स्कंद पुराण
व्यास उवाच
एवं कालेन सम्प्राप्य वाराणस्यां निकेतनम् ।
जगतः पितरौ देवौ चक्रतुः किमतः परम् ॥ २९.१ ॥
सनत्कुमार उवाच
ततः स भगवान्देवो देवीं हिमवतः सुताम् ।
उवाच देवि पश्याम उद्यानं यदि रोचते ॥ २९.२ ॥
देव्युवाच
एवं भवतु देवेश यथात्थ त्वं वृषध्वज ।
न हि मेऽन्यत्र गन्तव्यमुद्यानात्परतो हर ॥ २९.३ ॥
सनत्कुमार उवाच
सह देव्या ततो व्यास वाराणस्यां वृषध्वजः ।
देवोद्यानदिदृक्षार्थं विचचार समन्ततः ॥ २९.४ ॥
पूर्वस्मिन्स दिशाभागे देव्या देवः पिनाकधृक् ।
उद्यानं दर्शयामास नानाकुसुमशोभितम् ॥ २९.५ ॥
चम्पकाशोकपुंनाग प्रियङ्गूचूतसंकुलम् ।
बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि ॥ २९.६ ॥
गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः ।
रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः ।
संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसंनिभम् ॥ २९.७ ॥
स तदुद्यानमासाद्य देवीमाह जगत्पतिः ।
अस्मिन्देशे पुरा देवि तिष्ठतो मम शोभने ॥ २९.८ ॥
ऊर्ध्वं गोलोकसंस्थानां गवां वत्सैः स्वयंभुवैः ।
पीयतीनां पयो वेगात्फेनं मूर्ध्नि समापतत् ॥ २९.९ ॥
ततो मयोर्ध्वं दृष्टास्तु गावस्ताः सोमपार्श्वगाः ।
ततस्ताः प्रेक्षितास्तत्र मया गावस्तदाभवन् ।
तेजसा दह्यमानास्तु नैकवर्णा भृशार्दिताः ॥ २९.१० ॥
गावः पूर्वमिमा देवि आसन्कपिलवर्णजाः ।
नैकवर्णास्तदाभूवन् यदा सम्प्रेक्षिता मया ॥ २९.११ ॥
तासां शरण्यतां यात्वा ताभिर्मामेव शैलजे ।
आश्रितः सोम आगत्य सह गोभिर्न तास्त्यजत् ॥ २९.१२ ॥
अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः ।
प्रसादं कुरु देवेश सुरभीस्तेजसा तव ।
न नश्यन्ति यथा सद्यस्तथा सर्वसुरार्चित ॥ २९.१३ ॥
ततोऽहमास्थितो देवि स्थानेऽस्मिन्स्वयमेव तु ।
गोप्रेक्षक इति ख्यातः संस्तुतः सर्वदेवतैः ॥ २९.१४ ॥
गोप्रेक्षेश्वरमागत्य दृष्ट्वा चार्च्य च मानवः ।
न दुर्गतिमवाप्नोति कल्मषैश्च विमुच्यते ॥ २९.१५ ॥
ततस्ता दह्यमानास्तु प्रसन्ने सुरभीर्मयि ।
ह्रदेऽस्मिन्पेतुरभ्येत्य शान्तास्ता विबभुस्तदा ।
कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते ॥ २९.१६ ॥
अत्रापि स्वयमेवाहं वृषध्वज इति श्रुतः ।
सांनिध्यं कृतवान्देवि स चायं दृश्यतां स्थितः ॥ २९.१७ ॥
कपिलाह्रदतीर्थेऽस्मिन् स्नात्वा नान्यमना नरः ।
वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् ॥ २९.१८ ॥
सलोकतां मृतश्चापि अर्चयित्वा तु मामिह ।
लभते देहभेदे तु गणत्वं चातिदुर्लभम् ॥ २९.१९ ॥
अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम् ।
शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम् ॥ २९.२० ॥
तासां क्षीरेण संजातं ह्रदमेतन्मनोहरम् ।
भद्रदोहमिति ख्यातं पुण्यं देववनं शुभम् ॥ २९.२१ ॥
सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः ।
गच्छोपशममीशेति उपशान्तशिवस्ततः ॥ २९.२२ ॥
स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम् ।
दृष्ट्वैनं प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात् ॥ २९.२३ ॥
अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ।
ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः ॥ २९.२४ ॥
ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा ।
मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि ॥ २९.२५ ॥
तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम् ।
रुद्रदेवे ममात्यन्तं पुरा भक्तिर्महत्तरा ॥ २९.२६ ॥
मयैष स्थापितस्तेन नाम्ना तव भविष्यति ।
हिरण्यगर्भ इत्येवं ततोऽत्राहं समास्थितः ।
दृष्ट्वैनमपि देवेशं मम लोकं व्रजेन्नरः ॥ २९.२७ ॥
पुनश्चापि ततो ब्रह्मा मम लिङ्गमिमं शुभे ।
स्थापयामास विधिवद्भक्त्या परमया युतः ।
स्वर्लीनेश्वर इत्येवमत्राहं स्वयमास्थितः ॥ २९.२८ ॥
स्वस्मिन्परतरे लीनः प्रधाने मम कारणे ।
तस्मात्स्वर्लीन इत्येवं गुह्यं क्षेत्रं मम स्मृतम् ॥ २९.२९ ॥
प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ।
आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता ॥ २९.३० ॥
अस्मिन्नपि मया देशे दैत्यो देवतकण्टकः ।
व्याघ्ररूपं समास्थाय निहतो दर्पितो बली ॥ २९.३१ ॥
व्याघ्रेश्वरस्ततः ख्यातो नित्यमत्राहमास्थितः ।
न पुनर्दुर्गतिं याति दृष्ट्वैनममरेश्वरम् ॥ २९.३२ ॥
उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा ।
स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे ।
सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम् ॥ २९.३३ ॥
आदावत्राहमागत्य आस्थितो गणपैः सह ।
ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् ॥ २९.३४ ॥
दृष्ट्वेमं मम लिङ्गं तु ज्येष्ठस्थानसमाश्रितम् ।
न शोचति पुनर्मर्त्यः संसिद्धो मृत्युजन्मनी ॥ २९.३५ ॥
समन्ताद्देवतैः सर्वैर्लिङ्गानि स्थापितानि ह ।
दृष्ट्वा तु नियतो मर्त्यो देहभेदे गणो भवेत् ॥ २९.३६ ॥