स्कंद पुराण
स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम् ।
भैरवेश्वरमीशानं तथा कारोहणास्थितम् ॥ २९.८४ ॥
यानि चान्यानि पुण्यानि स्थानानि मम भूतले ।
तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम् ॥ २९.८५ ॥
सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ।
तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम् ॥ २९.८६ ॥
स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे ।
सर्वयज्ञफलैस्तुल्यमिष्टैः शतसहस्रशः ।
सद्य एवमवाप्नोति किं न्वतः परमस्ति वै ॥ २९.८७ ॥
सर्वायतनमुख्यानां दिवि भूमौ गिरिष्वपि ।
नातः परतरं देवि बुध्यस्वास्तीति कृत्स्नशः ॥ २९.८८ ॥
ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेशवित्ताधिपवायुभिश्च ।
गन्धर्वयक्षोरगसिद्धसंघैः सार्धं सदा सेवितमेतदग्र्यम् ॥ २९.८९ ॥
स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम् ।
विमोक्षसंसिद्धिफलप्रदं हि तत्त्वप्रबुद्धा यतयो वदन्ति ॥ २९.९० ॥
क्षेत्रेऽस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः पश्यन्तोऽन्वहमादरेण शुचयः स्नाताः सदा मत्पराः ।
ते मर्त्या भयपापदुःखरहिताः संशुद्धकर्मक्रिया भित्त्वा सम्भवबन्धजालगहनं विन्दन्ति मोक्षं परम् ॥ २९.९१ ॥
एवमेतत्सरःकीर्णं नानाद्रुमलताकुलम् ।
जाह्नव्यालंकृतं पुण्यं क्षेत्रं गुह्यतमं मम ॥ २९.९२ ॥
भागीरथीमिहासाद्य वाराणस्यां ममास्पदे ।
अश्वमेधशतं प्राप्य ब्रह्मलोकं च गच्छति ॥ २९.९३ ॥
नातः पुण्यतमं देवि नातो गुह्यतमं क्वचित् ।
नातः शुभतरं किंचिन्नातः प्रियतरं मम ॥ २९.९४ ॥
क्षेत्रं ममेदं सुरसिद्धजुष्टं सम्प्राप्य मर्त्यः सुकृतप्रभावात् ।
ख्यातो भवेत्सर्वसुरासुराणां मृतश्च यायात्परमं पदं तम् ॥ २९.९५ ॥
सनत्कुमार उवाच
उद्यानानि ततो देवः स्थानानि च तथात्मनः ।
आख्याय हिमवत्पुत्र्या विचचार तदा पुनः ॥ २९.९६ ॥
सोऽपश्यत तदा विप्रं तप्यमानं परं तपः ।
पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम् ॥ २९.९७ ॥
स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयत्सदा ।
भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत् ।
जप्येन वृषनादैश्च तपसा भावितः शुचिः ॥ २९.९८ ॥
तमेवं वर्तमानं तु भक्त्या परमया युतम् ।
भगवान्सहसाभ्येत्य इदं वचनमब्रवीत् ॥ २९.९९ ॥
जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ।
तुष्टोऽस्मि वरदश्चैव ब्रूहि यत्ते मनोगतम् ॥ २९.१०० ॥
स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम् ।
प्रणम्य शिरसा पादाववन्दत्परया मुदा ॥ २९.१०१ ॥
जैगीषव्य उवाच
नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः ।
नमः पिनाकहस्ताय हिमवन्निलयाय च ॥ २९.१०२ ॥
नमः पवनवेगाय ध्येयाय ध्यायिभिः सदा ।
नमः सोमाय हेम्ने च हेममालाधराय च ॥ २९.१०३ ॥
नमो गणाधिपतये नमः शान्तेन्द्रियाय च ।
योगसाहाय्यकर्त्रे च साहसोपशमाय च ॥ २९.१०४ ॥
नमो मृत्युहरायैव नमः शोकहराय च ।
नमः सिद्धिप्रदात्रे च सिद्धिसिद्धाय वै नमः ॥ २९.१०५ ॥
धारिणे सर्वलोकानां सर्वलोकेश्वराय च ।
नमो दशार्धवर्णाय संसारापनुदाय च ॥ २९.१०६ ॥
नमः संसारपाराय अपारपरमाय च ।
स्वयंमन्त्रे च मनसे दुर्विज्ञेयाय वै नमः ॥ २९.१०७ ॥
नमः कालकलाज्ञाय सकलायाकलाय च ।
नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः ॥ २९.१०८ ॥
नमः क्रोधविहीनाय क्रोधाधिपतये नमः ।
नमः श्रमायाश्रमिणे श्रमापनयनाय च ॥ २९.१०९ ॥
नमो ज्ञानरसज्ञाय ज्ञानिनेऽज्ञानहारिणे ।
सक्ताय चैव तपसि ऐश्वर्यनिरताय च ॥ २९.११० ॥
नमो ज्ञानाय बन्धाय अज्ञानविनिवर्तिने ।
नमः सर्वानुभावाय भावानुगतचेतसे ॥ २९.१११ ॥
नमः शमदमाढ्याय मृत्युदूतापहारिणे ।
नमः शैलादिनाथाय शैलादिगणपाय च ॥ २९.११२ ॥
नमो योगरहस्याय योगदाय नमो नमः ।
मह्यं सर्वात्मना कामान् प्रयच्छ भगवन्प्रभो ॥ २९.११३ ॥
सनत्कुमार उवाच
स एवं स्तूयमानश्च भक्त्या परमयापि च ।
तुष्टस्तुतोष भूयोऽस्य इदं चैनमुवाच ह ॥ २९.११४ ॥
देव उवाच
अजरश्चामरश्चैव सर्वशोकविवर्जितः ।
महायोगी महावीर्यो योगैश्वर्यसमन्वितः ॥ २९.११५ ॥
प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम् ।
योगेऽष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् ।
भविष्यसि द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः ॥ २९.११६ ॥
यश्चेमं त्वत्कृतं लिङ्गं नियमेनार्चयिष्यति ।
योनयः सप्त गत्वा तु योगं स समवाप्स्यति ॥ २९.११७ ॥
जैगीषव्यगुहां चेमां प्राप्य यो योक्ष्यते द्विजः ।
स सप्तरात्रं युक्तात्मा सर्वपापैः प्रमुच्यते ॥ २९.११८ ॥
मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति ।
एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन् ॥ २९.११९ ॥
त्रिरात्रेण व्यतीतांश्च परान्सप्त च तारयेत् ।
अतो भूयश्च किं तेऽद्य जैगीषव्य ददान्यहम् ॥ २९.१२० ॥
जैगीषव्य उवाच
भगवन्देवदेवेश यच्छ यन्मे मनोगतम् ।
अतोऽहं नान्यदिच्छामि योगाक्षय्यात्परं हितम् ॥ २९.१२१ ॥
त्वयि भक्तिश्च नित्यं स्यात्सोमे सगणपेश्वरे ।
अनुत्सेकं तथा क्षान्तिं शमं दममथापि च ॥ २९.१२२ ॥
न चाप्यभिभवं कुर्यान्न च तेजोवमाननाम् ।
एतान्वरानहं देव सदेच्छामि महाद्युते ॥ २९.१२३ ॥
देव उवाच
एते तव भविष्यन्ति अजय्यत्वं च योगिभिः ।
इच्छतो दर्शनं चैव भविष्यति च ते मम ॥ २९.१२४ ॥
सनत्कुमार उवाच
ततः स भगवान्देवः पाराशर्योमया सह ।
सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया ॥ २९.१२५ ॥
तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम् ।
वरदानाय देवेशो जगाम पुरतस्तदा ॥ २९.१२६ ॥
अथ दृष्ट्वा त्रिपादं च ह्रस्वबाहूरुपादकम् ।
तप्यमानं तपो घोरं सुतं विश्रवसस्तदा ॥ २९.१२७ ॥
दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम् ।
तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम् ॥ २९.१२८ ॥