स्कंद पुराण
स्कन्द पुराण ७
वायुरुवाच
ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः ।
भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत ॥ ७.१ ॥
तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् ।
ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ॥ ७.२ ॥
तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत ।
वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते ॥ ७.३ ॥
ब्रह्मोवाच
इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् ।
येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते ॥ ७.४ ॥
तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः ।
सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह ॥ ७.५ ॥
शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी ।
निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत ॥ ७.६ ॥
तामुवाच तदा देवो वाचा संजीवयन्निव ।
यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता ।
सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि ॥ ७.७ ॥
यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता ।
तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि ॥ ७.८ ॥
इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे ।
सर्वांल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः ॥ ७.९ ॥
यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः ।
पुण्या च सर्वसरितां भविष्यसि न संशयः ॥ ७.१० ॥
ततः सा समनुज्ञाता शंकरेण विभाविनी ।
चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम् ॥ ७.११ ॥
तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् ।
नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् ।
ततो विनिःसृता भूयः सेमं लोकमपावयत् ॥ ७.१२ ॥
तं गृहीत्वा महादेवः कपालममितौजसम् ।
इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत ॥ ७.१३ ॥
तत्र तच्च महद्दिव्यं कपालं देवताधिपः ।
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥ ७.१४ ॥
तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः ।
अनदन्सुमहानादं नादयन्तो दिशो दश ।
क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत ॥ ७.१५ ॥
तेन शब्देन घोरेण असुरो देवकण्टकः ।
हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत ॥ ७.१६ ॥
अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः ।
ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः ।
महिषश्छन्नरूपाणामसुराणां शतैर्वृतः ॥ ७.१७ ॥
तमापतन्तं सक्रोधं महिषं देवकण्टकम् ।
सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः ॥ ७.१८ ॥
दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः ।
आयाति त्वरितो यूयं तस्मादेनं निहन्यथ ॥ ७.१९ ॥
ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् ।
भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे ॥ ७.२० ॥
हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत ।
ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः ।
अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् ॥ ७.२१ ॥
स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः ।
तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे ॥ ७.२२ ॥
भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः ।
कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ॥ ७.२३ ॥
कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना ।
महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते ॥ ७.२४ ॥
स्थापितस्य कपालस्य यथोक्तमभवत्तदा ।
ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ॥ ७.२५ ॥
आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः ।
कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत ॥ ७.२६ ॥
अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः ।
भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः ॥ ७.२७ ॥
श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः ।
ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् ।
गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् ॥ ७.२८ ॥
एवं तत्र नरः पापं सर्वमेव प्रहास्यति ।
त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् ।
राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति ॥ ७.२९ ॥
यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः ।
स गुह्यगणदेवानां समतां समवाप्स्यति ॥ ७.३० ॥
वायुरुवाच
ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् ।
शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् ॥ ७.३१ ॥
तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् ।
रुद्रलोकमवाप्नोति स प्राहैवं पितामहः ॥ ७.३२ ॥
यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः ।
कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा ॥ ७.३३ ॥
ततो देवः सह गणै रूपं विकृतमास्थितः ।
पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः ॥ ७.३४ ॥
गते च देवनाथेऽथ कपालस्थानमव्ययम् ।
सर्वतीर्थाभिषेकस्य फलेन समयोजयत् ॥ ७.३५ ॥
तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते ।
महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः ॥ ७.३६ ॥
इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् ।
महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् ॥ ७.३७ ॥
तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले ।
पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सोऽभिनन्दितः ॥ ७.३८ ॥
इति स्कन्दपुराणे सप्तमोऽध्यायः