स्कंद पुराण
स्कन्दपुराण 31
सनत्कुमार उवाच
एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम् ।
प्रयाम दातुं यक्षाय वरं भक्ताय भाविनि ॥ ३१.१ ॥
भक्तो मम वरारोहे तपसा हतकिल्बिषः ।
अर्हो वरमसौ लब्धमस्मत्तो भुवनेश्वरि ॥ ३१.२ ॥
एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः ।
जगाम यक्षो यत्रास्ते कृशो धमनिसंततः ॥ ३१.३ ॥
तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः ।
दिव्यं चक्षुरदात्तस्मै येनापश्यत्स शंकरम् ॥ ३१.४ ॥
सनत्कुमार उवाच
अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने ।
अपश्यत्सगणं देवं वृषं चैवमुपाश्रितम् ॥ ३१.५ ॥
देव उवाच
बलं ददानि ते पूर्वं त्रैकाल्यं दर्शनं तथा ।
सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः ॥ ३१.६ ॥
सनत्कुमार उवाच
ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च ।
पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम् ॥ ३१.७ ॥
उवाच स तदा यक्षो वरदोऽस्मीति चोदितः ।
भगवन्भक्तिमग्र्यां तु त्वय्यनन्यां विधत्स्व मे ॥ ३१.८ ॥
अन्नदत्वं च लोकानां गाणपत्यं तथाक्षयम् ।
अविमुक्ते च ते स्थाने पश्येयं सर्वदा यथा ।
एतदिच्छामि देवेश दत्तं वरमनुत्तमम् ॥ ३१.९ ॥
देव उवाच
जरामरणसंत्यक्तः सर्वशोकविवर्जितः ।
भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः ॥ ३१.१० ॥
अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः ।
अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि ॥ ३१.११ ॥
महाबलो महासत्त्वो ब्रह्मण्योऽथ मम प्रियः ।
त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ॥ ३१.१२ ॥
उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ ।
तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥ ३१.१३ ॥
सनत्कुमार उवाच
एवं स भगवान्व्यास यक्षं कृत्वा गणेश्वरम् ।
जगाम धाम देवेशः सह तेन सुरेश्वरः ॥ ३१.१४ ॥