स्कंद पुराण
स्कन्द पुराण ८
वायुरुवाच
एवमेषा भगवती ब्रह्मलोकानुसारिणी ।
युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत ॥ ८.१ ॥
सनत्कुमार उवाच
एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके ।
प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः ॥ ८.२ ॥
ब्रह्मोवाच
भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् ।
यदा वो भविता विघ्नं तदा निष्कल्मषं तपः ॥ ८.३ ॥
विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् ।
योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् ॥ ८.४ ॥
तथेत्युक्त्वा गते तस्मिन् सत्त्राण्याजह्रिरे तदा ।
बहूनि विविधाकाराण्यभियुक्ता महाव्रताः ॥ ८.५ ॥
निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः ।
राजानं सोममानाय्य अभिषेक्तुमियेषिरे ॥ ८.६ ॥
अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना ।
स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् ॥ ८.७ ॥
ते गत्वा मुनयः सर्वे कलापग्रामवासिनः ।
पुरूरवसमानीय राजानं तेऽभ्यषेचयन् ॥ ८.८ ॥
ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो ।
केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् ॥ ८.९ ॥
स एवमुक्तो मृगयन्नतमासादयत्प्रभुः ।
उवाच स तदा विप्रान् प्रणम्य भयपीडितः ॥ ८.१० ॥
परमं यत्नमास्थाय मया सोमोऽभिमार्गितः ।
न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ॥ ८.११ ॥
तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः ।
ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ॥ ८.१२ ॥
भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः ।
न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि ॥ ८.१३ ॥
विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि ।
तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि ॥ ८.१४ ॥
वयमेव हि राजानमानयिष्याम दुर्विदम् ।
तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम् ॥ ८.१५ ॥
ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः ।
अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ॥ ८.१६ ॥
स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी ।
रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ॥ ८.१७ ॥
तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः ।
ब्रूत तत्कृतमेवेह भविष्यति न संशयः ॥ ८.१८ ॥
ऋषय ऊचुः
सोमो नोऽपहृतो देवि केनापि सुदुरात्मना ।
तमानय नमस्तेऽस्तु एष नो वर उत्तमः ॥ ८.१९ ॥
सनत्कुमार उवाच
सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा ।
श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति ॥ ८.२० ॥
व्यग्राणामसुराणां सा गृहीत्वा सोममागता ।
आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम् ॥ ८.२१ ॥
ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् ।
अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः ॥ ८.२२ ॥
ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः ।
आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् ॥ ८.२३ ॥
ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् ।
सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः ॥ ८.२४ ॥
तेषां कालेन महता तपसा भावितात्मनाम् ।
योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते ॥ ८.२५ ॥
ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः ।
महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः ॥ ८.२६ ॥
अथ तेषां महादेवः पिनाकी नीललोहितः ।
अभ्यगच्छत तं देशं विमानेनार्कतेजसा ॥ ८.२७ ॥
तद्भावभाविताञ्{}ज्ञात्वा सद्भावेन परेण ह ।
उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ॥ ८.२८ ॥
भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः ।
दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् ॥ ८.२९ ॥
सनत्कुमार उवाच
अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् ।
विमानं मेरुसंकाशं नानारत्नविभूषितं ॥ ८.३० ॥
तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम् ।
ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् ॥ ८.३१ ॥
दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् ।
त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम् ॥ ८.३२ ॥
मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् ।
पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् ॥ ८.३३ ॥
असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् ।
अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः ।
चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् ॥ ८.३४ ॥
तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा ।
यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन ॥ ८.३५ ॥
तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् ।
वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः ॥ ८.३६ ॥
प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् ।
प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः ॥ ८.३७ ॥
इति स्कन्दपुराणे अष्टमोऽध्यायः