स्कंद पुराण

स्कन्द पुराण ९

 

सनत्कुमार उवाच

ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः  ।

अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम्  ॥ ९.१ ॥

 

पितामह उवाच

नमः शिवाय सोमाय भक्तानां भयहारिणे  ।

नमः शूलाग्रहस्ताय कमण्डलुधराय च  ॥ ९.२ ॥

दण्डिने नीलकण्ठाय करालदशनाय च  ।

त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च  ॥ ९.३ ॥

नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे  ।

व्यालयज्ञोपवीताय कुण्डलाभरणाय च  ॥ ९.४ ॥

नमश्चक्रधरायैव व्याघ्रचर्मधराय च  ।

कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा  ॥ ९.५ ॥

वरदात्रे च रुद्राय सरस्वतीसृजे तथा  ।

सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च  ॥ ९.६ ॥

ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः  ।

नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा  ॥ ९.७ ॥

हालाहलविनाशाय कपालवरधारिणे  ।

विमानवरवाहाय जनकाय ममैव च  ।

वरदाय वरिष्ठाय श्मशानरतये नमः  ॥ ९.८ ॥

नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा  ।

उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च  ॥ ९.९ ॥

ऋषिदैवतनाथाय सर्वभूताधिपाय च  ।

शिवः सौम्यश्च देवेश भव नो भक्तवत्सल  ॥ ९.१० ॥

 

सनत्कुमार उवाच

ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः  ।

उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान्  ॥ ९.११ ॥

तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः  ।

वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम्  ॥ ९.१२ ॥

 

सनत्कुमार उवाच

अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान्  ।

दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् ॥ ९.१३ ॥

 

ब्रह्मोवाच

यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः  ।

तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः  ॥ ९.१४ ॥

सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा  ।

सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः  ॥ ९.१५ ॥

सह देव्या ससूनुश्च सह देवगणैरपि  ।

एष नो दीयतां देव वरो वरसहस्रद  ॥ ९.१६ ॥

 

सनत्कुमार उवाच

एवमुक्तः स भगवान् ब्रह्मणा देवसत्तमः  ।

स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् ॥ ९.१७ ॥

अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह  ।

तामाह भव नारीति भगवान्विश्वरूपधृक् ॥ ९.१८ ॥

साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता  ।

उपतस्थे च देवेशं दीप्यमाना यथा तडित् ॥ ९.१९ ॥

तामाह प्रहसन्देवो देवीं कमललोचनाम्  ।

ब्रह्माणं देवि वरदमाराधय शुचिस्मिते  ॥ ९.२० ॥

सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे  ।

रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे  ।

फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः  ॥ ९.२१ ॥

अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः  ।

मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ  ॥ ९.२२ ॥

अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गोऽचलोत्तमः  ।

पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः  ॥ ९.२३ ॥

मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः  ।

स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम्  ॥ ९.२४ ॥

स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः  ।

निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह  ।

समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः  ॥ ९.२५ ॥

देवगन्धर्वचरितमप्सरोगणसेवितम्  ।

सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम्  ।

अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम्  ॥ ९.२६ ॥

ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः  ।

उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च  ।

यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति  ॥ ९.२७ ॥

योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम्  ।

गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति  ।

नियमेन मृतश्चात्र मया सह चरिष्यति  ॥ ९.२८ ॥

यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः  ।

तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ  ॥ ९.२९ ॥

एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा  ।

पश्यतामेव सर्वेषां तत्रैवान्तरधीयत  ॥ ९.३० ॥

 

सनत्कुमार उवाच

य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा  ।

सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः  ॥ ९.३१ ॥

जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम्  ।

जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी  ॥ ९.३२ ॥

मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः  ।

सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः  ॥ ९.३३ ॥

 

 

इति स्कन्दपुराणे नवमोऽध्यायः

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!