स्कंद पुराण
देव्युवाच
अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा ।
सर्वे वश्या भविष्यन्ति सर्वकार्यकराश्च ह ॥ २९.२२५ ॥
आदौ पश्चाच्च सर्वाभ्यो हिरण्यं पशवः स्त्रियः ।
सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च ॥ २९.२२६ ॥
व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च ।
प्रिया एव भविष्यन्ति पापं न च भवेत्सदा ॥ २९.२२७ ॥
मातरं पितरं भ्रातॄन् सुहृदोऽथ सुतानपि ।
अकार्याणि करिष्यन्तु स्त्रीणां वश्यत्वमागताः ॥ २९.२२८ ॥
पश्यन्तोऽपि व्यलीकानि दोषान्वैकृत्यमेव च ।
नैव द्रक्ष्यन्ति ते पुंसो मद्वरान्मोहितेन्द्रियाः ॥ २९.२२९ ॥
सनत्कुमार उवाच
ततः सा देवदेवस्य पत्नी हिमवतः सुता ।
माल्यदामं गृहीत्वा तु भ्रामयन्ती शुभानना ।
भव नार्य इति प्राह हसन्ती प्रियमव्यया ॥ २९.२३० ॥
भ्राम्यतस्तस्य दाम्नस्तु यान्यशीर्यन्त भूतले ।
कुसुमान्यभवंस्तानि नार्यः कमललोचनाः ॥ २९.२३१ ॥
ता उवाचामरा यूयं जराक्षयविवर्जिताः ।
जगन्मोहकरा यूयं पुंसां हृदयबन्धनाः ॥ २९.२३२ ॥
दृष्टिस्पर्शविलासेषु आविश्य जगति स्त्रियः ।
संमोहयिष्यथ नरान् स्त्रीवशांश्च करिष्यथ ।
नराः सर्वे च युष्मासु भविष्यन्ति सदा रताः ॥ २९.२३३ ॥
वृत्तिः शुभा भवित्री च सर्वासां मम तेजसा ।
पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च ॥ २९.२३४ ॥
क्रियाः शुभाङ्गसंस्कारा दिव्या ये मानुषाश्च ह ।
बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः ॥ २९.२३५ ॥
सनत्कुमार उवाच
एवं देवी तदा व्यास सृष्ट्वा ता वै विसृज्य च ।
उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम् ॥ २९.२३६ ॥
तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेमहि ।
देवानां मानुषाणां च अवध्याश्चैव रक्षसाम् ।
ता उवाच ततो देवी एवं लोके भविष्यतु ॥ २९.२३७ ॥
ततः स सहितो देव्या सनन्दी परमेश्वरः ।
गणैः सर्वैश्च सहितो गृहान्स्वानाविशत्प्रभुः ॥ २९.२३८ ॥
भगनयननिपाती दैत्यदर्पापहारी पुरकमलहिमौघः कामयज्ञेन्धनाग्निः ।
जलदवृषभयायी सर्वदुःखान्तकारी समरवृषभकेतुश्चन्द्रमौलिर्जगाम ॥ २९.२३९ ॥
इति स्कन्दपुराणे ऊनत्रिंशोऽध्यायः