स्कंद पुराण
इदानीमहमागत्य स्वयमस्मिन्व्यवस्थितः ।
न च मुक्तं मया यस्मादविमुक्तमिदं ततः ।
क्षेत्रं वाराणसी पुण्या मुक्तिदं सम्भविष्यति ॥ २९.३७ ॥
अविमुक्तेश्वरं मां वै योऽत्र द्रक्ष्यति मानवः ।
गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह ।
प्राणानिह तु संन्यस्य यास्यते मुक्तिमुत्तमाम् ॥ २९.३८ ॥
पित्रा ते गिरिराजेन पुरा हिमवता स्वयम् ।
मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गं प्रतिष्ठितम् ॥ २९.३९ ॥
शैलेश्वरमिति ख्यातं दृश्यतामिदमास्थितम् ।
दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत् ॥ २९.४० ॥
नदी वाराणसी चेयं पुण्या पापप्रमोचनी ।
क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता ॥ २९.४१ ॥
स्थापितं संगमे चास्मिन् ब्रह्मणा लिङ्गमुत्तमम् ।
संगमेश्वरमित्येवं ख्यातं जगति दृश्यताम् ॥ २९.४२ ॥
संगमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः ।
अर्चयेत्संगमेशानं तस्य जन्मभयं कुतः ॥ २९.४३ ॥
इदमन्यन्महत्क्षेत्रं निवासं योगिनां परम् ।
क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः ।
मध्यमेश्वर इत्येवं ख्यातः सर्वसुरासुरैः ॥ २९.४४ ॥
सिद्धानां स्थानमेतद्धि मदीयव्रतचारिणाम् ।
योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम् ।
दृष्ट्वेदं मध्यमेशानं जन्म प्रति न शोचति ॥ २९.४५ ॥
स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना ।
नाम्ना शुक्रेश्वरं नाम सर्वसिद्धामरार्चितम् ॥ २९.४६ ॥
दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात्सर्वकिल्बिषैः ।
मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः ॥ २९.४७ ॥
पुरा जम्बुकरूपेण असुरा देवकण्टकाः ।
ब्रह्मणोऽथ वरं लब्ध्वा गोमायुवधशङ्किताः ॥ २९.४८ ॥
निहता हिमवत्पुत्रि जम्बुकेशस्ततो ह्यहम् ।
अभवं जगति ख्यातः सुरासुरनमस्कृतः ।
दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात् ॥ २९.४९ ॥
ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि ।
पश्य लिङ्गानि पुण्यानि सर्वकामप्रदानि तु ॥ २९.५० ॥
एवमेतानि पुण्यानि मन्निवासानि पार्वति ।
कथितानि तव क्षेत्रे गुह्यं चान्यदिदं शृणु ॥ २९.५१ ॥
क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ।
योजनं विद्धि चार्वङ्गि मृत्युकालेऽमृतप्रदम् ॥ २९.५२ ॥
महालयगिरिस्थाने केदारे च व्यवस्थितम् ।
गणत्वं लभते दृष्ट्वा क्षेत्रेऽस्मिन्मोक्षमाप्यते ॥ २९.५३ ॥
गाणपत्यपदात्तस्माद्यतः सा मुक्तिरुत्तमा ।
ततो महालयात्तस्मात्केदारान्मध्यमादपि ।
स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे ॥ २९.५४ ॥
केदारमध्यमे स्थाने स्थानं चैव महालयम् ।
मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् ॥ २९.५५ ॥
यतः सृष्टानि लोकानि ततः क्षेत्रमिदं शुभम् ।
कदाचिन्न मया मुक्तमविमुक्तं ततोऽभवत् ॥ २९.५६ ॥
अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः ।
सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते ॥ २९.५७ ॥
शैलेशं संगमेशं च स्वर्लीनं मध्यमेश्वरम् ।
हिरण्यगर्भमीशानं गोप्रेक्षं सवृषध्वजम् ॥ २९.५८ ॥
उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम् ।
शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ।
दृष्ट्वा न जायते मर्त्यः संसारे दुःखसागरे ॥ २९.५९ ॥
एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ।
विलोक्य संस्थिते पश्चाद्देवदेवे महेश्वरे ॥ २९.६० ॥
अकस्मादभवत्सर्वं तद्देशं ज्वलितं यथा ।
सविद्युत्स्तनिताघोषं सूर्यायुतशतोदितम् ।
तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव ॥ २९.६१ ॥
ततः पाशुपताः सिद्धा भस्माभ्यङ्गसितप्रभाः ।
योगीश्वरा महात्मानस्तथा वैतानिकव्रताः ॥ २९.६२ ॥
अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः ।
बहवः शतशोऽभ्येत्य नमश्चक्रुर्महेश्वरम् ॥ २९.६३ ॥
पुनर्निरीक्ष्य देवेशं ध्यानयोगं च कृत्स्नशः ।
तस्थुरात्मानमाधाय लीयमाना इवेश्वरे ॥ २९.६४ ॥
स्थितानां स तथा तेषां देवदेव उमापतिः ।
संचिन्त्य परमां मूर्तिं बभूव पुरुषः प्रभुः ॥ २९.६५ ॥
षड्विंश ईश्वरोऽव्यक्तः सूर्यायुतसमप्रभः ।
कृत्स्नं जगदिवैकस्थं कर्तुमन्त इवास्थितः ॥ २९.६६ ॥
तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः ।
न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा ॥ २९.६७ ॥
ततस्तत्सृष्टमात्मानं बुद्ध्वा सा प्रकृतिस्थितम् ।
प्रकृतेर्मूर्तिमास्थाय योगेन परमात्मिका ।
तं शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः ॥ २९.६८ ॥
ततस्ते लयमाधाय योगिनः पुरुषस्य तु ।
विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः ॥ २९.६९ ॥
अनुगृह्य ततः सर्वांस्तान्सिद्धान्यतिपुंगवान् ।
नीललोहितमूर्तिस्थं पुनश्चक्रे वपुः शुभम् ॥ २९.७० ॥
तं दृष्ट्वा शैलजा प्राह हृष्टसर्वतनूरुहा ।
स्तुन्वन्ती चरणौ गत्वा क इमे भगवन्निति ॥ २९.७१ ॥
तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम् ।
मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः ।
यैर्यैर्योग इहाभ्यस्तस्तेषामेकेन जन्मना ॥ २९.७२ ॥
क्षेत्रस्यास्य प्रभावेन भक्त्या च मम भावतः ।
अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा ॥ २९.७३ ॥
तस्मादिदं महत्क्षेत्रं ब्रह्माद्यैः सेव्यते मम ।
श्रुतिमद्भिश्च विप्रेन्द्रैः संसिद्धैश्च तपस्विभिः ॥ २९.७४ ॥
प्रतिमासमथाष्टम्यां प्रतिमासं चतुर्दशीम् ।
उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे ॥ २९.७५ ॥
शशिभानूपरागे च कार्त्तिक्यां तु विशेषतः ।
सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु च ॥ २९.७६ ॥
पृथिव्यां सर्वतीर्थानि वाराणस्यां तु जाह्नवीम् ।
उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम् ॥ २९.७७ ॥
पितुस्ते गिरिराजाच्च स्रुतां हिमवतः शुभाम् ।
भजन्ते सर्वतोऽभ्येत्य ताञ्छृणुष्व वरानने ॥ २९.७८ ॥
संनिहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा ।
पुष्करं नैमिशं चैव प्रयागं सपृथूदकम् ॥ २९.७९ ॥
सन्ध्या सप्तऋचं चैव सर्वानद्यः सरांसि च ।
समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ।
भागीरथीं समेष्यन्ति सर्वपर्वसु काशिगाम् ॥ २९.८० ॥
अविमुक्तेश्वरं मां च काशीस्थमचलात्मजे ।
पृथिव्यां यानि पुण्यानि मह्यमायतनानि च ।
प्रविशन्ति सदाभ्येत्य पुण्यं पर्वसु पर्वसु ॥ २९.८१ ॥
केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये ।
मध्यमेश्वरसंस्थं च तथा पशुपतीश्वरम् ॥ २९.८२ ॥
शङ्कुकर्णेश्वरं चैव गोकर्णे च तथा ह्युभौ ।
द्रिमिचण्डेश्वरं चैव भद्रेश्वर तथैव च ॥ २९.८३ ॥