स्कंद पुराण

 

स्कन्द पुराण ३

 

सनत्कुमार उवाच

शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम्  ।

कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम्  ।

यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम्  ॥ ३.१ ॥

न नास्तिकाश्रद्दधाने शठे चापि कथंचन  ।

इमां कथामनुब्रूयात्तथा चासूयके नरे  ॥ ३.२ ॥

इदं पुत्राय शिष्याय धार्मिकायानसूयवे  ।

कथनीयं महाब्रह्मन् देवभक्ताय वा भवेत् ।

कुमारभक्ताय तथा श्रद्दधानाय चैव हि  ॥ ३.३ ॥

पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते  ।

सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः  ॥ ३.४ ॥

अहमेक इति ज्ञात्वा सर्वांल्लोकानवैक्षत  ।

न चापश्यत तत्रान्यं तपोयोगबलान्वितः  ॥ ३.५ ॥

पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता  ।

प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः  ॥ ३.६ ॥

स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम्  ।

विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः  ॥ ३.७ ॥

तदेषोपनिषत्प्रोक्ता मया व्यास सनातना  ।

यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम्  ॥ ३.८ ॥

ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै  ।

तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम्  ॥ ३.९ ॥

स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम्  ।

पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह  ॥ ३.१० ॥

महता योगतपसा युक्तस्य सुमहात्मनः  ।

अचिरेणैव कालेन पिता सम्प्रतुतोष ह  ॥ ३.११ ॥

दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह  ।

स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम्  ॥ ३.१२ ॥

नमः परमदेवाय देवानामपि वेधसे  ।

स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः  ॥ ३.१३ ॥

एकस्मै शक्तियुक्ताय अशक्तिरहिताय च  ।

अनन्तायाप्रमेयाय इन्द्रियाविषयाय च  ॥ ३.१४ ॥

व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने  ।

कृतप्रचेतनायैव तत्त्वविन्यासकारिणे  ॥ ३.१५ ॥

प्रधानचोदकायैव गुणिनां शान्तिदाय च  ।

दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च  ॥ ३.१६ ॥

विषयग्राहिणे चैव नियमस्य च कारिणे  ।

मनसः करणानां च तत्रैव नियमस्य च  ॥ ३.१७ ॥

भूतानां गुणकर्त्रे च शक्तिदाय तथैव च  ।

कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च  ।

अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम्  ॥ ३.१८ ॥

तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः  ।

तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा  ॥ ३.१९ ॥

यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते  ।

तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि  ॥ ३.२० ॥

यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर  ।

तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति  ॥ ३.२१ ॥

प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम्  ।

तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने  ॥ ३.२२ ॥

एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः  ।

यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह  ।

भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः  ॥ ३.२३ ॥

तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा  ।

एतमद्याभिषेकेण सम्पादयत मा चिरम्  ॥ ३.२४ ॥

ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम्  ।

अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः  ॥ ३.२५ ॥

तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा  ।

पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम्  ॥ ३.२६ ॥

रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो  ।

अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः  ॥ ३.२७ ॥

स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् ।

ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत् ॥ ३.२८ ॥

यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज  ।

देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम्  ॥ ३.२९ ॥

सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः  ।

तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम्  ॥ ३.३० ॥

 

 

इति स्कन्दपुराणे तृतीयोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!