स्कंद पुराण

फुल्लातिमुक्तकलतागृहलीनसिद्धं सिद्धाङ्गनाकनकनूपुररावरम्यम्  ।

रम्यप्रियङ्गुतरुमञ्जरिसक्तभृङ्गं भृङ्गावलीशबलिताम्रकदम्बपुष्पम्  ॥ ३०.३८ ॥

पुष्पोत्करानिलविघूर्णितपादपाग्रमग्रे सुरेभविनिपातितवंशगुल्मम्  ।

गुल्मान्तरप्रसृतभीतमृगीसमूहमूहावतां तनुभृतामपवर्गदातृ  ॥ ३०.३९ ॥

चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः सिन्दूरकुङ्कुमकुसुम्भनिभैरशोकैः  ।

चामीकरप्रतिसमैरथ कर्णिकारैः पुष्पोत्करैरुपचितं सुविशालशाखैः  ॥ ३०.४० ॥

क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसंनिभैः  ।

क्वचित्काञ्चनसंकाशैः पुष्पैराचितभूतलम्  ॥ ३०.४१ ॥

पुंनागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम्  ।

रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम्  ॥ ३०.४२ ॥

सकलभुवनभर्ता लोकनाथस्तदानीं तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेशैः  ।

विविधतरुविशालं मत्तहृष्टान्यपुष्टमुपवनमतिरम्यं दर्शयामास देव्याः  ॥ ३०.४३ ॥

 

देव्युवाच

उद्यानं दर्शितं देव शोभया परया युतम्  ।

क्षेत्रस्य तु गुणान्सर्वान् पुनर्वक्तुमिहार्हसि  ॥ ३०.४४ ॥

अस्य क्षेत्रस्य माहात्म्यमविमुक्तस्य तत्तदा  ।

श्रुत्वापि न हि मे तृप्तिरतो भूयो वदस्व मे  ॥ ३०.४५ ॥

 

देव उवाच

इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम  ।

सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा  ॥ ३०.४६ ॥

अस्मिन्सिद्धाः सदा देवि मदीयं व्रतमाश्रिताः  ।

नानालिङ्गधरा नित्यं मम लोकाभिकाङ्क्षिणः  ।

अभ्यस्यन्ति परं योगं युक्तात्मानो जितेन्द्रियाः  ॥ ३०.४७ ॥

नानावृक्षसमाकीर्णे नानाविहगसेविते  ।

कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते  ॥ ३०.४८ ॥

अप्सरोगणगन्धर्वैः सदा संसेविते शुभे  ।

रोचते मे सदावासो येन कार्येण तच्छृणु  ॥ ३०.४९ ॥

मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः  ।

यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित् ॥ ३०.५० ॥

एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं महत् ।

ब्रह्मादयो विजानन्ति ये च सिद्धा मुमुक्षवः  ।

अतः प्रियमिदं क्षेत्रमस्माच्चेह रतिर्मम  ॥ ३०.५१ ॥

विमुक्तं न मया यस्मान्मोक्ष्यते वा कदाचन  ।

मम क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम्  ॥ ३०.५२ ॥

नैमिशेऽथ कुरुक्षेत्रे गङ्गाद्वारेऽथ पुष्करे  ।

स्नानात्संसेवनाद्वापि न मोक्षः प्राप्यते यतः  ।

इह सम्प्राप्यते येन तत एतद्विशिष्यते  ॥ ३०.५३ ॥

प्रयागे वा भवेन्मोक्ष इह वा मत्परिग्रहात् ।

प्रयागादपि तीर्थाग्र्यादिदमेव महत्स्मृतम्  ॥ ३०.५४ ॥

जैगीषव्यः परां सिद्धिं यो गतः स महातपाः  ।

अस्य क्षेत्रस्य माहात्म्याद्भक्त्या च मम भावतः  ॥ ३०.५५ ॥

जैगीषव्यगुहा श्रेष्ठा योगिनां स्थानमिष्यते  ।

ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम्  ।

कैवल्यं परमं याति देवानामपि दुर्लभम्  ॥ ३०.५६ ॥

अव्यक्तलिङ्गैर्मुनिभिः सर्वसिद्धान्तवेदिभिः  ।

इह सम्प्राप्यते मोक्षो दुर्लभोऽन्यत्र कर्हिचित् ॥ ३०.५७ ॥

तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम्  ।

आत्मनश्चैव सायुज्यमीप्सितं स्थानमेव च  ॥ ३०.५८ ॥

कुबेरः स महायक्षस्तथा सर्वार्पितक्रियः  ।

क्षेत्रसंसेवनाद्देवि गणेशत्वमवाप ह  ॥ ३०.५९ ॥

संवर्तो भविता यश्च सोऽपि भक्त्या ममैव तु  ।

इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्  ॥ ३०.६० ॥

पराशरसुतो योगी ऋषिर्व्यासो महातपाः  ।

धर्मवक्ता भविष्यश्च वेदसंस्थाप्रवर्तकः  ।

रंस्यते सोऽपि पद्माक्षि क्षेत्रेऽस्मिन्मुनिपुंगवः  ॥ ३०.६१ ॥

ब्रह्मा देवर्षिभिः सार्धं विष्णुर्वायुर्दिवाकरः  ।

देवराजस्तथा शक्रो येऽपि चान्ये दिवौकसः  ।

उपासते महात्मानः सर्वे मामिह सुव्रते  ॥ ३०.६२ ॥

अन्ये च योगिनः सिद्धाश्छन्नरूपा महाव्रते  ।

अनन्यमनसो भूत्वा मामिहोपासते सदा  ॥ ३०.६३ ॥

अलर्कश्च पुरीमेतां मत्प्रसादादवाप्स्यति  ।

स चैनां पूर्ववत्कृत्वा चतुर्वर्णसमाकुलाम्  ॥ ३०.६४ ॥

स्फीतां जनपदाकीर्णां भुक्त्वा च सुचिरं नृपः  ।

मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते  ॥ ३०.६५ ॥

ततः प्रभृति चार्वङ्गि येऽपि क्षेत्रनिवासिनः  ।

गृहिणो लिङ्गिनो वापि मद्भक्ता मत्परायणाः  ।

मत्प्रसादाद्गमिष्यन्ति मोक्षं परमदुर्गमम्  ॥ ३०.६६ ॥

विषयासक्तचित्तोऽपि त्यक्तधर्मरतिर्नरः  ।

इह क्षेत्रे मृतः सोऽपि संसारं न पुनर्विशेत् ॥ ३०.६७ ॥

ये पुनर्निर्ममा धीराः सत्त्वस्था विजितेन्द्रियाः  ।

व्रतिनश्च निरारम्भाः सर्वतो मयि भाविताः  ॥ ३०.६८ ॥

देहभेदं समासाद्य धीमन्तः सङ्गवर्जिताः  ।

गता एव परं मोक्षं प्रसादान्मम सुव्रते  ॥ ३०.६९ ॥

जन्मान्तरसहस्रेषु युञ्जन्योगी यमाप्नुयात् ।

तमिहैव परं मोक्षं मरणादधिगच्छति  ॥ ३०.७० ॥

एतत्संक्षेपतो देवि क्षेत्रस्यास्य महत्फलम्  ।

अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम्  ॥ ३०.७१ ॥

अतः परतरं नास्ति क्षेत्रं गुह्यमितीश्वरि  ।

एतद्बुध्यन्ति योगज्ञा ये च योगीश्वरा भुवि  ॥ ३०.७२ ॥

एतदेव परं ज्ञानमेतदेव परं शिवम्  ।

एतदेव परं ब्रह्म एतदेव परं पदम्  ॥ ३०.७३ ॥

वाराणसीति भुवनत्रयसारभूता रम्या पुरी मम सदा गिरिराजपुत्रि  ।

अत्रागता विविधदुष्कृतकारिणोऽपि पापक्षयाद्विरजसः प्रतिभान्ति मर्त्याः  ॥ ३०.७४ ॥

एतत्स्मृतं प्रियतमं मम देवि नित्यं क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम्  ।

अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति मोक्षाख्यमेनसि रतापि न संशयोऽत्र  ॥ ३०.७५ ॥

 

इति स्कन्दपुराणे त्रिंशत्तमोऽध्यायः

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!