स्कंद पुराण

देव उवाच

भो भो विश्रवसः पुत्र चक्षुर्दिव्यं ददानि ते  ।

सोमं पश्य महासत्त्व मां त्वं दिव्येन चक्षुषा  ॥ २९.१२९ ॥

ततः स दृष्ट्वा देवेशं साम्बं नन्दिपुरःसरम्  ।

प्रणम्य कर्षितः सम्यगुत्थातुं न शशाक ह  ॥ २९.१३० ॥

अबलं तं समालक्ष्य उत्थानेऽशक्तमीश्वरः  ।

उवाचोत्तिष्ठ भद्रं ते बलं पौराणमस्तु ते  ॥ २९.१३१ ॥

तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत  ।

पार्श्वगां चैव नेत्रेण देवीमालोकयन्स्थितः  ॥ २९.१३२ ॥

इयं सा पर्वतसुता सर्वलोकनमस्कृता  ।

माता लोकत्रयस्यास्य महायोगबलान्विता  ॥ २९.१३३ ॥

अहोऽस्यास्तपसो वीर्यमहो दीप्तिरहो बलम्  ।

या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह  ॥ २९.१३४ ॥

 

सनत्कुमार उवाच

तमेवंभूतमनसमीक्षमाणं च पार्वतीम्  ।

बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी  ॥ २९.१३५ ॥

सा क्रुद्धा तु कुबेरस्य वाममक्षि सुदीप्तिमत् ।

विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा  ॥ २९.१३६ ॥

पुनश्चास्य विनाशाय कुबेरस्य शुभानना  ।

मतिं दध्रे तपोयोनिरथैनामवदद्धरः  ॥ २९.१३७ ॥

मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः  ।

यशस्वी धार्मिकश्चायं भक्तस्त्वां च विशेषतः  ॥ २९.१३८ ॥

कुतूहलतया ह्येष त्वां निरीक्षितवाञ्छुभे  ।

प्रसादं कुरु बालस्य धनदस्य महेश्वरि  ॥ २९.१३९ ॥

 

देव्युवाच

एषोऽसकृन्मां देवेश वीक्षतेऽविनयात्प्रभो  ।

मिनोति न गुणान्देव कस्मान्मम पुरः स्थितः  ॥ २९.१४० ॥

तेजसां योऽप्रमेयानां कुर्यान्मोहेन लङ्घनम्  ।

सोऽल्पवीर्यो विनश्येत पतङ्गोऽग्निमिवागतः  ॥ २९.१४१ ॥

 

सनत्कुमार उवाच

तामेवं क्रोधताम्राक्षीं क्रुद्धां सम्प्रेक्ष्य शंकरः  ।

उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः  ॥ २९.१४२ ॥

ब्रवीमि त्वां महाभागे मा क्रुधो जगतोऽरणि  ।

त्वया सृष्टं जगत्सर्वं प्रकृतिस्त्वं सुरेश्वरि  ।

पुत्रस्तेऽयं यतो देवि तस्मान्न क्रोद्धुमर्हसि  ॥ २९.१४३ ॥

मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने  ।

न दोषोऽस्ति न चैवास्य त्वयि चेतो विमोहितम्  ॥ २९.१४४ ॥

तस्मात्त्वमेव देव्यस्य प्रसन्नस्य नतस्य च  ।

प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम्  ॥ २९.१४५ ॥

 

सनत्कुमार उवाच

सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा  ।

प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत् ॥ २९.१४६ ॥

 

देव्युवाच

कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ  ।

तुष्टास्मि मा कृथाश्चैव पुनस्तेजस्विलङ्घनम्  ॥ २९.१४७ ॥

यत्त्विदं ते मया दग्धमीक्षमाणस्य लोचनम्  ।

वामं तथैव भवतु पिङ्गलं दीप्तिमच्च ह  ॥ २९.१४८ ॥

अनेन चाङ्कितो लोके भविष्यसि न संशयः  ।

एकाक्षिपिङ्गलो नाम्ना ख्यातः सर्वत्र पूजितः  ॥ २९.१४९ ॥

चरितं यत्तपश्चेदमक्षयं तच्च तेऽव्ययम्  ।

सौभाग्यमुत्तमं चैव मत्प्रसादाद्भविष्यति  ॥ २९.१५० ॥

 

सनत्कुमार उवाच

एवमुक्त्वा ततो देवी विरराम शुभानना  ।

भगवान्वरदोऽस्मीति कुबेरमवदत्ततः  ॥ २९.१५१ ॥

अथैवमुक्तो देवेन कुबेरो हृष्टमानसः  ।

तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः  ॥ २९.१५२ ॥

 

कुबेर उवाच

नमः पट्टिसहस्ताय किरीटवरधारिणे  ।

नमो वलयधारिण्यै धारिण्यै दर्पणस्य च  ॥ २९.१५३ ॥

नमः सर्वाङ्गकेशाय दीर्घकेश्यै नमो नमः  ।

नमो मेखलधारिण्यै नमो मौञ्जीधराय च  ॥ २९.१५४ ॥

नमो नीलशिखण्डिन्यै नमः पिङ्गजटाभृते  ।

नमो ज्ञानाय तनवे भूताधिपतये नमः  ॥ २९.१५५ ॥

नमस्ताराभिधारिण्यै सिंहोरस्काय वै नमः  ।

नमो रत्नाग्र्यधारिण्यै नमश्चन्द्रार्धमौलये  ॥ २९.१५६ ॥

नमः प्रकृतये चैव नमोऽस्तु पुरुषाय च  ।

नमोऽस्तु बुद्धये चैव अहंकाराय वै नमः  ॥ २९.१५७ ॥

नमोऽस्तु रतये चैव सुखाय च नमो नमः  ।

नमः कीर्त्यै कर्मणे च आरम्भाय समाप्तये  ॥ २९.१५८ ॥

नमो यज्ञाय मन्त्राय दक्षिणायै ऋचे नमः  ।

नमः साम्नेऽथ यजुषे छन्दसे चेष्टये नमः  ॥ २९.१५९ ॥

नमोऽग्नये च वेद्यै च स्वाहायै हविषे नमः  ।

नमो लक्ष्म्यै श्रियै चैव नमो धर्माय वेधसे  ॥ २९.१६० ॥

इच्छायै रतये चैव नमः सम्पद्विरागिणे  ।

नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः  ॥ २९.१६१ ॥

नमः स्वधायै कव्याय हव्याय च नमो नमः  ।

नमो वेद्याय विद्यायै नमः शर्वाय भक्तये  ॥ २९.१६२ ॥

प्रलयोत्पत्तये चैव स्थित्यै संसारणाय च  ।

मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे  ॥ २९.१६३ ॥

नमस्ते भगवन्देव सह देव्या जगत्पते  ।

दिश नो भूतभव्येश यन्मे मनसि संस्थितम्  ॥ २९.१६४ ॥

 

सनत्कुमार उवाच

य इमं पठते नित्यं स्तवं प्रातः समुत्थितः  ।

जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा  ॥ २९.१६५ ॥

तस्य तुष्टो धनेशस्तु प्रयच्छति महद्धनम्  ।

सोमश्च भगवांस्तुष्टो गतिमिष्टां प्रयच्छति  ॥ २९.१६६ ॥

 

सनत्कुमार उवाच

एवं स संस्तुतस्तेन कुबेरेण जगत्पतिः  ।

उवाच वरदोऽस्मीति ब्रूहि विश्रवसः सुत  ॥ २९.१६७ ॥

 

कुबेर उवाच

त्वत्तः प्रसादः सततं भक्तिश्च त्वयि शाश्वती  ।

भगवंस्त्वां च पश्येयं वर एषोऽस्तु मे विभो  ॥ २९.१६८ ॥

एवमस्त्विति तत्सर्वं प्रदाय भगवाञ्छिवः  ।

आत्मना सह सख्यं च ददावात्यन्तिकं तदा  ॥ २९.१६९ ॥

 

देव उवाच

गृहाण चेमां शिबिकां नरयुक्तामसङ्गिनीम्  ।

लोकान्यथेष्टं लोकेश यामारुह्य चरिष्यसि  ॥ २९.१७० ॥

इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम्  ।

गृहाणायुधमेतत्ते भविष्यत्यरिदुःसहम्  ॥ २९.१७१ ॥

अस्त्रं च ते प्रयच्छामि तव नाम्ना भविष्यति  ।

कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम्  ॥ २९.१७२ ॥

 

सनत्कुमार उवाच

ततः स देवस्तुष्टात्मा मालां स्वयमनिन्दिताम्  ।

आबबद्धास्य शिरसि भास्कराकारवर्चसम्  ॥ २९.१७३ ॥

कुशेशयानां फुल्लानां स्रग्दामं च मनोरमम्  ।

आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः  ॥ २९.१७४ ॥

प्रकामं दर्शनं चास्य दत्त्वा चैव धनेशताम्  ।

जगाम भगवान्सोमस्ततोऽन्यं देशमीप्सितम्  ॥ २९.१७५ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!