स्कंद पुराण

 

स्कन्द पुराण ५

 

सनत्कुमार उवाच

तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः  ।

दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम्  ॥ ५.१ ॥

एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः  ।

ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः  ॥ ५.२ ॥

तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः  ।

सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः  ॥ ५.३ ॥

तेषां तं भावमालक्ष्य मातरिश्वा महातपाः  ।

सर्वप्राणिचरः श्रीमान् सर्वभूतप्रवर्तकः  ।

ददौ स रूपी भगवान् दर्शनं सत्त्रिणां शुभः  ॥ ५.४ ॥

तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम्  ।

आसीनमासने पुण्ये ऋषयः संशितव्रताः  ।

पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा  ॥ ५.५ ॥

स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च  ।

वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च  ॥ ५.६ ॥

अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा  ।

पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च  ॥ ५.७ ॥

चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा  ।

स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः  ।

वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम्  ॥ ५.८ ॥

एतत्सर्वमशेषेण कथयामास स प्रभुः  ।

दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा  ॥ ५.९ ॥

अथ दिव्येन रूपेण सामवाग्दिङ्निरीक्षणा  ।

यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती  ॥ ५.१० ॥

न्यायश्रोत्रा निरुक्तत्व गृक्पादपदगामिनी  ।

कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी  ॥ ५.११ ॥

कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा  ।

कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी  ॥ ५.१२ ॥

छन्दोविचितिमध्या च मीमांसानाभिरेव च  ।

पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा  ॥ ५.१३ ॥

आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः  ।

लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः  ॥ ५.१४ ॥

श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी  ।

वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा  ॥ ५.१५ ॥

तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः  ।

तामपृच्छन्त का न्वेषा वायुं देवं महाधियम्  ॥ ५.१६ ॥

उवाच स महातेजा ऋषीन्धर्मानुभावितान्  ।

शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः  ॥ ५.१७ ॥

यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता  ।

इयं सरस्वती नाम ब्रह्मलोकविभूषणा  ॥ ५.१८ ॥

प्रथमं मर्त्यलोकेऽस्मिन् युष्मत्सिद्ध्यर्थमागता  ।

नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते  ॥ ५.१९ ॥

 

ऋषय ऊचुः

कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा  ।

कारणं किं च तत्रासीदेतदिच्छाम वेदितुम्  ॥ ५.२० ॥

 

वायुरुवाच

अत्र वो वर्तयिष्यामि इतिहासं पुरातनम्  ।

ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह  ॥ ५.२१ ॥

यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा  ।

असृजत्सर्वभूतानि स्थावराणि चराणि च  ॥ ५.२२ ॥

स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः  ।

अवेक्षमाणः स्वांल्लोकांश्चतुर्भिर्मुखपङ्कजैः  ॥ ५.२३ ॥

देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः  ।

अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः  ॥ ५.२४ ॥

योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः  ।

देवमानुषतिर्यक्षु ग्रसामि विसृजामि च  ॥ ५.२५ ॥

अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते  ।

नियन्ता लोककर्ता च न मयास्ति समः क्वचित् ॥ ५.२६ ॥

तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः  ।

उवाच चैनं दीप्तात्मा मैवं मंस्था महामते  ।

अयं हि तव संमोहो विनाशाय भविष्यति  ॥ ५.२७ ॥

न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः  ।

स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम्  ॥ ५.२८ ॥

अहं कर्ता हि भूतानां भुवनस्य तथैव च  ।

करोमि न च संमोहं यथा त्वं देव कत्थसे  ॥ ५.२९ ॥

तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो  ।

अहमेव हि भूतानां धर्ता भर्ता तथैव च  ।

मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे  ॥ ५.३० ॥

अथागात्तत्र संविग्नो वेदः परमदीप्तिमान्  ।

उवाच चैव तौ वेदो नैतदेवमिति प्रभुः  ॥ ५.३१ ॥

अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् ।

शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह  ॥ ५.३२ ॥

परमेशो महादेवो रुद्रः सर्वगतः प्रभुः  ।

येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः  ॥ ५.३३ ॥

यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम्  ।

सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् ॥ ५.३४ ॥

तमेवंवादिनं देवो ब्रह्मा वेदमभाषत  ।

अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च  ॥ ५.३५ ॥

मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः  ।

मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः  ।

प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः  ॥ ५.३६ ॥

एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह  ।

आदित्यमण्डलाकारमदृश्यत च मण्डलम्  ।

महच्छब्देन महता उपरिष्टाद्वियत्स्थितम्  ॥ ५.३७ ॥

स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः  ।

हिमवत्कुञ्जमासाद्य नानाविहगनादितम्  ।

व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह  ॥ ५.३८ ॥

ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः  ।

चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः  ॥ ५.३९ ॥

स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम्  ।

तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम्  ।

आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम्  ॥ ५.४० ॥

तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् ।

संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत  ॥ ५.४१ ॥

वर्धमानं तदा तत्तु वडवामुखसंनिभम्  ।

दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः  ॥ ५.४२ ॥

हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि  ।

चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः  ॥ ५.४३ ॥

दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः  ।

पपात मूढचेता वै योगधर्मविवर्जितः  ॥ ५.४४ ॥

ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः  ।

मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा  ॥ ५.४५ ॥

 

ब्रह्मोवाच

नमः सहस्रनेत्राय शतनेत्राय वै नमः  ।

नमो विवृतवक्त्राय शतवक्त्राय वै नमः  ॥ ५.४६ ॥

नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः  ।

नमः सहस्रपादाय सर्वपादाय वै नमः  ॥ ५.४७ ॥

सहस्रपाणये चैव सर्वतःपाणये नमः  ।

नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः  ॥ ५.४८ ॥

आदित्यवर्णाय नमः शिरसश्छेदनाय च  ।

सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः  ॥ ५.४९ ॥

नमः सहस्रलिङ्गाय सहस्रचरणाय च  ।

संहारलिङ्गिने चैव जललिङ्गाय वै नमः  ॥ ५.५० ॥

अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च  ।

व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च  ॥ ५.५१ ॥

इन्द्रियार्थविशेषाय तथा नियमकारिणे  ।

भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च  ॥ ५.५२ ॥

त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो  ।

शरणागताय दान्ताय प्रसादं कर्तुमर्हसि  ॥ ५.५३ ॥

तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह  ।

स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा  ॥ ५.५४ ॥

चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः  ।

विमाने सूर्यसंकाशे तेजोराशिमपश्यत  ॥ ५.५५ ॥

तस्य मध्यात्ततो वाचं महतीं समशृण्वत  ।

गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम्  ।

विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम्  ॥ ५.५६ ॥

संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः  ।

यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे  ॥ ५.५७ ॥

मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति  ।

स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति  ॥ ५.५८ ॥

तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव  ।

मयैव कारिता तेन निर्वृतश्चाधुना भव  ॥ ५.५९ ॥

तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते  ।

शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे  ।

स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ  ॥ ५.६० ॥

 

वायुरुवाच

ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा  ।

उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम्  ॥ ५.६१ ॥

भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते  ।

इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया  ।

ननु स्मरेयमेतच्च शिरसश्छेदनं विभो  ॥ ५.६२ ॥

भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम्  ।

तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम्  ॥ ५.६३ ॥

विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः  ।

स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः  ।

शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते  ॥ ५.६४ ॥

इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत  ।

गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः  ।

सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत  ॥ ५.६५ ॥

 

वायुरुवाच

य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम्  ।

स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ॥ ५.६६ ॥

यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः  ।

स सर्वपापनिर्मुक्तो रुद्रलोके महीयते  ॥ ५.६७ ॥

नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम्  ।

आख्येयं नापि चाज्ञाय न शठाय न मानिने  ॥ ५.६८ ॥

इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि  ।

कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम्  ॥ ५.६९ ॥

 

 

इति स्कन्दपुराणे पञ्चमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!