स्कंद पुराण
स्कन्द पुराण ६
सनत्कुमार उवाच
ततः स भगवान्देवः कपर्दी नीललोहितः ।
आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ॥ ६.१ ॥
तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः ।
योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ॥ ६.२ ॥
स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः ।
न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ॥ ६.३ ॥
अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः ।
तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् ॥ ६.४ ॥
स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा ।
शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् ।
पपात सा च विस्तीर्णा योजनार्धशतं तदा ॥ ६.५ ॥
तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया ।
पितामहकपालस्य नार्धमप्यभिपूरितम् ।
तमुवाच ततो देवः प्रहस्य वचनं शुभम् ॥ ६.६ ॥
सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते ।
सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते ॥ ६.७ ॥
तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद ।
वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै ॥ ६.८ ॥
विष्णुरुवाच
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।
पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् ॥ ६.९ ॥
देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे ।
ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् ॥ ६.१० ॥
तमाहाथाक्षयश्चासि अजरामर एव च ।
युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः ।
देवकार्यकरः श्रीमान् सहानेन चरस्व च ॥ ६.११ ॥
नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च ।
नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ॥ ६.१२ ॥
वायुरुवाच
तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः ।
अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् ॥ ६.१३ ॥
य इदं नरजन्मेह शृणुयाद्वा पठेत वा ।
स कीर्त्या परया युक्तो विष्णुलोके महीयते ॥ ६.१४ ॥
इति स्कन्दपुराणे षष्ठोऽध्यायः