रासक्रीडा – गर्गसंहिता अश्वमेधखण्डः

गर्गसंहिता
अश्वमेधखण्डः – पञ्चचत्वारिंशोऽध्यायः
रासक्रीडा –
गोप्य ऊचुः

अधरबिम्बविडम्बितविद्रुमं  मधुरवेणुनिनादविनोदितम् ॥
कमलकोमलनीलमुखाम्बुजं तमपि गोपकुमारमुपास्महे ॥१॥

श्यामलं विपिनकेलिलम्पटं कोमलं कमलपत्रलोचनम् ॥
कामदं व्रजविलासिनीदृशां शीतलं मतिहरं भजामहे ॥२॥

तं विसञ्चलितलोचनाञ्चलं सामिकुड्मलितकोमलाधरम् ॥
वंशवल्गितकराङ्गुलीमुखं वेणुनादरसिकं भजामहे ॥३॥
ईषदङ्कुरितदन्तकुड्मलं भूषणं भुवनमङ्गलश्रियः ॥
घोषसौरभमनोहरं हरेर्वेषमेव मृगयामहे वयम् ॥४॥

अस्तु नित्यमरविन्दलोचनः श्रेयसे हि तु सुरार्चिताकृतिः ॥
यस्य पादसरसीरुहामृतं सेव्यमानमनिशं मुनीश्वरैः ॥५॥

गोपकै रचितमल्लसङ्गरं सङ्गरे जितविदग्धयौवनम् ॥
चिन्तयामि मनसा सदैव तं दैवतं निखिलयोगिनामपि ॥६॥

उल्लसन्नवपयोदमेव तं फुल्लतामरसलोचनाञ्चलम् ॥
वल्लवीहृदयपश्यतोहरं पल्लवाधरमुपास्महे वयम् ॥७॥

यद्धनञ्जयरथस्य मण्डनं खण्डनं तदपि सञ्चितैनसाम् ॥
जीवनं श्रुतिगिरां सदाऽमलं श्यामलं मनसि मेऽस्तु तन्महः ॥८॥

गोपिकास्तनविलोललोचनप्रान्तलोचनपरम्परावृतम् ॥
बालकेलिरसलोलसंभ्रमं माधवं तमनिशं विभावये ॥९॥

नीलकण्ठकृतपिच्छशेखरं नीलमेघतुलिताङ्गवैभवम् ॥
नीलपङ्कजपलाशलोचनं नीलकुन्तलधरं भजामहे ॥१०॥

घोषयोषिदनुगीतवैभवं कोमलस्वरितवेणुनिःस्वनम् ॥
सारभूतमभिरामसम्पदां धाम तामरसलोचनं भजे ॥११॥

मोहनं मनसि शार्ङ्गिणं परं निर्गतं किल विहाय मानिनीः ॥
नारदादिमुनिभिश्च सेवितं नन्दगोपतनयं भजामहे ॥१२॥

श्रीहरिस्तु रमणीभिरावृतो यस्तु वै जयति रासमण्डले ॥
राधया सह वने च दुःखितास्तं प्रियं हि मृगयामहे वयम् ॥ १३॥

देवदेव व्रजराजनन्दन देहि दर्शनमलं च नो हरे ॥
सर्वदुःखहरणं च पूर्ववत्संनिरीक्ष्य तेऽशुल्कदासिकाः ॥१४॥

क्षितितलोद्धरणाय दधार यः सकलयज्ञवराहवपुः परम् ॥
दितिसुतं विददार च दंष्ट्रया स तु सदोद्धरणाय क्षमोऽस्तु नः ॥१५॥

मनुमताद्रुचिजो दिविजैः सह वसु दुदोह धरामपि यः पृथुः ॥
श्रुतिमपाद्धृतमत्स्यवपुः परं स शरणं किल नोऽस्त्वशुभक्षणे ॥१६॥

अवहदब्धिमहो गिरिमूर्जितं कमठरूपधरः परमस्तु यः ॥
असुहरं नृहरिः तमदण्डयत्स च हरिः परमं शरणं च नः ॥१७॥

नृपबलिं छलयन्दलयन्नरीन्मुनिजनाननुगृह्य चचार यः ॥
कुरुपुरं च हलेन विकर्षयन्यदुवरः स गतिर्मम सर्वथा ॥१८॥

व्रजपशून्गिरिराजमथोद्धरन् व्रजपगोपजनं च जुगोप यः ॥
द्रुपदराजसुतां कुरुकश्मलाद्भवतु तच्चरणाब्जरतिश्च नः ॥१९॥

विषमहाग्निमहास्त्रविपद्गणात्सकलपाण्डुसुताः परिरक्षिताः ॥
यदुवरेण परेण च येन वै भवतु तच्चरणः शरणं च नः ॥२०॥

मालां बर्हिमनोज्ञकुन्तलभरां वन्यप्रसूनोषितां
शैलेयागुरुक्लृप्तचित्रतिलकां शश्वन्मनोहारिणीम् ॥
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दामहे देवताम् ॥२१॥

गर्ग उवाच – इति
स्त्रीभिः रुदन्तीभिः रेवतीरमणानुजः आविर्बभूव चाहूतस्तासां मध्ये च भक्तितः ॥२२॥

||इति श्रीगर्गसंहितायां
हयमेधखण्डे
रासक्रीडायां
पञ्चचत्वारिंशोऽध्यायः ॥

0 thoughts on “रासक्रीडा – गर्गसंहिता अश्वमेधखण्डः

Leave a Reply to Shreenivas karhadkar Cancel reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!