श्रीदत्ताष्टकम‌्

|| श्री दत्त अष्टकम‌् ||

गुरुमूर्तिं चिदाकाशं सच्चिदानन्दविग्रहं ।
निर्विकल्पं निराबाधं दत्तमानन्दमाश्रये ॥ १ ॥

योगातीतं गुणातीतं सर्वरक्षाकरं विभुं ।
सर्वदुःखहरं देवं दत्तमानन्दमाश्रये ॥ २ ॥

अवधूतं सदाध्यानम् औदुम्बरसुशोभितं |
अनघाप्रिया विभुं देवं दत्तमानन्दमाश्रये ॥ ३ ॥

निराकारं निराभासं ब्रह्मविष्णुशिवात्मकं ।
निर्गुणं निष्कलं शान्तं दत्तमानन्दमाश्रये ॥ ४ ॥

अनसूयासुतं देवं अत्रिवम्शकुलोद्भवं ।
दिगम्बरं महातेजं दत्तमानन्दमाश्रये ॥ ५ ॥

सह्याद्रिवासिनं दत्तं आत्मज्ञानप्रदायकं ।
अखण्डमण्डलाकारं दत्तमानन्दमाश्रये ॥ ६ ॥

पञ्चयज्ञप्रियं देवं पञ्चरूपसुशोभितं ।
गुरुपरम्परं वन्दे दत्तमानन्दमाश्रये ॥ ७ ॥

दत्तमानन्दाष्टकं यः पठेत् सर्वविद्या जयं लभेत् ।
दत्तानुग्रहफलं प्राप्तं दत्तमानन्दमाश्रये ॥ ८ ॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः ।
सर्वसिद्धिमवाप्नोति श्रीदत्तश्शरणं मम ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!