स्कंद पुराण
स्कन्द पुराण ४
सनत्कुमार उवाच
प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे ।
प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥ ४.१ ॥
स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः ।
सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥ ४.२ ॥
सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
तेजसा जगदाविश्य आजगाम तदन्तिकम् ।
स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत् ॥ ४.३ ॥
स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा ।
शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ॥ ४.४ ॥
तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् ।
स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।
मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् ॥ ४.५ ॥
आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे ।
मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया ॥ ४.६ ॥
स च ते पुत्रतां यात्वा मदीयो गणनायकः ।
रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति ॥ ४.७ ॥
सर्वविद्याधिपत्यं च योगानां चैव सर्वशः ।
बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥ ४.८ ॥
मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥ ४.९ ॥
कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा ।
संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् ।
एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति ॥ ४.१० ॥
एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ।
ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ॥ ४.११ ॥
स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः ।
समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥ ४.१२ ॥
समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ।
पपात ज्वलने तस्मिन् द्विगुणं तस्य तेजसा ॥ ४.१३ ॥
तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् ।
प्रेरितं देवदेवेन निपपात हविर्भुजि ॥ ४.१४ ॥
क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् ।
प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा ॥ ४.१५ ॥
तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् ।
भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥ ४.१६ ॥
नीललोहित इत्येव तेनासावभवत्प्रभुः ।
त्र्यक्षो दशभुजः श्रीमान् ब्रह्माणं छादयन्निव ॥ ४.१७ ॥
शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ।
स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् ॥ ४.१८ ॥
ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् ।
असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥ ४.१९ ॥
सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः ।
लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥ ४.२० ॥
ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः ।
असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः ॥ ४.२१ ॥
अथ कालेन महता कल्पेऽतीते पुनः पुनः ।
प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते ॥ ४.२२ ॥
प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने ।
प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥ ४.२३ ॥
ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः ।
मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा ॥ ४.२४ ॥
भृगवोऽङ्गिरसश्चैव तपसा दग्धकिल्बिषाः ।
ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे ॥ ४.२५ ॥
भगवन्नन्धकारेण महता स्मः समावृताः ।
खिन्ना विवदमानाश्च न च पश्याम यत्परम् ॥ ४.२६ ॥
एतं नः संशयं देव चिरं हृदि समास्थितम् ।
त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥ ४.२७ ॥
किं परं सर्वभूतानां बलीयश्चापि सर्वतः ।
केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥ ४.२८ ॥
कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।
कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः ॥ ४.२९ ॥
कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।
कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥ ४.३० ॥
एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ ।
देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् ॥ ४.३१ ॥
यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः ।
पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः ।
उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥ ४.३२ ॥
स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् ।
स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् ।
तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ॥ ४.३३ ॥
ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥ ४.३४ ॥
ऋषय ऊचुः
किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥ ४.३५ ॥
पितामह उवाच
सत्त्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः ।
देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ॥ ४.३६ ॥
ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह ।
क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥ ४.३७ ॥
यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ॥ ४.३८ ॥
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ ४.३९ ॥
तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥ ४.४० ॥
विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः ।
गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥ ४.४१ ॥
इति स्कन्दपुराणे चतुर्थोऽध्यायः