ।
अर्कपर्णपुटं पूर्णं घृतस्य मधुना सह ।
निवेद्य विधिवद्भक्त्या सर्वपापैः प्रमुच्यते ॥ २८.६५ ॥
इमानि च महाभागे यो मे नामानि कीर्तयेत् ।
श्मशाननिलयो नग्नो भस्मशायी यतव्रतः ॥ २८.६६ ॥
वामदेवः प्रशान्तश्च स्तब्धशेफस्त्रिलोचनः ।
अवसव्यप्रियः सव्यो बहुरूपोऽन्तकान्तकृत् ॥ २८.६७ ॥
पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः ।
अनिन्द्रियोऽतीन्द्रियश्च सर्वभूतहृदि स्थितः ॥ २८.६८ ॥
संसारचक्री योगात्मा कापाली दिण्डिरेव च ।
महादेवो महादेवो महादेवेति चैव हि ॥ २८.६९ ॥
जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः ।
स देहभेदमासाद्य योगात्मा गणपो भवेत् ॥ २८.७० ॥
सनत्कुमार उवाच
नाशुभाय न पापाय नानृताय कदाचन ।
श्रावयेद्भक्तिमान्पुण्यं नाव्रताय कदाचन ॥ २८.७१ ॥
धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम् ।
पूतं पवित्रं परमं मङ्गलानां च मङ्गलम् ।
श्रोतव्यं न च सर्वेण तथा देयं न कस्यचित् ॥ २८.७२ ॥
इति स्कन्दपुराणेऽष्टाविंशतितमोऽध्यायः