स्कंद पुराण

स्कन्दपुराण 30

व्यास उवाच

भगवन्पिङ्गलः केन गणत्वं समुपागतः  ।

अन्नदत्वं च सम्प्राप्तो वाराणस्यां महाद्युतिः  ॥ ३०.१ ॥

क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः  ।

एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया  ॥ ३०.२ ॥

 

सनत्कुमार उवाच

शृणु व्यास यथा लेभे गणेशत्वं स पिङ्गलः  ।

अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि  ॥ ३०.३ ॥

पूर्णभद्रसुतः श्रीमानासीद्यक्षः प्रतापवान्  ।

हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह  ॥ ३०.४ ॥

तस्य जन्मप्रभृत्येव शर्वे भक्तिरनुत्तमा  ।

तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः  ॥ ३०.५ ॥

आसीनश्च शयानश्च गच्छंस्तिष्ठन्ननुव्रजन्  ।

भुञ्जानोऽथ पिबन्वापि रुद्रमेवानुचिन्तयत् ॥ ३०.६ ॥

तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत् ।

न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा  ॥ ३०.७ ॥

न हि यक्षकुलीनानामेतद्वृत्तं भवत्युत  ।

गुह्यका वत यूयं वै स्वभावात्क्रूरचेतसः  ।

क्रव्यादाश्चैव किंभक्षा हिंसाशीलाश्च पुत्रक  ॥ ३०.८ ॥

मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम्  ।

स्वयम्भुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते  ॥ ३०.९ ॥

 

हरिकेश उवाच

दुष्टा चैवाप्रशस्ता च गर्हिता साधुभिः सदा  ।

वृत्तिः स्वयम्भुवा सृष्टा त्यक्तव्या यदि नो भवेत् ।

आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः  ॥ ३०.१० ॥

हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह  ।

देवत्वं नो विमार्गेयुर्मानुष्यां जातिमेव च  ॥ ३०.११ ॥

अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंश्रितम्  ।

ममापि विहितं पश्य कर्मैतन्नात्र संशयः  ॥ ३०.१२ ॥

 

सनत्कुमार उवाच

स एवमुक्तः पुत्रेण पूर्णभद्रः प्रतापवान्  ।

उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते  ॥ ३०.१३ ॥

ततः स निर्गतस्त्यक्त्वा गृहसम्बन्धिबान्धवान्  ।

वाराणसीं समासाद्य तपस्तेपे सुदुश्चरम्  ॥ ३०.१४ ॥

स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः  ।

संनियम्येन्द्रियग्राममवातिष्ठत निश्चलः  ॥ ३०.१५ ॥

अथ तस्यैवमनिशं तत्परस्य तदाशिषः  ।

सहस्रमेकं वर्षाणां दिव्यमभ्यतिवर्तत  ॥ ३०.१६ ॥

वल्मीकेन समाक्रान्तो भक्ष्यमाणः पिपीलिकैः  ।

वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च  ॥ ३०.१७ ॥

निर्मांसरुधिरत्वक्च कुन्दशङ्खेन्दुसप्रभः  ।

अस्थिशेषोऽभवत्सर्वो देवश्चैनममन्यत  ॥ ३०.१८ ॥

एतस्मिन्नन्तरे देवी व्यज्ञापयत शंकरम्  ।

उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद  ॥ ३०.१९ ॥

क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे  ।

यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम्  ॥ ३०.२० ॥

इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः  ।

सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे  ॥ ३०.२१ ॥

निर्जगाम च देवेशः पार्वत्या सह शंकरः  ।

उद्यानं दर्शयामास देव्या देवः पिनाकधृक् ॥ ३०.२२ ॥

प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम्  ।

विरूढपुष्पैः परितः प्रियङ्गुभिः सुपुष्पितैः कण्टकितैश्च केतकैः  ॥ ३०.२३ ॥

तमालगुल्मैर्निचितं सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः  ।

अशोकपुंनागवनैः सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः  ॥ ३०.२४ ॥

क्वचित्प्रफुल्लाम्बुजरेणुरूषितैर्विहंगमैश्चारुकलप्रणादिभिः  ।

विनादितं सारसहंसनादिभिः प्रमत्तदात्यूहरुतैश्च वल्गुभिः  ॥ ३०.२५ ॥

क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकायुतम्  ।

क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम्  ॥ ३०.२६ ॥

मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगन्धिपुष्पम्  ।

क्वचित्सुपुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम्  ॥ ३०.२७ ॥

प्रगीतविद्याधरसिद्धचारणं प्रनृत्तनित्यानुगताप्सरोगणम्  ।

प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम्  ॥ ३०.२८ ॥

मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः  ।

प्रफुल्लनानाविधचारुपङ्कजैः सरस्तडागैरुपशोभितं क्वचित् ॥ ३०.२९ ॥

निविडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगव्रातनादाभिरामम्  ।

कुसुमिततरुशाखालीनमत्तद्विरेफं नवकिसलयशोभाशोभितप्रान्तशाखम्  ॥ ३०.३० ॥

क्वचिच्च दन्तिक्षतचारुवीरुत्क्वचिल्लतालिङ्गितचारुवृक्षम्  ।

क्वचिद्विलासालसगामिनीभिर्निषेवितं किंपुरुषाङ्गनाभिः  ॥ ३०.३१ ॥

पारावतध्वनिनिकूजितचारुशृङ्गैरभ्रंकषैः सितमनोहरचारुरूपैः  ।

आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः  ॥ ३०.३२ ॥

फुल्लोत्पलागरुसहस्रवितानयुक्तैस्तोयाशयैः समनुशोभितदेवमार्गम्  ।

मार्गान्तरागलितपुष्पविचित्रभक्ति सम्बद्धगुल्मविटपैर्विहगैरुपेतम्  ॥ ३०.३३ ॥

तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रान्तशाखैरशोकैर्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितान्तं मनोज्ञैः  ।

रात्रौ चन्द्रस्य भासा कुसुमिततिलकैरेकतां सम्प्रयातं छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम्  ॥ ३०.३४ ॥

हंसानां पक्षवातप्रचलितकमलस्वच्छविस्तीर्णतोयं तोयानां तीरजातप्रविकचकदलीवाटनृत्यन्मयूरम्  ।

मायूरैः पक्षचन्द्रैः क्वचिदपि पतितै रञ्जितक्ष्माप्रदेशं देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम्  ॥ ३०.३५ ॥

सारङ्गैः क्वचिदुपसेवितप्रदेशं संछन्नं कुसुमचयैः क्वचिद्विचित्रैः  ।

हृष्टाभिः क्वचिदपि किंनराङ्गनाभिः क्षीवाभिः सुमधुरगीतवृक्षषण्डम्  ॥ ३०.३६ ॥

संसृष्टैः क्वचिदुपलिप्तकीर्णपुष्पैरावासैः परिवृतपादपं मुनीनाम्  ।

आ मूलात्फलनिचितैः क्वचिद्विशालैरुत्तुङ्गैः पनसमहीरुहैरुपेतम्  ॥ ३०.३७ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!