रेवा खंड स्कंद पुराण 3

रेवा खंड स्कंद पुराण  61 to 90 

 

अध्याय ६१

 

युधिष्ठिर उवाच –

श्रुत्वा नानाविधान् धर्मास्त्वत्प्रसादान्महामुने  ।

नाहं तृप्तिं तु गच्छामि नर्मदाख्यानकीर्तनात् ॥ ६१.१ ॥

 

मार्कण्डेय उवाच –

गावः पवित्रमतुलं गावः सर्वार्थसाधकाः  ।

तस्माद्धि गोप्रदानेन शिवभक्त्या प्रमुच्यते  ॥ ६१.२ ॥

यस्मिन् देशे भवेन्नित्यं शिवभक्तिसमन्वितः  ।

सोऽपि देशो भवेत्पूतः किं पुनश्च सबान्धवः  ॥ ६१.३ ॥

उक्तानि षट्सहस्राणि पुराणे मेकलातटे  ।

इत्याह ज्ञानयोगस्य धर्मयोगस्य तत्त्ववित् ॥ ६१.४ ॥

धर्माधर्मगतीनां च स्वरूपमुपवर्णितम्  ।

तीर्थाख्यानसमायुक्तं नर्मदाख्यानमुत्तमम्  ॥ ६१.५ ॥

कीर्तनाच्छ्रवणात्तस्य मुच्यते भवबन्धनात् ।

विद्यां सिंहासने दिव्ये वस्त्रपुष्पाधिवासिताम्  ॥ ६१.६ ॥

पूजयित्वा हरं विष्णुं शृणुयाद्वाचयेत्तथा  ।

श्रीमत्सिंहासनं वापि कॢप्तं हैमं सुशोभनम्  ॥ ६१.७ ॥

हेमवस्त्रोपरिच्छन्नं नानारत्नविभूषितम्  ।

राजतं ताम्रकं कांस्यं ब्रह्मचारिविनिर्मितम्  ॥ ६१.८ ॥

तत्तु तारसमुद्भूतं शृङ्गवद्रत्नभूषितम्  ।

दिव्यं सिंहासनं वापि पूजां कृत्वा प्रयत्नतः  ॥ ६१.९ ॥

गन्धाधिवसितकरः श्रीमदासनसंस्थितः  ।

शम्भ्वायतनतीर्थेषु नरेन्द्र भवनेषु च  ॥ ६१.१० ॥

बोधयेत्परमं धर्मं गृहग्रामपुरेषु च  ।

नर्मदाकीर्तनाच्छ्रोता शिवलोके महीयते  ॥ ६१.११ ॥

इदं तीर्थमिदं तीर्थं पर्यटन्नेति वै नरः  ।

नर्मदैव परं तीर्थमित्याह भगवान् छिवः  ॥ ६१.१२ ॥

अस्मिंस्तीर्थे नरश्रेष्ठ श्राद्धं कार्यं विधानतः  ।

स्वागतेन यमः प्रीतश्चासनेन शतक्रतुः  ॥ ६१.१३ ॥

पितरः पादशौचेन अत्राद्येन प्रजापतिः  ।

विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी  ॥ ६१.१४ ॥

तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम्  ।

विद्यावते स्नातकाय भिक्षवे श्रोत्रियाय च  ॥ ६१.१५ ॥

तथा परमहंसाय विष्णुव्रतधराय च  ।

सर्वोपस्करणं दत्त्वा शिवलोके महीयते  ॥ ६१.१६ ॥

अनाहिताग्निं यो विप्रमाहिताग्निं करोति च  ।

ब्राह्मणः क्षत्रियो वैश्यः स्ववित्तेनैव कारयेत् ॥ ६१.१७ ॥

अर्धार्धं सफलं तस्य यावज्जीवं न संशयः  ।

विष्णुलोकेऽन्तकाले च भोगान् भुङ्क्ते च पुष्कलान्  ॥ ६१.१८ ॥

स्वद्रव्येण च यो यज्ञं करोति विधिवद्द्विजः  ।

नर्मदातीरमासाद्य ब्रह्मलोके स मोदते  ॥ ६१.१९ ॥

धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् ।

कल्पगा तीरमाश्रित्य विष्णुलोके महीयते  ॥ ६१.२० ॥

तिलतण्डुलकर्पूरसुसम्भोज्यविमिश्रितैः  ।

कुङ्कुमैर्वस्त्रधान्यैश्च निर्मितं शिवसन्निधौ  ॥ ६१.२१ ॥

पर्वकाले च यो दद्यात्पर्वते मेकलातटे  ।

वसेत्विष्णुलोकेषु नरः स्वर्गे न संशयः  ॥ ६१.२२ ॥

प्रत्यक्षधेनुं यो दद्याथेमरत्नविभूषिताम्  ।

घृतधेनुं गुडधेनुं शर्कराधेनुमेव च  ॥ ६१.२३ ॥

रेवाकपिलयोर्योगे दत्त्वैतान्नरसत्तमः  ।

सर्वपापविनिर्मुक्तो लोके क्रीडति वैष्णवे  ॥ ६१.२४ ॥

यदि तत्र महाराज भिक्षान्नं च निवेदितम्  ।

तस्य संख्या न विद्येत स यावत्संगमो नृप  ॥ ६१.२५ ॥

एतत्सर्वं यथान्यायं कथितं तव सुव्रत  ।

वैवस्वतेऽन्तरेऽथान्यच्छृणु त्वं नृपसत्तम  ॥ ६१.२६ ॥

वीरणस्य तु राजर्षेर्मैत्रेयोऽभूत्पुरोहितः  ।

तेन चायतनं विष्णोः कारितं नर्मदातटे  ॥ ६१.२७ ॥

पुर्याश्चैवामरावत्या दिशि याम्यां व्यवस्थितम्  ।

तदायतनमाहात्म्यान्नर्मदायाः प्रभावतः  ॥ ६१.२८ ॥

मोदते वैष्णवे लोके युगस्यार्द्धं द्विजोत्तमः  ।

शृणु त्वं यानि तीर्थानि रेवायाः पश्चिमोत्तरे  ॥ ६१.२९ ॥

वनं मेघवनं नाम यज्ञपर्वतमाश्रितम्  ।

रन्तिदेवः पुरा तत्र चक्रवर्ती युधिष्ठिर  ॥ ६१.३० ॥

गवि नीतं कुलं येन स देवासुरमानुषम्  ।

पितरो मोचिता येन गोभिर्विनिहताः पुरा  ॥ ६१.३१ ॥

चाण्डालैश्च हता ये च प्राप्नुवन्ति परां गतिम्  ।

चाण्डालादुदकात्सर्पाद्विद्युतो ब्राह्मणादपि  ॥ ६१.३२ ॥

दन्तिभ्यश्च पशुभ्यश्च मरणं पापशालिनाम्  ।

विष्णोर्बलिप्रदानेन क्रियाणां करणेन च  ॥ ६१.३३ ॥

तीर्थपिण्डप्रदानेन ते यान्ति परमां गतिम्  ।

दधीचिर्नाम राजर्षिरवन्त्यधिपतिस्तथा  ॥ ६१.३४ ॥

सर्वधर्मभृतां श्रेष्ठः शक्रतुल्यपराक्रमः  ।

पुरा देवासुरे युद्धे दैत्यैर्देवा विनिर्जिताः  ॥ ६१.३५ ॥

देवानां ब्राह्मणानां च हन्तारो दैत्यकण्टकाः  ।

नष्टाः स्वपापदोषेण सभृत्यकुलबान्धवाः  ॥ ६१.३६ ॥

देवाः समुदिताः सर्वे लोकपालाः सवासवाः  ।

निर्विघ्नं पृथिवीं कृत्वा लोकं चैव चराचरम्  ॥ ६१.३७ ॥

विन्ध्यं गिरिं गतास्ते तु यस्मिन् वहति कल्पगा  ।

समर्थं भूपतिं ज्ञात्वा दधीचिं कुरुसत्तम  ॥ ६१.३८ ॥

दत्तान्यस्त्राणि रक्षार्थं तस्य राज्ञः सुरोत्तमैः  ।

वज्रं शक्तिं तथा पाशं दण्डं खड्गं ध्वजं गदाम्  ॥ ६१.३९ ॥

त्रिशूलं चेति देवानामायुधानि प्रचक्षते  ।

तानि दत्त्वा यथा न्यायं नाकपृष्ठं मुदा ययुः  ॥ ६१.४० ॥

पुराणमतमाज्ञाय दधीचिः सत्यविक्रमः  ।

शापस्यैव भयाद्भीतो नमस्कृत्य प्रगृह्य च  ॥ ६१.४१ ॥

प्रभावात्तोयतां नीत्वा शरीरान्तर्न्यवेशयत् ।

ततः कालान्तरे प्राप्ते दानवा बलदर्पिताः  ॥ ६१.४२ ॥

जम्भकुम्भहयग्रीवप्रमुखाः पुनरुत्थिताः  ।

दानवानां बलं ज्ञात्वा त्रस्ता देवाः सवासवाः  ॥ ६१.४३ ॥

कार्यकाले समुत्पन्ने संस्मृत्यास्त्रायुधानि च  ।

नारद प्रेषयामासुः दधीचिं प्रति भारत  ॥ ६१.४४ ॥

अवन्तीं स पुरीं प्राप्य देवर्षिर्नारदस्तथा  ।

विवेश भवनं राज्ञो मणिकाञ्चनवेदिकम्  ॥ ६१.४५ ॥

उत्थितो नृपशार्दूलो मुनिं दृष्ट्वा सुतेजसम्  ।

पूजयित्वा यथा न्यायं हेमकासनसंस्थितम्  ॥ ६१.४६ ॥

तं तु दृष्ट्वा सुखासीनं राजा वचनमब्रवीत् ।

किमर्थं मानुषे लोके देवलोकात्समागतः  ॥ ६१.४७ ॥

 

नारद उवाच –

युद्धं महत्समुत्पन्नं देवानां दानवैः सह  ।

समर्पय त्वं शस्त्राणि क्षीयन्ते दानवा यथा  ॥ ६१.४८ ॥

कुरु कार्यं च देवानां सत्यधर्मव्रते स्थितः  ।

 

दधीचिरुवाच –

शृणु कार्यं च देवर्षे देवानां हितकाम्यया  ॥ ६१.४९ ॥

अचिरेणैव कालेन क्षयं यास्यन्ति दानवाः  ।

मया तान्येव शस्त्राणि रक्षणार्थं महामुने  ॥ ६१.५० ॥

आपोभूतानि पीतानि शरीरे सन्ति तानि वै  ।

उपायेन हि गृह्णन्तु दास्याम्येतानि वै पुनः  ॥ ६१.५१ ॥

इत्युक्त्वा च नृपश्रेष्ठ आजुहाव च गाः पुरा  ।

मांसादिभक्षितं गोभिरस्थिवर्जं विशाम्पते  ॥ ६१.५२ ॥

अस्त्रग्रामस्ततः प्राप्तो लोकपालैर्यथा तथा  ।

गोनर्दं नाम नगरं तत्तु लोकेषु विश्रुतम्  ॥ ६१.५३ ॥

दानवा निहता देवैः पुनः सृष्टिः प्रवर्तिता  ।

अचिन्तयत्तदा तत्र रन्तिदेवो महीपतिः  ॥ ६१.५४ ॥

गोविद्युत्पशुचाण्डालसर्पैर्विनिहता नराः  ।

देवलोकं न ते यान्ति न तेषामुदकक्रिया  ॥ ६१.५५ ॥

शोचयित्वा चिरं कालं सान्तःपुरपरिग्रहः  ।

प्रक्षाल्य नर्मदातोये तदस्थीनि व्यसर्जयत् ॥ ६१.५६ ॥

लिङ्गं ब्रह्मेश्वरं तत्र यज्ञपर्वतसन्निधौ  ।

धर्मसंशयमापन्नो रन्तिदेवो महीपतिः  ॥ ६१.५७ ॥

पप्रच्छ मुनिशार्दूलान् वशिष्ठप्रमुखान् द्विजान्  ।

त्रिःप्रदक्षिणमावृत्य यथा न्यायमिदं वचः  ॥ ६१.५८ ॥

के देशाः पर्वताः पुण्या नद्यः काः कीर्तिताः शुभाः  ।

नरकस्थान् पितॄन् यत्र तद्वदेयुः समुद्धरेत् ॥ ६१.५९ ॥

अक्षयं च पितृश्राद्धं पितॄणामक्षया गतिः  ।

 

ऋषय ऊचुः॒

मार्कण्डेयाश्रमं गच्छ अस्माभिः सह भूपते  ॥ ६१.६० ॥

सोऽपि सर्वं विजानीयात्कल्पगा तीरमाश्रितः  ।

तच्छ्रुत्वा रन्तिदेवोऽपि मुनिभिः परिभाषितः  ॥ ६१.६१ ॥

जगाम मुनिभिः सार्द्धं कल्पगातीरवासिनम्  ।

स राजा ब्राह्मणैः सार्द्धं प्रणिपत्य तथाऽर्चयत् ॥ ६१.६२ ॥

समुत्थायाब्रवीद्वाक्यमुपविष्टः कुशासने  ।

 

मार्कण्डेय उवाच –

कान्न मोचयते घोरान् पितॄन् संसारसागरात् ॥ ६१.६३ ॥

शृण्वन्तु मम वाक्यानि मुनयो विदितात्मनः  ।

सर्वतीर्थमयी रेवा सर्वार्थात्ममयी शुभा ॥ ६१.६४ ॥

शिवेनैतत्निगदितं पुराणे स्कन्दकीर्तिते  ।

कुब्जारेवासमायोगे विशेषात्सुरपूजिते  ॥ ६१.६५ ॥

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ।

तत्र श्राद्धेन योगेन पितॄणां परमा गतिः  ॥ ६१.६६ ॥

इदं ते कथितं राजन् कुब्जारेवासमागमे  ।

अर्चयित्वा महेशानं तत्र बिल्वाम्रकाह्वयम्  ॥ ६१.६७ ॥

सर्वपापविनिर्मुक्तो गाणपत्यमवाप्नुयात् ।

सार्धकोटिस्तु कन्यानां तत्र सिद्धिं परां गताः  ॥ ६१.६८ ॥

शप्तास्ताः पूर्वमुनिभिः कामदोषेण भारत  ।

विद्याधराश्च यक्षाश्च गन्धर्वाः किन्नरास्तथा  ॥ ६१.६९ ॥

शप्तास्तेनैव दोषेण कुबेरपुरवासिनः  ।

सर्वे ते सिद्धिमापन्नाः कुब्जारेवासमागमे  ॥ ६१.७० ॥

अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि  ।

वाराणसी प्रयागश्च पुष्करं नैमिषं तथा  ॥ ६१.७१ ॥

एते स्नातुं समायान्ति कुब्जारेवासमागमे  ।

श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ६१.७२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे रन्तिदेवोपाख्यानं नामैकषष्टितमोऽध्यायः ॥

 

अध्याय ६२

 

रन्तिदेव उवाच –

यथा शप्तास्तु ताः कन्यास्तासां नामानि कल्पग  ।

श्रोतुमिच्छामि तत्त्वेन केषु स्थानेषु पूजिता  ॥ ६२.१ ॥

 

मार्कण्डेय उवाच –

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी  ।

प्रयागे ललितादेवी कामुका गन्धमादने  ॥ ६२.२ ॥

मानसे कुमुदा नाम विश्वयोनिस्तथाम्बरे  ।

गोमन्ते गोमती नाम मन्दरे कामचारिणी  ॥ ६२.३ ॥

मदोत्कटा चैत्ररथे तपन्ती हस्तिनापुरे  ।

कान्यकुब्जे तथा गौरी प्रभा कमलपर्वते  ॥ ६२.४ ॥

एकाग्रे कीर्तिमत्याख्या विश्वा विश्वेश्वरे तथा  ।

पुष्करे पुरुहूतेति केदारे मार्गदायिनी  ॥ ६२.५ ॥

नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकार्णिका  ।

स्थानेश्वरे भवानीति बिल्वके बिल्वपत्रिका  ॥ ६२.६ ॥

श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा  ।

जया वाराहशैले तु कमला कमलालये  ॥ ६२.७ ॥

रुद्रकोट्यां तु रुद्राणी कोटिः कालञ्जरे तथा  ।

महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी  ॥ ६२.८ ॥

शालग्रामे महादेवी शिवलिङ्गे जलप्रिया  ।

मायापुर्यां कुमारी तु सन्ताने ललिता तथा  ॥ ६२.९ ॥

उत्पलाख्ये सहस्राक्षी हिरण्याक्षे महोत्पला  ।

तीर्थायां मङ्गला नाम विमला पुरुषोत्तमे  ॥ ६२.१० ॥

विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने  ।

नारायणी सुपार्श्वे च त्रिकूटे भद्रसुन्दरी  ॥ ६२.११ ॥

विपुले विपुला नाम कल्याणी प्रलयाचले  ।

कोटीविकोटि तीर्थे तु यमुनायां मृगावती  ॥ ६२.१२ ॥

करवीरे महालक्ष्मीरुमादेवी विनायके  ।

आरोग्या वैद्यनाथे तु महाकाले महेश्वरी  ॥ ६२.१३ ॥

अभया कृष्णतीर्थे तु अमृता विन्ध्यकन्दरे  ।

माण्डव्ये माण्डुका नाम स्वाहा माहेश्वरे पुरे  ॥ ६२.१४ ॥

छागलम्बा प्रचण्डे च चण्डिकाऽमरकण्टके  ।

सोमेश्वरे वराही तु प्रभासे पुष्करावती  ॥ ६२.१५ ॥

देवमाता सरस्वत्यां पारा पारावते तथा  ।

महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी  ॥ ६२.१६ ॥

संहिता कृतशौचे तु कार्त्तिकेये तु शाङ्करी  ।

उत्पला वर्षके लोला सुभद्रा शोणसङ्गमे  ॥ ६२.१७ ॥

मालासिद्धतले लक्ष्मीरनन्ता भारताश्रमे  ।

जालन्धरे सिद्धमुखी तारा किष्किन्धपर्वते  ॥ ६२.१८ ॥

देवदारुवने पुष्टिर्मेधा कश्मीरमण्डले  ।

भीमादेवी हिमाद्रौ तु तुष्टिर्वस्त्रेश्वरे तथा  ॥ ६२.१९ ॥

कपालमोचने सिद्धिर्माता कायावरोहणे  ।

शङ्खोद्धारे धृतिर्नाम ध्वनिः पिण्डारके तथा  ॥ ६२.२० ॥

कला तु चन्द्रभागायामक्षोदे शिवधारिणी  ।

वैजयन्त्यमृता नाम बदर्यामोषधी तथा  ॥ ६२.२१ ॥

ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका  ।

मन्मथा हिमकूटे तु प्रमते सत्यवादिनी  ॥ ६२.२२ ॥

अश्वत्थे वन्दिनी नाम निधिर्वैश्रवणे तथा  ।

गायत्री वेदवदने पार्वती शिवसन्निधौ  ॥ ६२.२३ ॥

देवलोके तथेन्द्राणी ब्रह्मणास्ये सरस्वती  ।

सूर्यबिम्बे प्रभा नाम मातृका वैष्णवी तथा  ॥ ६२.२४ ॥

अरुन्धती सतीनां च अप्सरस्सु तिलोत्तमा  ।

चितिर्ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम्  ॥ ६२.२५ ॥

एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम्  ।

अष्टोत्तरं तु तीर्थानां शतमेकं ह्युदाहृतम्  ॥ ६२.२६ ॥

यः पठेत्प्रातरुत्थाय स याति परमां गतिम्  ।

एषु तीर्थेषु ये स्नात्वा एताः पश्यान्ति मानवाः  ॥ ६२.२७ ॥

सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम्  ।

यः करोति तनुत्यागमुमास्थानेषु मानवः  ॥ ६२.२८ ॥

स भित्त्वा ब्रह्मसदनं पदमाप्नोति शाङ्करम्  ।

नामाष्टकशतं यस्तु श्रावयेच्छिवसन्निधौ  ॥ ६२.२९ ॥

तृतीयायां तथाष्टम्यां बहुपुत्रो भवेन्नरः  ।

गोदाने श्राद्धकाले च विवाहे मङ्गले तथा  ॥ ६२.३० ॥

देवार्चनविधौ वापि पठन् ब्रह्मत्वमाप्नुयात् ।

श्रुत्वैतत्स्तोत्रमतुलं नमस्कृत्य च पर्वतम्  ॥ ६२.३१ ॥

राजा स्वपितृमोक्षाय यज्ञार्थं प्राह कल्पगम्  ।

कस्मिंस्तीर्थे भवेद्यज्ञः पितॄणां मोक्षदायकः  ॥ ६२.३२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मातृस्तुतिर्नाम द्विषष्टितमोऽध्यायः ॥

 

 

अध्याय ६३

 

मार्कण्डेय उवाच –

रेवातटे महापुण्ये पितॄणां मोक्षणं प्रति  ।

कुरु यज्ञं महाभाग मुच्यन्ते पितरो यथा  ॥ ६३.१ ॥

इति श्रुत्वा महाराज नमस्कृत्य च कल्पगाम्  ।

वशिष्ठप्रमुखैः सार्द्धं जगाम स्वपुरं नृपः  ॥ ६३.२ ॥

स वत्सानां च लक्षैकमप्रसूतायुतं तथा  ।

विंशतिः श्यामकर्णानां हयानां च दशायुतम्  ॥ ६३.३ ॥

मणिमाणिक्यमुक्तादि भूषितोच्चैः श्रवस्त्विषाम्  ।

अयुतं च करीन्द्राणां घण्टाभरणशोभिनाम्  ॥ ६३.४ ॥

मणिमाणिक्यरत्नानां संख्यां कर्तुं न शक्यते  ।

नानादेशनृपैः सार्द्धं ब्राह्मणैर्वेदपारगैः  ॥ ६३.५ ॥

वेणुवीणानिनादेन ब्रह्मघोषरवेण च  ।

आपूरयन् दिशः सर्वा दिवं भूमिं च संस्पृशन्  ॥ ६३.६ ॥

हर्षेण महता युक्तो यज्ञसम्भारसंवृतः  ।

रन्तिदेवो महीपालः कल्पगातीरमाश्रितः  ॥ ६३.७ ॥

अनेकभक्षभोज्यानां तत्र संख्या न विद्यते  ।

अष्टयोजनपर्यन्तं यज्ञयूपाश्च मण्डपाः  ॥ ६३.८ ॥

हेमरत्नमयाः स्तम्भा मणिमौक्तिकभूषिताः  ।

हिरण्मयानि कुण्डानि वेदिकाश्च सहस्रशः  ॥ ६३.९ ॥

स्रुवश्च यज्ञपात्राणि सर्वं स्वर्णमयं तथा  ।

समाहूतास्ततो देवा ब्रह्मविष्णुमहेश्वराः  ॥ ६३.१० ॥

चन्द्रादित्यौ ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलम्  ।

सिद्धा विद्याधरा यक्षाः सुरासुरमहोरगाः  ॥ ६३.११ ॥

देवराजश्च देवाश्च बृहस्पतिपुरोगमाः  ।

ततो यज्ञः समारब्धो ब्राह्मणैर्वेदपारगैः  ॥ ६३.१२ ॥

होमेन तर्पिता देवाः सर्वलोकनिवासिनः  ।

निर्धूमश्च ज्वलद्वह्णिः सप्तजिह्वासमन्वितः  ॥ ६३.१३ ॥

प्रत्यक्षो हव्यवाहश्च स्वयं यज्ञे नराधिप  ।

ततो निवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः  ॥ ६३.१४ ॥

घोषणा भ्रामिता राष्ट्रे प्रतीहारैः सहस्रशः  ।

यो यं कामयते कामं सोऽत्र तं त्वेत्यसंशयः  ॥ ६३.१५ ॥

आहूताः पूर्वजास्तत्र मातृकाः पैतृकास्तथा  ।

अपमृत्युवशं प्राप्तास्तिर्यग्योनिगताश्च ये  ॥ ६३.१६ ॥

ते सर्वे शुभयोनित्वमापन्ना यज्ञयोगतः  ।

अर्चिता नर्मदादेवीं प्रत्यक्षा रूपधारिणी  ॥ ६३.१७ ॥

अर्चितो भगवांस्तत्र पार्वत्या सहितो हरः  ।

श्रीपतिश्च श्रिया सार्द्धं शङ्खचक्रगदाधरः  ॥ ६३.१८ ॥

शक्रादयस्तथा देवाः सपत्नीका अलंकृताः  ।

गाश्चाश्वांश्च करीन्द्रांश्च ब्राह्मणेभ्यो न्यवेदयत् ॥ ६३.१९ ॥

यच्चान्यद्विद्यते किंचिद्धनं धान्यं पयो दधि  ।

अग्निशौचानि वस्त्राणि सर्वं तेभ्यो न्यवेदयत् ॥ ६३.२० ॥

युगपत्पूजिता देवा ब्रह्मविष्णुमहेश्वराः  ।

अर्चिता नर्मदादेवी शैलमूले व्यवस्थिता  ॥ ६३.२१ ॥

प्रवाहो निर्गतो यत्र कुब्जारेवासमागमे  ।

पितरस्तर्पिता देवाः प्राप्ताश्च परमां गतिम्  ॥ ६३.२२ ॥

दिव्ययानसमारूढो दधीचिश्च नृपोत्तमः  ।

शतमष्टोत्तरं पूर्वं पश्चिमं तदनन्तरम्  ॥ ६३.२३ ॥

देवयानपथे सन्तः शतशोऽथ नृपोत्तम  ।

ऊचुश्च देवास्ते सर्वे ब्रह्माद्या रन्तिदेवकम्  ॥ ६३.२४ ॥

वृणीष्व भद्रं ते प्रीताः सत्येनानेन भूमिप  ।

प्राप्तोऽसि परमं लोकं पितृभिर्मातृभिः सह  ॥ ६३.२५ ॥

रन्तिदेवोऽब्रवीद्वाक्यं यूयं मे वरदा यदि  ।

कलशः स्थापितो यत्र ब्राह्मणैर्वेदपारगैः  ॥ ६३.२६ ॥

चतुर्वेदधरैर्भक्तैः पञ्चब्रह्मतनुः स्वयम्  ।

शिवलिङ्गं भवेत्तत्र ज्वालामालासमप्रभम्  ॥ ६३.२७ ॥

यज्ञपर्वतमासाद्य प्रवाहो यज्ञनिर्गतः  ।

स्नाने विनिर्गता कुब्जा चरुके चरुका तथा  ॥ ६३.२८ ॥

चर्मिला चाङ्घ्रिमूले तु शिल्पे शिल्पा विनिर्गता  ।

धनदो देवताश्चान्याः सम्पूज्य प्रणिपत्य च  ॥ ६३.२९ ॥

कल्पगां च नमस्कृत्य कामिकं यानमाश्रिताः  ।

स्तोत्रं चक्रे महाभाग लिङ्गरूपस्य शूलिनः  ॥ ६३.३० ॥

लोकनाथो जगत्स्रष्टा प्रणिपत्य यथाविधि  ।

 

ब्रह्मो वाच –

नास्ति रुद्रसमो देवो नास्ति रुद्रसमो गुरुः  ॥ ६३.३१ ॥

नित्यदामलकायाय स्वप्रभामलमूर्तये  ।

शिवभस्माङ्गरागाय देवेशाय नमोऽस्तु ते  ॥ ६३.३२ ॥

नीलकण्ठाय देवाय सर्वायामितमूर्तये  ।

बहुरूपाय कान्ताय शाश्वताय नमोऽस्तु ते  ॥ ६३.३३ ॥

पराय परमेशाय सर्वज्ञाय नमोऽस्तु ते  ।

सर्वप्रणतदेहाय स्वयमप्रणताय च  ॥ ६३.३४ ॥

पूज्यानामपि पूज्याय नमस्त्र्यक्षाय शूलिने  ।

ब्रह्मेन्द्रविष्णुवेद्याय उत्पत्तिस्थितिहेतवे  ॥ ६३.३५ ॥

देवस्तुत नमस्तेऽस्तु भुक्तिमुक्तिप्रदाय च  ।

वामाय वामरूपाय वामोमारोपभासिने  ॥ ६३.३६ ॥

वामकान्तार्धवेहाय ईशानाय नमोऽस्तु ते  ।

श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः सोऽमितद्युतिः  ॥ ६३.३७ ॥

वृणीष्व वाञ्छितं यज्ञे वरमित्याह शङ्करः  ।

ददामि ते न सन्देहो यस्त्वया वर ईप्सितः  ॥ ६३.३८ ॥

उवाच वचनं ब्रह्मा शङ्करं सर्वगं प्रभुम्  ।

पञ्चवक्त्रं पञ्चलिङ्गं ब्रह्मपूज्यं प्रकीर्तितम्  ॥ ६३.३९ ॥

बिल्वा निवेदिता यस्मिन्नाम्राश्च विनिवेदिताः  ।

बिल्वाम्रकन्नाम लिङ्गं संसारार्णवतारणम्  ॥ ६३.४० ॥

प्रसिद्धिं परमां यातु भगवंस्त्वत्प्रसादतः  ।

वामना मेकला यत्र यत्रेदं लिङ्गमुत्तमम्  ॥ ६३.४१ ॥

तत्र स्नात्वा नरव्याघ्र शिवलोकमवाप्यते  ।

इदं वरमहं मन्ये लोकानुग्रहकारकम्  ॥ ६३.४२ ॥

शङ्करस्तु तथेत्येवं प्राह ब्रह्माणमव्ययम्  ।

एवमुक्त्वा महेशानो गणकोटिसमावृतः  ॥ ६३.४३ ॥

स्तूयमानः सुरैः सर्वैः जगाम भवनं स्वकम्  ।

ब्रह्माद्या देवताश्चैव गताः स्वं स्वं निवेशनम्  ॥ ६३.४४ ॥

रन्तिदेवः प्रतुष्टाव लिङ्गरूपधरं शिवम्  ।

निशम्य रन्तिदेवस्य स्तोत्रं प्राह महेश्वरः  ॥ ६३.४५ ॥

वरं वृणीष्व भद्रं ते स्तोत्रेणानेन सुव्रतं  ।

रन्तिदेवोऽब्रवीद्वाक्यं यदि मे वरदः शिवः  ॥ ६३.४६ ॥

इदं तीर्थं न मोक्तव्यं महादेव सदा त्वया  ।

अघौघसमप्लुता ये तु तिर्यग्योनिगता नराः  ॥ ६३.४७ ॥

अस्य तीर्थस्य माहात्म्यात्ते यान्तु परमां गतिम्  ।

अत्र यद्दीयते दानं सर्वं भवति चाक्षयम्  ॥ ६३.४८ ॥

इदं वरमहं मन्ये यदि तुष्टोऽसि शङ्कर  ।

 

शङ्कर उवाच –

अमासोमसमायोगे कार्त्तिक्यां चैव पर्वणि  ॥ ६३.४९ ॥

अत्र यद्दीयते दानं तदनन्तं समश्नुते  ।

एतत्ते कथितं राजंस्तीर्थं पापप्रणाशनम्  ॥ ६३.५० ॥

विश्वेदेवाः परां सिद्धिमस्मिंस्तीर्थे समागताः  ।

अगस्त्यशौनकश्चैव पराशरोऽघमर्षणः  ॥ ६३.५१ ॥

संसिद्धिं परमां प्राप्ता नाना मुनिगणास्तथा  ।

अत्रायुतं मुनीनां च तपसा दिवमारुहत् ॥ ६३.५२ ॥

संक्रमे च व्यतीपाते ग्रहणे चन्द्रसूर्ययोः  ।

अमासोमसमायोगे षडशीतिमुखे तथा  ॥ ६३.५३ ॥

पुण्यं दशगुणं वृद्धिं सत्यमेतच्छिवोदितम्  ।

सपादकोटिस्तीर्थानां कुब्जारेवासमागमे  ॥ ६३.५४ ॥

दक्षिणोत्तरभागे तु क्रोशमात्रं प्रतिष्ठितम्  ।

अवशः स्ववशो वाऽपि प्राणान् यस्तु परित्यजेत् ॥ ६३.५५ ॥

राजा वर्षसहस्राणि विद्याधरपुरे भवेत् ।

कृमिकीटपतङ्गाद्यास्तीर्थेऽस्मिन् प्राणमोक्षणे  ॥ ६३.५६ ॥

दिव्यं वर्षसहस्रं तु राजा विद्याधरे पुरे  ।

बिल्वाम्रकं सिद्धलिङ्गं कामभोगफलप्रदम्  ॥ ६३.५७ ॥

कुब्जेश्वरं महच्चान्यद्ब्रह्महत्यां व्यपोहति  ।

अत्रान्तरे महाराज शिवक्षेत्रं विदुर्बुधाः  ॥ ६३.५८ ॥

रेवाकुब्जासमायोगे यवानां सप्ततिस्तथा  ।

अमासोमसमायोगे स्नानाच्छान्तिः प्रकीर्तिता  ॥ ६३.५९ ॥

वाराणसी कुरुक्षेत्रं प्रयागो नैमिषं तथा  ।

पुष्करं च गया चैव केदारं तीर्थमुत्तमम्  ॥ ६३.६० ॥

फलमेतेषु सामान्यममासोमसमागमे  ।

अक्षयं च फलं प्रोक्तं कुब्जारेवासमागमे  ॥ ६३.६१ ॥

तिलोदकप्रदानेन मातृकं पैतृकं सुतः  ।

नरकादुद्धरेत्सर्वान् पूर्वानपि परानपि  ॥ ६३.६२ ॥

सोऽपि राजा गृहं प्राप्तः सर्वानुद्धृत्य पूर्वजान्  ।

अयं ते कथितो राजन् कुब्जारेवासमागमः  ॥ ६३.६३ ॥

रन्तिदेवो हरिश्चन्द्रः पुरुहूतः पुरूरवाः  ।

अत्रेष्ट्वा विविधैर्यज्ञैर्दिव्यन्ति दिवि देववत् ॥ ६३.६४ ॥

श्रवणात्कीर्तनादस्य तीर्थस्य नरसत्तम  ।

सर्वपापविशुद्धात्मा शिवलोके महीयते  ॥ ६३.६५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कुब्जामाहात्म्ये त्रिषष्टितमोऽध्यायः ॥

 

 

अध्याय ६४

 

मार्कण्डेय उवाच –

अथान्यत्कथयिष्यामि तीर्थं तीर्थवरं शुभम्  ।

याम्यप्रदेशे रेवाया आश्रमः सुरपूजितः  ॥ ६४.१ ॥

सुवर्णद्वीपपविख्यातो देवद्रोणीसमावृतः  ।

हारीतो गौतमो विष्णुः सावर्णिः कौशिकस्तथा  ॥ ६४.२ ॥

एते चान्ये च बहवो मुनयः शंसितव्रताः  ।

मासोपवासिनः केचिदन्ये पक्षोपवासिनः  ॥ ६४.३ ॥

चान्द्रायणपराश्चान्ये तथान्ये कृच्छ्रचारिणः  ।

फलमूलाशिनः केचित्तथान्ये वायुभक्षकाः  ॥ ६४.४ ॥

कणधूमं पिबन्त्यन्ये जलाहारास्तथा परे  ।

एकपादाः स्थिताः केचिदन्ये चार्धपदाः स्थिताः  ॥ ६४.५ ॥

दन्तोलूखलिनः केचिदन्ये सूर्यावलोकिनः  ।

ब्राह्मणाश्च ब्रह्मविदः श्रुतिस्मृतिविशारदाः  ॥ ६४.६ ॥

इतिहासपुराणानि मोक्षोपायविचिन्तकाः  ।

अग्निहोत्रपरा नित्यं जपयज्ञक्रियापराः  ॥ ६४.७ ॥

वेदध्वनितनिर्घोषैस्तारयन्ति जगत्त्रयम्  ।

न तस्मिन् संचरेत्पापं तमः सूर्योदये यथा  ॥ ६४.८ ॥

मेकलादक्षिणे तीरे ब्रह्मलोक इव स्थितः  ।

आम्रजम्बूकदम्बैश्च कपित्थैर्बिल्वदाडिमैः  ॥ ६४.९ ॥

कदलीबीजपूराद्यैर्जम्बीरैः पनसैस्तथा  ।

न्यग्रोधबदरैर्मुख्यैर्बहुवृक्षविभूषितम्  ॥ ६४.१० ॥

पुन्नागैर्नागबकुलैरशोकैस्तिलकैस्तथा  ।

मन्दारैश्चम्पकैश्चाम्रातकैर्नीलोत्पलोत्पलैः  ॥ ६४.११ ॥

पत्रपुष्पफलोपेतैर्वृक्षैः सर्वैरलंकृतम्  ।

नानापक्षिगणोपेतं सिद्धगन्धर्वसेवितम्  ॥ ६४.१२ ॥

व्याहरत्यण्डजाः सर्वे मानुषाणां गिरा नृप  ।

एतद्गुणसमायुक्तं सुवर्णद्वीपमुत्तमम्  ॥ ६४.१३ ॥

स्वायम्भुवेऽन्तरे राजन्नादिकल्पे कृते युगे  ।

अर्चनाद्देवदेवस्य सुवर्णद्वीपवासिनः  ॥ ६४.१४ ॥

अपहाय तमः कृत्स्नं लोके क्रीडन्ति शाङ्करे  ।

पितॄणामन्नदानेन तिलतोयप्रदानतः  ॥ ६४.१५ ॥

मलापकर्षणं कृत्वा वसन्ति ब्रह्मणः पुरे  ।

पुण्यायां भूपकार्तिक्यां सर्वतीर्थफलप्रदः  ॥ ६४.१६ ॥

नैतत्पश्यन्ति मनुजाः कलौ मायाविमोहिताः  ।

कल्पगा याम्यभागे तु तीर्थकोटिरनेकधा  ॥ ६४.१७ ॥

प्रसिद्धं सिद्धमुनिभिर्ज्ञायते केवलं हि तत् ।

नास्तिकैर्भिन्नमर्यादैः पुराणस्मृतिनिन्दकैः  ॥ ६४.१८ ॥

तैलाभ्यक्तैर्न वेदोक्तकरै रेवातटे तथा  ।

कलिमायाविमूढैश्च स्थानं तन्न प्रदृश्यते  ॥ ६४.१९ ॥

हिरण्यगर्भास्थाने तु यस्मिन् वहति कल्पगा  ।

यज्ञगर्भेश्वरं नाम शिवलिङ्गं प्रकीर्तितम्  ॥ ६४.२० ॥

पूज्यते सिद्धगन्धर्वैः सुरासुरमहोरगैः  ।

यत्र वैवस्वतो राजा सूर्यपुत्रो महायशाः  ॥ ६४.२१ ॥

तस्य तीर्थस्य माहात्म्याच्चन्द्रबिम्बाननोऽभवत् ।

चैत्रस्यैव तु मासस्य शुक्लपक्षे नराधिप  ॥ ६४.२२ ॥

चतुर्दश्यां पौर्णमास्यां यत्र सन्निहितो हरः  ।

तिलोदकप्रदानेन पिण्डदानेन भारत  ॥ ६४.२३ ॥

पितॄन् समुद्धरेत्तत्र नरकाद्भूरिदक्षिणः  ।

निवसेद्वैष्णवे लोके यावच्चन्द्रार्कदर्शनम्  ॥ ६४.२४ ॥

तत्र यद्दीयते दानं कुरुक्षेत्रसमं हि तत् ।

प्राणत्यागे कृते तत्र न पश्यन्ति यमालयम्  ॥ ६४.२५ ॥

रेवाया उत्तरे कूले पर्यङ्को नाम पर्वतः  ।

स च विन्ध्यसुतः श्रीमान् सर्वदेवमयः शुभः  ॥ ६४.२६ ॥

तत्र पापहरो विष्णुः स्वयं तिष्ठति केशवः  ।

नरपापहरो यस्तु नर्मदातटमाश्रितः  ॥ ६४.२७ ॥

तत्र स्नात्वा महाराज गोसहस्रफलं लभेत् ।

तर्पिताः पितरस्तस्य तृप्ता यान्ति हरेः पुरम्  ॥ ६४.२८ ॥

एकादशीं द्वादशीं वा तत्र यः कुरुते नरः  ।

न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे  ॥ ६४.२९ ॥

क्रोशमात्रप्रमाणं च हरिक्षेत्रं प्रकीर्तितम्  ।

अपमृत्युमृता ये च ते यान्ति परमां गतिम्  ॥ ६४.३० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुकीर्तनं नाम चतुःषष्टितमोऽध्यायः ॥

 

अध्याय ६५

 

मार्कण्डेय उवाच –

नर्मदायाम्यभागे तु तीर्थं पापप्रणाशनम्  ।

माण्डव्यस्याश्रमं पुण्यं सिद्धगन्धर्वसेवितम्  ॥ ६५.१ ॥

विभाण्डकश्च गार्ग्यश्च ऋष्यशृङ्गादयस्तथा  ।

तस्मिन् सहस्रसंख्याता मुनयः शंसितव्रताः  ॥ ६५.२ ॥

अशोकवनिकां राजन् छृणु साम्प्रतमुत्तमम्  ।

तत्र सन्निहितो देव उमया सहितो हरः  ॥ ६५.३ ॥

आविष्टश्चाश्रमे तत्र विशोको विमलः शिवः  ।

विशोकया सरिच्छ्रेष्ठा नर्मदा यत्र सङ्गता  ॥ ६५.४ ॥

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ।

अशोकेश्वरलिङ्गं च प्रत्यक्षं सिद्धिशङ्करम्  ॥ ६५.५ ॥

शापभ्रष्टा द्विजास्तत्र नारदेन विमोचिताः  ।

तस्य तीर्थस्य माहात्म्यात्मोदन्ते दिवि देवताः  ॥ ६५.६ ॥

नानावृक्षफलैः पुष्पैः सर्वकामसमन्वितैः  ।

नाना पक्षिगणैर्जुष्टं नानावृक्षनिषेवितम्  ॥ ६५.७ ॥

सिद्धविद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैस्तथा  ।

वेणुवीणानिनादेन शङ्खवादित्रनिःस्वनैः  ॥ ६५.८ ॥

शोभते सर्वदा राजन्नर्मदा विन्ध्यसङ्गमः  ।

अशोका देवता यत्र ब्रह्मशक्रपुरोगमाः  ॥ ६५.९ ॥

विश्वेदेवाश्रमं तद्धि सर्वदेवनमस्कृतम्  ।

विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः  ॥ ६५.१० ॥

अशोकवनिकायां च जनयामास कश्यपः  ।

वैवस्वतेऽन्तरे प्राप्ते त्रेतायां नरसत्तम  ॥ ६५.११ ॥

पञ्चायुतानि तानि तीर्थानि निवसन्ति शुभानि च  ।

तत्र सिद्धा च सावित्री देवमातादितिस्तथा  ॥ ६५.१२ ॥

देवयानी तथेन्द्राणी रोहिणी संभरायणी  ।

दाक्षायणी लोकवन्द्या लोपामुद्रा महायशा  ॥ ६५.१३ ॥

रत्नावली सूर्यभार्या ध्रुवा तारा गणेश्वरी  ।

अशोकास्तेन विहितास्तत्रस्थाः शतसंख्यकाः  ॥ ६५.१४ ॥

अस्य तीर्थस्य माहात्म्यान्मुच्यते किल्बिषान्नरः  ।

शुक्लपक्षे चतुर्दश्यामाश्विने मासि भारत  ॥ ६५.१५ ॥

अपुत्रिणी तथा बन्ध्या दुर्भगा भर्तृवर्जिता  ।

पञ्चरत्नफलैः स्नाता दिव्यकुम्भैः समर्चयेत् ॥ ६५.१६ ॥

सहस्रजन्म सा भूयः पुत्रिणी सुभगा भवेत् ।

अशोकवनिका क्षेत्रे तत्र गौर्या वरः कृतः  ॥ ६५.१७ ॥

यस्मिन् वहति सा देवी नर्मदा सप्तकल्पगा  ।

तत्रेष्टं धर्मराजेन वरुणेन महात्मना  ॥ ६५.१८ ॥

नैरृत्येन तथान्यैश्च लोकपालैर्यथा विधि  ।

प्रत्यक्षो हव्यवाहश्च लोकपालानुपागतः  ॥ ६५.१९ ॥

अत्रिर्मरीचिः कश्यपश्चक्रुस्तत्र मखोत्तमम्  ।

अन्यक्षेत्राच्छतगुणा तत्र दानादिका क्रिया  ॥ ६५.२० ॥

वाराणसी कुरुक्षेत्रं गया वै नैमिषं तथा  ।

मायापुरी पुष्करं च प्रयागः शशिभूषणम्  ॥ ६५.२१ ॥

काश्यपी सर्वतीर्थानि यत्र तिष्ठति कल्पगा  ।

अशोकवनिकायास्तु नान्यत्तीर्थं समं विदुः  ॥ ६५.२२ ॥

इष्टं यत्र पुरा राजन् हयमेधं मखोत्तमम्  ।

ब्रह्मणा मोचिताः पूर्वं विप्राः कौलेययोनितः  ॥ ६५.२३ ॥

अस्य तीर्थस्य माहात्म्यात्पाटलीपुत्रवासिनः  ।

 

युधिष्ठिर उवाच –

हयमेधमखेनेष्टं कथं तात स्वयम्भुवा  ॥ ६५.२४ ॥

कथं च मोचिता विप्राः पूर्वं कौलेययोनितः  ।

को वा राजा पुरा ब्रह्मन् देवराजसमोऽभवत् ॥ ६५.२५ ॥

एतत्सर्वं यथा न्यायं शंस मे मुनिसत्तम  ।

 

मार्कण्डेय उवाच –

शृणु राजन्महाभाग समाख्यानं पुरातनम्  ॥ ६५.२६ ॥

अशोकवनिका तीर्थं कल्पगा तटमाश्रितम्  ।

न जानन्ति महामूढा मनुजाः पापमोहिताः  ॥ ६५.२७ ॥

गुप्ताद्गुप्ततरं तीर्थं सर्वतीर्थोत्तमोत्तमम्  ।

विशोकेश्वरलिङ्गं तु तस्मिन् परमसिद्धिदम्  ॥ ६५.२८ ॥

पूज्यते सिद्धगन्धर्वैर्न तत्पश्यन्ति मानुषाः  ।

दर्शनात्स्पर्शनात्तस्य ब्रह्महत्यां व्यपोहति  ॥ ६५.२९ ॥

स्वायम्भुवेऽन्तरे प्राप्ते आदिकल्पे कृते युगे  ।

रविश्चन्द्रो महाराज चक्रवर्ती महायशाः  ॥ ६५.३० ॥

सोमवंशे जनिं प्राप्तः काञ्चीपुरपतिस्तथा  ।

शशास पृथिवीं सर्वां यथा शक्रस्त्रिविष्टपम्  ॥ ६५.३१ ॥

गतस्तु पृथिवीपालो नानावृक्षसमाकुलम्  ।

नानापक्षिगणैर्जुष्टं नानामुनिनिषेवतम्  ॥ ६५.३२ ॥

यत्रागस्त्येश्वरं नाम शम्भोरायतनं शुभम्  ।

सेव्यते मुनिभिः सर्वैरगस्त्याद्यैस्तपोधनैः  ॥ ६५.३३ ॥

राहुसूर्यसमायोगे रविश्चन्द्रो नृपोत्तमः  ।

सप्तकल्पवहा यत्र शैलश्चामरकण्टकः  ॥ ६५.३४ ॥

हस्त्यश्वरथपादातैः सकोशबलवाहनैः  ।

तपस्यन्तं महात्मानं मुनिसङ्घैः समावृतम्  ॥ ६५.३५ ॥

मैत्रावरुणिकं नाम ज्वलन्तमिति पावकम्  ।

तेषां मध्ये समुत्थाय शाण्डिल्यश्च महातपाः  ॥ ६५.३६ ॥

उरसा पृथिवीं गत्वा सोऽगस्तिं परिपृच्छति  ।

रविश्चन्द्रो महातेजाः समायातस्तवाश्रमम्  ॥ ६५.३७ ॥

पुरोहितोऽहमस्यास्मि जानीहि त्वं तपोनिधे  ।

त्वत्पादार्चनमाकाङ्क्षी मन्यसे चेदनुग्रहः  ॥ ६५.३८ ॥

 

अगस्त्य उवाच –

आगच्छतु नृपश्रेष्ठः शीघ्रं सिंहासने स्थितः  ।

आगतस्तदनुज्ञातः पादौ जग्राह तस्य च  ॥ ६५.३९ ॥

अर्घपाद्यैश्च सम्पूज्य पप्रच्छ कुशलं मुनिः  ।

कुशलं ते महाभाग सान्तः पुरपरिच्छदः  ॥ ६५.४० ॥

उवाच वचनं राजा मुनीन्द्रं प्रति भारत  ।

अद्य मे सफलं जन्म राज्यं जीवनमेव च  ॥ ६५.४१ ॥

मुक्तश्च किल्बिषादस्मात्त्वात्पादाम्बुजदर्शनात् ।

सर्वत्र कल्पगा पुण्या सर्वतीर्थमयी शुभा  ॥ ६५.४२ ॥

कस्मिन् स्थाने यजे यज्ञं शंस मे मुनिसत्तम  ।

यथा संसिद्ध्यते यज्ञः सुराणां तृप्तिरक्षया  ॥ ६५.४३ ॥

एतत्सर्वं यथा न्यायं त्रिकालज्ञ निवेदय  ।

 

अगस्त्य उवाच –

शृणु राजन्महाभाग कथ्यमानं निबोध च  ॥ ६५.४४ ॥

शिवेन कथितं पूर्वं पार्वत्याः षण्मुखस्य च  ।

ब्रह्मविष्ण्वादिदेवानामन्येषां च दिवौकसाम्  ॥ ६५.४५ ॥

मया तत्र श्रुतं राजन्मार्कण्डेन चिरायुषा  ।

तत्तेऽहं कथयिष्यामि मेकलातीर्थसम्भवम्  ॥ ६५.४६ ॥

शृणुध्वं मुनयः सर्वे यत्प्रष्टव्यावतारणम्  ।

कस्य शक्तिर्महाराज वर्जयित्वा महेश्वरम्  ॥ ६५.४७ ॥

प्रमाणं सर्वतीर्थानां संख्यां वा कर्तुमादितः  ।

उद्देशमात्रवक्ताऽहं मार्कण्डस्य महामुनेः  ॥ ६५.४८ ॥

एतत्ते कथितं राजन् यथावृत्तं पुरातनम्  ॥ ६५.४९ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नर्मदामाहात्म्ये पञ्चषष्टितमोऽध्यायः ॥

 

 

अध्याय ६६

 

मार्कण्डेय उवाच –

एवं श्रुतं पुरा राज्ञा रविश्चन्द्रेण धीमता  ।

उवाच वचनं श्रीमानगस्त्यो मुनिसत्तम  ॥ ६६.१ ॥

सरस्वती न गङ्गा च यमुना वा न सागराः  ।

न चैवान्यानि तीर्थानि प्रयागप्रमुखान्यपि  ॥ ६६.२ ॥

एकैव नर्मदा पुण्या सप्तकल्पवहा शुभा  ।

लक्षयोजनपर्यन्तं जम्बूद्वीपं प्रकीर्तितम्  ॥ ६६.३ ॥

नर्मदातोयपानेन लोकालोके चराचरे  ।

तपोहीना नराश्चैव तेऽपि यान्ति शिवालयम्  ॥ ६६.४ ॥

योऽयं कामयते कामं स तं प्राप्नोति पुष्कलम्  ।

साधु साधु महाभाग पृष्टोऽहं यत्त्वयानघ  ॥ ६६.५ ॥

नर्मदा कथिता दिव्या हृद्या कस्य न रोचते  ।

सन्ति तीर्थानि यावन्ति दक्षिणोत्तरकूलयोः  ॥ ६६.६ ॥

त्वत्प्रीतिदानि तावन्ति कथयामि नृपोत्तम  ।

अन्यानि ग्रन्थलक्षेण न च कीर्तयितुं क्षमः  ॥ ६६.७ ॥

त्रयो वेदास्त्रयो लोकास्तिस्रः सन्ध्यास्त्रयोऽग्नयः  ।

सिद्धगन्धर्वयक्षाश्च सकिन्नरमहोरगाः  ॥ ६६.८ ॥

विद्याधरश्चाप्सरसः कल्पगातटमाश्रिताः  ।

ओंकारादीनि लिङ्गानि वैदूर्यादिनगाः पुरा  ॥ ६६.९ ॥

द्वापरे च कलिं प्राप्य पावनत्वमवाप्नुयुः  ।

ब्रह्मविष्ण्वादिदेवानां मर्यादा कथ्यतेऽधुना  ॥ ६६.१० ॥

प्रभाभिर्द्योतमानाया रेवाया दक्षिणोत्तरे  ।

यज्ञभूमिरियं ख्याता सुरासुरनमस्कृता  ॥ ६६.११ ॥

अशोकवनिका तत्र तस्या देवो महेश्वरः  ।

तत्र सिद्ध्यति निर्विघ्नो यज्ञ इत्याह शङ्करः  ॥ ६६.१२ ॥

उवाच वचनं राजा अगस्त्यं मुनिसत्तमम्  ।

स्वस्ति वोऽस्तु गमिष्यामि त्वया सह महामुने  ॥ ६६.१३ ॥

अशोकवनिकां प्राप्तः स राजा मुनिभिर्वृतः  ।

रेवाया दक्षिणे कूले पुण्यतीर्थेसु शोभने  ॥ ६६.१४ ॥

दशयोजनपर्यन्तं यज्ञयूपाश्च मण्डपम्  ।

मणिमाणिक्यरत्नौघैः सर्वद्वारेषु शोभिताः  ॥ ६६.१५ ॥

पताकाध्वजशोभाड्या नानावस्त्रावगुण्ठिताः  ।

विश्वामित्रो भरद्वाजः कश्यपो भार्गवस्तथा  ॥ ६६.१६ ॥

ब्रह्मदृश्यो लोमशश्च तथान्ये मुनिसत्तमाः  ।

वालखिल्या महाभागा मानसा ब्रह्मणः सुताः  ॥ ६६.१७ ॥

एते चान्ये च बहवो मुनयः शंसितव्रताः  ।

ततः प्रवर्तितो यज्ञो ब्राह्मणैराप्तदक्षिणैः  ॥ ६६.१८ ॥

तृप्ताश्च देवताः सर्वाः प्रतिजग्मुस्त्रिविष्टपम्  ।

जग्मुः सर्वे च मुदिता मुनयः स्वाश्रमं प्रति  ॥ ६६.१९ ॥

ततो निवर्तितो यज्ञो दुर्वासाः कुपितो गतः  ।

नात्र वैवस्वतो नाहं नारदः पर्वतस्तथा  ॥ ६६.२० ॥

कथं निवर्तितो यज्ञः पापर्कर्मिनराधमैः  ।

आगतस्तु यमस्तत्र नारदः पर्वतस्तथा  ॥ ६६.२१ ॥

लेखकश्चित्रगुप्तश्च कालो मृत्युस्तथैव च  ।

एते च कुपिताः सर्वे यज्ञभागं विना नृप  ॥ ६६.२२ ॥

तान् सर्वान् कुपितान् दृष्ट्वा रविश्चन्द्रोऽब्रवीद्वचः  ।

अशोकेश्वरदेवस्य नर्मदायाः प्रसादतः  ॥ ६६.२३ ॥

को मे समर्थो विघ्नाय सुरासुरगणेष्वपि  ।

तथैव कोऽन्यो जन्तूनां यज्ञविघ्नस्य हेतवे  ॥ ६६.२४ ॥

यज्ञकाले च संप्राप्तो य कश्चिदपि मानवः  ।

पूजनीयस्तथार्च्यश्च यथा देवश्चतुर्भुजः  ॥ ६६.२५ ॥

यथायाता महाभागा ब्रह्मपुत्रा महौजसः  ।

ददामि वो न सन्देहो मनसा यदभीप्सितम्  ॥ ६६.२६ ॥

 

दुर्वासा उवाच –

परिपूज्यश्च नः पुत्रो नारदः पर्वतस्तथा  ।

एकाकी प्रार्थये नाहं मिलित्वा प्रार्थयामहे  ॥ ६६.२७ ॥

 

रविश्चन्द्र उवाच –

यो यं कामयते कामं तं तस्मै प्रददाम्यहम्  ।

इति सर्वेऽपि तेनैव प्रस्तुता मुनिपुङ्गवाः  ॥ ६६.२८ ॥

सुप्रीता विहिता राजन्नर्घपाद्यप्रदानतः  ।

 

युधिष्ठिर उवाच –

मुनयः केन कार्येण पाटलीपुत्रवासिनः  ॥ ६६.२९ ॥

देव्या शप्ताः श्वयोनिं च गता मुक्ताश्च ते कथम्  ।

 

मार्कण्डेय उवाच –

पुरा तपोधनाः सर्वे जटावल्कलधारिणः  ॥ ६६.३० ॥

नैपाले वै पशुपतिं देवदेवं महेश्वरम्  ।

पूजयन्ति शिवं भक्त्या गौर्या विरहितं हरम्  ॥ ६६.३१ ॥

अर्धनारीश्वरं देवं सुरासुरनमस्कृतम्  ।

संशप्तास्तेन कार्येण पार्वत्या लिङ्गभेदिनः  ॥ ६६.३२ ॥

वर्षं सहस्रं हि मितं श्वयोनिं च गमिष्यथ  ।

निर्माल्यभक्षकाः पापाश्चण्डद्रव्यस्य भक्षकाः  ॥ ६६.३३ ॥

तेषां कृते महाराज दुर्वासा नृपमब्रवीत् ।

श्वयोनिं समनुप्राप्तास्तत्र काले मुनीश्वराः  ॥ ६६.३४ ॥

मोचय त्वं ततो राजन्नस्मत्प्रियचिकीर्षया  ।

पार्वत्या तेऽभिशप्ताश्च नरके मज्जन्ति दारुणे  ॥ ६६.३५ ॥

उवाच वचनं राजा मुनिं दुर्वाससं ततः  ।

मोचयामि न सन्देहस्तस्मात्पापाद्द्विजोत्तमान्  ॥ ६६.३६ ॥

प्रेषिताः किङ्करास्तेन सीदन्तो यत्र ते वने  ।

प्रणिपत्य च ते सर्वे तानूचुश्च वनेचरान्  ॥ ६६.३७ ॥

स्मारयन्ति पूर्वजातिमादिष्टाः प्रभुणा यथा  ।

ततस्तद्वचनात्प्राप्तास्तेऽशोकवनिकां द्रुतम्  ॥ ६६.३८ ॥

रविश्चन्द्रश्चक्रवर्ती तान् विलोक्य तपोधनान्  ।

मुदा परमया युक्तः प्राह तान् प्रहसन्निव  ॥ ६६.३९ ॥

अशोकेश्वरदेवस्य मेकलायाः प्रभावतः  ।

मम दानप्रभावेण महर्षीणां प्रसादतः  ॥ ६६.४० ॥

त्यक्त्वा श्वयोनिं मुनयः शिवलोकं प्रयान्तु वै  ।

एतत्पापं महाघोरं मयि सर्वं निषीदतु  ॥ ६६.४१ ॥

तत्क्षणान्मुक्तशापास्ते कामिकं यानमास्थिताः  ।

ऊचुर्महर्षयो वाक्यं रविश्चन्द्रं शतक्रतुम्  ॥ ६६.४२ ॥

त्वं माता त्वं पितास्माकं गुरुर्मोक्षप्रदायकः  ।

एवमुक्त्वा ययुस्ते तु उमामाहेश्वरं परम्  ॥ ६६.४३ ॥

साधु साधु महाभाग त्वं तु यज्ञतपोनिधिः  ।

नाऽन्यस्त्वया समः कश्चित्सोमवंशे महीपतिः  ॥ ६६.४४ ॥

त्वया हि निर्जितं सर्वं त्रैलोक्यं सचराचरम्  ।

एवमुक्त्वा सुरश्रेष्ठाः साधुवादैस्तमार्चयन्  ॥ ६६.४५ ॥

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च  ।

 

दुर्वासा उवाच –

क्षत्रियेषु त्वया तुल्यो न दृष्टो न श्रुतो मया  ॥ ६६.४६ ॥

प्राणत्यागो हि सुकरो धर्मत्यागो हि दुष्करः  ।

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ६६.४७ ॥

प्रहसन्नब्रवीद्वाक्यं राजा दुर्वाससं मुनिम्  ।

मम दानप्रभावेण नरा दुष्कृतबुद्धयः  ॥ ६६.४८ ॥

प्राप्नुवन् तु परं लोकं वर एष मम प्रियः  ।

एवमस्त्विति तस्याग्रेऽभिधाय मुनिपुङ्गवः  ॥ ६६.४९ ॥

स मुदा परया युक्तस्तत्रैवान्तरधीयत  ।

तद्दृष्ट्वा तादृशं कर्म राज्ञश्चामिततेजसः  ॥ ६६.५० ॥

शङ्कया परया युक्तो धर्मराजोऽब्रवीदिदम्  ।

वरं ददामि भद्रं ते यज्ञभागबहिष्कृतः  ॥ ६६.५१ ॥

श्वयोनित्वं गता विप्रा मोचिताः कर्मबन्धनात् ।

ईदृशं तव सामर्थ्यं जानामि च नृपोत्तम  ॥ ६६.५२ ॥

पृथिव्यां दुष्करं कर्म यज्ञश्चैव विशेषतः  ।

यो ददाति महाभाग स्वकीयं पुण्यमुत्तमम्  ॥ ६६.५३ ॥

यमलोको जितस्तेन देवलोको जितस्तथा  ।

वरयोग्योऽसि राजेन्द्र सत्यमेतत्मयोदितम्  ॥ ६६.५४ ॥

 

रविश्चन्द्र उवाच –

यदि तुष्टः सूर्यपुत्र वरं दातुं ममेच्छसि  ।

मम यज्ञशतेनैव दानेन तपसा तथा  ॥ ६६.५५ ॥

पापयोनिगता ये तु ये च दुष्कृतकारिणः  ।

प्रयान्तु त्वत्प्रसादेन धर्मराज शिवालयम्  ॥ ६६.५६ ॥

इमं वरमहं मन्ये प्रसादः क्रियतां मयि  ।

 

यम उवाच –

एवं भवतु राजेन्द्र सत्यधर्मपरायण  ॥ ६६.५७ ॥

प्राप्नुहि त्वं परं लोकं सत्येनानेन सुव्रत  ।

यतस्ते मोचिताः सर्वाः कश्मलात्पापयोनयः  ॥ ६६.५८ ॥

क्षत्रियाः शतशो राजन्नन्ये चैव सहस्रशः  ।

पापात्समुद्धृता ये च तेषां संख्या न विद्यते  ॥ ६६.५९ ॥

एवमुक्त्वा नृपश्रेष्ठं धर्मराजो महाभुजः  ।

कामिकं यानमारुह्य सुरासुरनमस्कृतम्  ॥ ६६.६० ॥

ययौ स्वभवनं राजन्नारदः पर्वतस्तथा  ।

तस्यामशीतिलक्षाणि तीर्थानां नरसत्तम  ॥ ६६.६१ ॥

अशोकवनिकायां तु कीर्तितानि तवानघ  ।

श्रवणात्कीर्तनात्तेषां गोसहस्रफलं भवेत् ॥ ६६.६२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डेऽशोकवनिकावर्णनो नाम षट्षष्टितमोऽध्यायः ॥

 

 

अध्याय ६७

 

मार्कण्डेय उवाच –

अथातः कथयिष्यामि तीर्थं पापप्रणाशनम्  ।

रेवाया उत्तरे कूले पुरं वागीश्वराभिधम्  ॥ ६७.१ ॥

वागुर्नाम नदी तत्र रेवया सह संगता  ।

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ६७.२ ॥

वागीशा तत्र चामुण्डा दानवक्षयकारिणी  ।

मणिभद्रो वीरभद्रस्तथाऽन्ये शतशो नृपाः  ॥ ६७.३ ॥

बभूवुर्मुक्तशापास्ते तीर्थस्यास्य प्रभावतः  ।

तिलपिण्डप्रदानेन पितॄणां परमा गतिः  ॥ ६७.४ ॥

ब्रह्मदत्तश्चक्रवर्ती सूर्यवंशे महीपतिः  ।

अयोध्याधिपतिः श्रीमान् चक्रतुल्यपराक्रमः  ॥ ६७.५ ॥

धनधान्यसमायुक्तो भयदारिद्र्यवर्जितः  ।

प्रजास्तस्मिन्महीपाले सर्वाऽपि मुदान्विताः  ॥ ६७.६ ॥

इष्टः क्रतुवरस्तेन नर्मदावागुसङ्गमे  ।

ब्रह्माद्या देवताः सर्वाः शक्रविष्णुपुरोगमाः  ॥ ६७.७ ॥

प्रत्यक्षश्च महेशानो गणेश्वरसमन्वितः  ।

लोकपालाश्च मरुतश्चन्द्रादित्यौ ध्रुवस्तथा  ॥ ६७.८ ॥

ऋक्षाणि योगसिद्धाश्च सोममुख्याश्च सर्वशः  ।

वशिष्ठो मुनिभिः सार्द्धं विदेहाधिपतिस्तथा  ॥ ६७.९ ॥

एवमाद्याः समाहूता मित्रावरुण एव च  ।

सर्वे हिरण्मयास्तत्र यज्ञयूपाश्च मण्डपाः  ॥ ६७.१० ॥

दशयोजनपर्यन्तं यज्ञभूमिर्महीभृतः  ।

स्वारोचिषेऽन्तरे राजन्नादिकल्पे कृते युगे  ॥ ६७.११ ॥

गवां शतसहस्राणि हेमभारान्वितानि च  ।

हयानां श्यामकर्णानामयुतं साग्रमेव च  ॥ ६७.१२ ॥

दन्तिनामयुतं चैव घण्टाभरणभूषितम्  ।

मणिमाणिक्यमुक्ताश्च भक्ष्यभोज्यान्यनेकधा  ॥ ६७.१३ ॥

एवं राजा ब्रह्मदत्तः सर्वभूपालसत्तमः  ।

यज्ञं प्रवर्तयामास सर्वसम्भारसंभृतः  ॥ ६७.१४ ॥

वेदनिर्घोषशब्देन गीतवाद्यरवेण च  ।

नानायानसमारूढैः स्तूयमानो मरुद्गणैः  ॥ ६७.१५ ॥

ब्रह्मदत्तस्य यज्ञेन वागीशस्य प्रसादतः  ।

नर्मदायाः प्रसादेन प्रेतास्तृप्तिं परां गताः  ॥ ६७.१६ ॥

 

युधिष्ठिर उवाच –

कथं तु ब्रह्मदत्तस्य कल्पगातीरयाजनम्  ।

कथं प्रेता विनिर्मुक्ताः प्रेतास्ते केन कर्मणा  ॥ ६७.१७ ॥

एतत्सर्वं यथा न्यायं कथयस्व तपोधन  ।

 

मार्कण्डेय उवाच –

शृणु राजन् यथा न्यायमितिहासं पुरातनम्  ॥ ६७.१८ ॥

कार्त्तिक्यामुत्सवं प्राप्य पुष्करे ज्येष्ठपुष्करे  ।

अयोगन्धः स्वयंभूश्च पुण्डरीकाक्ष एव च  ॥ ६७.१९ ॥

पितामहः स्वयं तत्र सुरासुरगुरुः पिता  ।

काव्यश्च होतृसदनौ वेदगर्भः कृतध्वनः  ॥ ६७.२० ॥

स्वस्तिकश्चैव सावित्रो वामदेवोऽघमर्षणः  ।

एते चान्ये च मुनयो ब्रह्मतेजोऽशसंभवाः  ॥ ६७.२१ ॥

तथा ते हि यथाशक्ता ऋतुकालाभिगामिनः  ।

गार्हस्थ्ये च स्थिता भार्या भर्तृशुश्रूषणे रताः  ॥ ६७.२२ ॥

चीरवल्कलधारिण्यः शाकस्यामाकभक्षिकाः  ।

विषण्णास्तेन धर्मेण सत्यस्ता अप्यगर्हयन्  ॥ ६७.२३ ॥

द्विजस्य षट्च कर्माणि यजनं याजनं तथा  ।

अध्यापनं चाध्ययनं दानं चैव प्रतिग्रहः  ॥ ६७.२४ ॥

भूषणं परिधानं च योषितां भर्तृसेवनम्  ।

एवं च गर्हिता राजन् योषिद्भिः पतयस्तथा  ॥ ६७.२५ ॥

भीतास्ते विस्मिताः सर्वे विषण्णवदनास्तथा  ।

हरिश्चन्द्रः पुरा राजा न भूतो न भविष्यति  ॥ ६७.२६ ॥

दानेन निर्जितं येन त्रैलोक्यं सचराचरम्  ।

राहुसूर्यसमायोगे कुरुक्षेत्रं जगाम ह  ॥ ६७.२७ ॥

त्यक्त्वा ते पुष्करं तीर्थं धनलोभेन मोहिताः  ।

सहस्रसंख्यामुनयः सभार्याः ससुताश्च ते  ॥ ६७.२८ ॥

यत्र राजा हरिश्चन्द्रः प्रतिग्रहविलिप्सया  ।

मुनीनाह हरिश्चन्द्रो मुदा परमया युतः  ॥ ६७.२९ ॥

धन्या मे सफला यात्रा कुरुक्षेत्रे रविग्रहे  ।

क्षुधार्ता दुःखिताश्चैव बाला वृद्धाः कृशातुराः  ॥ ६७.३० ॥

वल्कलाजिनवस्त्राश्च यौवने प्रेतरूपिणः  ।

यन्नो यूयमभिप्राप्ताः पत्नीपुत्रैश्च संयुताः  ॥ ६७.३१ ॥

उवाच वचनं राजा साष्टाङ्गं प्रणिपत्य च  ।

आदेशो दीयतां मह्यं किं करोमि भवत्कृते  ॥ ६७.३२ ॥

एवमुक्त्वा ददौ श्रीमानेकैकस्य पृथक्पृथक् ।

लक्षं लक्षं हिरण्यस्य तथा गावः सहस्रशः  ॥ ६७.३३ ॥

सहस्रं तुरगाणां च दन्तिनां शतमेव च  ।

साप्तभौमान् गृहान् रम्यान् हेमप्राकारतोरणान्  ॥ ६७.३४ ॥

नानाविधविलासांश्च यथा धनपतिः स्वयम्  ।

कल्पान्तरे मृता जाताः प्रेतरूपा भयङ्कराः  ॥ ६७.३५ ॥

लम्बोष्ठा लम्बवृषणा विकृताननसंयुताः  ।

प्रतिग्रहप्रभावेण द्विजस्य पतनं ध्रुवम्  ॥ ६७.३६ ॥

जातिस्मराः स्वं शोचन्ति एकाकीनास्तु ते बहिः  ।

न भार्या न च मे पुत्रा न भृत्या न च बान्धवाः  ॥ ६७.३७ ॥

न ते प्रतिग्रहैर्दग्धा यथा पूर्वं तथैव च  ।

वयमेकाकिनो दग्धा वृक्षा इव हविर्भुजा  ॥ ६७.३८ ॥

राजप्रतिग्रहैर्दग्धा न प्ररोहन्ति मानवाः  ।

वैश्वानरेण दग्धानां पुनर्जन्म प्रजायते  ॥ ६७.३९ ॥

न माता न पिता पुत्रो द्रविणं न च बान्धवाः  ।

यमदूतैर्गृहीतानां धर्म एकः सहानुगः  ॥ ६७.४० ॥

शोचित्वा सुचिरं कालं भार्यापुत्रविवर्जिताः  ।

भ्रमित्वा च महीं सर्वां पुष्करं तीर्थमागताः  ॥ ६७.४१ ॥

प्रेतरूपान्मुनीन् दृष्ट्वा विषादं परमं गतः  ।

तानुवाच मुनिश्रेष्ठः कथं प्रेतत्वमागताः  ॥ ६७.४२ ॥

 

प्रेता ऊचुः॒

हरिश्चन्द्रः सत्यधर्म सूर्यवंशे महीपतिः  ।

अयोध्याधिपतिः श्रीमान् देवतुल्यपराक्रमः  ॥ ६७.४३ ॥

तस्य प्रतिग्रहोऽस्माभिराप्तः सूर्यग्रहे स्थिते  ।

तेन प्रेतत्वमापन्नाः सर्वे ब्रह्मर्षयो मुने  ॥ ६७.४४ ॥

एतत्ते कथितं ब्रह्मन्मोक्षोऽस्माकं विधीयताम्  ।

भविष्यभूततत्त्वज्ञो ब्रह्मपुत्रस्तपोनिधिः  ॥ ६७.४५ ॥

उवाच वचनं श्रीमान्नारदस्तांस्तपोधनान्  ।

कस्मिन्नवसरे पुण्ये कार्त्तिक्यां दिव्यपर्वणि  ॥ ६७.४६ ॥

शिवेन कीर्तितं पूर्वं पार्वत्याः षण्मुखस्य च  ।

श्रुतं मयापि तत्रैव पुराणं स्कन्दकीर्तितम्  ॥ ६७.४७ ॥

कान्या पापक्षयं कर्तुं शक्ता रेवां विना नृप  ।

गङ्गाद्याः सरितो विप्राः पुण्यतीर्थास्तथापि च  ॥ ६७.४८ ॥

वागीशं च पुरं तत्र नर्मदातटमाश्रितम्  ।

अध्वरे ब्रह्मदत्तस्य मोक्षणं तु भविष्यति  ॥ ६७.४९ ॥

उद्देशं तु ततो दत्त्वा नारदस्त्रिदिवं गतः  ।

तेऽपि प्रेता महाभाग ध्यात्वा शिवमुमापतिम्  ॥ ६७.५० ॥

अभिजग्मुस्तमुद्देशं वागीशपुरमुत्तमम्  ।

तत्र स्नात्वाभ्यर्च्य शिवं हरिं भास्करमेव च  ॥ ६७.५१ ॥

अध्वरे ब्रह्मदत्तस्य मुक्ताः सर्वेऽपि किल्बिषात् ।

ब्रह्मयानं समारुह्य ब्रह्मलोकं समागताः  ॥ ६७.५२ ॥

प्रतपन्ति यथादित्या ब्रह्मतेजोवपुर्धराः  ।

तस्योपरि नरेशस्य पुष्पवृष्टिः पपात वै  ॥ ६७.५३ ॥

एतत्ते कथितं राजन् यथावृत्तं पुरातनम्  ।

श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ६७.५४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे वागीश्वराख्यान नाम सप्तषष्टितमोऽध्यायः ॥

 

 

अध्याय ६८

 

मार्कण्डेय उवाच –

प्रतिग्रहग्रहग्रस्ता लोभमोहविमोहिताः  ।

मज्जन्ति नरके घोरे यत्र गत्वा न निर्गताः  ॥ ६८.१ ॥

सफला वेदयज्ञाश्च तीर्थयात्रा च भारत  ।

तथा क्लिश्यन्ति चात्मानं प्रतिग्रहपरा नराः  ॥ ६८.२ ॥

दाता च याचकश्चैव कराभ्यामेव सूचितौ  ।

अथो गच्छेद्ग्रहीता तु दाता गच्छति चोर्द्ध्वतः  ॥ ६८.३ ॥

सहस्रावर्तकं नाम तीर्थं पापप्रणाशनम्  ।

तत्र स्नातस्य विधिवद्वृषोत्सर्गफलं भवेत् ॥ ६८.४ ॥

आसप्तमं कुलं चैव पुनीते नाऽत्र संशयः  ।

रेवाया उत्तरे कूले सहस्रायुधसंख्यया  ॥ ६८.५ ॥

ततश्चान्ते महाभाग काराया वनमुत्तमम्  ।

अग्निष्टोमफलं यत्र स्नात्वा स्वर्गं च गच्छति  ॥ ६८.६ ॥

रेवाया उत्तरे भागे तीर्थ परमशोभनम्  ।

सौगन्धिकं वनं नाम ब्रह्मचारिशुचिव्रताः  ॥ ६८.७ ॥

सिषिचुः पितरस्तत्तु ब्रह्माद्याः सुतपोधनाः  ।

सिद्धचारणगन्धर्वाः सकिन्नरमहोरगाः  ॥ ६८.८ ॥

प्रविश्य तद्वनं मर्त्यः सर्वपापात्प्रमुच्यते  ।

ततः सरस्वती चास्ति नदीनामुत्तमा नदी  ॥ ६८.९ ॥

लक्ष्या देवसुता राजन्महापुण्या प्रकीर्तिता  ।

तत्र स्नानं प्रकुर्वीत मानवो नृपते जले  ॥ ६८.१० ॥

तर्पयित्वा पितॄन् देवानश्वमेधफलं लभेत् ।

ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम्  ॥ ६८.११ ॥

तत्र स्नात्वा व्यतीपाते संक्रान्तौ ग्रहणे नरः  ।

सहस्रकपिलादाने वाजिमेधे च यत्फलम्  ॥ ६८.१२ ॥

सुगन्धां छातकुम्भाश्च पञ्चयज्ञांश्च भारत  ।

अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते  ॥ ६८.१३ ॥

त्रिशूलाख्यं तु तत्रैव तीर्थमासाद्य भारत  ।

तत्राभिषेकं यः कुर्यादर्चयेत्पितृदैवतम्  ॥ ६८.१४ ॥

गणेशत्वं स लभते त्यक्त्वा देहं न संशयः  ।

ततो गच्छेन्महाराज ब्रह्मस्थानमनुत्तमम्  ॥ ६८.१५ ॥

रेवाया उत्तरे कूले कामभोगफलप्रदम्  ।

ब्रह्मोदमिति विख्यातं प्रकाश्यं भुवि भारत  ॥ ६८.१६ ॥

तत्र सप्तर्षयः प्राप्ताः स्नानार्थं भरतर्षभ  ।

कपिञ्जलो मुनिश्रेष्ठो हव्यवाहश्च भारत  ॥ ६८.१७ ॥

भगवान् देवयानश्च विश्वावसुमहामुनिः  ।

अस्य तीर्थस्य माहात्म्याद्ब्रह्मलोकमवाप्नुयुः  ॥ ६८.१८ ॥

पितरः श्राद्धदानेन प्रयाता ब्रह्मणः पुरम्  ।

उदुम्बरस्य कृत्वा तु विधिवद्दर्शनं ततः  ॥ ६८.१९ ॥

अन्तर्द्धानमवाप्नोति तपसा दग्धकिल्बिषः  ।

ततो गच्छेन्महाराज शङ्करं लोकशङ्करम्  ॥ ६८.२० ॥

कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम्  ।

लभते सर्वकामांश्च स्वर्गलोकं हि गच्छति  ॥ ६८.२१ ॥

नर्मदायाम्यभागे तु गोप्याद्गोप्यतर महत् ।

सिद्धलिङ्गं मणिमयं न तत्पश्यन्ति मानवाः  ॥ ६८.२२ ॥

नागेन्द्रसुरसिद्धैश्च नागकन्याभिरर्च्यते  ।

सपादकोटिस्तीर्थानां शङ्करे कुरुनन्दन  ॥ ६८.२३ ॥

वसूनामाश्रमं पुण्यं मुनीनां ब्रह्मचारिणाम्  ।

शिवभक्तिपराणांच कन्दमूलफलाशिनाम्  ॥ ६८.२४ ॥

पितॄणामक्षया तृप्तिस्तिलतोयप्रदानतः  ।

मुदा परमया युक्तो दाता याति शिवालयम्  ॥ ६८.२५ ॥

ध्रुवो धरश्च सोमश्च सावित्रश्चानलोऽनिलः  ।

प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिता  ॥ ६८.२६ ॥

शङ्करस्य प्रसादेन दिवि देवत्वमागताः  ।

कल्पगासौम्यभागे तु सोमतीर्थमनुत्तमम्  ॥ ६८.२७ ॥

तत्र स्नात्वा नरो राजन् स्वर्गलोके महीयते  ।

सप्तसारस्वतं तीर्थं ततो गच्छेन्नृपोत्तम  ॥ ६८.२८ ॥

ब्रह्मणा च कृतं स्तोत्रं पुण्यकीर्ते निशामय  ।

 

ब्रह्मोवाचा॒

वाक्पतिर्वचसां नित्यं वासुदेवोऽस्तु मे गतिः  ॥ ६८.२९ ॥

हंसः सुरेशो वक्ता वा वसूनामन्तरा वसन्  ।

होता दिविषदीशानो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३० ॥

स्वाहाकारः स्वधाकारो वषट्कारो हविष्यभुक् ।

ऋङ्मूर्तिर्यजुषां मूर्तिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३१ ॥

क्षेत्रज्ञः परमः सूक्ष्मो जगतां तारको हरिः  ।

ईश्वरो हृदयावासो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३२ ॥

श्रवण्यः श्रवणोपायः पुण्यश्लोकः शुचिश्रवाः  ।

वरदो वासुदेवोऽग्निर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३३ ॥

पुरुषः पुण्डरीकाक्षः पुराणो भुवनेश्वरः  ।

आदित्यान्तर्गतो वह्णिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३४ ॥

कंसकालियहन्ता च सुबलो बलमर्दनः  ।

शिशुपालनिहन्ताऽग्निर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३५ ॥

कालनेमिनिहन्ताऽग्निर्यः काले नियतान्तकः  ।

शतासुरशरीरघ्नो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३६ ॥

कङ्कासुरनिहन्ता च मधुकैटभनाशनः  ।

शङ्खचक्रगदापाणिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.३७ ॥

शुक्लः सलिलशायी च विष्णुः पापक्षयाह्वयः  ।

इन्द्रो वचनसत्पालो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३८ ॥

हृषीकेशश्चेन्द्रपालोपेन्द्रो गरुडासनः  ।

सहस्रनामा धर्मज्ञो वासुदेवोऽस्तु मे गतिः  ॥ ६८.३९ ॥

शङ्खी च नन्दकी चक्री शार्ङ्गधन्वा गदाधरः  ।

धीरो वपुष्मान्मेधावी वासुदेवोऽस्तु मे गतिः  ॥ ६८.४० ॥

बृहत्संकर्षणः शम्भुः स्वयम्भूर्भूतभावनः  ।

निपुणो लक्षणः शुद्धो वासुदेवोऽस्तु मे गतिः  ॥ ६८.४१ ॥

त्रैकालिकस्त्रिकालज्ञस्त्रयी कर्ता त्रिलोचनः  ।

त्रिसामा देवकीसूनुर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.४२ ॥

अव्यक्तात्मा महात्मा च अन्तरात्मा जनार्दनः  ।

प्राणश्चेन्द्रियभूतात्मा वासुदेवोऽस्तु मे गतिः  ॥ ६८.४३ ॥

परमात्मा परं ब्रह्म परमेशः परा गतिः  ।

परमेष्ठी परं ज्योतिर्वासुदेवोऽस्तु मे गतिः  ॥ ६८.४४ ॥

विश्वात्मा विश्वकर्ता च विश्वस्य पतिरात्मवान्  ।

द्यावापृथिव्योः कर्ता च वासुदेवोऽस्तु मे गतिः  ॥ ६८.४५ ॥

सहस्रशीर्षा भगवान् सहस्राक्षः सहस्रपात् ।

सहस्रकोटिधारी वा वासुदेवोऽस्तु मे गतिः  ॥ ६८.४६ ॥

इति वागीश्वरो वाग्मी पूजितः परमेश्वरः  ।

भक्तस्य भगवान् विष्णुः प्रीयतां मे जनार्दनः  ॥ ६८.४७ ॥

जन्मप्रभृति यत्किंचिन्मया सुकृतमर्जितम्  ।

तत्समग्रं फलं चास्तु शाश्वतं पुरुषोत्तम  ॥ ६८.४८ ॥

इदमभ्यस्यतो नित्यं पूजितः स्यात्सकेशवः  ।

विनाशयति पापानि प्रकाशयति तत्फलम्  ॥ ६८.४९ ॥

एष निष्कण्टकः पन्था यत्र सम्पूज्यते हरिः  ।

कुपथं तं विजानीयाद्यत्र नाराध्यते हरिः  ॥ ६८.५० ॥

वासुदेवपरा वेदा सुदेवपराक्रिया  ।

वासुदेवात्मका विप्रा वासुदेवपराश्रयः  ॥ ६८.५१ ॥

सर्वे देवा वासुदेवं यजन्ते सर्वे देवा वासुदेवात्प्रसूताः  ।

सर्वेषां वा वासुदेवोऽपि देवो नान्यत्किंचिदवासुदेवातिरिक्तम्  ॥ ६८.५२ ॥

नान्यः पुण्यतरो देवो नास्ति विष्णुपरं तपः  ।

नास्ति विष्णुपरं ज्ञानं सर्वं विष्णुमयं जगत् ॥ ६८.५३ ॥

ये पठन्ति नरा भक्त्या विष्णुनामाङ्कितस्तवम्  ।

ते यान्ति वैष्णवं लोकं परं ब्रह्म सनातनम्  ॥ ६८.५४ ॥

 

मार्कण्डेय उवाच –

श्रुत्वा स्तोत्रमिदं देवो ब्रह्मणः समहात्मनः  ।

श्रिया प्रबोधितः कृष्णः शयानो योगनिद्रया  ॥ ६८.५५ ॥

दृष्ट्वाऽब्रवीत्सुरान् सर्वान्नानारूपान् भयानकान्  ।

किमस्ति वः समुत्पन्नं मां दिदृक्षुरिहागताः  ॥ ६८.५६ ॥

उवाच वचनं ब्रह्मा केशवं प्रति भारत  ।

त्वां विनात्र जगन्नाथ कस्त्राता देवकण्टकैः  ॥ ६८.५७ ॥

दानवैर्वेष्टिता धात्री स्वर्गश्चैव विनाशितः  ।

धर्मकामादिका यज्ञा वेदा विप्लावितास्तथा  ॥ ६८.५८ ॥

दनुभारभराक्रान्ता रसातततलं गता  ।

जटासुरश्च जाबालिर्दैत्यो मयसुतस्तथा  ॥ ६८.५९ ॥

दशकोट्यस्तु दैत्यानां समग्रबलशालिनाम्  ।

शिवप्रसादयुक्तानां स्वर्गविप्लवकारिणाम्  ॥ ६८.६० ॥

तस्मात्प्रवर्तितं चक्रमुद्धर स्ववसुन्धराम्  ।

श्रुत्वा वाक्यमिदं देवो भयार्तं प्राणपीडितम्  ॥ ६८.६१ ॥

उवाच वचनं देवो भयं त्यजत दैत्यजम्  ।

अचिरेणैव कालेन हनिष्यामि महासुरान्  ॥ ६८.६२ ॥

वाराहरूपमास्थाय प्रेषितं कल्पगाजले  ।

दंष्ट्राग्रेण धृता धात्री दानवानां क्षयः कृतः  ॥ ६८.६३ ॥

पुनः प्रवर्तिता सृष्टिर्यथापूर्वं तथैव च  ।

ब्रह्माद्या मुदिता देवाः प्रतिजग्मुस्त्रिविष्टपम्  ॥ ६८.६४ ॥

एतत्ते कथितं राजन् वाराहं कल्पगातटे  ।

श्रवणात्कीर्तनादस्य हयमेधफलं लभेत् ॥ ६८.६५ ॥

इति श्रीस्कन्दपुराणे रेवाखण्डे वाराहमहिमानुवर्णनो नामाष्टषष्टितमोऽध्यायः ॥

 

 

अध्याय ६९

 

मार्कण्डेय उवाच –

ततो देवपथं तीर्थं सर्वदेवमयं शुभम्  ।

तत्र स्नातश्च विधिवत्सर्वयज्ञफलं लभेत् ॥ ६९.१ ॥

मासे मासे कुशाग्रेण सोमयागं करोति यः  ।

स रेवाजलपूतस्य कलां नार्हति षोडशीम्  ॥ ६९.२ ॥

लिङ्गं देवपथं नाम सुरासुरनमस्कृतम्  ।

श्रद्धया तद्दर्शनेन पितॄणां परमा गतिः  ॥ ६९.३ ॥

चैत्रे मासे चतुर्दश्या पक्षयोरुभयोरपि  ।

स्नानार्थं सर्वतीर्थानि जग्मुः कर्तुं च सत्क्रियाम्  ॥ ६९.४ ॥

यद्देवलोके देवानामीप्सितं च नृपध्वज  ।

सहस्राणि मुनीन्द्राणां तस्मिंश्शिवमुपासते  ॥ ६९.५ ॥

चान्द्रायणपराः केचिद्ब्रह्मकूर्चपरास्तथा  ।

कन्दमूलफलाहारा जलाहारा जलप्रियाः  ॥ ६९.६ ॥

अग्निहोत्रपरा नित्यं तथा हुतहुताशनाः  ।

उपासते देवपथं संसिद्धिं परमां गताः  ॥ ६९.७ ॥

अथान्यत्संप्रवक्ष्यामि तीर्थं पापप्रणाशनम्  ।

सहस्रयज्ञं परमं सर्वकामफलप्रदम्  ॥ ६९.८ ॥

एकादश्यां मार्गशीर्षे पूजयित्वा जनार्दनम्  ।

सहस्रयज्ञस्येष्टस्य फलं प्राप्नोति मानवः  ॥ ६९.९ ॥

न पश्येद्यमलोकं च तिर्यग्योनिं न गच्छति  ।

तीर्थस्यास्य प्रभावेण नरो विगतकल्मषः  ॥ ६९.१० ॥

एतत्ते कथितं राजन् पुण्याख्यानमनुत्तमम्  ।

श्रवणात्कीर्तनादस्य विष्णुलोके महीयते  ॥ ६९.११ ॥

शुक्लतीर्थं ततो गच्छेत्सर्वतीर्थमयं शुभम्  ।

यत्र स्नातोऽपि लभते दशधेनुफलं नरः  ॥ ६९.१२ ॥

शुक्लीकृतास्तेन देवा ब्रह्मविष्णुमहेश्वराः  ।

सपादकोटिस्तीर्थानां शुक्लतीर्थे व्यवस्थिता  ॥ ६९.१३ ॥

अष्टहस्तप्रमाणं च शुक्लतीर्थं युधिष्ठिर  ।

तत्र कालाग्निरुद्रश्च श्रीकण्ठश्च तथा परः  ॥ ६९.१४ ॥

तैस्तैस्तपोभिरुग्रैश्च तत्र सिद्धिं परा गताः  ।

शुक्लतीर्थप्रभावेण मोदन्ते दिवि देवताः  ॥ ६९.१५ ॥

शक्रोऽपि च पुराध्यक्षं देवदेवमुमापतिम्  ।

रेवातोयेन संस्नाप्य बिल्वपत्रैः समार्चयत् ॥ ६९.१६ ॥

पौर्णमास्याममावस्यां सोमः सूर्यः प्रभावतीम्  ।

तत्र स्नातो ग्रहैः सार्द्धं नक्षत्रध्रुवमण्डलैः  ॥ ६९.१७ ॥

तेन देवाश्च दीव्यन्ते शुक्लतीर्थप्रभावतः  ।

कश्यपस्याश्रमं पुण्यं सुरसिद्धनिषेवितम्  ॥ ६९.१८ ॥

मुनीनामयुतं तत्र स्वयं तिष्ठति भारत  ।

कन्दमूलफलाहारा जलाहारास्तथा परे  ॥ ६९.१९ ॥

शाकाहारा निराहारा ब्रह्मकूर्चास्तथा परे  ।

चान्द्रायणपराः केचिदन्ये मासोपवासिनः  ॥ ६९.२० ॥

ऋषिकोट्यस्त्रयस्त्रिंशच्छुक्लेश्वरमुपासते  ।

राहुग्रस्ते तथा चन्द्रे पौर्णमास्यां तिथौ तथा  ॥ ६९.२१ ॥

आयान्ति सर्वतीर्थानि स्नातुमेतच्छिवोदितम्  ।

स्थानेश्वरे यत्फलं स्याद्राहुसूर्यसमागमे  ॥ ६९.२२ ॥

तत्फलं प्राप्नुयात्सर्वं शुक्लतीर्थे न संशयः  ।

हेमधेनुधरादीनि रूप्यदा गजदास्तथा  ॥ ६९.२३ ॥

एतद्दत्त्वा महाराज पुण्यसंख्या न विद्यते  ।

धनदेन कुबेरेण देवगन्धर्वदानवैः  ॥ ६९.२४ ॥

राहुसूर्यसमायोगे शुक्लतीर्थे महेश्वरः  ।

चन्दनागुरुकर्पूरपुष्पमालाभिरर्चितः  ॥ ६९.२५ ॥

वितानध्वजमुख्यैश्च दीपमालाप्रबोधनैः  ।

अस्य तीर्थप्रभावेण यक्षराजो धनेश्वरः  ॥ ६९.२६ ॥

भोगा नानाविधास्तेन सम्प्राप्ता दिवि देवताः  ।

सर्वतीर्थमयं तीर्थं सर्वदेवमयं च यत् ॥ ६९.२७ ॥

अपि वर्षसहस्रेण शुक्लतीर्थस्य वर्णनम्  ।

न शक्यते सुरैः कर्तुं पुराणे स्कन्दकीर्तिते  ॥ ६९.२८ ॥

पापयोनिगतो यश्च तिर्यग्योनिगतश्च यः  ।

ब्रह्महा च सुरापश्च शिवनिर्माल्यभक्षकः  ॥ ६९.२९ ॥

मुच्यते तेन पापेन तीर्थस्यास्य प्रभावतः  ।

तत्र स्नानं नरः कृत्वा पूजयित्वा वृषध्वजम्  ॥ ६९.३० ॥

सुरासुरगणैः सर्वैः पूज्यते नरसत्तम  ।

एतत्ते कथितं राजन्महापातकनाशनम्  ॥ ६९.३१ ॥

पितामहेन यत्रेष्टो यज्ञे यज्ञेश्वरः पुरा  ।

स्तोत्रं कृत्वा यथा न्यायं देवदेवस्य शूलिनः  ॥ ६९.३२ ॥

पूजयित्वा तु शुक्लेशं ब्रह्मा स्तोत्रमुदाहरत् ।

नमः शिवाय शान्ताय ज्ञानविज्ञानरूपिणे  ॥ ६९.३३ ॥

सूक्ष्माय सूक्ष्मरूपाय सर्वसूक्ष्माय हेतवे  ।

सूक्ष्माणामपि सूक्ष्माय नमः सूक्ष्मतमाय च  ॥ ६९.३४ ॥

दिव्याय दिव्यरूपाय दिव्यदेहाय सेतवे  ।

दिव्यानामपि दिव्याय नमो दिव्यतमाय च  ॥ ६९.३५ ॥

व्योमप्रभाय भावाय अघोराय नमो नमः  ।

व्योमप्रमाणधामाय वामेशाय नमो नमः  ॥ ६९.३६ ॥

पराय परमेशाय पारमार्थिकहेतवे  ।

पराय परमुक्ताय नमः परतराय च  ॥ ६९.३७ ॥

एकजिह्वद्विजह्वाय बहुजिह्वाय ते नमः  ।

तथैवासंख्यजिह्वाय त्रिणेत्राय नमो नमः  ॥ ६९.३८ ॥

पूज्याय पूज्यपूज्याय सर्वपूज्यैकहेतवे  ।

नित्यायानित्यरूपाय नित्यनित्यैकहेतवे  ॥ ६९.३९ ॥

नित्यानामपि नित्याय नमो नित्यतमाय च  ।

शक्ताय शक्तिरूपाय सर्वशक्त्येकहेतवे  ॥ ६९.४० ॥

शक्तानामपि शक्ताय नमः शक्ततमाय च  ।

शुद्धाय सर्वशुद्धाय सर्वशुद्ध्येकहेतवे  ॥ ६९.४१ ॥

कालाय कालरूपाय सर्वकालैकहेतवे  ।

कालानामपि कालाय नमः कालतमाय ते  ॥ ६९.४२ ॥

सर्वमन्त्रशरीराय सर्वमन्त्रैकहेतवे  ।

मन्त्राणामपि मन्त्राय नमो मन्त्रतमाय च  ॥ ६९.४३ ॥

अप्रमेयमहेशाय ईशानाय नमो नमः  ।

योगाय योगरूपाय योगपुरुष ते नमः  ॥ ६९.४४ ॥

एककण्ठद्विकण्ठाय बहुकण्ठाय ते नमः  ।

असंख्यकण्ठयुक्ताय नीलकण्ठाय ते नमः  ॥ ६९.४५ ॥

अनन्ताय महेशाय हर्त्रे कर्त्रे नमोऽस्तु ते  ।

नमस्तेऽस्तु महादेव नमस्तेऽस्तु सदाशिव  ॥ ६९.४६ ॥

नमस्तेऽस्तु महाशुद्ध नमस्तुभ्यं नमो नमः  ।

नमो भस्माङ्गरागाय नमः खट्वाङ्गधारिणे  ॥ ६९.४७ ॥

सर्वात्मने नमस्तुभ्यं विश्वेशाय नमो नमः  ।

सर्वज्ञाय नमस्तुभ्यं सनाथाय नमो नमः  ॥ ६९.४८ ॥

अव्यक्ताय नमस्तुभ्यं शाश्वताय नमो नमः  ।

कैलासवासिने तुभ्यं नमः पातालवासिने  ॥ ६९.४९ ॥

त्वया व्याप्तमिदं सर्वं लोकालोकं चराचरम्  ।

अपि वर्षसहस्रेण कः स्तोतुं शक्तिमान् भवेत् ॥ ६९.५० ॥

इति स्तवेन दिव्येन यः स्तौति परमेश्वरम्  ।

विधूय सर्वपापानि रुद्रलोके महीयते  ॥ ६९.५१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शम्भुस्तुतिर्नामैकोनसप्ततितमोऽध्यायः ॥

 

अध्याय ७०

 

युधिष्ठिर उवाच –

किमर्थं संस्तुतो देवो ब्रह्मणा तेन तत्र वै  ।

शुक्लतीर्थमिदं कस्मादास्ते यत्र महेश्वरः  ॥ ७०.१ ॥

एतत्सर्वं समाख्याहि पृच्छतो मे महामुने  ।

 

मार्कण्डेय उवाच –

शृणु राजन् कथां दिव्यां स्वर्गार्हण्यामनुत्तमाम्  ॥ ७०.२ ॥

यां श्रुत्वा सर्वपापेभ्यस्तीर्थस्नानेन मुच्यते  ।

ययातिर्नाम धर्मात्मा सत्यधर्मपरायणः  ॥ ७०.३ ॥

चक्रवर्ती नृपश्रेष्ठः सर्वधर्मभृतां वरः  ।

इयाज स महायज्ञैः शतक्रतुरिवापरः  ॥ ७०.४ ॥

नदी मधुमती पुण्या रेवया यत्र सङ्गता  ।

यत्र यज्ञः समारब्ध ऋत्विग्भिर्ब्राह्मणैः सह  ॥ ७०.५ ॥

मध्येश्वरं यत्र लिङ्गं स्वयंदेवो महेश्वरः  ।

तत्र स्नाता दिवं यान्ति ये मृता न पुनर्भवाः  ॥ ७०.६ ॥

चक्रेण विष्णुना तत्र घातितौ मधुकैटभौ  ।

अर्चनात्तस्य देवस्य गोसहस्रफलं लभेत् ॥ ७०.७ ॥

तिलतोयप्रदानेन पिण्डदानेन भारत  ।

पितरस्तस्य तृप्यन्ति यावदिन्द्राश्चतुर्दश  ॥ ७०.८ ॥

तत्र यज्ञः समारब्धो हरिशङ्करवर्जितः  ।

जटासुरस्तत्र दैत्यश्छिद्रं दृष्ट्वा समागतः  ॥ ७०.९ ॥

ततोविध्वंसितो यज्ञो दानवैर्बलदर्पितैः  ।

यज्ञयूपा यज्ञपात्रं दश दिक्षु निपातिताः  ॥ ७०.१० ॥

भुक्तो हुतपुरोडाशः सोमपानं च तैः कृतम्  ।

प्रणष्टा देवताः सर्वा दानवानां भयेन च  ॥ ७०.११ ॥

अष्टोत्तरशतं देवा मृगरूपेण निर्गताः  ।

धनदो यक्षरूपेण प्रणष्टः स्वपुरीं गतः  ॥ ७०.१२ ॥

महिषारूढो धर्मराजो गजारूढश्शतक्रतुः  ।

मेषारूढो हव्यवाहो निर्गता व्रतमास्थिताः  ॥ ७०.१३ ॥

वरुणश्च समायातः प्रणष्टः स्वपुरीं गतः  ।

मकरासनमारूढो वायुश्च मृगमाश्रितः  ॥ ७०.१४ ॥

ईशान ईशरूपेण वृषारूढः पलायितः  ।

अस्त्राणि लोकपालानां हृतानि दनुसम्भवैः  ॥ ७०.१५ ॥

एकाकी यानमारुह्य कथं यामि स्त्रिया सह  ।

चिन्तयित्वा नृपश्रेष्ठश्चास्त्रं जग्राह भारत  ॥ ७०.१६ ॥

तिष्ठ तिष्ठेति चोक्त्वा वै दैत्यसिंह दुरासदम्  ।

न क्षत्रकुलसंजाता जातु दृष्ट्वा पलायिताः  ॥ ७०.१७ ॥

दश द्वादशवर्षाणि विमुखास्तव पूर्वजाः  ।

न चात्राह्वानितो रुद्रो रुद्र भागो न कल्पितः  ॥ ७०.१८ ॥

यज्ञेऽस्मिन् यज्ञपुरुषो नाहूतो भगवान् हरिः  ।

तेन दोषेण मे यज्ञो दानवैश्च विनाशितः  ॥ ७०.१९ ॥

एवमुक्त्वा नृपश्रेष्ठो रुद्रं ध्यात्वा महेश्वरम्  ।

रौद्ररूपं समास्थाय ज्याघोषं घोषरूपिणम्  ॥ ७०.२० ॥

जग्राह कोपान्निस्त्रिंशं निजघान च दानवान्  ।

आहूताश्च पुनर्देवाः सर्वे ब्रह्मपुरोगमाः  ॥ ७०.२१ ॥

ऊचुस्ते वचनं देवा राजानं प्रति भारत  ।

त्वया समोऽत्र राजर्षे न भूतो न भविष्यति  ॥ ७०.२२ ॥

देवानां वचनं श्रुत्वा ययातिर्वाक्यमब्रवीत् ।

पुनः प्रवर्तितो यज्ञो हरविष्णुप्रसादतः  ॥ ७०.२३ ॥

युक्तं पलायनं चात्र क्षत्रियस्य न विद्यते  ।

स्तुतस्तु तेन कार्येण शूलपाणिः पिनाकधृक् ॥ ७०.२४ ॥

पातालादुत्थितं तत्र लिङ्गं कालानलप्रभम्  ।

शुक्लीकृतं जगत्सर्वं प्रभया तस्य भारत  ॥ ७०.२५ ॥

वरं वृणीष्व भद्रं ते तमुवाच वृषध्वजः  ।

 

ययातिरुवाच –

यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि  ॥ ७०.२६ ॥

इदं स्थानं न मोक्तव्यमुमया सह शङ्कर  ।

यज्ञदानादिकं सर्वमक्षयं चात्र सर्वदा  ॥ ७०.२७ ॥

तपोहीना नरा ये च दानहीनाः सकिल्बिषाः  ।

ते सर्वे त्वत्पुरं यान्तु शुक्लतीर्थप्रभावतः  ॥ ७०.२८ ॥

तमुवाच महादेवः सत्यमेतत्तवोदितम्  ।

यं यं कामयते कामं तं तं प्राप्नोति मानवः  ॥ ७०.२९ ॥

अस्य तीर्थस्य महात्म्याल्लिङ्गस्यास्य समर्चनात् ।

नरकं नैव पश्यन्ति जन्मजन्मनि भारत  ॥ ७०.३० ॥

एतत्ते कथितं राजन् यथा स्कन्दशिवोदितम्  ।

तत्र ये निहता दैत्याः प्राप्तास्तेऽपि शिवालयम्  ॥ ७०.३१ ॥

स्वं स्वं यानं समारूढा ययुर्देवास्त्रिविष्टपम्  ।

मुदा परमया युक्तः स्तूयमानो नृपोत्तमः  ॥ ७०.३२ ॥

ययातिर्नाम राजर्षी राज्यं कृत्वा दिवं गतः  ।

श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ७०.३३ ॥

 

 

अध्याय ७१

 

मार्कण्डेय उवाच –

दीप्तकेश्वरदेवेशं सिद्धलिङ्गं प्रकीर्तितम्  ।

नातः परतरं किंचित्त्रिषु लोकेषु विश्रुतम्  ॥ ७१.१ ॥

दर्शनाद्दीप्तदेवस्य स्पर्शनादर्चनात्तथा  ।

अनेकभाविकं घोरं क्षणमात्रेण नश्यति  ॥ ७१.२ ॥

अर्चयेद्दिनमेकं तु यो मुहूर्तं तु मानवः  ।

न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ ७१.३ ॥

मोक्षदा नाम चामुण्डा विद्धि गौरीं सरस्वतीम्  ।

स्तुतः सहस्रनाम्ना वै विष्णुना ब्रह्मणा स्वयम्  ॥ ७१.४ ॥

स्तुतानि तानि लिङ्गानि रेवाया उत्तरे तटे  ।

ओंकारश्चाधिदेवश्च बिल्वाम्रकमहेश्वरः  ॥ ७१.५ ॥

शुक्लेश्वरो भृगुश्चेति द्वीपेश्वरत्रिलोचनौ  ।

वैवस्वतेऽन्तरे प्राप्ते आदिकल्पेकृतेयुगे  ॥ ७१.६ ॥

श्रीपतिः परमाद्यश्च द्वितीयश्च पितामहः  ।

तृतीयो देवराजश्च चतुर्थः सूर्य एव च  ॥ ७१.७ ॥

पञ्चमः कथितः सोमः षष्ठो राहुः प्रकीर्तितः  ।

सप्तमश्च शनिश्चैव त्वष्टमः केतुकः स्मृतः  ॥ ७१.८ ॥

वैश्वानरश्च नवमो दशमश्च दिगीश्वरः  ।

एकादशो वैक्रमश्च द्वादशो वारुणस्तथा  ॥ ७१.९ ॥

त्रयोदशश्च वायुर्वै धनदश्च चतुर्दशः  ।

नाना पदप्रकारेण स्तुतो देव उमापतिः  ॥ ७१.१० ॥

विष्णुना देवनाथेन ब्रह्मणा च सुरासुरैः  ।

स्थिरः स्थाणुः प्रभाभानुः प्रवरो वरदो वरः  ॥ ७१.११ ॥

हरिश्च हरिणाख्यश्च सर्वभूतहरः प्रभुः  ।

प्रवृत्तिश्च निवृत्तिश्च नियमः शाश्वतो ध्रुवः  ॥ ७१.१२ ॥

श्मशानवासी भगवान् खेचरो गोचरस्तथा  ।

अभिवन्द्यो महाकर्मा तपस्वी भूतभावनः  ॥ ७१.१३ ॥

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः  ।

महारूपो महाकायः सर्वलोकप्रजापतिः  ॥ ७१.१४ ॥

परात्मा सर्वभूतानां विरूपो वामनो मनुः  ।

लोकपालो पिहितात्मा प्रसन्नो भवनाशनः  ॥ ७१.१५ ॥

प्रवृत्तश्च महाङ्गश्च निचयो नियताश्रयः  ।

सर्वकामः स्वयम्भूश्च आदिनादिकरो निधिः  ॥ ७१.१६ ॥

सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः  ।

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः  ॥ ७१.१७ ॥

तपोद्रष्टा बलः स्थातुर्मृगबाणार्पणोऽनघः  ।

महातपा दीर्घतपा आदिर्दीनानुकम्पनः  ॥ ७१.१८ ॥

सवत्सरकरो मन्त्रः प्रमाणं परमं तपः  ।

योगी योगमहावीर्यो महारेता हरो हरः  ॥ ७१.१९ ॥

महाचेताश्च सर्वज्ञः सबीजोऽपहरो हरः  ।

कमण्डलुधरो धन्वी प्राणहस्तः प्रतापवान्  ॥ ७१.२० ॥

अंशोऽनीशस्तथा शूली खट्वाङ्गी पट्टिशी तथा  ।

शुचिश्च शुचिरूपश्च तेजस्तेजस्करो निधिः  ॥ ७१.२१ ॥

उष्णीषी च सुवक्त्राश्च उदक्यो वितनस्तथा  ।

हरिश्च हरिनेत्रश्च सुतीर्थः कृष्ण एव च  ॥ ७१.२२ ॥

शृगालरूपी सर्वार्थः शुण्डीशुद्धः कमण्डलुः  ।

अजश्च गन्धमाली च मृगरूपी कपालभृत् ॥ ७१.२३ ॥

ऊर्ध्वरेता ऊर्ध्वसाक्षी ऊर्ध्वबाहुर्नभः स्थलः  ।

त्रिजटी च निवासश्च रुद्रः सेनापतिर्विभुः  ॥ ७१.२४ ॥

अहश्चरो रात्रिचरः सुवासश्च दिशाम्पतिः  ।

राजहा दैत्यहा चैव धातारूपगुणात्मकः  ॥ ७१.२५ ॥

सिंहशार्दूलरूपश्च आर्द्रचर्मधरो हरः  ।

कालयोगी महानादः सर्ववासश्चतुष्पथः  ॥ ७१.२६ ॥

दुर्वारप्रेतचारी च भूतचारी महेश्वरः  ।

बहुभूतो बहुधनः सर्वार्थो रुचिरा गतिः  ॥ ७१.२७ ॥

नृत्यप्रियो नृत्यकर्ता नर्तकश्च बलाहकः  ।

घोरो महातपा वासो नित्यो गिरिधरो नभः  ॥ ७१.२८ ॥

सहस्रभूतो विज्ञेयो व्यवसायश्च निश्चयः  ।

अमर्षो मर्षणो दक्षो दक्षक्रतुविनाशनः  ॥ ७१.२९ ॥

दक्षयज्ञापहारी च सुमहो मध्यमस्तथा  ।

तेजोऽपहारी बलिहा मुदितश्चार्चितो भवः  ॥ ७१.३० ॥

गम्भीरघोषो गम्भीरो गभीरो हव्यवाहनः  ।

न्यग्रोधरूपो न्यग्रोधऋक्षवर्णः प्रभुर्विभुः  ॥ ७१.३१ ॥

तीक्ष्णबाणश्च हर्यक्षो महेशः कर्मकालवित् ।

दीक्षः प्रसादितो यज्ञः समुद्रो वडवानलः  ॥ ७१.३२ ॥

हुताशश्च हृताशास्यः प्रसन्नात्मा हृताशनः  ।

महातेजाः सुतेजाश्च विजयो जय एव च  ॥ ७१.३३ ॥

ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च  ।

शिखी दण्डी जटी ज्वाली मूर्तोदो दुर्बलो बहिः  ॥ ७१.३४ ॥

वैणवी पापवेतालः कालाग्निः कालदण्डकः  ।

नक्षत्रविग्रहो वृद्धिरजो गन्धवहोऽग्रजः  ॥ ७१.३५ ॥

प्रजापतिर्हरिर्बाहुर्विभागः सर्वतोमुखः  ।

विमोचनः सुरगणो हिरण्यकवचो भवः  ॥ ७१.३६ ॥

अरजो धूलिधारी च महाचारी श्रुतश्रवाः  ।

अनादिः सर्वभूतादिः सर्वस्याद्यः पिता गुरुः  ॥ ७१.३७ ॥

व्यालरूपो महावासी हीनमाली तरङ्गवित् ।

त्रिपदस्त्र्यम्बकोऽव्यक्तः सर्वबन्धविमोचकः  ॥ ७१.३८ ॥

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः  ।

प्रस्कन्दनो विभागश्च तुल्यो यज्ञविभागवित् ॥ ७१.३९ ॥

सर्ववासी सर्वचारी दुर्वासा भैरवो यमः  ।

हिमो हिमकरो यज्ञः सर्वधाता बुधोत्तमः  ॥ ७१.४० ॥

लोहिताक्षो महाक्षश्च विजयाख्यो विशारदः  ।

संग्रहो विग्रहः कर्म सर्प राजविभूषणः  ॥ ७१.४१ ॥

मुख्यो विमुक्तदेहश्च देहचारी च कर्दमः  ।

सर्वाचारः प्रसादश्च खेचरो बलरूपधृक् ॥ ७१.४२ ॥

आकाशवृत्तिरूपश्च निपात उरगः खलः  ।

रौद्ररूपः सुरादित्यो वसुरश्मिः सुवर्चसः  ॥ ७१.४३ ॥

वसुवेगो महावेगो मनोवेगो निशाचरः  ।

सर्वावासः श्रियावास आपदीशकलो हरः  ॥ ७१.४४ ॥

मुनिरात्मगतिर्लोकः सहस्रवदनो विभुः  ।

यक्षी च यक्षराजश्च श्येनो दीप्तिर्विशाम्पतिः  ॥ ७१.४५ ॥

उन्मदो मदनाकारोऽप्यर्थानर्थकरो महान्  ।

सिद्धयोगोऽपहारी च सिद्धः सर्वार्थसाधकः  ॥ ७१.४६ ॥

भिक्षुश्च भिक्षुरूपश्च विभुः षण्णां मृदुत्वचः  ।

महासेनो विशाखश्च यष्टिभागो गवाम्पतिः  ॥ ७१.४७ ॥

वज्रहस्तश्च विष्टम्भिर्विष्ठः स्तम्भन एव च  ।

ऋक्षो रिपुकरः कालो मधुर्मधुकलोचनः  ॥ ७१.४८ ॥

वाचस्पत्यो वाजसेनो नैष्ठश्चाश्रमसूचकः  ।

ब्रह्मचारी लोकचारी सर्वचारी सुरत्नवित् ॥ ७१.४९ ॥

ईशान ईश्वरः कालो निशाचारी त्वमेकधृक् ।

अमितश्चाप्रमेयश्च नदीनदकरोऽव्ययः  ॥ ७१.५० ॥

नन्दीश्वरः सुनन्दी च नन्दनो नन्दवर्द्धनः  ।

नागहारो विहारी च कालो ब्रह्मविदां वरः  ॥ ७१.५१ ॥

चतुर्मुखो महालिङ्गश्चतुर्लिङ्गस्तथैव च  ।

लिङ्गाध्यक्षः सुरध्यक्षो कालाध्यक्षो युगावहः  ॥ ७१.५२ ॥

उमापतिरुमाकान्तो जाह्नवी धृतिमान् वरः  ।

सर्वार्थः सर्वभूतार्थो नित्यः सर्वव्रतः शुचिः  ॥ ७१.५३ ॥

यो न ब्रह्मादिभिर्देवो जायते न महर्षिभिः  ।

स्तोतव्यः स कथं नाथ परमात्मा परात्परः  ॥ ७१.५४ ॥

जिह्वाचापल्यमस्माकं क्षमस्व परमेश्वर  ।

शिवं कुरुष्व देवानां स्वर्ग्याणां पुष्टिवर्धनम्  ॥ ७१.५५ ॥

 

मार्कण्डेय उवाच –

श्रुत्वा स्तोत्रमिदं देवः श्रीमान् द्वीपेश्वरः शिवः  ।

प्रसन्नब्रवीद्देवान् प्रार्थयध्वं वरं सुराः  ॥ ७१.५६ ॥

 

देवा ऊचुः॒

यदि तुष्टो महेशानो देवानां वरदः प्रभुः  ।

तद्विनाशाय दैत्यानां त्राता भव महेश्वर  ॥ ७१.५७ ॥

पापकर्माधमश्चैव पञ्चलिङ्गानि योऽर्चयेत् ।

सोऽपि तां गतिमाप्नोति दुर्लभा या महामखैः  ॥ ७१.५८ ॥

शक्रेणाभिवृतस्तत्र देवदेव उमापतिः  ।

पुरा नाम्नां सहस्रेण सुरासुरनमस्कृतः  ॥ ७१.५९ ॥

शिवप्रसादसम्पन्नो देवराजस्ततोऽभवत् ।

धनदेन स्तुतस्तत्र देवो लक्षेश्वरः प्रभुः  ॥ ७१.६० ॥

मोक्षदा नाम गौरीं च तां देवीं विद्धि भारत  ।

मोक्षेश्वरं सिद्धलिङ्गं सुरासुरनमस्कृतम्  ॥ ७१.६१ ॥

सिद्धैर्विद्याधरैर्यक्षैर्गन्धर्वैः किन्नरैर्नरैः  ।

देवत्वं समनुप्राप्तं पञ्चलिङ्गसमर्चनात् ॥ ७१.६२ ॥

कुबेरो मारुतश्चैव वरुणो निरृतिस्तथा  ।

वैवस्वतो यमश्चैव ततश्च नरकेश्वरः  ॥ ७१.६३ ॥

तस्य लिङ्गस्य माहात्म्यात्सूर्यपुत्रो महायशाः  ।

अन्यैरभिष्टुतस्तत्र पूर्वं द्वीपेश्वरः प्रभुः  ॥ ७१.६४ ॥

भक्त्या नामसहस्रेण स्तुतः पूज्यतमः शिवः  ।

सोमेनातोऽभवत्तत्र शम्भोः शिरसि भूषणम्  ॥ ७१.६५ ॥

रोहिण्याऽभ्यर्चिता गौरी सुभगा तेन साभवत् ।

ऋक्षैर्योगतरैस्तद्वत्स्तुतो देवः पिनाकधृक् ॥ ७१.६६ ॥

ततस्तैर्भास्करेणैव तभः स्थलमलं कृतम्  ।

व्याधयः कालमृत्युश्च चित्रगुप्तश्च लेखकः  ॥ ७१.६७ ॥

तथा शक्रः सुरगणैरेतैः परिवृतः प्रभुः  ।

पापिष्ठानां महारौद्रो धर्मिष्ठानां प्रसादवान्  ॥ ७१.६८ ॥

कोट्योऽष्टौ चोर्ध्वकेशा रौद्राश्च विकृताननाः  ।

पतिव्रतासहस्रैश्च तथा मासोपवासिभिः  ॥ ७१.६९ ॥

किल्किलारवशब्दैश्च धर्मराजपुरोत्तमम्  ।

व्याप्तं तु परितः श्रीमदसंख्यातैर्मनोरमैः  ॥ ७१.७० ॥

श्रुत्वा तेषां रवं सार्द्धं धर्मराजः सभासदैः  ।

श्वेतवस्त्रपरीधानः श्वेतमाल्यानुलेपनः  ॥ ७१.७१ ॥

पादचारी गतः क्षिप्रं यत्र ते यानसंस्थिताः  ।

कृताञ्जलिपुटो भूत्वा पप्रच्छ शुभकर्मणः  ॥ ७१.७२ ॥

यथा शक्तेन योगेन धर्मं धर्मोत्तरं महत् ।

कस्माद्देशात्समायाताः कथं पुण्यमुपार्जितम्  ॥ ७१.७३ ॥

 

विमानारूढा ऊचुः॒

कुरुक्षेत्रे तपस्तप्तं गङ्गायां च विशेषतः  ।

सर्वेषामेव लोकानां द्वारं तद्धि प्रतिष्ठितम्  ॥ ७१.७४ ॥

धर्माधर्मं तव बलं कारणं चेति तत्त्वतः  ।

वाराणसी प्रयागश्च गङ्गासागरसङ्गमः  ॥ ७१.७५ ॥

पितृतीर्थं महापुण्यं पुष्करं नैमिषं तथा  ।

केदारं भैरवं चैव तथा रुद्रमहालयम्  ॥ ७१.७६ ॥

सरस्वतीरुद्रकोटिः प्रभासं शशिभूषणम्  ।

नानातीर्थसहस्रेषु दानयज्ञतपः कृतम्  ॥ ७१.७७ ॥

एतत्ते कथितं सर्वं सूर्यपुत्रमहायशः  ।

अन्ये दृष्ट्वा यथा न्यायं धर्मराजं ततस्तथा  ॥ ७१.७८ ॥

ऊचुः सर्वे वचः श्लक्ष्णं धर्मराजं यथोदितम्  ।

न त्वं प्रभुः सुकृतिनां ब्रह्मा विष्णुः शिवः प्रभुः  ॥ ७१.७९ ॥

पापकर्मरता ये तु तेषां शास्ता यमः स्वयम्  ।

 

यम उवाच –

गत्वा कैलासमायामि यावत्तावत्प्रतीक्षताम्  ॥ ७१.८० ॥

एवमुक्त्वा ययौ राजन् कैलासं स नगोत्तमम्  ।

यस्मिन् शिवाद्यास्ते सर्वे पार्वती षण्मुखस्तथा  ॥ ७१.८१ ॥

स्तुवन्ति देवताः सर्वादेवदेवमुमापतिम्  ।

नृत्यन्ति चाग्रतः केचिदुत्पत्य निपतन्ति च  ॥ ७१.८२ ॥

तं दृष्ट्वा तादृशं शम्भुं स्तुवन्तं दीप्ततेजसम्  ।

स्तुवन्नामसहस्रेण देवदेवं पिनाकिनम्  ॥ ७१.८३ ॥

साष्टाङ्गं च नमस्कृत्य धर्मराजोऽब्रवीदिदम्  ।

येऽस्मत्पुरीं समायातास्तेषां का गतिरुच्यते  ॥ ७१.८४ ॥

प्रहसन्नब्रवीद्देवो धर्मराजं युधिष्ठिर  ।

अत्र प्रयान्तु ते सर्वे ये रेवातीरवासिनः  ॥ ७१.८५ ॥

अन्यतीर्थनिवासा ये भोगान् भुञ्जन्तु ते दिवि  ।

शिववाक्यं ततः श्रुत्वा ब्रह्माविष्णुर्यथातथम्  ॥ ७१.८६ ॥

तुष्टा देवस्य वाक्येन सर्वदेवगणेश्वरुः  ।

आगतः क्षणमात्रेण धर्मराजः पुरोत्तमम्  ॥ ७१.८७ ॥

शिवोक्ताः प्रेषिताः सर्वे शिवलोकं युधिष्ठिर  ।

यथा यथा समादिष्टास्ततोऽन्येऽपि शूभान्विताः  ॥ ७१.८८ ॥

पुराकल्पे मया दृष्टं कार्त्तिक्यां देवतागमे  ।

ततो गच्छेन्महाराज वैष्णवं तीर्थमुत्तमम्  ॥ ७१.८९ ॥

कोकिला नाम विख्यातं सर्वपापविमोक्षणम्  ।

वैष्णवं क्षेत्रमित्याह देवदेवो जनार्दनः  ॥ ७१.९० ॥

सपादकोटिस्तीर्थानां तत्रास्ते चैव भारत  ।

उपोष्यैकादशीं पुण्यां दीपमालां प्रबोधयेत् ॥ ७१.९१ ॥

न तस्य पुनरावृत्तिर्मर्त्यलोके दुरासदे  ।

सर्वकामसमृद्धेन विमानाग्रेण भारत  ॥ ७१.९२ ॥

असंख्यकालिका तृप्तिः पितॄणां नात्र संशयः  ।

विप्रे च तोषिते तत्र दानसङ्ख्या न विद्यते  ॥ ७१.९३ ॥

अत्रान्तरे त्यजेत्प्राणानवशः स्ववशोऽपि वा  ।

दशवर्षसहस्राणि राजा वैद्याधरे पुरे  ॥ ७१.९४ ॥

ध्रुवो ध्रुवत्वं स्वर्गे तु तारातेजः समुज्ज्वलन्  ।

मर्त्ययोनिषु सम्भूता भूतग्रामा तथापरे  ॥ ७१.९५ ॥

अर्चन्राड्देवदेवस्य दिवि देवत्वमाप्नुवन्  ।

देवपुण्यक्षये मर्त्या भक्त्या पुण्यैश्च देवताः  ॥ ७१.९६ ॥

स्वर्गमर्त्यप्रभेदोऽयं धर्माधर्मप्रभेदतः  ।

केनापि तत्प्रकारेण पूजनीयो महेश्वरः  ॥ ७१.९७ ॥

यद्वा तद्वा शिवे देयं भक्तियुक्तेन चेतसा  ।

अरुन्धत्या सा भरण्या सावित्र्या च तथा तथा  ॥ ७१.९८ ॥

अहल्यया मेनकया मरुत्वत्या च रम्भया  ।

अप्सरोगणसङ्घैश्च सुरसिद्धगणैस्तथा  ॥ ७१.९९ ॥

नर्मदातटमाश्रित्य पूजितो येन शङ्करः  ।

तेन वै विपुला भोगाः प्राप्ता मोक्षश्च भारत  ॥ ७१.१०० ॥

न पूजयेद्धरं यस्तु शिवमायाविमोहितः  ।

न तस्य स्वर्गमोक्षौ च कैलासं प्रति का कथा  ॥ ७१.१०१ ॥

न च स्वर्गस्य राज्यस्य भाजनं च नराधिप  ।

सर्वतीर्थमयी रेवा सर्वदेवमयो हरः  ॥ ७१.१०२ ॥

सर्वधर्ममयी बुद्धिः क्षमासत्यमयं तपः  ।

ब्रह्मचर्यं तपोमूलं पञ्चेन्द्रियविनिग्रहः  ॥ ७१.१०३ ॥

क्षमा सत्यं जपोऽधीतं तपः संयमलक्षणम्  ।

एतत्ते कथितं राजं शिवेन कथितं पुरा  ॥ ७१.१०४ ॥

मया च तव राजेन्द्र भ्रातॄणां च विशेषतः  ।

न सामान्यतरा देवी कथिता या मया तव  ॥ ७१.१०५ ॥

द्वीपेश्वरः कपिलेश्वरस्तथा वै नरकेश्वरः  ।

एतान् देवान् समुत्थाय यथावत्परिकीर्तयेत् ॥ ७१.१०६ ॥

सर्वतीर्थफलं प्राप्य शिवलोके महीयते  ।

अघौघे च परिक्षीणे प्राप्यते सप्तकल्पगा  ॥ ७१.१०७ ॥

शिवः संनिहितो यस्यां शिवक्षेत्रं ततः परम्  ।

श्रवणात्कीर्तनादस्य शिवलोके महीयते  ॥ ७१.१०८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरवर्णनो नामैकसप्ततितमोऽध्यायः ॥

 

 

अध्याय ७२

 

मार्कण्डेय उवाच –

नर्मदासङ्गमं पुण्यं सुरसिद्धनिषेवितम्  ।

तत्र स्नात्वा दिवं यान्ति पूजयित्वा महेश्वरम्  ॥ ७२.१ ॥

आगच्छन्ती पुरा लोके नर्मदा भरतर्षभ  ।

स्तुता पूर्वं नमस्कृत्य देवैर्ब्रह्मर्षिभिस्तथा  ॥ ७२.२ ॥

त्वया पवित्रितं पुण्यं मर्त्यलोकं चराचरम्  ।

अपां रूपगता रेवा हरस्य परमा कला  ॥ ७२.३ ॥

उमा कात्यायनी गङ्गा यमुना च सरस्वती  ।

चामुण्डा चर्चिका देवी रेवा त्वं सप्तकल्पगा  ॥ ७२.४ ॥

शिवजा प्रवहा पुण्या मेकलाद्रिसुता स्तुता  ।

यज्ञयूपा च मूर्धा च स्वर्गमोक्षप्रदा तथा  ॥ ७२.५ ॥

तारिणी सर्वभूतानां पापघ्नी च तरङ्गिणी  ।

लक्ष्मीः स्वाहा स्वधा चैव पुरुहूता यशस्विनी  ॥ ७२.६ ॥

त्वया व्याप्तं जगत्कृत्स्नमपां रूपेण सुव्रते  ।

सङ्गमं सिद्धलिङ्गं च सुरासुरनमस्कृतम्  ॥ ७२.७ ॥

अत्र दत्तं हुतं सर्वमेतद्भवति चाक्षयम्  ।

अत्यद्भुतं महाराज नर्मदास्नानमर्चनम्  ॥ ७२.८ ॥

अनेकानि सहस्राणि विमानानि युधिष्ठिर  ।

नानारत्नप्रभाजालैः सूर्यकोटिसमानि च  ॥ ७२.९ ॥

गतानि धर्मराजस्य पुरीं वीणादिनिः स्वनैः  ।

नादयन्ति दिवं भूमिं वेदनिर्घोषणादिभिः  ॥ ७२.१० ॥

एकस्मिन् समये दृष्ट्वाश्चर्यं वैवस्वतो नृपः  ।

अत्रिश्चैव वशिष्ठश्च पुलस्त्यः पुलहः क्रतुः  ॥ ७२.११ ॥

इत्याद्याः सप्त मुनयो धर्माधर्मविचारकाः  ।

शिवेन स्थापिताः पूर्वं हरिणा ब्रह्मणा तथा  ॥ ७२.१२ ॥

 

युधिष्ठिर उवाच –

अक्षीणकर्मबन्धुस्तु पुरुषो मुनिसत्तम  ।

परं पदमवाप्नोति तन्मे कथय कल्पग  ॥ ७२.१३ ॥

 

मार्कण्डेय उवाच –

विष्णुना कथितं पूर्वं ब्रह्मणे च महात्मने  ।

प्रपद्ये पुण्डरीकाक्षं देवं नारायणं हरिम्  ॥ ७२.१४ ॥

लोकनाथं सहस्राक्षमक्षरं परमं पदम्  ।

भगवन्तं प्रपद्येऽहं भूतभव्यभवत्प्रभुम्  ॥ ७२.१५ ॥

स्रष्टारं सर्वभूतानामनन्तबलपौरुषम्  ।

पद्मनाभं हृषीकेशं प्रपद्ये सत्यमव्ययम्  ॥ ७२.१६ ॥

हिरण्यगर्भं भूगर्भममृतं विश्वतोमुखम्  ।

अनश्वरमनाथं च प्रपद्ये भास्करद्युतिम्  ॥ ७२.१७ ॥

सहस्रशिरसं देवं वैकुण्ठं तार्क्ष्यवाहनम्  ।

प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदम्  ॥ ७२.१८ ॥

नारायणं हरिं चैव योगात्मानं सनातनम्  ।

शरण्यं सर्वलोकानां प्रपद्ये ध्रुवमीश्वरम्  ॥ ७२.१९ ॥

यः प्रभुः सर्वभूतानां येन सर्वमिदं ततम्  ।

यः संहारकरो देवः स मे विष्णुः प्रसीदतु  ॥ ७२.२० ॥

यस्माज्जातः पुरा ब्रह्मा पद्मयोनिः प्रजापतिः  ।

प्रसीदतु स मे विष्णुः पितामहपरः प्रभुः  ॥ ७२.२१ ॥

पुरा लये तु संप्राप्ते नष्टे लोके चराचरे  ।

एकस्तिष्ठति योगात्मा स मे विष्णुः प्रसीदतु  ॥ ७२.२२ ॥

जयेद्यः पृथिवीं सत्यं कालो धर्मः क्रियाफलम्  ।

गणाकारः स तां वाचो वासुदेवः प्रसीदतु  ॥ ७२.२३ ॥

योगावास नमस्तुभ्यं सर्वावास वरप्रद  ।

यज्ञभोगिन् पञ्चभोगिन्नारायण नमोऽस्तु ते  ॥ ७२.२४ ॥

चतुर्मूर्ते जगद्धाम लक्ष्मीवास वरप्रद  ।

विश्वावास नमस्तेऽस्तु साक्षीभूत जगत्पते  ॥ ७२.२५ ॥

अजेयः षड्विभागैकविश्वमूर्तिर्वृषाकपिः  ।

मृगाधिपश्च कालश्च नमस्ते ज्ञानसागर  ॥ ७२.२६ ॥

अव्यक्तादण्डमुत्पन्नमव्यक्तादपरः प्रभुः  ।

यस्मात्परतरं नास्ति तमस्मि शरणं गतः  ॥ ७२.२७ ॥

चिन्तयन्तो हि यं नित्यं ब्रह्मेशानादयः प्रभुम्  ।

एकांशेन जगत्सर्वं यो विष्टभ्य विभुः स्थितः  ॥ ७२.२८ ॥

अग्राह्यो निर्गुणः शास्ता तमस्मि शरणं गतः  ।

दिवाकरस्य सोमस्य मध्ये ज्योतिरिव स्थितम्  ॥ ७२.२९ ॥

क्षेत्रज्ञ इति यं प्राहुः स महात्मा प्रसीदतु  ।

सांख्ययोगेन ये चान्ये सिद्धाश्चैव महर्षयः  ॥ ७२.३० ॥

यं विदित्वा विमुच्यन्ते स महात्मा प्रसीदतु  ।

नमस्ते सर्वतोभद्र सर्वतोऽक्षिशिरोमुख  ॥ ७२.३१ ॥

निर्विकार नमस्तेऽस्तु आदिकल्प हृदि स्थित  ।

अतीन्द्रिय नमस्तुभ्यं परमात्मन्नमोऽस्तु ते  ॥ ७२.३२ ॥

ये च त्वामभिजानन्ति संसारे न वसन्ति ते  ।

रागद्वेषविनिर्मुक्ता लोभमोहविवार्जिताः  ॥ ७२.३३ ॥

अशरीरः सुगुप्तः सन् सर्वदेहेषु तन्मयः  ।

अव्यक्तबुद्ध्यहंकारमहाभूतेन्द्रियाणि च  ॥ ७२.३४ ॥

त्वयि तानि न तेषु त्वं ते च तानि न तु स्वयम्  ।

अव्यक्तो नातिकूटस्थो गुणानां प्रभुरीश्वरः  ॥ ७२.३५ ॥

आवर्तो हेतुरहितः प्रभुः स्वात्मव्यवस्थितः  ।

नमस्ते पुण्डरीकाक्ष वासुदेव नमोऽस्तु ते  ॥ ७२.३६ ॥

ईश्वरोऽसि जगन्नाथ किमतः परमुच्यते  ।

भक्तानां मुक्तिदस्त्वं च गुरुश्च त्रिदशेश्वरः  ॥ ७२.३७ ॥

समे भूतपतिस्त्वं हि प्रभुर्जन्मनि जन्मनि  ।

अहंकारेण बद्धो वा तथा सत्त्वादिभिर्गणैः  ॥ ७२.३८ ॥

पृथिवीं यातु मे घ्राणं यातु मे रसनाजलम्  ।

चक्षुर्हुताशनं यातु स्पर्शो मे यातु मारुतम्  ॥ ७२.३९ ॥

शब्दश्चाकाशमायातु मनो वै कारणं तथा  ।

अहंकारश्च मे बुद्धिं त्वयि बुद्धिर्ममास्त्विति  ॥ ७२.४० ॥

वियोगः सर्वकरणैर्गुणैर्भूतैस्तथाऽस्तु मे  ।

सत्त्वं रजस्तमश्चैव प्रकृतिं स्वां विशन्तु मे  ॥ ७२.४१ ॥

प्रभोः प्रभुमनवद्यं प्रपद्येऽहं नरः प्रभुम्  ।

सहस्रशिरसं देवं महर्षिं भूतभावनम्  ॥ ७२.४२ ॥

ब्रह्मयोनिश्च विश्वस्य स मे विष्णुः प्रसीदतु  ।

ब्रह्मपत्न्यां प्रलीयन्ते नष्टे स्थावरजङ्गमे  ॥ ७२.४३ ॥

आहूतसंप्लवे चैव लीयते प्रकृतौ महत् ।

हूयते च पुनस्ताभ्यां स मे विष्णुः प्रसीदतु  ॥ ७२.४४ ॥

अग्निसोमार्कदेवानां ब्रह्मरुद्रेन्द्रयोगिनाम्  ।

यस्ते जयति तेजांसि स मे विष्णुः प्रसीदतु  ॥ ७२.४५ ॥

अजस्त्वं जगतः पन्था अमूर्तिर्वीश्वमूर्तिजित् ।

नवं प्रधानं च महान् पुरुषश्चेतनोऽलसः  ॥ ७२.४६ ॥

अगोप्यो यः परतरस्तमेव शरणं गतः  ।

सोमसूर्योपमस्तेजो योऽवतारयति स्वयम्  ॥ ७२.४७ ॥

विजायन्ते दिशो यस्मात्स महात्मा प्रसीदतु  ।

गुणवान्निर्गुणश्चैव चेतनोऽचेतनो स्वगः  ॥ ७२.४८ ॥

सूक्ष्मः सर्वगतो देहः स महात्मा प्रसीदतु  ।

सूर्यमध्ये स्थितः सोमस्तस्य मध्ये तु संस्मृतः  ॥ ७२.४९ ॥

भूतत्वाद्योऽचलो दीप्तः स महात्मा प्रसीदतु  ।

एकत्वात्तव नानात्वं ये विदुर्यान्ति ते परम्  ॥ ७२.५० ॥

समः सर्वेषु भूतेषु प्रद्वेष्यात्मजनप्रियः  ।

समं भजत्यनाकाङ्क्षी भजते नान्यचेतसः  ॥ ७२.५१ ॥

योऽयं सर्वात्मना ज्ञेयः स मे विष्णुः प्रसीदतु  ।

चराचरमिदं सर्वं भूतग्रामं चतुर्विधम्  ॥ ७२.५२ ॥

त्वयि तं तन्तुवत्प्रोतं सूत्रे मणिगणा इव  ।

न ते धर्मो ह्यधर्मोऽस्ति न गर्भो जन्म वा पुनः  ॥ ७२.५३ ॥

जराजन्मविमोक्षार्थं तमेव शरणं गतः  ।

इन्द्रियाणि गुणश्चैव श्वासोच्छ्वासश्च योनिषु  ॥ ७२.५४ ॥

केवलं दारुवद्देहं नश्यं यत्परमापदम्  ।

स्वयमेकाकिभावो मे जन्मतोऽत्र पुनर्भवः  ॥ ७२.५५ ॥

त्वद्बुद्धिस्त्वद्गतप्राणा त्वद्भक्तस्त्वत्परायणः  ।

त्वामेवाहं स्मरिष्यामि मरणे पर्युपस्थिते  ॥ ७२.५६ ॥

पूर्वदेहे कृता ये तु व्याधयः प्रविशन्तु माम्  ।

वातादयश्च दुःखानि ऋणं तन्मुञ्चतात्प्रभो  ॥ ७२.५७ ॥

श्रेयसां च परं श्रेयस्त्वन्येषां च यशस्विनाम्  ।

सर्वपापविशुद्ध्यर्थं पुण्यं यत्परमं पदम्  ॥ ७२.५८ ॥

प्रातरुत्थाय सततं मध्याह्ने च दिनक्षये  ।

अजस्रं च तथा जप्यं सर्वपापोपशान्तिदम्  ॥ ७२.५९ ॥

हरिं कृष्णं हृषीकेशं वासुदेवं जनार्दनम्  ।

प्रणतोऽस्मि जगन्नाथं स मे पापं व्यपोहतु  ॥ ७२.६० ॥

गोवर्धनधरं देवं गोब्राह्मणहिते रतम्  ।

प्रणतोऽस्मि गदापाणिं स मे पापं व्यपोहतु  ॥ ७२.६१ ॥

शङ्खिनं चक्रिणं विष्णुं शार्ङ्गिणं मधुसूदनम्  ।

प्रणतोऽस्मि पतिं लक्ष्म्याः स मे पापं व्यपोहतु  ॥ ७२.६२ ॥

दामोदरं मुदा युक्तं पुण्डरीकाक्षमव्ययम्  ।

प्रणतोऽस्मि स्थितं स्थित्यै स मे पापं व्यपोहतु  ॥ ७२.६३ ॥

नारायणं नरं सौम्यं माधवं च जनार्दनम्  ।

श्रीवत्सं श्रीवपुः श्रीमच्छ्रीधरं श्रीनिकेतनम्  ॥ ७२.६४ ॥

प्रणतोऽस्मि श्रियः कान्तं स मे पापं व्यपोहतु  ।

यमीशं सर्वभूतानां ध्यायन्ति च तमक्षरम्  ॥ ७२.६५ ॥

वासुदेवमनिर्देश्यं तमस्मि शरणं गतः  ।

सर्वबन्धविनिर्मुक्तो यं प्रविश्य पुनर्भवम्  ॥ ७२.६६ ॥

पुरुषो नैव प्राप्नोति तमस्मि शरणं गतः  ।

कृत्वा ब्रह्मवपुः सर्वं सदेवासुरमानुषम्  ॥ ७२.६७ ॥

यः करोति पुनः सृष्टिं तमस्मि शरणं गतः  ।

ब्रह्मरूपधरं देवं योनिरूपं जनार्दनम्  ॥ ७२.६८ ॥

सृष्टित्वे संस्थितं नित्यं प्रणतोऽस्मि जनार्दनम्  ।

यस्मान्नान्यत्परं किंचिद्यस्मिन् सर्वमिदं जगत् ॥ ७२.६९ ॥

यः सर्वमध्यगोऽनन्तः सर्वगं तं नमाम्यहम्  ।

योऽस्ति भूतेषु सर्वेषु स्थावरे जङ्गमेषु च  ॥ ७२.७० ॥

विष्णुरेव स वै पापं ममाशेषं प्रणश्यतु  ।

न वृत्तं निर्वृतं कर्म विष्णोर्यत्कर्म वा कृतम्  ॥ ७२.७१ ॥

अनेकजन्मकर्मोत्थं पापं नश्यति मे तथा  ।

निशायां च तथा प्रातर्मध्याह्णे चापराह्णयोः  ॥ ७२.७२ ॥

अज्ञानाच्च कृतं पापं कर्मणा मनसा गिरा  ।

यत्कृतं चाशुभं किंचित्तत्सर्वं नश्यतु क्षणात् ॥ ७२.७३ ॥

तत्सर्वं विलयं यातु तोयेषु लवणं यथा  ।

परपीडां च निन्दां च कुर्वतो जन्म नार्जितम्  ॥ ७२.७४ ॥

परद्रव्यपरक्षेत्रवाञ्छा क्रोधोद्भवं च यत् ।

तत्सर्वं विलयं यातु तोयेषु लवणं यथा  ॥ ७२.७५ ॥

विष्णवे वासुदेवाय हरये केशवाय च  ।

जनार्दनाय कृष्णाय नमो भूयो नमो नमः  ॥ ७२.७६ ॥

नाभागो नाम राजर्षिर्नर्मदातीरसङ्गमे  ।

चकार स्तोत्रमतुलं वैष्णवं तु प्रजापतिः  ॥ ७२.७७ ॥

ब्रह्मणोऽङ्गिरसा प्राप्तं तस्मादिन्द्रेण भारत  ।

वशिष्ठः श्रावयामास नाभागं राजसत्तमम्  ॥ ७२.७८ ॥

स्नात्वा च नर्मदातोये दत्त्वा दानान्यनेकशः  ।

कामिकं यानमारुह्य नाभागः स्वपुरीं ययौ  ॥ ७२.७९ ॥

स्तौति नामसहस्रेण यः स्तवेन जनार्दनम्  ।

न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ ७२.८० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे विष्णुस्तुतिर्नाम द्विसप्ततितमोऽध्यायः ॥

 

 

अध्याय ७३

 

मार्कण्डेय उवाच –

ततो गच्छेच्च राजेन्द्र मेघनादमिति स्मृतम्  ।

जलमध्ये महादेवो यत्र तिष्ठत्यदर्शितः  ॥ ७३.१ ॥

 

युधिष्ठिर उवाच –

जलमध्ये महादेवस्तिष्ठते केन हेतुना  ।

उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम  ॥ ७३.२ ॥

 

मार्कण्डेय उवाच –

एतदाख्यानमतुलं पुण्यं श्रुतिसुखावहम्  ।

पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः  ॥ ७३.३ ॥

पुरा त्रेतायुगे तात पौलस्त्यो देवकण्टकः  ।

त्रिलोकविजयी रौद्रः सुरासुरभयंकरः  ॥ ७३.४ ॥

देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्  ।

अवध्यो वरदानेन यत्र पर्यटते महीम्  ॥ ७३.५ ॥

तत्र देवगिरौ रम्ये दानवो बलदर्पितः  ।

मयो नामेति विख्यातो महानासीन्नृपेश्वर  ॥ ७३.६ ॥

रावणस्तं ततो गत्वा विनयावनतः स्थितः  ।

पूजितो दानसंमानैर्मयं वचनमब्रवीत् ॥ ७३.७ ॥

कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना  ।

किं नामधेया तपते तप उग्रं कथं विभो  ॥ ७३.८ ॥

 

मय उवाच –

दानवानां पतिः श्रेष्ठो मयोऽहं नामनामतः  ।

भार्या तेजवती नाम ममेयं तनया शुभा  ॥ ७३.९ ॥

मन्दोदरीति विख्याता तपते पतिकारणात् ।

श्रुत्वा तु वचनं तस्य रावणो मददर्पितः  ॥ ७३.१० ॥

प्रश्रितः प्रणतो भूत्वा मयं वचनमब्रवीत् ।

पौलस्त्यो नाम राजाहं देवदानवदर्पहा  ॥ ७३.११ ॥

प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि  ।

ज्ञात्वा पैतामहं वंशं मयेनापि महात्मना  ॥ ७३.१२ ॥

सुता दत्ता रावणाय कृत्वा विधिविधानतः  ।

गृहीत्वा तां तदा रक्षः पूज्यमानो निशाचरैः  ॥ ७३.१३ ॥

दिव्यैर्यानैर्विमानैश्च क्रीडते तु तया सह  ।

पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत  ॥ ७३.१४ ॥

तेनैव जातमात्रेण रवो मुक्तो महात्मना  ।

संवर्तकस्य मेघस्य येन लोको जडीकृतः  ॥ ७३.१५ ॥

श्रुत्वा तन्निनदं घोरं त्रस्तो लोकपितामहः  ।

नाम चक्रे तदा तस्य मेघनादो भविष्यति  ॥ ७३.१६ ॥

एतन्नामकृतं सोऽपि परमं व्रतमास्थितः  ।

भावयामास देवेशमुमया सह शङ्करम्  ॥ ७३.१७ ॥

व्रतैर्नियमदानैश्च होमैर्जाप्यैर्विधानतः  ।

कृच्छ्रचान्द्रायणैर्दिव्यैः क्लिश्यते च कलेवरम्  ॥ ७३.१८ ॥

एवमन्यद्दिने तात कैलासं धरणीधरम्  ।

गत्वा लिङ्गमयं प्राप्य प्रस्थितो दक्षिणामुखः  ॥ ७३.१९ ॥

नर्मदातटमाश्रित्य स्नातुकामो महाबलः  ।

निक्षिप्यापूजयद्देवं कृत्वा जाप्यं जनेश्वरः  ॥ ७३.२० ॥

गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम  ।

एकं समुद्धृतं लिङ्गं गृहितं सव्यपाणिना  ॥ ७३.२१ ॥

प्रथमं च द्वितीयं च भक्त्या पौलस्त्यनन्दनः  ।

तदा देवमहालिङ्गं पतितं नर्मदाम्भसि  ॥ ७३.२२ ॥

पाहि पाहीति तेनोक्तो लिङ्गेन परमेष्ठिना  ।

द्वितीयं पतितं तावदुत्तरे नर्मदातटे  ॥ ७३.२३ ॥

मेघनादेति विख्यातं लिङ्गं तत्र सुशोभनम्  ।

मध्यमेश्वरनामेति जलमध्ये व्यवस्थितम्  ॥ ७३.२४ ॥

यावदुद्धर्तुकामोऽसौ सप्तपातालमागमत् ।

देवयोर्निश्चयं ज्ञात्वा निवृत्तोऽसौ निशाचरः  ॥ ७३.२५ ॥

जगामाकाशमाविश्य पूज्यमानो निशाचरैः  ।

तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम्  ॥ ७३.२६ ॥

मेघारवेति विख्यातमुत्तरे खेटकः शुभः  ।

पूर्वे तु गर्जनं नाम सर्वपापक्षयंकरम्  ॥ ७३.२७ ॥

तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् ।

अहोरात्रोषितो भूत्वा स लभेच्छाश्वतं शुभम्  ॥ ७३.२८ ॥

पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप  ।

तेन द्वादश वर्षाणि पितरस्तर्पिता दिवि  ॥ ७३.२९ ॥

यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप  ।

यत्फलं योगिनां तत्र लभते नात्र संशयः  ॥ ७३.३० ॥

अग्निवेशं जले वापि अथवापि ह्यनाशकम्  ।

अनिवर्तिका गतिस्तस्य स्यादिदं शङ्करोऽब्रवीत् ॥ ७३.३१ ॥

एवं ते नरशार्दूल गर्जितेश्वरमुत्तमम्  ।

कथितं स्मरणादेव सर्वपापक्षयं करम्  ॥ ७३.३२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मेघनादेश्वरमहिमानुवर्णनो नाम त्रिसप्ततितमोऽध्यायः ॥

 

 

अध्याय ७४

 

मार्कण्डेय उवाच –

ततो गच्छेच्च राजेन्द्र दारुतीर्थमनुत्तमम्  ।

दारुको यत्र संसिद्धिमिन्द्रस्य दयितः सखा  ॥ ७४.१ ॥

 

युधिष्ठिर उवाच –

दारुकेण कथं तात तपश्चीर्णं पुराऽनघ  ।

विधानं श्रोतुमिच्छामि सर्वपापक्षयं करम्  ॥ ७४.२ ॥

 

मार्कण्डेय उवाच –

अहं ते कथयिष्यामि विचित्रं यत्पुरातनम्  ।

वृत्तं समभवत्तत्र ऋषीणां भावितात्मनाम्  ॥ ७४.३ ॥

सूतो वज्रधरस्यासीत्मातलिर्नामनामतः  ।

स पुत्रं शप्तवान् पूर्वं कथंचित्कारणान्तरे  ॥ ७४.४ ॥

शापहेतोर्वेपमान इन्द्रस्य चरणौ शुभौ  ।

प्रपीड्य तत्र देवेन्द्रं विज्ञापयति भारत  ॥ ७४.५ ॥

मम ताताभिशप्तस्य अनाथस्य सुरेश्वर  ।

कर्मणा केन शापस्य घोरस्यान्तो भविष्यति  ॥ ७४.६ ॥

 

शक्र उवाच –

नर्मदातटमाश्रित्य तोषय त्वं महेश्वरम्  ।

तिष्ठ यावद्युगस्यान्तं पुनर्जननमाप्स्यसि  ॥ ७४.७ ॥

पुनर्भूत्वा यदुकुले दारुको नाम नामतः  ।

आरोहयित्वा देवेशं शङ्खचक्रगदाधरम्  ॥ ७४.८ ॥

मानुषं तत्र सम्पन्नं ततः सिद्धिमवाप्स्यसि  ।

एवमुक्तस्तु देवेन सहस्राक्षेण भारत  ॥ ७४.९ ॥

प्रणम्य शिरसा भूमिमागतोऽसौ हतप्रभः  ।

नर्मदा तटमाश्रित्य कर्शितस्वकलेवरः  ॥ ७४.१० ॥

व्रतोपवार्सैर्विविधैर्जपहोमपरायणः  ।

महादेवं महात्मानं वरदं शूलपाणिनम्  ॥ ७४.११ ॥

अभजत्परया भक्त्या यावदाहूतसम्प्लवम्  ।

अंशावतरणे विष्णोस्ततो भूत्वा महामतिः  ॥ ७४.१२ ॥

तोषयित्वा जगन्नाथं ततो यातः स सद्गतिम्  ।

एष ते सम्भवस्तात दारुतीर्थस्य सुव्रत  ॥ ७४.१३ ॥

कथितस्तु मया पूर्वं यथा मे शङ्करोऽब्रवीत् ।

ततो युधिष्ठिरो राजा विस्मयाविष्टचेतनः  ॥ ७४.१४ ॥

भ्रान्तोऽवलोकयामास स्तब्धरोमा मुहुर्मुहुः  ।

तस्मिंस्तीर्थे नरः स्नात्वा विधिपूर्वं नरेश्वर  ॥ ७४.१५ ॥

उपास्य सभ्यां तत्रैव संतर्प्य पितृदेवताः  ।

देहत्यागं च तत्रैव यः करोति समाहितः  ॥ ७४.१६ ॥

सोऽश्वमेधफलं प्राप्य रमते शिवसन्निधौ  ।

तस्मिंस्तीर्थे तु यो भक्त्या भोजयेद्ब्राह्मणं शुचिः  ॥ ७४.१७ ॥

स तु विप्रसहस्रस्य लभते फलमुत्तमम्  ।

स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम्  ॥ ७४.१८ ॥

यत्कृतं तु शुभं तत्र तत्सर्वं लभतेऽक्षयम्  ॥ ७४.१९ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे दारुतीर्थतमहिमानुवर्णनो नाम चतुःसप्ततितमोऽध्यायः ॥

 

 

अध्याय ७५

 

मार्कण्डेय उवाच –

ततो गच्छेच्च राजेन्द्र देवतीर्थमनुत्तमम्  ।

यत्र देवास्त्रयस्त्रिंशत्तप्त्वा सिद्धिं परां गताः  ॥ ७५.१ ॥

पुरा देवासुरे युद्धे दानवैर्बलदर्पितैः  ।

इन्द्रो देवगणैः सार्द्धं स्वराज्याच्च्यावितो भृशम्  ॥ ७५.२ ॥

हस्त्यश्वरथयानौघैर्मर्दयित्वा च वाहिनीम्  ।

विशक्ता भेजिरे मार्गं प्रहारैर्जर्जरीकृताः  ॥ ७५.३ ॥

जम्भशुम्भनिशुम्भाद्यैस्तु हुण्डग्रहकैः सह  ।

बलिभिर्बाधिताः सर्वे ब्रह्माणमुपतस्थिरे  ॥ ७५.४ ॥

प्रणम्य शिरसा देवं ब्रह्माणं परमेष्ठिनम्  ।

व्यज्ञापयन्त देवेशमिन्द्राग्निकपुरोगमाः  ॥ ७५.५ ॥

पश्य पश्य महाभाग दानवैराकुलीकृताः  ।

बाधिताः पुत्रदाराभ्यां त्वामेव शरणं गताः  ॥ ७५.६ ॥

परित्रायस्व देवेश सर्वलोकपितामह  ।

नान्या गतिः सुरेशान मुक्त्वा त्वां परमेष्ठिनम्  ॥ ७५.७ ॥

 

ब्रह्मोवाच –

दानवानां विघातार्थं नर्मदातटमाश्रिताः  ।

तपः कुरुत भो देवास्तपो हि परमं बलम्  ॥ ७५.८ ॥

नान्योपायो न वै मन्त्रो न विद्या न च विक्रमः  ।

विना रेवाजलं पुण्यं सर्वपापक्षयं करम्  ॥ ७५.९ ॥

दारिद्र्यव्याधिमरणबन्धनव्यसनानि च  ।

एतानि चैव पापस्य फलानीति मतिर्मम  ॥ ७५.१० ॥

एवं ज्ञात्वा विधानेन तपः कुरुत दुष्करम्  ।

पूज्यते शाम्भवं सर्वैः प्राप्नुयाताभयं ततः  ॥ ७५.११ ॥

तच्छ्रुत्वा वचनं देवा ब्रह्मणः परमेष्ठिनः  ।

नर्मदामागताः सर्वे तदेन्द्राग्निपुरोगमाः  ॥ ७५.१२ ॥

विचेरुस्तत्र विपुलं तपः परमदुःसहम्  ।

सकल्पैः परमां राजंस्तत्ते सिद्धिमवाप्नुवन्  ॥ ७५.१३ ॥

तदा प्रभृति तत्तीर्थं देवतीर्थमिति श्रुतम्  ।

गीयते सर्वलोकेषु सर्वपापक्षयंकरम्  ॥ ७५.१४ ॥

तत्र श्रद्धात्मना योऽपि विधिनापि समन्वितः  ।

स्नानं समाचरेद्भक्त्या स लभेन्मौक्तिकं फलम्  ॥ ७५.१५ ॥

यस्तमर्चयते देवं सर्वदेवैस्तु पूजितम्  ।

लभते चाश्वमेधस्य फलं यागस्य चोत्तमम्  ॥ ७५.१६ ॥

यस्तु भोजयते विप्रांस्तस्मिंस्तीर्थे नराधिप  ।

तत्र देवशिला रम्या महापुण्याद्रिर्वधिनी  ॥ ७५.१७ ॥

संन्यासेन मृतानां तु नराणामक्षया गतिः  ।

अग्निप्रवेशं यः कुर्याद्देवतीर्थे युधिष्ठिर  ॥ ७५.१८ ॥

रुद्रलोके वसेत्तावद्यावदाहूतसम्प्लवम्  ।

एवं स्नानं जपो होमः स्वाध्यायो देवतार्चनम्  ॥ ७५.१९ ॥

सुकृतं दुष्कृतं वापि तत्र तीर्थेऽक्षयं भवेत् ।

एतावद्विधिरुद्दिष्टा उत्पत्तिश्चैव भारत  ॥ ७५.२० ॥

देवतीर्थस्य चरितं सर्वतीर्थेष्वनुत्तमम्  ॥ ७५.२१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे देवतीर्थमहिमानुवर्णनो नाम पञ्चसप्ततितमोऽध्यायः ॥

 

 

अध्याय ७६

 

मार्कण्डेय उवाच –

ततोगच्छेच्च राजेन्द्र गुहावासीति चोत्तमम्  ।

यत्र सिद्धो महादेवो गुहावासीति शङ्करः  ॥ ७६.१ ॥

 

युधिष्ठिर उवाच –

केन कार्येण विप्रेन्द्र गुहावासीति शङ्करः  ।

एतद्विस्तरतः सर्व कथयस्व ममानघ  ॥ ७६.२ ॥

श्रोतुमिच्छाम्यहं देव सर्वं कौतूहलं हि मे  ।

 

मार्कण्डेय उवाच –

महाप्रश्नः कृतो मां यो महाप्राज्ञ नरेश्वर  ॥ ७६.३ ॥

पुराणे विस्तरोऽप्यस्य न शक्यो हि मयाधुना  ।

वृद्धभावात्कथयितुमहं च बहुकालिकः  ॥ ७६.४ ॥

पूर्व दारुवने विप्रा वसन्ति स्म सुरैः समाः  ।

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा  ॥ ७६.५ ॥

स्वधर्मनिरतानां च कथितं परमं पदम्  ।

तावद्वसन्तसमये कस्मिंश्चित्कारणान्तरे  ॥ ७६.६ ॥

विमानस्थो महादेवो गम्यमानोमया सह  ।

ददर्श च जनावासं वेदध्वनिनिनादितम्  ॥ ७६.७ ॥

अगतागतसंवासं सर्वपापक्षयं करम्  ।

तद्दृष्ट्वा मुदितां देवीं हर्षगद्गदया गिरा  ॥ ७६.८ ॥

उवाच वचनं देवो दृष्ट्वा तापसयोषितः  ।

नान्यं देवं न वै धर्मं ध्यायन्ति हिमनन्दिनि  ॥ ७६.९ ॥

एतच्छ्रुत्वा परं वाक्यं देवदेवेन भाषितम्  ।

कौतूहलसमाविष्टा शङ्करं पुनरब्रवीत् ॥ ७६.१० ॥

यत्त्वयोक्तं महादेव पतिधर्मपरास्त्रियः  ।

तासामनङ्गो भूत्वा त्वं चरित्रं क्षोभय प्रभो  ॥ ७६.११ ॥

 

महादेव उवाच –

त्वयोक्तं वचनं देवि न चैतद्रोचते प्रिये  ।

ब्राह्मणा हि महाभागा न तेषां विप्रियं चरेत् ॥ ७६.१२ ॥

मन्युप्रहरणा विप्राश्चक्रप्रहरणो हरिः  ।

चक्रात्तीक्ष्णतरो मन्युस्तस्माद्विप्रं न कोपयेत् ॥ ७६.१३ ॥

न ते देवा न ते लोकास्ते नागा नासुरास्तथा  ।

दृश्यन्ते च त्रिभिर्लोकैरेतैरुष्टैर्न वञ्चिताः  ॥ ७६.१४ ॥

तेषां क्षोभकरः प्रायः स्वर्गभोगफलच्युतः  ।

येषां तुष्टा महाभागा ब्राह्मणाः क्षितिदेवताः  ॥ ७६.१५ ॥

तेषां धर्मस्तथार्थश्च कामो मोक्षो न संशयः  ।

एवं ज्ञात्वा महाभागे आग्रहस्त्यज्यतामयम्  ॥ ७६.१६ ॥

एतल्लोकविरुद्धं हि यदीच्छसि वशे सुखम्  ।

 

देव्युवाच –

नाहं ते दयिता देव नाहं ते वशवर्तिनी  ॥ ७६.१७ ॥

अन्यायधर्षणां चात्र सर्वासां कुरु सुव्रत  ।

लोकालोके महादेव अशक्यं नास्ति ते विभो  ॥ ७६.१८ ॥

क्रियतां मम देवैतत्परं कौतूहलं प्रभो  ।

एवमुक्तो महादेवो देव्याः प्रियहिते रतः  ॥ ७६.१९ ॥

कृत्वा कापालिकं रूपं ययौ दारुवनं प्रति  ।

महाहिनां जटाजूटं नियम्य शशिभूषणः  ॥ ७६.२० ॥

कङ्कत्राणं परं कृत्वा तथा सौवर्णकुण्डले  ।

व्याघ्रचर्मपरीधानो हारकेयूरभूषितः  ॥ ७६.२१ ॥

नूपुरारावनिर्घोषैः कम्पयंश्च वसुन्धराम्  ।

महाडमरुघोषेण वीरघण्टानिनादिना  ॥ ७६.२२ ॥

प्रभातसमये प्राप्ते तत्र दारुवनं गत  ।

तावद्विप्रजनः सर्वः पुष्पमूलफलाशनः  ॥ ७६.२३ ॥

निर्गतो बहुभिः सार्धं पठ्यमान इतस्ततः  ।

तद्दृष्ट्वा महदाश्चर्यरूपं देवस्य भारत  ॥ ७६.२४ ॥

युवतीजनः प्रमत्तश्च कामेन कलुषीकृतः  ।

सुरूपं परमं दृष्ट्वा सर्वास्ताश्च वराननाः  ॥ ७६.२५ ॥

क्लेशभावं तदागच्छन् याश्च दारुवने स्त्रियः  ।

विकारा बहवस्तासां देवं दृष्ट्वा मनोजवम्  ॥ ७६.२६ ॥

संजाता विप्रपत्नीनां तां शृणुष्व नृपोत्तम  ।

परिधानं न जानन्ति परिभ्रष्टं करोद्यताः  ॥ ७६.२७ ॥

दातुकामा तथा भैक्ष्यं चेष्टितुं नैव शक्यते  ।

काचिद्दृष्ट्वा महादेवं रूपयौवनगर्विता  ॥ ७६.२८ ॥

उत्सङ्गे संस्थितं वालं पतितं व्यस्मरत्ततः  ।

कामबाणहता चान्या बाहुभ्यां पीडति स्तनौ  ॥ ७६.२९ ॥

निःश्वसन्ती तथा चान्या न किंचित्परिजल्पते  ।

एवमक्षोभयत्सर्वा महेशः पतिदेवताः  ॥ ७६.३० ॥

चालितास्ता विदित्वा तु निर्जग्मुर्द्वारिसत्वराः  ।

संचिताः परमं कृत्वा सर्वा देवो महेश्वरः  ॥ ७६.३१ ॥

क्षोभयित्वा गणं स्त्रीणां गतश्चादर्शनं च तम्  ।

ततो विप्रगणः सर्वः समायातो ददर्श ह  ॥ ७६.३२ ॥

क्षोभितं स्त्रीजनं सर्वं हरेण क्रोधमाविशत् ।

क्रोधाविष्टो द्विजः कश्चिद्दण्डमुद्यम्य धावति  ॥ ७६.३३ ॥

कुठारहस्तो ह्यपरस्तथान्यो दर्भमुष्टिमान्  ।

इतश्चेतश्च ते सर्वे भ्रमित्वा तच्च काननम्  ॥ ७६.३४ ॥

एकीभूता महात्मानो व्याजहुश्च रुषा गिरम्  ।

यदि दत्तं हुतं किंचिद्गुरवस्तोषिता यदि  ॥ ७६.३५ ॥

तेन सत्येन देवस्य लिङ्गं पततु भूतले  ।

एवं सत्यप्रभावेण वचनेन द्विजन्मनाम्  ॥ ७६.३६ ॥

देवस्य पश्यतो लिङ्गं पतितं धरणीतले  ।

हाहाकारो महानासील्लोकालोके तु भारत  ॥ ७६.३७ ॥

देवस्य पतितं लिङ्गं जगत्येव महाक्षयम्  ।

पतमानस्य लिङ्गस्य शब्दोऽभूत्तत्र दारुणः  ॥ ७६.३८ ॥

पतन्ति पर्वताग्राणि शोषमायान्ति सागराः  ।

देवस्य पतिते लिङ्गे विमानैर्देवदानवाः  ॥ ७६.३९ ॥

समेत्य सहिताः सर्वे ब्रह्मणा परमेष्ठिना  ।

कृताञ्जलिपुटा देवं स्तुवन्ति विविधैः स्तवैः  ॥ ७६.४० ॥

ततस्तुष्टो जगन्नाथो देवानां वरदोऽभवत् ।

देवोऽपि पतिते लिङ्गे शापेन धरणीतले  ॥ ७६.४१ ॥

गत्वा दारुवनं विप्रांस्तोषयामास भारत  ।

विश्वामित्रो वशिष्ठाद्या जाबालिरथ काश्यपः  ॥ ७६.४२ ॥

समेत्य सहिताः सर्वे तमूचुस्त्रिपुरान्तकम्  ।

महाजनोऽपि बलवान्नावज्ञेयः सुरेश्वरः  ॥ ७६.४३ ॥

क्षान्तियुक्तोऽपि भूत्वा च भविष्यसि गतक्लमः  ।

विध्वंसिता विप्रदारा यदेतल्लिङ्गमुत्तमम्  ॥ ७६.४४ ॥

पतितं ते महादेव एतत्पुण्यं भविष्यति  ।

तत्पुण्यं नाग्निहोत्रेण अग्निष्टोमैर्न लभ्यते  ॥ ७६.४५ ॥

यच्छर्म रुद्र प्राप्स्यन्ति मानवा लिङ्गपूजया  ।

देवानां चैव यक्षाणां गन्धर्वोरगरक्षसाम्  ॥ ७६.४६ ॥

वचनेन तु विप्राणामेतत्पुण्यं भविष्यति  ।

ब्रह्मविष्ण्विन्द्ररुद्राणां दर्शनेन च यत्फलम्  ॥ ७६.४७ ॥

तत्फलं तस्य लिङ्गस्य दर्शने सकलं लभेत् ।

एवमुक्तो जगन्नाथः प्रणिपत्य द्विजोत्तमान्  ॥ ७६.४८ ॥

मुदा परमया युक्तस्तांश्चैव प्रत्यभाषत  ।

ब्राह्मणा जङ्गमं तीर्थं निर्जलं सर्वकामिकम्  ॥ ७६.४९ ॥

येषां वाक्योदयेनैव शुद्ध्यन्ति मलना जनाः  ।

किंचित्तीर्थं न हि क्षेत्रमूषरं गह्वराणि च  ॥ ७६.५० ॥

ब्राह्मणाच्छ्रेष्ठमुद्दिष्टं यत्र गत्वा विशुद्ध्यति  ।

पृथिव्यां यानि तीर्थानि गङ्गाद्याः सरितस्तथा  ॥ ७६.५१ ॥

एकस्या विप्रवाक्यस्य कला नार्हन्ति षोडशीम्  ।

अभिनन्द्य द्विजान् सर्वाननुज्ञातो महानृषिः  ॥ ७६.५२ ॥

ततोऽगाच्च महादेवो नर्मदातटमुत्तमम्  ।

परम व्रतमास्थाय गुहावासं महार्बुदम्  ॥ ७६.५३ ॥

मौनं चचार भगवाञ्जपध्यानरतः सदा  ।

समाप्ते नियमे तात स्थापयित्वा महेश्वरम्  ॥ ७६.५४ ॥

वन्द्यमानः सुरैः सार्धं कैलासमगमत्प्रभुः  ।

नर्मदायास्तटे येन स्थापितः परमेश्वरः  ॥ ७६.५५ ॥

तेनैव कारणेनासौ नर्मदेश्वरमुत्तमम्  ।

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः  ॥ ७६.५६ ॥

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते  ।

तत्र तीर्थे नरः स्नात्वा विधिना सुजितेन्द्रियः  ॥ ७६.५७ ॥

अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।

पितृभ्यो ददते यस्तु तिलपुष्पकुशोदकम्  ॥ ७६.५८ ॥

त्रिसप्तपुरुषास्तस्य स्वर्गे पाण्डव मोदन्ते  ।

यस्तु भोजयते विप्रान् यथाशक्त्या नरोत्तमः  ॥ ७६.५९ ॥

तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम्  ।

सुवर्णं रजतं वापि ब्राह्मणेभ्यो युधिष्ठिर  ॥ ७६.६० ॥

ददते तोयमास्पृश्य सोऽग्निष्टोमफलं लभेत् ।

अष्टम्यां च चतुर्दश्यां पूजयेच्च विशेषतः  ॥ ७६.६१ ॥

नर्मदेश्वरमासाद्य अवाप्तं जन्मनः फलम्  ।

अग्निवेशे जले वापि अनाशकमृतश्च यः  ॥ ७६.६२ ॥

अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ।

एतत्कीर्तयते यस्तु नर्मदेश्वरमुत्तमम्  ॥ ७६.६३ ॥

भक्त्या शृणोति यो राजन्नश्वमेधफलं लभेत् ॥ ७६.६४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे दारुवनप्रसङ्गे नर्मदेश्वरकीर्तनं नाम षट्सप्ततितमोऽध्यायः ॥

 

 

अध्याय ७७

ततो गच्छेच्च राजेन्द्र कपिलातीर्थमुत्तमम्  ।

स्नानमात्रः प्रसङ्गेन नर्मदेश्वरकीर्तनम्  ॥ ७७.१ ॥

तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति  ।

यावन्ति रोमकूपानि तत्प्रसूतिकुलेषु च  ॥ ७७.२ ॥

तावन्त्यब्दसहस्राणि विष्णुलोके महीयते  ।

जले वाग्निप्रवेशे वा अथवानशके नरः  ॥ ७७.३ ॥

तत्र तीर्थे मृतो यस्तु न गर्भे जायते क्वचित् ।

एव हि विधिरुद्दिष्टः सकलो नृपसत्तम  ॥ ७७.४ ॥

तीर्थस्य च फलं पुण्यं किमन्यत्परिपृच्छसि  ।

धन्यं यशस्यमायुष्यं सर्वदुःखघ्नमुत्तमम्  ॥ ७७.५ ॥

एतच्छ्रुत्वा नरो राजन् सर्वपापैः प्रमुच्यते  ।

ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम्  ॥ ७७.६ ॥

तत्र सिद्धो महाभाग दैत्यो वै लोकविश्रुतः  ।

 

युधिष्ठिर उवाच –

कोऽसौ सिद्धो महाभाग तत्र तीर्थे महातपाः  ॥ ७७.७ ॥

कस्य पुत्रोऽथ किंकार्यं कालः कः कथय द्विज  ।

 

मार्कण्डेय उवाच –

पुरा चादियुगे राजन्मानसो ब्रह्मणः सुतः  ॥ ७७.८ ॥

वेदवेदाङ्गतत्त्वज्ञो मरीचिर्नाम नामतः  ।

तस्याऽपि कश्यपो राजन् कालेन महतानघ  ॥ ७७.९ ॥

पुत्रोऽथ मानसो जातः साक्षाद्ब्रह्मेव चापरः  ।

क्षमा दमा दया दानं सत्यं शौचमथार्जवम्  ॥ ७७.१० ॥

मरीचेस्तु गुणास्त्वेते सन्ति भान्ति च भारत  ।

एवं गुणगणाः कीर्तिः कश्यपे द्विजसत्तमे  ॥ ७७.११ ॥

ज्ञात्वा प्रजापतिर्दक्षो भार्यार्थे स्वसुतां ददौ  ।

अदितिर्वै दनुश्चैव तथा ह्येकादशा पराः  ॥ ७७.१२ ॥

यासां पुत्राश्च पौत्राश्च जाता भ्रातरसंख्यकाः  ।

अदितिर्जनयामास पुत्रानिन्द्रपुरोगमान्  ॥ ७७.१३ ॥

नागान् प्रेतपिशाचांश्च पतत्रीन् यक्षराक्षसान्  ।

सिंहव्याघ्रवराहांश्च अन्या इत्येवमादयः  ॥ ७७.१४ ॥

जातास्तस्य महाबाहो कश्यपस्य प्रजापतेः  ।

यैस्तु लोकत्रयं व्याप्तं स्थावरं जङ्गमं महत् ॥ ७७.१५ ॥

तथान्यश्च महाभागो दनोः पुत्रो व्यजायत  ।

सर्वलक्षणसम्पन्नः करञ्जो नाम नामतः  ॥ ७७.१६ ॥

बलेरिव महाभाग चचार सुमहत्तपः  ।

वरेण छन्दयामास त्रिपुरान्तकरः प्रभुः  ॥ ७७.१७ ॥

भोः करञ्ज महासत्त्व परितुष्टोऽस्मि तेऽनघ  ।

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते  ॥ ७७.१८ ॥

 

करञ्ज उवाच –

यदि तुष्टोऽसि मे देव त्रिपुरान्तकर प्रभो  ।

ततः पुत्रैश्च पौत्रैश्च सहितं मे धनं कुरु  ॥ ७७.१९ ॥

तथेत्युक्त्वा महादेव उमया सहितस्तदा  ।

वृषारूढो गणैः सार्धं तत्रैवान्तरधीयत  ॥ ७७.२० ॥

गते चादर्शनं देवे सोऽपि दैत्यो मुदान्वितः  ।

स्वनाम्ना च महादेवं स्थापयित्वा गृहं ययौ  ॥ ७७.२१ ॥

तदा प्रभृति तत्तीर्थं करञ्जेश्वरमुत्तमम्  ।

स्नानमात्रो नरो राजन्मुच्यते ब्रह्महत्यया  ॥ ७७.२२ ॥

तस्मिंस्तीर्थे महाराज तर्पयेत्पितृदेवताः  ।

सोऽग्निष्टोमस्य यत्पुण्यं फलं प्राप्नोत्यसंशयम्  ॥ ७७.२३ ॥

अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नरोत्तम  ॥ ७७.२४ ॥

अथाग्नौ च जले प्राणान् भूतले वापि यस्त्यजेत् ।

स्वर्गे स तु वसेन्नूनं वर्षाणामयुतद्वयम्  ॥ ७७.२५ ॥

धनवान् सुकुले चान्ते जायते विपुले कुले  ।

वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः  ॥ ७७.२६ ॥

राजा वा राजतुल्यो वा जायते नात्र संशयः  ।

पुत्रपौत्रसमायुक्तः सर्वव्याधिविवर्जितः  ॥ ७७.२७ ॥

एतत्ते सर्वमाख्यातं यत्त्वं मां परिपृच्छसि  ।

तीर्थस्य तु फलं युक्त्या सर्वदानेषु भारत  ॥ ७७.२८ ॥

एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम्  ।

पठतां शृण्वतां चैव तीर्थमाहात्म्यमुत्तमम्  ॥ ७७.२९ ॥

यस्तु श्रावयते श्राद्धे स तत्पितृपरायणः  ।

अक्षयं तस्य सर्वं स्याच्छङ्करस्त्विदमब्रवीत् ॥ ७७.३० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे करञ्जेश्वरमहिमानुवर्णनो नाम सप्तसप्ततितमोऽध्यायः ॥

 

 

अध्याय ७८

अथ अष्टसप्ततितमोऽध्यायः

 

 

मार्कण्डेय उवाच –

ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम्  ।

यत्र सिद्धिं गतो देवः कुण्डधारो नृपोत्तम  ॥ ७८.१ ॥

तपः कृत्वा तु विपुलं सुरासुरभयं करम्  ।

कुण्डधारो मन्दरस्थः क्रीडते स नृपोत्तम  ॥ ७८.२ ॥

 

युधिष्ठिर उवाच –

कस्यान्वये समुत्पन्नः कस्य पुत्रो महामतिः  ।

तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः  ॥ ७८.३ ॥

एतद्विस्तरतस्तात कथयस्व ममानघ  ।

 

मार्कण्डेय उवाच –

पुरा त्रेतायुगे राजन् पौलस्त्यो नाम विश्रवाः  ॥ ७८.४ ॥

उपये मे महाभाग भरद्वाजसुतां नृप  ।

पुत्रः पुत्रगुणैर्युक्तस्तस्यां जातो धनं जयः  ॥ ७८.५ ॥

जातमात्रं सुतं ज्ञात्वा ब्रह्मा लोकपितामहः  ।

चकार नाम सुप्रीत ऋषिदेवसमन्वितः  ॥ ७८.६ ॥

यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः  ।

तस्माद्वैश्रवणो नाम मया दत्तं तवानघ  ॥ ७८.७ ॥

यः स्वयं सर्वदेवानां धनगोप्ता भविष्यति  ।

चतुर्थो लोकपालानामक्षयो यक्षपोऽपि वा  ॥ ७८.८ ॥

यक्षो यक्षाधिपः श्रेष्ठः कुण्डधारोऽभवत्सुतः  ।

सुस्वंरूपवयः प्राप्य मातापित्रोरनुज्ञया  ॥ ७८.९ ॥

तपश्चकार विपुलं नर्मदातीरमाश्रितः  ।

यत्र व्याघ्रेश्वरं लिङ्गं व्याघ्रखेटकमुत्तमम्  ॥ ७८.१० ॥

कुण्डधारेण तत्रैव तपस्तप्तं सुदारुणम्  ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षास्वासारथारणः  ॥ ७८.११ ॥

शिशिरे जलमध्यस्थो वायुभक्षः शतं समाः  ।

एवं वर्षशते पूर्णे एकाङ्गुष्ठोऽभवत्ततः  ॥ ७८.१२ ॥

चक्रवद्भ्रमते सूर्यमभितो भरतर्षभ  ।

चतुर्थे पञ्चमे तावत्तुतोष वृषवाहनः  ॥ ७८.१३ ॥

वरं वृणीष्व हे वत्स यत्ते मनसि रोचते  ।

तद्ददामि न सन्देहस्तपसा तोषितो ह्यहम्  ॥ ७८.१४ ॥

 

कुण्डधार उवाच –

यदि तुष्टोऽसि मे देव वरदित्सुरिहागतः  ।

ततो मन्नामकं लिङ्गं तीर्थं चैतद्भवत्विति  ॥ ७८.१५ ॥

तथेत्युक्त्वा महादेवः सोमोऽन्तर्धानमागमत् ।

जगामा काशमाविश्य कैलासं धरणिधरम्  ॥ ७८.१६ ॥

गते चादर्शन देव सोऽपि यक्षो मुदान्वितः  ।

स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम्  ॥ ७८.१७ ॥

अलंकृत्वा गजं धेनुं धूपपुष्पविलेपनैः  ।

वितानैश्चामरैश्छत्रैस्तथैव लिङ्गपूजनैः  ॥ ७८.१८ ॥

तर्पयित्वा द्विजान् सम्यगन्नपानादि भूषणैः  ।

प्रीणयित्वा महादेवं ततः स्वभवनं ययौ  ॥ ७८.१९ ॥

तदा प्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम्  ।

युधिष्ठिर परं पुण्यं कुण्डलेश्वरसंज्ञकम्  ॥ ७८.२० ॥

तत्र तीर्थे तु यः कश्चिदुपवासपरायणः  ।

अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते  ॥ ७८.२१ ॥

सुवर्णं रजतं वापि मणिं मौक्तिकमेव च  ।

ब्राह्मणेभ्यो ददात्यत्र स मुख्यो मोदते दिवि  ॥ ७८.२२ ॥

तत्र तीर्थे नरः स्नात्वा ऋग्यजुः सामसु द्विजः  ।

ऋचमेकां जपित्वा च चतुर्वेदफलं लभेत् ॥ ७८.२३ ॥

तस्मिंस्तीर्थे तु गोदानमन्नदानमथापि वा  ।

यः प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव  ॥ ७८.२४ ॥

यावन्ति तस्य रोमाणि तत्प्रसूतिकुलेषु च  ।

तावद्वर्षसहस्राणि स्वर्गलोके महीयते  ॥ ७८.२५ ॥

स्वर्गवासो भवेत्तस्य पुत्रपौत्रसमन्वितः  ।

तस्मिंस्तीर्थे महाभाग व्याघ्रश्चैव पिपासितः  ॥ ७८.२६ ॥

निषादानां भयेनैव अटव्यामटति स्वयम्  ।

निषादानां भर्यैर्नष्टः पतितो नर्मदाजले  ॥ ७८.२७ ॥

जलप्लुतो महाभाग लिङ्गरूपधरोऽभवत् ।

उक्तश्चाकाशवाण्या वै व्याघ्रेश्वरमनुत्तमम्  ॥ ७८.२८ ॥

पूज्यं वै त्रिषु लोकेषु ख्यातिं यास्यत्यसंशयम्  ।

तत्र तीर्थे नरः स्नात्वा तल्लिङ्गमर्चयेत्तु यः  ॥ ७८.२९ ॥

ब्रह्महत्यादिपापेभ्यो मुच्यते नात्र संशयः  ।

एतत्ते कथितं राजन् कुण्डलेश्वरमुत्तमम्  ॥ ७८.३० ॥

श्रवणात्कीर्तनादस्य गोसहस्रफलं लभेत् ॥ ७८.३१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कुण्डलेश्वरमहिमा अनुवर्णनोनाम अष्टसप्ततितमोऽध्यायः ॥

 

 

अध्याय ७९

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम्  ।

यत्र सिद्धो महायोगी पिप्पलादो महातपाः  ॥ ७९.१ ॥

 

युधिष्ठिर उवाच –

पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं प्रभो  ।

माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः  ॥ ७९.२ ॥

कस्य पुत्रो महाभाग किमर्थं तप्तवांस्तपः  ।

एतद्विस्तरतः सर्वं कथयस्व ममानघ  ॥ ७९.३ ॥

 

मार्कण्डेय उवाच –

मिथिलास्थो महाभाग वेदवेदाङ्गपारगः  ।

याज्ञवल्क्यश्च पुरतश्चचार विपुलं तपः  ॥ ७९.४ ॥

तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः  ।

चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः  ॥ ७९.५ ॥

ततस्त्वेकस्मिन् समये स्नाताहनि रजस्वला  ।

अन्तर्वासं कृतवती दृष्ट्वा कर्कटकं रहः  ॥ ७९.६ ॥

याज्ञवल्क्योऽपि तद्रात्रौ परिधानेन तेन वै  ।

स्वप्नं दृष्ट्वात्यजच्छुक्रं प्रभातेऽन्वैषयत्पुनः  ॥ ७९.७ ॥

तत सा ब्राह्मणी तात किमन्वेष्यसि भारत  ।

केन कार्यं तव विभो वदस्व मम तत्त्वतः  ॥ ७९.८ ॥

 

याज्ञवल्क्य उवाच –

अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि  ।

शुक्लं मे चात्र वस्त्रं स्वं निक्षिप्तं तन्न दृश्यते  ॥ ७९.९ ॥

तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीताभवन्नृप  ।

तद्वस्त्रं तु मया ब्रह्मन् स्नात्वान्तर्धानकं कृतम्  ॥ ७९.१० ॥

तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महातपाः  ।

पपात सहसा भूमौ छिन्नमूल इव द्रुमः  ॥ ७९.११ ॥

किमेतदिति जल्पन्तमाकाशाद्वाग्विनिर्गता  ।

तोषयन्ती च तं विप्रं प्रोवाच नृपते तदा  ॥ ७९.१२ ॥

नास्य दोषो मया दृष्टस्तव चैव शुभव्रते  ।

तव गर्भोदयो येन तत्र दैवं परायणम्  ॥ ७९.१३ ॥

न विनाशोऽस्य कर्तव्यो यावत्कालस्य पर्ययः  ।

तथेति व्रीडिता सा च दुर्मनेति विमानतः  ॥ ७९.१४ ॥

पालयामास तं गर्भं यावत्पुत्रो व्यजायत  ।

जातमात्रं तु तं गर्भं कथयित्वा न कंचन  ॥ ७९.१५ ॥

अश्वस्थवृक्षमासाद्य सोत्ससर्ज महीतले  ।

यानि सत्त्वानि लोकेषु स्थावराणि चराणि वै  ॥ ७९.१६ ॥

तानि वै पालयन्त्वेनं बालकं त्यजति स्म सा  ।

एवमुक्त्वा ततः साध्वी ब्राह्मणी नृपसत्तम  ॥ ७९.१७ ॥

यथागतं जगामाथ सावस्थाय मुहूर्तकम्  ।

पादौ पाणी विनिक्षिप्य विमृज्य नयने शूभे  ॥ ७९.१८ ॥

आस्यं च विकृतं कृत्वा रुरोदोच्चैरनाथवत् ।

तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये  ॥ ७९.१९ ॥

अकम्पयत्महीं तात सशैलवनकन्दराम्  ।

ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम्  ॥ ७९.२० ॥

न जहाति नगश्छायामार्पयच्च ततः पयः  ।

आप्यायितस्ततस्तेन अमृतेनैव भारत  ।

ततः स चिन्तयाविष्टो निर्ममे ग्रहगोचरम्  ॥ ७९.२१ ॥

तेन क्रूरसमाचारः क्रूरदृष्ट्या निरीक्षितः  ।

पपात सहसा भूमौ शनैश्चारी शनैश्चरः  ॥ ७९.२२ ॥

शनैश्चरं बालकोऽपि पादेनैव परामृशत् ।

पीडितः सोऽपि बालेन उवाच वचनं तदा  ॥ ७९.२३ ॥

किं मयाऽपकृतं विप्र पिप्पलाद महामुने  ।

निष्क्रामन् गगने चैव पातितो धरणीतले  ॥ ७९.२४ ॥

सौरिणाप्येवमुक्तस्तु पिप्पलादो महामुनिः  ।

क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप  ॥ ७९.२५ ॥

पितृमातृविहीनस्य बालभावस्य दुर्मते  ।

पीडां करोषि कस्मात्त्वं सौरे त्वमवशेषितः  ॥ ७९.२६ ॥

 

शनैश्चर उवाच –

क्रूरस्वभावसंजाता मम दृष्टि द्विजोत्तम  ।

मुञ्च त्वं मां च कर्ताहं यद्ब्रवीषि न संशयः  ॥ ७९.२७ ॥

 

पिप्पलाद उवाच –

अद्य प्रभृतिबालानां जन्मतः षोडशीः समाः  ।

पीडा त्वया न कर्तव्या एष ते समयः परः  ॥ ७९.२८ ॥

एवमस्त्विति तं चोक्त्वा प्रजगाम यथागतः  ।

देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम्  ॥ ७९.२९ ॥

ततश्चादर्शनं तत्र गतवान् स महाग्रहः  ।

विचिन्तयानश्चैकाकी क्रोधेन कलुषीकृतः  ॥ ७९.३० ॥

आग्नेयीं हि दिशं ध्यात्वा जनयामास पावकम्  ।

कृत्त्वा मांसं जुहावाग्नौ क्रियासम्भवतत्त्वतः  ॥ ७९.३१ ॥

तावच्च जनिता कृत्या ज्वालामालाविभूषिता  ।

हुतभुक्सदृशाकारा किंकरोमीति चाब्रवीत् ॥ ७९.३२ ॥

शोषयामि समुद्रं किं चूर्णयामि च पर्वतम्  ।

भूमिं च वेष्टयामीह पातयित्वा नभस्तलम्  ॥ ७९.३३ ॥

कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज  ।

शीघ्रमादिश मे कार्यं न कालातिक्रमो भवेत् ॥ ७९.३४ ॥

तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः  ।

क्रोधरक्तान्तनयन इदं वचनमब्रवीत् ॥ ७९.३५ ॥

महता क्रोधवेगेन मया त्वं चिन्तिता शुभे  ।

पिता मे याज्ञवल्क्यस्तु तं त्वं घातय माचिरम्  ॥ ७९.३६ ॥

एवमुक्ता तु सा शीघ्रं स्फुटन्तीव नभस्तलम्  ।

मिथिलास्थो महाप्राज्ञो यत्र तेपे महातपाः  ॥ ७९.३७ ॥

यावत्पश्यति दिङ्मार्गं ज्वलनार्कसमप्रभम्  ।

याज्ञवल्क्यो महातेजास्तद्भूतं समुपस्थितम्  ॥ ७९.३८ ॥

तां दृष्ट्वा सहसायान्तीं भीतभीतो महामुनिः  ।

भूतेनाक्रमितो विप्रो जनकं नृपतिं ययौ  ॥ ७९.३९ ॥

शरणार्थमनुप्राप्तं विद्धि मां नृपसत्तम  ।

महाभूताच्च मां रक्ष यदि शक्नोषि मानद  ॥ ७९.४० ॥

 

राजोवाच –

ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम्  ।

प्रभुर्नैवाद्य शक्नोमि अन्यं गच्छ महामते  ॥ ७९.४१ ॥

ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः  ।

जगाम तेन चैवोक्त इन्द्रस्य शरणं ययौ  ॥ ७९.४२ ॥

देवराज नमस्तेऽस्तु महाभूताच्च रक्ष माम्  ।

तस्य तद्वचनं श्रुत्वाब्रवीदिन्द्रस्तदा वचः  ॥ ७९.४३ ॥

न च शक्तः परित्रातुं ब्रह्मतेजो हि दुःसहम्  ।

ततश्च ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः  ॥ ७९.४४ ॥

जगाम विष्णुभवनं शक्तोऽपि त्यक्तवान् भयात् ।

ततः स परमोद्विग्नो निराशो जीविते नृप  ॥ ७९.४५ ॥

अनुगम्यमानो भूतेन अगच्छच्च महेश्वरम्  ।

तस्य योगबलोपेतो महादेवस्य पाण्डव  ॥ ७९.४६ ॥

नखमांसान्तरे लुप्तो यथा देवो न पश्यति  ।

अदृष्टमगमद्भूतं ज्वलनार्कसमप्रभम्  ॥ ७९.४७ ॥

मुञ्च मुञ्चेति पुरुष मुञ्चेश्वरमुवाच ह  ।

एवमुक्तो महादेवस्तेन भूतेन भारत  ॥ ७९.४८ ॥

योगीन्द्रं दर्शयामास नखमांसान्तरे स्थितम्  ।

संस्थाप्य कृत्यां भूतेशो ज्वलत्कालानलप्रभाम्  ॥ ७९.४९ ॥

उवाच मा भैस्त्वं विप्र मा च गच्छ महामुने  ।

ततस्तं सूक्ष्मदेहस्थं महादेवोऽब्रवीदिदम्  ॥ ७९.५० ॥

किमस्य त्वं महाभूत कर्ता कृत्य वदस्व मे  ।

 

कृत्योवाच –

क्रोधदीप्तेन देवेश पिप्पलादेन चिन्तिता  ॥ ७९.५१ ॥

अस्य देहे पतिष्यामि अहिंस्यां विद्धि मां प्रभो  ।

एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम्  ॥ ७९.५२ ॥

वरिष्ठं बन्धयामास याज्ञवल्क्यस्य घातकम्  ।

योगीश्वरं तं विप्रेन्द्रं दत्त्वाभीतिं युधिष्ठिर  ॥ ७९.५३ ॥

विसर्जयित्वा देवस्तं तत्रैवान्तरधीयत  ।

प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः  ॥ ७९.५४ ॥

मातापितृविहीनस्तु नर्मदातटमाश्रितः  ।

एकनिष्ठो निराहारो वर्षाणि षोडशैव तु  ॥ ७९.५५ ॥

तोषयामास देवेशमुमया सह शङ्करम्  ।

 

हर उवाच –

परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत  ॥ ७९.५६ ॥

वरं वृणीष्व ते दद्यां मनसाभीप्सितं शुभम्  ।

 

पिप्पलाद उवाच –

यदि मे भगवांस्तुष्टो यदि देयो वरो मम  ॥ ७९.५७ ॥

अत्र सन्निहितो देव मम नाम्ना च शङ्कर  ।

एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम्  ॥ ७९.५८ ॥

जगामादर्शनं देवो भूतसङ्घैर्निषेवितः  ।

पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि  ॥ ७९.५९ ॥

स्थापयित्वा महदेवं जगामोत्तरपर्वतम्  ।

तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतो नृप  ॥ ७९.६० ॥

तर्पयित्वा पितॄन् देवान् पूजयित्वा महेश्वरम्  ।

अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्  ॥ ७९.६१ ॥

मृतो रुद्रपुरं याति पिप्पलेश्वरसन्निधौ  ।

अथवा भोजयेद्विप्रान् पितॄनुद्दिश्य भक्तितः  ॥ ७९.६२ ॥

द्वादशाब्दसहस्राणि तृप्ता गच्छन्ति सद्गतिम्  ।

संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् ॥ ७९.६३ ॥

अनिवर्तिका गतिस्तस्य यथा मे शङ्करोऽब्रवीत् ।

एतत्सर्वं समाख्यातं यत्त्वं मां परिपृष्टवान्  ॥ ७९.६४ ॥

माहात्म्यं पिप्पलादस्य पिप्पलेश्वरमुत्तमम्  ।

एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम्  ॥ ७९.६५ ॥

पठतां शृण्वतां चैव सर्वपापप्रमोचनम्  ॥ ७९.६६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे पिप्पलेश्वरमहिमानुवर्णनो नामैकोनाशीतितमोऽध्यायः ॥

 

 

अध्याय ८०

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र विमलेश्वरमुत्तमम्  ।

तत्र देवशिला रम्या महादेवेन भाषिता  ॥ ८०.१ ॥

गर्जनं खेटकं नाम तत्र देवशिला शुभा  ।

तत्र स्नात्वा तु यो भक्त्या तर्पयेत्पितृदेवताः  ॥ ८०.२ ॥

तस्य ते द्वादशाब्दानि सुतृप्ता दिवि मोदिताः  ।

तस्मिंस्तीर्थे तु यो भक्त्या ब्राह्मणान् पूजयेन्नृप  ॥ ८०.३ ॥

स्वल्पेनापि हि दानेन तस्य चान्तो न विद्यते  ।

 

युधिष्ठिर उवाच –

कानि दानानि विप्रेन्द्र शस्तानि धरणीतले  ॥ ८०.४ ॥

यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः  ।

 

मार्कण्डेय उवाच –

सुवर्णं रजतं ताम्रं मणिं मौक्तिकमेव च  ॥ ८०.५ ॥

भूमिदानं तथा गावो मोचयन्त्यंशुमान्नरम्  ।

तत्र तीर्थे तु यः कश्चित्कुरुते प्राणसंक्षयम्  ॥ ८०.६ ॥

रुद्रलोके वसेत्तावद्यावदाहूतसंप्लवम्  ।

ततः पुष्करिणीं गच्छेत्कुरुक्षेत्रसमां नृप  ॥ ८०.७ ॥

पूर्वं पुष्करिणी नाम कुरुक्षेत्रं कलौ स्मृतम्  ।

तत्र स्नात्वा यजेद्देवं तेजोराशिं दिवाकरम्  ॥ ८०.८ ॥

ऋचमेकां जपेत्सौम्यः सामवेदफलं लभेत् ।

यजुर्वेदस्य जपनं ऋग्वेदस्य तथैव च  ॥ ८०.९ ॥

त्र्यक्षरं वा जपेन्मन्त्रं ध्यायमानो दिवाकरम्  ।

आदित्यहृदयं जप्त्वा मुच्यते सर्वकिल्बिषैः  ॥ ८०.१० ॥

तत्र तीर्थे तु यः स्नात्वा विधिना पूजयेद्द्विजान्  ।

तस्य कोटिगुणं दानं जायते नात्र संशयः  ॥ ८०.११ ॥

कार्तिक्यां च तथा माध्यां वैशाख्यां तु विशेषतः  ।

अमावास्यां व्यतीपाते संक्रमे वैधृतौ रवौ  ॥ ८०.१२ ॥

कुरुक्षेत्रे नरः स्नात्वा रुद्रस्यानुचरो भवेत् ।

अनाशके जले ह्यग्नौ पञ्चाग्नौ वा तथापि वा  ॥ ८०.१३ ॥

तस्मिंस्तीर्थे मृतो यस्तु स याति परमां गतिम्  ।

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा नृपसत्तम  ॥ ८०.१४ ॥

विहितं कर्मकुर्वाणः स गच्छति सतां गतिम्  ।

 

युधिष्ठिर उवाच –

किं जपन्मुच्यते व्याधेर्ज्ञात्वा वर्णं द्विजोत्तम  ॥ ८०.१५ ॥

किं कुर्वन्मुच्यते प्राणी याति लोकमनामयम्  ।

 

मार्कण्डेय उवाच –

शृणु राजन्नवहित इतिहासं पुरातनम्  ॥ ८०.१६ ॥

गुह्यतीर्थे समासाद्य ब्राह्मणो मुक्तवान् यथा  ।

पुरा द्विजवरश्चासीद्गोविन्दो नाम नामतः  ॥ ८०.१७ ॥

तस्य भार्या सुसम्पन्ना ब्राह्मणी च पतिव्रता  ।

तस्यां संजनयामास पुत्रमेकं च सुन्दरम्  ॥ ८०.१८ ॥

स बाल एव भवने क्रीडते शिशुलीलया  ।

कदाचिद्ब्राह्मणश्रेष्ठः काष्ठमानयितुं गतः  ॥ ८०.१९ ॥

वनान्नीत्वा काष्ठभारं गृहे पश्चाच्च क्षिप्तवान्  ।

क्रीडन्नास्ते शिशुस्तत्र काष्ठभारेण पीडितः  ॥ ८०.२० ॥

ममार बालकस्तत्र द्विजो न ज्ञातवांस्तदा  ।

ब्राह्मण्यपि तदा तस्मै न शशंस भयात्तथा  ॥ ८०.२१ ॥

पुर्नद्विजः स गोविन्दो विपिनं संजगाम ह  ॥ ८०.२२ ॥

 

ब्राह्मण्युवाच –

रावणो ब्रह्मणः पौत्रस्त्रैलोक्यं यस्य शङ्कते  ।

स हतो रामचन्द्रेण सपुत्रामात्यबान्धवः  ॥ ८०.२३ ॥

एवं पुत्रं विना सौख्यं मर्त्ये नाके न विद्यते  ।

यश आख्यायितं यस्य स्वर्गार्थं यस्य भारती  ॥ ८०.२४ ॥

मिष्टान्नं ब्राह्मणस्यार्थे स्वर्गवासोऽपि विद्यते  ।

पुत्रोत्पत्तिविनाशाभ्यां नापरं सुखदुःखयोः  ॥ ८०.२५ ॥

ब्रह्महत्याश्वमेधाभ्यां नापरं पापपुण्ययोः  ।

किं ब्रवीमीति हे वत्स नानुसौख्यं सुतं विना  ॥ ८०.२६ ॥

एवं बहुविधं दुःखं प्रलपित्वा पुनः पुनः  ।

बालं गृहगते विप्रे संगोप्य ब्राह्मणी तथा  ॥ ८०.२७ ॥

एवं तस्यां विलपन्त्यां गता रात्रिर्युधिष्ठिर  ।

भूम्यां प्रसुप्तं गोविन्दं पुत्रशोकेन पीडिता  ॥ ८०.२८ ॥

यावन्निरीक्षते भार्या भर्तारं दुःखपीडितम्  ।

कृमिराशिमयं तावद्गोविन्दं नृपसत्तम  ॥ ८०.२९ ॥

दुःखाद्दुःखतरे मग्ना दृष्ट्वा तं पातकान्वितम्  ।

एवं दुःखनिमग्नायाः शर्वरी विगता तदा  ॥ ८०.३० ॥

पुनः प्रातस्तु गोविन्दो दर्भाय च वनं गतः  ।

एवं न ज्ञातवान् विप्रः काष्ठेन च हतं सुतम्  ॥ ८०.३१ ॥

गताश्च दिवसाः पञ्चब्राह्मण्या गोपितं च यत् ।

पशुपालः पञ्चमेऽह्नि महिषीरुत्तमाश्च गाः  ॥ ८०.३२ ॥

अरण्ये महिषीर्मुक्त्वा गाश्च भोक्तुं गृहं गतः  ।

विज्ञप्तः पशुपालेन गोविन्दो ब्राह्मणोत्तमः  ॥ ८०.३३ ॥

यावद्भक्षाम्यहं स्वामिन्महिषीर्गाश्च रक्षय  ।

ततः स त्वरितो गाश्च ब्राह्मणो महिषीः प्रति  ॥ ८०.३४ ॥

जगाम महिषीर्गाश्च विप्रस्य तस्य रक्षतः  ।

धावमानस्य गावश्च महिष्यः सङ्गमं गताः  ॥ ८०.३५ ॥

तत्र प्रविष्टास्तु जले नद्या रेवासुसङ्गमे  ।

तज्जलं पीतमात्रं तु त्वरया तेन वारिताः  ॥ ८०.३६ ॥

अकामात्सलिलं पीत्वा प्रक्षाल्य नयने शुभे  ।

आजगाम ततः पश्चाद्भवनं दिनसंक्षये  ॥ ८०.३७ ॥

भुक्त्वा दुःखान्वितो रात्रौ गोविन्दः शयनं ययौ  ।

निद्राभिभूतो दुःखेन श्रमेणैव तु खेदितः  ॥ ८०.३८ ॥

पुनस्तं चार्धरात्रे तु तस्य भार्या निरीक्षते  ।

कृमिभिर्वेष्टितं गात्रं क्वचित्पश्यत्यवेष्टितम्  ॥ ८०.३९ ॥

पुनः सा विस्मयाविष्टा तस्य भार्या गुणान्विता  ।

उवाच दुष्कृतं तस्य साध्वसाविष्टचेतना  ॥ ८०.४० ॥

 

भार्योवाच –

अतीते पञ्चमे चाह्णि इन्धनं क्षिपता तु ते  ।

गृहे पश्चात्स्थितो बालस्त्वज्ञातो घातितस्त्वया  ॥ ८०.४१ ॥

मया तत्पातकं घोरं त्वत्कृतं न प्रकाशितम्  ।

तेन प्रच्छन्नपापेन दह्यमाना दिवानिशम्  ॥ ८०.४२ ॥

न सुखं तव गात्रस्य न च पश्यामि चात्मनः  ।

निद्रा प्रणष्टा मे नाथ रतिश्चैव त्वया सह  ॥ ८०.४३ ॥

श्रूयते मानवे शास्त्रे श्लोको गीतो महर्षिभिः  ।

स्मृत्वा स्मृत्वा च तं रात्रौ परितापो न शाम्यति  ॥ ८०.४४ ॥

कीर्तनान्नश्यतेऽधर्मो वर्धतेऽसौ च गूहनात् ।

इह लोके परे चैव पापस्यान्तो न विद्यते  ॥ ८०.४५ ॥

एवं संचिन्त्यमानाहं स्थिता रात्रौ भयातुरा  ।

कृमिराशिमयं त्वां तु पश्यामि कथयामि किम्  ॥ ८०.४६ ॥

पुनश्च कान्त त्वद्देहं भ्रूणहत्याकृमिप्लुतम्  ।

क्वचित्तुदन्ति ते चैव क्वचिन्नष्टाः समन्ततः  ॥ ८०.४७ ॥

एतत्संस्मृत्य संस्मृत्य विमृशन्ती पुनः पुनः  ।

न जाने कारणं किंचित्पृच्छामि कथयस्व मे  ॥ ८०.४८ ॥

तडागं वापि सरितं तीर्थं वा देवतालयम्  ।

यं गतोऽसि प्रभावोऽयं तस्य नान्यस्य मे मतिः  ॥ ८०.४९ ॥

एवमुक्तस्त्वसौ विप्रः कथयामास भारत  ।

भार्यया पूर्ववृत्तान्तं रममाणो नृपोत्तम  ॥ ८०.५० ॥

गोलुलायी निवृत्त्यर्थं नर्मदा सङ्गमं गतः  ।

नाभिमात्रे जले मग्नस्तोयं पीतं यथेष्टतः  ॥ ८०.५१ ॥

नान्यत्तीर्थं विजानामि नर्मदा च सरिद्वरा  ।

एवं श्रुत्वा च तत्सर्वमुपवासः कृतः क्षणात् ॥ ८०.५२ ॥

भर्त्रा सह गता तत्र सङ्गमे वरवर्णिनी  ।

स्नात्वा विधिप्रयुक्तेन सङ्गमे सुरपूजिते  ॥ ८०.५३ ॥

तर्पयामास देवेशं शङ्करं च सहोमया  ।

पञ्चामृतैः स्नापयित्वा ब्राह्मण्या सहितो द्विज  ॥ ८०.५४ ॥

गन्धमाल्यादिधूपैश्च नैवेद्यैश्च सुशोभनैः  ।

अपूजयत्तत्र लिङ्गं देवीं कात्यायनीं शुभाम्  ॥ ८०.५५ ॥

रात्रौ जागरणं कृत्वा भर्त्रा तेन सहैव सा  ।

ततः प्रभाते विमले द्विजं सम्पूज्य यत्नतः  ॥ ८०.५६ ॥

गोदानेन हिरण्येन वस्त्रेणान्नेन भारत  ।

गोविन्दः पूजयामास स्वशक्त्या ब्राह्मणं शुभम्  ॥ ८०.५७ ॥

उक्तश्चाकाशवाण्या तु तीर्थं गुह्यावती त्विदम्  ।

गुह्येश्वरं तत्र लिङ्गं पातालादुत्थितं तदा  ॥ ८०.५८ ॥

गुह्यावतीनर्मदयोः सङ्गमो गुणवानभूत् ।

मुक्तपापो गृहं यातः स्वभार्यासहितो द्विजः  ॥ ८०.५९ ॥

एतत्तीर्थं पापहरं बालहत्याप्रणाशनम्  ।

तत्र स्नात्वा च जप्त्वा च दत्त्वा ब्राह्मणभोजनम्  ॥ ८०.६० ॥

उपास्य श्राद्धकरणात्तिलोदकप्रदानतः  ।

निवसेच्छिवलोके हि यावदाहूत संप्लवम्  ॥ ८०.६१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे गुह्यावतीतीर्थमहिमानुवर्णनो नामाशीतितमोऽध्यायः ॥

 

 

अध्याय ८१

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र उत्तरे नर्मदातटे  ।

मेघनादसमीपे तु विश्वरूपा सरिद्वरा  ॥ ८१.१ ॥

निर्गता विश्वरूपस्य शरीरादुपकुर्वतः  ।

पुरा दारुवने देवो लिङ्गहीनः कृतो द्विजैः  ॥ ८१.२ ॥

नर्मदातटमाश्रित्य तपः कुर्वंस्तदा नृप  ।

विश्वरूपोऽभवद्देवो निर्गता सरितां वरा  ॥ ८१.३ ॥

गता सा नर्मदातोयं सङ्गमो गुणवानभूत् ।

तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८१.४ ॥

तत्र यत्क्रियते कर्म सर्वं तदक्षयं भवेत् ।

सारिका सिद्धिमायाता पतिता तीर्थसङ्गमे  ॥ ८१.५ ॥

पूर्वमप्सरसां श्रेष्ठा शक्रशापादकामतः  ।

चित्राङ्गदेन रमिता काचित्कष्टमवाप ह  ॥ ८१.६ ॥

सारिका भव कल्याणि वर्षाणां साऽग्रविंशतिम्  ।

मृत्वा त्वं नर्मदातोये विश्वरूपा सुसङ्गमे  ॥ ८१.७ ॥

विचित्रा बहुचार्वङ्गी सञ्जाता सारिका नृप  ।

जातिस्मरा सुराभावा नर्मदातटमाश्रिता  ॥ ८१.८ ॥

ततः काले च संप्राप्ते प्रज्वाल्य पावकं शुभम्  ।

प्रविष्टा सा शुभाचारा विश्वरूपा सुसङ्गमे  ॥ ८१.९ ॥

दिव्यदेहधरी राजन् प्राप्ता शक्रस्य मन्दिरम्  ।

एतदन्तरमासाद्य सारिकातीर्थमुच्यते  ॥ ८१.१० ॥

तत्र यत्क्रियते कर्म श्राद्धं यज्ञः शिवार्चनम्  ।

सर्वं कोटिगुणं विद्यान्मेघनादस्य दर्शनात् ॥ ८१.११ ॥

अवशः स्ववशो वापि यस्तु प्राणान् परित्यजेत् ।

न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ॥ ८१.१२ ॥

ख्यातानि पञ्चलिङ्गानि यानि दृष्ट्वा शिवं व्रजेत् ।

मानवो मनुजश्रेष्ठ शृणु तानि युधिष्ठिर  ॥ ८१.१३ ॥

मेघनादं च गोष्ठेशं वागीशं काकडेश्वरम्  ।

लक्षेश्वरं पञ्चलिङ्गान्येकाहे यस्तु पूजयेत् ॥ ८१.१४ ॥

अनेनैव शरीरेण स नरो हि शिवं व्रजेत् ।

कोटियज्ञफलं प्राप्य पश्चान्मोक्षमवाप्नुयात् ॥ ८१.१५ ॥

आख्यानं कथयिष्यामि पुरावृत्तं तवानघ  ।

धर्मसेनः पुरा राजा अयोध्याधिपतिर्बली  ॥ ८१.१६ ॥

धर्मेण राज्यं कृतवान् यज्ञांश्च बहुदक्षिणान्  ।

शृण्वन् स धर्मशास्त्राणि नर्मदाचरितं तथा  ॥ ८१.१७ ॥

श्रुत्वा विनिर्गतो राजा रेवाया उत्तरे तटे  ।

मेघनादं समभ्यर्च्य स्नात्वा वै नर्मदाजले  ॥ ८१.१८ ॥

उद्गच्छति दिनकरे अश्वारूढो नरेश्वरः  ।

उत्तरां दिशमाश्रित्य गतो गोष्ठेश्वरं शिवम्  ॥ ८१.१९ ॥

यथाविधानं सम्पूज्य वागीश्वरं गतस्ततः  ।

तत्र स्नात्वा विधानेन पूजयित्वा शिवं नृपः  ॥ ८१.२० ॥

चन्दनागुरुकर्पूरैर्धूपैर्दीपैर्विधानकैः  ।

अश्वारूढो नृपश्रेष्ठः काकडेश्वरमागतः  ॥ ८१.२१ ॥

तं प्रपूज्य ततो राजा गत्वा वै नार्मदे जले  ।

लक्षेश्वरं पूजयित्वा स्थितं वै विधिपूर्वकम्  ॥ ८१.२२ ॥

मेघनादं ततो गत्वा सूर्यश्चास्तमुपागमत् ।

ध्यात्वा स्वयं कालरूपं यावत्तिष्ठति वै नृपः  ॥ ८१.२३ ॥

तावद्घोरोऽपि तुरगो ह्यन्तरिक्षचरस्तदा  ।

दिव्यदेहधरः सश्चाप्यप्सरोभिः समावृतः  ॥ ८१.२४ ॥

विमाने देवराजस्य ययाविन्द्रपुरीं स्थितः  ।

शुनी पृष्ठे तु या राज्ञस्तीर्थयात्रां प्रकुर्वती  ॥ ८१.२५ ॥

दिव्यदेहधरा सापि विमानेन गता दिवि  ।

धर्मसेनोऽपि तां दृष्ट्वा विस्मयाविष्टचेतनः  ॥ ८१.२६ ॥

अश्वरूपं जगादाथ किमेतदिति भारत  ।

उवाचाकाशगो वाचं कथं त्वं खिद्यसे नृप  ॥ ८१.२७ ॥

शरीरजेन कष्टेन तपः साध्या विभूतयः  ।

पादचारी हि गच्छ त्वं परपादैर्गतो ह्यसि  ॥ ८१.२८ ॥

भूयो यात्रां प्रकुरुषे तदा सिद्धिमवाप्स्यसि  ।

ततो राजा च तस्याथ श्रुत्वा तद्वचनं तदा  ॥ ८१.२९ ॥

पुनर्द्वितीयदिवसे प्रस्थितो लिङ्गपूजनम्  ।

पञ्चलिङ्गान् समभ्यर्च्य समायातस्तु नर्मदाम्  ॥ ८१.३० ॥

मेघनादं यदापश्यद्द्वारे देवं च दृष्टवान्  ।

पञ्चवक्त्रं दशभुजं त्रिनेत्रं शूलपाणिनम्  ॥ ८१.३१ ॥

वृषारूढं जगद्गर्भं शशाङ्ककृतशेखरम्  ।

दृष्ट्वा तं देवदेवेशं तुष्टाव परमेश्वरम्  ॥ ८१.३२ ॥

जय देव महादेव महापातकनाशन  ।

संसारसागरे मग्नं मां समुद्धर साम्प्रतम्  ॥ ८१.३३ ॥

 

हर उवाच –

वरं वृणु महाभाग यत्ते मनसि वर्तते  ।

तद्ददामि न सन्देहश्श्विभक्तो हि पुत्रक  ॥ ८१.३४ ॥

यदि तुष्टोऽसि मे देव तन्मां सहचरं कुरु  ।

एकाहे पञ्चलिङ्गानि पूजयिष्यति यो नरः  ॥ ८१.३५ ॥

स तवानुचरो देव भवत्वेष वरो मम  ।

धर्मसेनवचः श्रुत्वा भवत्वेवं हरोऽब्रवीत् ॥ ८१.३६ ॥

तं गृहीत्वा तु राजानं कैलासं स जगाम ह  ।

स्वदेहस्थं चकारासौ धर्मसेनं नृपं नृप  ॥ ८१.३७ ॥

एतत्ते कथितं राजन्नितिहासं पुरातनम्  ।

श्रवणात्कीर्तनादस्य अश्वमेधफलं लभेत् ॥ ८१.३८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे पञ्चलिङ्गमहिमानुवर्णनो नामैकाशीतितमोऽध्यायः ॥

 

 

अध्याय ८२

 

मार्कण्डेय उवाच –

अथान्यत्कथयिष्यामि तीर्थं पापप्रणाशनम्  ।

मयूरकुक्कुटं नाम ब्रह्महत्या व्यपोहनम्  ॥ ८२.१ ॥

मृकण्डस्याश्रमं पुण्यं नर्मदादक्षिणे तटे  ।

मृकण्डो नाम भूपाल ऋषिः परमधार्मिकः  ॥ ८२.२ ॥

तपस्तेपे महाभाग दिव्यैर्वर्षसहस्रकैः  ।

तस्याश्रमपदे रम्ये मुनयः शंसितव्रताः  ॥ ८२.३ ॥

वसन्ति स्म जलाहाराः शुष्कपत्रकृताशनाः  ।

केचित्तन्न निराहारा मोक्षोपायविचिन्तकाः  ॥ ८२.४ ॥

एतस्मिन्नन्तरे राजन् गन्धर्वौ शक्रगायनौ  ।

हेतिप्रहेतिनामानौ गतौ शक्रसभां नृप  ॥ ८२.५ ॥

वधूरप्सरसां श्रेष्ठा दृष्टा ताभ्यां युधिष्ठिर  ।

दृष्टमात्रौ तु गन्धर्वौ कामबाणप्रपीडितौ  ॥ ८२.६ ॥

हेतिः कुक्कुटशब्देन प्रहेतिर्बर्हिणस्तथा  ।

घोष्यमाणौ सुमधुरं सादयामास तु च ताम्  ॥ ८२.७ ॥

वृत्रहा तदभिप्रायं ज्ञात्वा शापं ददौ तवा  ॥ ८२.८ ॥

पूर्णे दिव्यशते वर्षे पश्चादत्रागमिष्यथः  ।

तिर्यग्योनौ तु संप्राप्तौ गन्धर्वौ हि युधिष्ठिर  ॥ ८२.९ ॥

जातिस्मरौ दुराचारौ पक्षिणौ प्रियदर्शीनौ  ।

सर्वतीर्थान्युत्तरन् तौ नारदं च ददर्शतुः  ॥ ८२.१० ॥

 

गन्धर्वावूचतुः॒

भविष्यावः शुभाचार ब्रह्मपुत्र तपोधन  ।

कर्मणा केन चावां हि मुक्तावेतौ वदस्व तत् ॥ ८२.११ ॥

 

नारद उवाच –

नर्मदा दक्षिणे तीरे मृकण्डस्याश्रमं शुभम्  ।

तिर्यग्योनिविमोक्षं च तीर्थं हि परमं मतम्  ॥ ८२.१२ ॥

जलाप्लुतौ नर्मदायाः सर्वं तत्र भविष्यति  ।

ततो हेतिः प्रहेतिश्च सुस्नातौ दिव्यरूपिणौ  ॥ ८२.१३ ॥

एकेन स्नानमात्रेण पक्षिणौ दिव्यतां गतौ  ।

स्नात्वा तु विधिनाऽनेन ध्यात्वा देवं सदाशिवम्  ॥ ८२.१४ ॥

उच्चार्य्याघोरमन्त्रं तौ सदा ध्यानस्थितौ नृप  ।

एतस्मिन्नन्तरे राजन् पातालादुत्थितं शुभम्  ॥ ८२.१५ ॥

शतसूर्यप्रकाशं हि लिङ्गं तत्र युधिष्ठिर  ।

कुक्कुटेश्वरमेकं तु मयूरेश्वरमेव च  ॥ ८२.१६ ॥

गन्धर्वौ तु विमानस्थौ गतौ शक्रस्य मन्दिरम्  ।

तस्मिंस्तीर्थे नरः स्नात्वा भवे नैव पुनर्भवेत् ॥ ८२.१७ ॥

स्नात्वा तिलोदकं दत्त्वा पितॄणां परमा गतिः  ।

अवशः स्ववशोऽवापि यस्तु प्राणान् परित्यजेत् ॥ ८२.१८ ॥

न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ।

तत्र कीटाः पतङ्गाश्च पक्षिणोऽथ सरीसृपाः  ॥ ८२.१९ ॥

मण्डूकाः पापवृक्षाश्च मृता यान्ति शिवं पदम्  ॥ ८२.२० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मृकण्डाश्रमकीर्तनो नाम द्व्यशीतितमोऽध्यायः ॥

 

 

अध्याय ८३

 

मार्कण्डेय उवाच –

ततोऽन्यत्परमं तीर्थं चन्द्रमत्यास्तु सङ्गमे  ।

चन्द्रेश्वरं सिद्धलिङ्गं तथा सिद्धेश्वरं पुनः  ॥ ८३.१ ॥

घण्टेश्वरं महिषेशमश्वतीर्थमतः परम्  ।

वृषसेनं हयग्रीवं शुकतीर्थमतः परम्  ॥ ८३.२ ॥

रमेश्वरं ततो गच्छेत्तीर्थं पापप्रणाशनम्  ।

मेकलायास्तटे राजन्महापातकनाशनम्  ॥ ८३.३ ॥

यदा दारुवने पूर्वं महादेवेन मोहिताः  ।

ब्राह्मणानां स्त्रियस्तत्र रममाणाः समागताः  ॥ ८३.४ ॥

चिन्तयन्त्यश्च ता मोक्षं मेकलातीरमाश्रिताः  ।

ताभिश्च रममाणाभिरावृतं शिवपूजनम्  ॥ ८३.५ ॥

नीलोत्पलदलैर्बिल्वैर्मल्लिकाजातिकुन्दकैः  ।

शून्यं प्रपूजितं यावत्तावल्लिङ्गं समुत्थितम्  ॥ ८३.६ ॥

पातालादागतं लिङ्गं ज्वलत्कालानलप्रभम्  ।

रमेश्वरेति विख्यातं रममाणात्समुत्थितम्  ॥ ८३.७ ॥

स्त्रीणां उवाच देवेशः शापमोक्षो भवत्विति  ।

गच्छन्तु सर्वाः स्वगृहं साम्प्रतं गतकल्मषाः  ॥ ८३.८ ॥

इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत  ।

तस्मिंस्तीर्थे नरः स्नात्वा स भवे न पुनर्भवेत् ॥ ८३.९ ॥

अनाशकेन चाग्नौ हि ये मृता न पुनर्भवाः  ।

तिलोदकं पितॄणां तु पिण्डदानं यथाविधि  ॥ ८३.१० ॥

श्राद्धेनैव च दानेन पितॄणां परमा गतिः  ।

इन्द्रेण ब्रह्मणा पूर्वं विष्णुना धनदेन च  ॥ ८३.११ ॥

रक्षसा रावणेनाथ तथा चेन्द्रजिता नृप  ।

जपो जप्तस्तपस्तप्तं यज्ञानि विविधानि च  ॥ ८३.१२ ॥

कृतानि नृपशार्दूल गता हि परमां गतिम्  ।

अन्यच्च कथयिष्यामि हारिणं तीर्थमुत्तमम्  ॥ ८३.१३ ॥

हरिणेशं सिद्धलिङ्गं तथा वै धनुरीश्वरम्  ।

बाणेश्वरं परविद्धि तथा वै लुब्धकेश्वरम्  ॥ ८३.१४ ॥

लिङ्गरूपाणि पूजयित्वा शिवं व्रजेत् ।

आख्यानं कथयिष्यामि पुरावृत्तं युधिष्ठिर  ॥ ८३.१५ ॥

अर्जुनो लुब्धको नाम मन्दजातिसमुद्भवः  ।

पर्यटन्मृगयां राजन्नर्मदातीरमागतः  ॥ ८३.१६ ॥

दृष्ट्वा यूथं मृगाणां तु धावमानः पुनः पुनः  ।

पलायमानाः सर्वे ते एकः पश्चात्स्थितो मृगः  ॥ ८३.१७ ॥

हतो मध्यदिने सोऽद्य कुरङ्गो नर्मदातटे  ।

पतितोऽसौ गतप्राणो दिव्यदेहधरः पुनः  ॥ ८३.१८ ॥

विमाने हंसयुक्ते वै ब्रह्मलोकं जगाम ह  ।

गते तु हरिणे सोऽथ लुब्धकश्चिन्तयान्वितः  ॥ ८३.१९ ॥

महापापान्यनेकानि कृतानि तु मया पुनः  ।

का गतिं याम्यहं चाथ श्रेयसे मरणं मम  ॥ ८३.२० ॥

चिन्तयित्वा ततो राजन् पतितो नर्मदाजले  ।

तत्क्षणाद्दिव्यदेहोऽसौ गन्धर्वपुरमाययौ  ॥ ८३.२१ ॥

गते तस्मिन् देवलोके धनुर्बाणौ जले स्थितौ  ।

चत्वार्येतानि लिङ्गानि ख्यातानि भुवनत्रये  ॥ ८३.२२ ॥

हरिणेश्वरं च बाणेशं लुब्धेशं धनुरीश्वरम्  ।

रमेश्वरं पञ्चमं तु पञ्चलिङ्गानि कीर्तयेत् ॥ ८३.२३ ॥

न तस्य पुनरावृत्तिर्घोरे संसारसागरे  ।

तस्मिंस्तीर्थे नरो राजन् स्नात्वा शिवपुरं व्रजेत् ॥ ८३.२४ ॥

ब्रह्महत्यादि पापानि विलयं यान्ति पार्थिव  ।

अनाशके चार्धजले मृतः शिवमवाप्नुयात् ॥ ८३.२५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे रमेश्वरहरिणेश्वरलुब्धकेश्वरधनुरीश्वरबाणेश्वरकथनो नाम त्र्यशीतितमोऽध्यायः ॥

 

 

अध्याय ८४

 

मार्कण्डेय उवाच –

तत्र स्नात्वा तु भक्त्या य उपवासपरायणः  ।

क्षपाजागरणं कुर्याद्दद्याद्दानं च यत्नतः  ॥ ८४.१ ॥

देवस्य स्नपनं कुर्यादमृतैः पञ्चभिस्तथा  ।

समालभेद्यथाशक्त्या पूजां कृत्वा विधानतः  ॥ ८४.२ ॥

पात्रं परीक्ष्य दातव्यमात्मनः श्रेय इच्छता  ।

पितरस्तस्य तृप्यन्ति द्वादशाब्दं न संशयः  ॥ ८४.३ ॥

गच्छति तत्र दाता च यत्र देवो निरञ्जनः  ।

गृहमध्ये प्रविष्टस्तु स्मरन्नामास्य शक्तितः  ॥ ८४.४ ॥

नीलाद्रौ तु च यत्पुण्यं तत्समस्तं लभेत सः  ।

शूलभेदे च यः कुर्याच्छ्राद्धं पर्वणि पर्वणि  ॥ ८४.५ ॥

विशेषाच्चैव मासान्ते तस्य पुण्यफलं शृणु  ।

केदारे चैव यत्पुण्यं कुब्जायां च तथा नृप  ॥ ८४.६ ॥

कनखले चैव यत्पुण्यं गङ्गासागरसङ्गमे  ।

सितासिते तु यत्पुण्यमन्यतीर्थे विशेषतः  ॥ ८४.७ ॥

अर्बुदे चैव यत्पुण्यं पुण्यं चामरपर्वते  ।

गङ्गाद्यैः सर्वतीर्थैश्च फलं प्राप्नोति मानवः  ॥ ८४.८ ॥

अस्मिंस्तीर्थे तथा पुण्यं लभते नात्र संशयः  ।

विधिमन्त्रसमायुक्तं तर्पयेत्पितृदेवताः  ॥ ८४.९ ॥

कुलानि तारयत्येव दश पूर्वापराणि सः  ।

दक्षिणां चैव मर्त्यश्च शुचिर्भूत्वा समाहितः  ॥ ८४.१० ॥

न्यासं कृत्वा तु पूर्वोक्तं प्रदद्यादष्टपुष्पकम्  ।

शास्त्रोक्तैरष्टभिर्मन्त्रैर्मानसैः शृणु तांस्तथा  ॥ ८४.११ ॥

वारिजं सौम्यमाग्नेयं वायव्यं पार्थिवं पुनः  ।

वानस्पत्यं भवेत्पुष्पं प्राजापत्यं तु सप्तमम्  ॥ ८४.१२ ॥

अष्टमं शिवपुष्पं च शृण्वेतेषां विनिर्णयम्  ।

वारिजं सलिलं ज्ञेयं सौम्यं मधुयुतं पयः  ॥ ८४.१३ ॥

आग्नेयं धूपदीपं च वायव्यं चन्दनादिकम्  ।

पार्थिवं कन्दमूलाद्यं वानस्पत्यफलात्मकम्  ॥ ८४.१४ ॥

प्राजापत्यमन्नाद्यं च शिवपुष्पमुपासनम्  ।

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः  ॥ ८४.१५ ॥

तृतीयं च दयापुष्पमेभिस्तुष्यन्ति देवताः  ।

तपसा चार्चयेद्भक्त्या अत्र तीर्थे नराधिप  ॥ ८४.१६ ॥

छत्रं च चामरं दद्याच्छय्यां चोपानहौ तथा  ।

तेन पूजनमात्रेण पूजिताः पुरुषास्त्रयः  ॥ ८४.१७ ॥

स्वर्गलोके वसेत्तावद्यावदाहुत संप्लवम्  ।

शूलपाणेस्तु यो भक्त्या स्नपनं चैव कारयेत् ॥ ८४.१८ ॥

पञ्चामृतेन यश्चैव यक्षकर्दमकुंकुमैः  ।

समालभेच्च देवेशं श्रीखण्डैरगरादिभिः  ॥ ८४.१९ ॥

नानाविधैश्च पुष्पैश्चार्चां कुर्वन्ति ये द्विजाः  ।

रुद्रं पुरुषसूक्तं च लोके यः स्वस्वसूत्रकम्  ॥ ८४.२० ॥

इषे त्वादिकमन्त्रादि ज्योतिर्ब्राह्मणमेव च  ।

गायत्री च मधुश्चैव मण्डलब्राह्मणमेव च  ॥ ८४.२१ ॥

एतज्जपं तु ये भक्त्या यजुर्वेदसमुद्भवम्  ।

देवव्रतं नाम दैव्यं पुरुषास्तत्पुरं ययुः  ॥ ८४.२२ ॥

आसीत्पुरा महाराज अन्धको नाम दुर्जय  ।

आराधयामास शिवं चिरकालमुपस्थितः  ॥ ८४.२३ ॥

प्रसन्नो भगवान् देवो वरं याचस्व सुव्रत  ।

वरं लब्ध्वा तदा दैत्योऽधावत्सहर्षतोऽन्धकः  ॥ ८४.२४ ॥

पुरे जनाश्च दृश्यन्ते भाजनैर्रत्नपूरितैः  ।

साक्षतैर्भाजनैस्तस्य शतसाहस्रयोषितः  ॥ ८४.२५ ॥

मन्त्रान् पठन्ति विप्राश्च माङ्गल्यनिस्वनेन च  ।

भूपं चामात्यभृत्यैश्च राज्याश्वरथदन्तिभिः  ॥ ८४.२६ ॥

वर्धापयन्ति ते सर्वे ये केचित्पुरवासिनः  ।

हृष्टः पुष्टो वसंस्तत्र स सुरैर्नाभिभूयते  ॥ ८४.२७ ॥

वरलब्धं तु तं ज्ञात्वा गीर्वाणाः शङ्कितास्तदा  ।

एकीभूताश्च ते सर्वे शक्रस्य शरणं ययुः  ॥ ८४.२८ ॥

समागतान् सुरान् दृष्ट्वा शक्रो वचनमब्रवीत् ।

कथं समागतास्सर्वे यूयं च त्रिदिवौकसः  ॥ ८४.२९ ॥

कथं च भयमुत्पन्नं कथयध्वं महासुराः  ॥ ८४.३० ॥

 

देवा ऊचुः॒

मृत्युलोकेऽभवत्पापस्त्वन्धको नाम दुर्मदः  ॥ ८४.३१ ॥

तस्माच्च भयमापन्ना भवच्छरणमागताः  ।

एतस्मिन्नन्तरे रौद्रो दानवो बलदार्पितः  ॥ ८४.३२ ॥

एकाकी स्यन्दनारूढ आयुधैर्विविधैर्युतः  ।

अन्धको राजशार्दूल ययौ शक्रपुरीं ततः  ॥ ८४.३३ ॥

स्वर्णप्राकारसंयुक्तां शोभितां विविधैर्गृहैः  ।

दुर्गमां शत्रुवर्गस्य सदा पार्थिवसत्तम  ॥ ८४.३४ ॥

प्रविवेशासुरस्तत्र लीलया स्वगृहं यथा  ।

समुत्थाय ततः शक्रः स्वकीयंचासनं ददौ  ॥ ८४.३५ ॥

उपविष्टोऽन्धकस्तत्र शक्रस्यैवासने शुभे  ।

 

शक्र उवाच –

किं वो ह्यागमनं चात्र किं कार्यं कथयस्व मे  ॥ ८४.३६ ॥

यदस्मदीयं वित्तं च तत्ते दास्यामि दानव  ।

 

अन्धक उवाच –

न चाहं कामये वित्तं न गजान्न तुरंगमान्  ॥ ८४.३७ ॥

स्वकीयं दर्शयस्वाद्य स्वर्गशृङ्गारभूमिकम्  ।

ऐरावतं महानागं सैन्धवोच्चैः श्रवोहयम्  ॥ ८४.३८ ॥

उर्वश्यादीनि सर्वाणि वादित्रत्रितयानि च  ।

अन्याः स्वीया विभूतीश्च दर्शयस्व शचीपते  ॥ ८४.३९ ॥

तस्यैतद्वचनं श्रुत्वा शक्रोऽपि भयविह्वलः  ।

सर्वाणि च पदार्थानि दर्शयामास चान्धकम्  ॥ ८४.४० ॥

तदागत्य सुरैः सार्धं यक्षगन्धर्वकिन्नरैः  ।

नृत्यन्त्यप्सरसस्तत्र वादित्रैर्विविधैर्नृप  ॥ ८४.४१ ॥

तत्तस्य विभ्रमच्चित्तं दृष्ट्वाप्यप्सरसस्तदा  ।

तेन देवगणास्सर्वे त्रस्ताः पार्थिवसत्तम  ॥ ८४.४२ ॥

संग्रामैर्विविधैस्तत्र चक्रवज्रारिभीषणैः  ।

सन्तापिताः सुरास्सर्वे क्षयं नीता ह्यनेकशः  ॥ ८४.४३ ॥

आदित्य मरुताद्याश्च भग्नास्संग्राममण्डले  ।

यथा सिंहकराक्रान्ताः श्वापदा व्यचरन् वने  ॥ ८४.४४ ॥

तद्वदेकेन ते देवाः कृतास्सर्वे पराङ्मुखाः  ।

बलाद्देशेषु ग्रामेषु प्रजाः पीडयतेऽनिशम्  ॥ ८४.४५ ॥

आकम्प्य गृह्यते क्षीरं शाकं वासस्तथैव च  ।

न सम्माने वचस्तेषां प्रजासन्तापने रतः  ॥ ८४.४६ ॥

गृहीत्वा शक्रभार्यां च दानवोऽपि गृहं गतः  ।

ततः सुराश्च शक्रश्च ब्रह्माणं शरणं ययुः  ॥ ८४.४७ ॥

गजैश्च पर्वताकारैरश्वैश्चैव गजोपमैः  ।

स्यन्दनैर्गगनाकारैः सिंहशार्दूलयोजितैः  ॥ ८४.४८ ॥

कच्छपैर्मकरैश्चापि मृगमेषैस्तथोरगैः  ।

ब्रह्मलोकमनुप्राप्ता देवाश्चेन्द्रपुरोगमाः  ॥ ८४.४९ ॥

दृष्ट्वा पद्मोद्भवं देवं प्रणम्येशं प्रतुष्टुवुः  ।

जयदेव जगन्नाथ जयसंभूति कारक  ॥ ८४.५० ॥

पद्मयोने सुरश्रेष्ठ त्वामेव शरणं गताः  ।

सोद्वेगं भाषितं श्रुत्वा देवानां भावितात्मनाम्  ॥ ८४.५१ ॥

मेघगम्भीरया वाचा ब्रह्मा प्रोवाच वासवम्  ।

किं वो ह्यागमनं देवास्सर्वेषां वै विवर्णता  ॥ ८४.५२ ॥

केनावमानितास्सर्वे तत्सर्वं मे निवेद्यताम्  ।

 

देवा ऊचुः॒

अन्यको नाम नाम्नेति दानवो बलदर्पितः  ॥ ८४.५३ ॥

तेन देवगणास्सर्वे धनरत्नैर्विवर्जिताः  ।

हत्वा देवगणान्नाथ पर्शुचक्रासितोमरैः  ॥ ८४.५४ ॥

गृहीत्वा शक्रभार्यां वै दानवो विगतो बलात् ।

ततः श्रुत्वा वचस्तेषां ब्रह्मा लोकपितामहः  ॥ ८४.५५ ॥

चिन्तयामास भगवान् वधं तस्य तु रक्षसः  ।

अवध्यो दानवः पापः सर्वैरपि सुरासुरैः  ॥ ८४.५६ ॥

ततः प्रतुष्टुवुः सर्वे देवाः शक्रपुरोगमाः  ।

जय त्वं देव देवेश लक्ष्म्या चार्धशरीरवान्  ॥ ८४.५७ ॥

आशु रक्षय देवेश तस्मात्ते शरणं गताः  ।

 

जनार्दन उवाच –

स्वागतं वो महाभागा ब्रुवतां चैव स्वागतम्  ॥ ८४.५८ ॥

किं कार्यं प्रोच्यतां सर्वं कारणं यन्मयेप्सितम्  ।

पराभवः कृतो येन स गच्छतु यमालयम्  ॥ ८४.५९ ॥

एवमुक्तास्सुरास्सर्वे कथयन्ति स्म तत्त्वतः  ।

प्रदर्शयन्ति चाङ्गानि वेपमानास्त्वधोमुखाः  ॥ ८४.६० ॥

हृतराज्याः कृता नाथ अन्धकेन पराजिताः  ॥ ८४.६१ ॥

पितेव पुत्रान् परिरक्ष देव जहीह शत्रुं सह पुत्रगोत्रैः  ।

तथेति चोक्त्वा कमलासनं प्रभुः सुरासुरैर्वन्दितपादपीठः  ॥ ८४.६२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकोपाख्याने चतुरशीतितमोऽध्यायः ॥

 

 

अध्याय ८५

 

मार्कण्डेय उवाच –

शङ्खं चक्रं गदां पाशं संगृह्य परमेश्वरः  ।

उत्थितः शयनात्तूर्णं देवानां च जयप्रदः  ॥ ८५.१ ॥

 

केशव उवाच –

पाताले यदि वा स्वर्गे मर्त्ये वा यदि वा सुराः  ।

अन्धकं तं वधिष्यामि येन सन्तापितास्सुराः  ॥ ८५.२ ॥

गच्छन्तु स्वगृहं देवास्सन्तोषे भावितात्मनः  ।

विष्णोस्तु वचनं श्रुत्वा ब्रह्माद्यास्तु सवासवाः  ॥ ८५.३ ॥

स्वं स्वं यानं समारुह्य हृदि तुष्टा दिवं ययुः  ।

ततो देवो माधवस्तु यत्र तिष्ठति चान्धकः  ॥ ८५.४ ॥

तत्र गत्वा हृषीकेश आग्नेयास्त्रं मुमोच ह  ।

दृष्ट्वा ज्वलन्तं चाग्नेयं केशवेन विसर्जितम्  ॥ ८५.५ ॥

विसर्जयामास तदा वारुणं चास्त्रमुत्तमम्  ।

वारुणास्त्रेण बाणेन आग्नेय शोषितं तदा  ॥ ८५.६ ॥

अन्धकश्चिन्तयामास केन बाणो विसर्जितः  ।

कस्येयं पौरुषी शक्तिः को यास्यति यमालयम्  ॥ ८५.७ ॥

ततोऽन्धकः कोपयुक्तो बाणमार्गस्य संचरन्  ।

दृष्ट्वा युद्धपथे प्राप्तं देवं तं चान्धकोऽब्रवीत् ॥ ८५.८ ॥

न शर्म प्राप्नुषे चात्र मम दृष्ट्या निरीक्षितः  ।

तथा न शक्नुषे त्वं तु शार्दूलाद्गवयो हरे  ॥ ८५.९ ॥

आगतं च यथाभक्षं मार्जारस्य च मूषकम्  ।

तथा न शक्नुषे त्वं तु संस्थितोऽपि ममाग्रतः  ॥ ८५.१० ॥

ततस्तु देव देवेशं शङ्खचक्रगदाधरम्  ।

चतुर्भुजावदात्तं च द्वन्द्वयुद्धप्रदायिनम्  ॥ ८५.११ ॥

दृष्ट्वा गदाधरं देवं साष्टाङ्गं प्रणतो भुवि  ।

 

अन्धक उवाच –

जय कृष्ण परस्त्वं हि विष्णो जिष्णो नमो नमः  ॥ ८५.१२ ॥

हृषीकेशाय केशाय जगद्धात्रेऽच्युताय च  ।

नमः पङ्कजनाभाय नमः पङ्कजमालिने  ॥ ८५.१३ ॥

जनार्दनाय देवाय पीताम्बरधराय च  ।

गोविन्दाय नमो नित्यं नमश्चोदधिशायिने  ॥ ८५.१४ ॥

नमः करालवक्त्राय नृसिंहाय निनादिने  ।

शार्ङ्गिणे स्मितवक्त्राय शङ्खचक्रगदाभृते  ॥ ८५.१५ ॥

नमो वामनरूपाय क्रान्तलोकत्रयाय च  ।

नमो वराहरूपाय यज्ञरूपाय ते नमः  ॥ ८५.१६ ॥

वासुदेव नमस्तुभ्यं नमः कैटभनाशिने  ।

वसुदेवसुतश्चेश नमस्ते सुरनायक  ॥ ८५.१७ ॥

विष्णो देवाधिदेवेश जगद्धातः प्रजापते  ।

प्रणामं येऽपि कुर्वन्ति तेभ्यश्चापि नमो नमः  ॥ ८५.१८ ॥

समस्तभूतदेवाय वासुदेवाय धीमते  ।

तस्मै यज्ञवराहाय विष्णवेऽमिततेजसे  ॥ ८५.१९ ॥

गुणानां हि विधानाय नमस्तेऽस्तु पुनः पुनः  ।

 

देव उवाच –

तुष्टो ह्यहं दानवेन्द्र वरं वृणु यथेप्सितम्  ॥ ८५.२० ॥

ददामि ते वरं चाद्य याचमानस्य साम्प्रतम्  ।

 

अन्धक उवाच –

यदि तुष्टोऽसि मे देव वरं दातुमिहेच्छसि  ॥ ८५.२१ ॥

तदा ददस्व मे देव युद्धं परमशोभनम्  ।

 

श्रीभगवानुवाच –

कथं ददामि ते युद्धं तोषितोऽहं त्वया पुनः  ॥ ८५.२२ ॥

न त्वां प्रति भवेत्कोपः कथं युध्येऽहमन्धक  ।

यदि ते वर्तते बुद्धिर्युद्धं प्रति न संशयः  ॥ ८५.२३ ॥

तर्हि त्वं गच्छ शीघ्रं वै देवं प्रति महेश्वरम्  ।

 

अन्धक उवाच –

प्रसादात्तस्य देवस्य विजयी भुवनत्रये  ॥ ८५.२४ ॥

कथं युद्धं चरे तेन शङ्करेण वदस्व नः  ।

एतच्छ्रुत्वा दानवस्य भगवानब्रवीदिदम्  ॥ ८५.२५ ॥

अहं ते कथयिष्यामि येन युद्धं त्वया सह  ।

कैलासशिखरं गत्वा धुनु तं च पुनः पुनः  ॥ ८५.२६ ॥

धुनिते पर्वते तस्मिन् कम्पितं भुवनत्रयम्  ।

पतन्ति शिखराग्राणि शीर्यमाणान्यनेकशः  ॥ ८५.२७ ॥

चत्वारः सागरा राजन्नेकीभूताः समन्ततः  ।

उमया सहितो रुद्रो विषयासक्तचेतनः  ॥ ८५.२८ ॥

कम्पमानश्च पतितः पार्वत्या सह शङ्करः  ।

गाढमालिङ्ग्य देवेशमुमा वचनमब्रवीत् ॥ ८५.२९ ॥

किमर्थं कम्पते शैलः कथं वै कम्पते धरा  ।

पातालानि तु सप्तैव कम्पते स्वर्गसप्तकम्  ॥ ८५.३० ॥

किं वा युगक्षयो देव तन्ममाख्यातुमर्हसि  ।

 

महेश्वर उवाच –

कस्यैषा दुर्मतिर्जाताऽपि पार्श्वचरस्य नु  ॥ ८५.३१ ॥

ललाटे चेदयं भग्नः प्रयास्यति यमालयम्  ।

कैलासे संस्थितो ध्याने सुप्तोऽहं प्रतिबोधितः  ॥ ८५.३२ ॥

वधिष्ये तं न सन्देहः षण्मुखो वा भवेद्यदि  ।

ततः स चिन्तयामास जानातीत्यन्धकोऽप्ययम्  ॥ ८५.३३ ॥

उपायं चिन्तयामास येनासौ वध्यते क्षणात् ।

ततस्समागता देवा इन्द्रब्रह्मपुरोगमाः  ॥ ८५.३४ ॥

रथं देवमयं कृत्वा सर्वलक्षणसंयुतम्  ।

केचिद्देवाः स्थिताश्चक्रे केचित्तुण्डाग्रसंस्थिताः  ॥ ८५.३५ ॥

केचिदक्षे स्थिता राजन् युगरश्मिषु संस्थिताः  ।

रथस्तम्भे ध्वजाग्रे तु केचिदन्यत्र संस्थिताः  ॥ ८५.३६ ॥

एवं देवमयं कृत्वा समारूढो जगत्प्रभुः  ।

निर्ययौ दानवो यत्र क्रोधेनाऽपि महेश्वरः  ॥ ८५.३७ ॥

दानवानर्दयामास आकाशं चाशुमानिव  ।

न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः  ॥ ८५.३८ ॥

ततो दानवराजेन आग्नेयास्त्रं सुयोजितम्  ।

दह्यमानं शरैस्तत्र सर्वं गीर्वाणमण्डलम्  ॥ ८५.३९ ॥

दह्यमानाः शरैश्चैवं देवं शरणमाययुः  ।

ततो देवाधिदेवेन वारुणास्त्रं विसर्जितम्  ॥ ८५.४० ॥

वारुणास्त्रेण तेनैव आग्नेयास्त्रं प्रशामितम्  ।

दानवेन ततो मुक्तं वायव्यास्त्रं नृपोत्तम  ॥ ८५.४१ ॥

पन्नगास्त्रं च देवोऽपि कोपाविष्टः प्रमुक्तवान्  ।

मारुतो भक्षितः सर्पैः क्रोधाविष्टैर्न संशयः  ॥ ८५.४२ ॥

दानवेन तदा मुक्तं गरुडास्त्रं बलीयसा  ।

तेन तच्छतधा नीतं पन्नगास्त्रं न दृश्यते  ॥ ८५.४३ ॥

ततो देवाधिदेवेन नारसिंहं विसर्जितम्  ।

अस्त्रैरस्त्राणि संवार्य युध्येते च परस्परम्  ॥ ८५.४४ ॥

समं युद्धमभूत्तात सुरासुरभयङ्करम्  ।

चक्रेणालीकनाराचैस्तोमरैः खड्गमुद्गरैः  ॥ ८५.४५ ॥

वत्सदन्तैस्तथा भल्लैः कर्णिकारैश्च शोभनैः  ।

एवं न शक्यते हन्तुं दानवैर्विविधायुधैः  ॥ ८५.४६ ॥

ततो दंष्ट्राकरालेन खड्गनाराचतोमरैः  ।

श्वश्रून् दृष्ट्वा यथा याति लज्जमाना ह्यधोमुखी  ॥ ८५.४७ ॥

न संस्पृशन्ति गात्राणि शस्ता गौडवधूर्यथा  ।

आयुधानि ततस्त्यक्त्वा बाहुयुद्धमुपस्थितौ  ॥ ८५.४८ ॥

करैः करांस्तु संगृह्य प्रहरन्तौ हि मुष्टिभिः  ।

बन्धैः करप्रहाराद्यैर्युध्येते स्म परस्परम्  ॥ ८५.४९ ॥

दानवोऽपि च तं देवं कक्षान्तरमपीडयत् ।

निश्चेष्टश्च तदा देवो मूर्छितस्तु महेश्वरः  ॥ ८५.५० ॥

मूर्च्छागतं तु तं ज्ञात्वा चिन्तयामास दानवः  ।

हा हा कष्टं कृतं वाद्य पापेन च दुरात्मना  ॥ ८५.५१ ॥

किं नु कार्यं मया चात्र कथं वापि व्रजाम्यहम्  ।

तं गृहीत्वाथ देवेशं गतः कैलासपर्वतम्  ॥ ८५.५२ ॥

मुक्त्वा शयानम्मुच्चेतमन्धकोऽपि ययौ क्षणात् ।

ततस्स चेतनो भूत्वा देवदेवो महेश्वरः  ॥ ८५.५३ ॥

यावत्पश्यति चात्मानं स्वकीये भवने स्थितम्  ।

तावत्स चिन्तयामास पराभूतो दुरात्मना  ॥ ८५.५४ ॥

क्रोधवेगसमाविष्टो निर्ययौ दानवं प्रति  ।

आयसं लगुडं धृत्वा प्रभुर्भारसहस्रकम्  ॥ ८५.५५ ॥

दानवं दृष्टवान् देवः प्राक्षिपत्तस्य मूर्धनि  ।

खड्गेन ताडयामास दानवः प्रहसन् रणे  ॥ ८५.५६ ॥

गृहीत्वा देव देवेशः कौवेरं बाणमुत्तमम्  ।

हृदये ताडयामास ज्वलितेन च तत्क्षणात् ॥ ८५.५७ ॥

ततस्स दानवस्तत्र रुधिरोद्गारमुद्गिरन्  ।

अधोमुखस्ततो भूत्वा शूलेन विदलीकृतः  ॥ ८५.५८ ॥

शूलाग्रविक्षतः पापश्चक्रवद्भ्रमते तदा  ।

ये तु भूमौ पतन्ति स्म देहतो रक्तबिन्दवः  ॥ ८५.५९ ॥

तेभ्य उदभवन् पापा दानवाः शस्त्रपाणयः  ।

व्याकुलश्च ततो देवो दानवैश्च पुनः पुनः  ॥ ८५.६० ॥

देवेन संस्मृता दुर्गा चामुण्डा भीषणा तदा  ।

आगता भीषणा देवी आयुधायुतसंयुता  ॥ ८५.६१ ॥

महादंष्ट्रा महाकाया पिङ्गाक्षी लम्बकर्णिका  ।

उवाच देवी देवेशं समादिश महेश्वर  ॥ ८५.६२ ॥

 

देव उवाच –

पिब त्वं रुधिरं भद्रे यथेष्टं दानवस्य च  ।

पतितं च पृथिव्यां तु दुर्गे यत्नाद्गृहाण तत् ॥ ८५.६३ ॥

दानवस्य वधे चाद्य सहायं कर्तुमर्हसि  ।

ततो हताश्च ते सर्वे खड्गेनापि सहस्रशः  ॥ ८५.६४ ॥

अन्धकोऽपि च तान् दृष्ट्वा दानवान्निधनं गतान्  ।

ततो वाग्भिः सुपुष्टाभिः स्तुवन् देवं महेश्वरम्  ॥ ८५.६५ ॥

तिष्ठ तिष्ठेति देवेशं चण्डीं प्रति महाबलः  ।

शूलविक्षतरन्ध्रेण रक्तं वै स्रावयन् बहु  ॥ ८५.६६ ॥

पृथिवीं पूरयामास चतुः सागरमेखलाम्  ।

अन्तरिक्षे स्थितेनापि शूलाग्रे संस्थितेन च  ॥ ८५.६७ ॥

स्कन्धे धृतेन देवेन रुधिरौघप्रवर्षिणा  ।

पृथिवी पूरिता तेन सशैलवनकानना  ॥ ८५.६८ ॥

रुधिरेण कटिं यावद्वारितोऽपि महेश्वरः  ।

ततो हृदयपर्यन्तं देवस्य च समागमत् ॥ ८५.६९ ॥

व्याकुलाश्च ततो देवाः प्रणष्टाश्च दिशं गताः  ।

स तु स्वस्य शरीरस्य अङ्गान्यष्टौ व्यमर्दयत् ॥ ८५.७० ॥

अष्टौ भैरवरूपाश्च समुत्पन्ना महेश्वरात् ।

दंष्ट्राकरालिनः सर्वे हाहाकारं प्रकुर्वतः  ॥ ८५.७१ ॥

खर्पराग्रकरास्सर्वे खड्गिनः कर्तिनस्तथा  ।

पिबन्तु रुधिरं सर्वमित्याह परमेश्वर  ॥ ८५.७२ ॥

पीतं तु तैश्च रुधिरं क्षीणं रक्तं स्थितं स्थलम्  ।

शरीरं शोषितं तस्य अस्थिचर्मावशेषितम्  ॥ ८५.७३ ॥

दानवश्चान्धकः प्राह अन्तरिक्षचरस्तथा  ।

 

अन्धक उवाच –

जयदेव जगन्नाथ उमाङ्गार्धशरीरभृत् ॥ ८५.७४ ॥

वृषभासनमारूढ शशाङ्ककृतशेखर  ।

जयखट्वाङ्गहस्ताय गङ्गां शिरसि धारिणे  ॥ ८५.७५ ॥

स्मरप्रमथनायेह ईश्वराय नमोऽस्तु ते  ।

पूष्णोदन्तविनाशाय गणनाथ नमो नमः  ॥ ८५.७६ ॥

जय सुरूपदेहाय अरूपाय नमो नमः  ।

ब्रह्मोत्तमाङ्गनाशाय विश्वेश्वर सनातन  ॥ ८५.७७ ॥

श्मशानवासिने नित्यं नित्यं भैरवरूपिणे  ।

त्वं सर्वगश्च कर्ता त्वं त्वं हर्ता नान्य एव च  ॥ ८५.७८ ॥

त्वं भूमिस्त्वं दिशश्चैव ज्योतिस्त्वं तेजसस्तथा  ।

त्वं वायुः सर्वभूतानां जन्तुरूपो महेश्वरः  ॥ ८५.७९ ॥

त्वं सोमस्त्वं बुधश्चैव त्वं गुरुर्भार्गवस्तथा  ।

सौरिस्त्वं देवदेवेश भूमिपुत्रस्तथैव च  ॥ ८५.८० ॥

ऋक्षाणि यानि दृश्यन्ते गगने शशिभास्करौ  ।

एतान्येव च सर्वाणि त्वत्प्रसादान्महेश्वर  ॥ ८५.८१ ॥

एवं बहुविधं स्तुत्वा देवदेवं स दानवः  ।

संहताभ्यां च हस्ताभ्यां तं प्रणम्य महेश्वरम्  ॥ ८५.८२ ॥

 

शङ्कर उवाच –

साधु साधु महासत्त्व वरं याचस्व दानव  ।

दाताहं याचकस्त्वं तु ददामीति यथेप्सितम्  ॥ ८५.८३ ॥

 

अन्धक उवाच –

यदि तुष्टोऽसि देवेश यदि देयो वरो मम  ।

तदात्मनः समीपेऽहं स्थापितव्यो हि नान्यथा  ॥ ८५.८४ ॥

भस्मी जटी त्रिशूली च त्रिनेत्री च चतुर्भुजः  ।

व्याघ्रचर्मोत्तरीयश्च नागयज्ञोपवीतकः  ॥ ८५.८५ ॥

एतदिच्छाम्यहं सर्वं यदि दास्यसि शङ्कर  ।

शूलाग्रस्थो वदद्यावत्तावत्तुष्टो महेश्वरः  ॥ ८५.८६ ॥

 

ईश्वर उवाच –

ददामि ते वरं चाद्य यस्त्वया परिभाषितः  ।

मया त्वमुदितः पूर्वं भृङ्गिरीटिर्भविष्यसि  ॥ ८५.८७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डेऽन्धकवरप्रदानो नाम पञ्चाशीतितमोऽध्यायः ॥

अध्याय ८६

 

मार्कण्डेय उवाच –

अन्धकस्य वरं दत्त्वा तेनैव सह शङ्करः  ।

उमया सहितश्चापि कैलासं पर्वतं गतः  ॥ ८६.१ ॥

ततस्समागता देवा ब्रह्माद्यास्सह वासवाः  ।

हृष्टपुष्टाश्च ते सर्वे महेश तं प्रणेमिरे  ॥ ८६.२ ॥

 

देव उवाच –

स्वागतं वो महाभागा ये केचित्त्विह चागताः  ।

निहतो दानवस्तत्र भवदर्थे न संशयः  ॥ ८६.३ ॥

रक्तेन तस्य मे शूलं निर्मलं च न दृश्यते  ।

कर्तव्यं किं मया चाद्य कथ्यतां हि पितामह  ॥ ८६.४ ॥

सुतस्तु भवतो ब्रह्मन् यश्चाऽसौ निहतो मया  ।

कर्तुमिच्छाम्यहं सम्यक्तीर्थयात्रां न संशयः  ॥ ८६.५ ॥

उत्थाय गम्यतां सर्वे ये केचित्त्विह चागताः  ।

ततस्सर्वैः सुरैः सार्धं प्रभासं प्रति निर्ययौ  ॥ ८६.६ ॥

प्रभासाद्यानि तीर्थानि गङ्गासागरसङ्गमे  ।

अवगाह्य तु सर्वाणि निर्मलत्वं न विद्यते  ॥ ८६.७ ॥

नीलीभूतं यथावस्त्रं सितत्वं नैव गच्छति  ।

तथा कृष्णत्रिशूलस्य निर्मलत्वं न जायते  ॥ ८६.८ ॥

नर्मदा तु ततो गत्वा देवो देवैः समन्वितः  ।

उत्तरं दक्षिणं कूलमवगाह्य प्रयत्नतः  ॥ ८६.९ ॥

गत्वा तु दक्षिणे कूले पर्वते भृगुसंज्ञिते  ।

तत्र स्थित्वा महादेवो देवैः सह धरापते  ॥ ८६.१० ॥

मनोहरं तु तत्स्थानं सर्वेषां हि दिवौकसाम्  ।

ज्ञात्वा तीर्थविशेषं तु स्थितो देवो महेश्वरः  ॥ ८६.११ ॥

गिरिं बिभेद शूलेन तेन भिन्नं रसातलम्  ।

निर्मलं चाभवच्छूलं न लेपो दृश्यते क्वचित् ॥ ८६.१२ ॥

पातालान्निःसृता गङ्गा नाम्ना भोगवतीति सा  ।

तत्र तीर्थं समुत्पन्नं शूलभेदेति विश्रुतम्  ॥ ८६.१३ ॥

सूर्ये राहुगते तत्र महापुण्या सरस्वती  ।

द्वितीयं सङ्गमं तत्र यथा वेणी सितासितम्  ॥ ८६.१४ ॥

तत्र ब्रह्मा स्वयं देवो ब्रह्मेशं लिङ्गमुत्तमम्  ।

यस्य याम्यदिशाभागे स्वयं देवो जनार्दनः  ॥ ८६.१५ ॥

विद्यते च स्वयं तत्र विष्णुः पीठेषु संस्थितः  ।

शूलेन च कृता रेखा तत्र तोयवहा नृप  ॥ ८६.१६ ॥

तत्तोयं च गतं तत्र यत्र रेवा नदीजलम्  ।

तत्र लिङ्गं महापुण्यं चक्रतीर्थेति विश्रुतम्  ॥ ८६.१७ ॥

शूलभेदे च देवेशः स्नानं कृत्वा यथा विधि  ।

आत्मानं मन्यते शुद्धं न किंचित्कलुषं तनौ  ॥ ८६.१८ ॥

तस्य चैवोत्तरे भागे देव देवं जगद्गुरुम्  ।

शूलपाणिं ततः प्राप्य पूजयामास यत्नतः  ॥ ८६.१९ ॥

सर्वतीर्थमयं तीर्थं सर्वतीर्थाधिकं परम्  ।

सर्वपुण्याधिकं पुण्यं सर्वद्रुःखघ्नमुत्तमम्  ॥ ८६.२० ॥

तत्र तीर्थं प्रतिष्ठाप्य देवदेवो जगद्गुरुः  ।

रक्षकांस्तु ततो मुक्त्वा तत्र स्थाप्य विनायकम्  ॥ ८६.२१ ॥

क्षेत्रपालशतं चाष्टौ तीर्थं रक्षन्ति यत्नतः  ।

विघ्नानि तस्य कुर्वन्ति यस्तत्र स्थातुमिच्छति  ॥ ८६.२२ ॥

केचित्कुटुम्बचिन्तां तु केचिच्चिन्तां कृषीषु च  ।

सेवां च कुर्वते केचिद्द्रव्यार्जनपरायणाः  ॥ ८६.२३ ॥

परोक्षवादं कुर्वन्ति अन्ये हिसारता जनाः  ।

परदारान् प्रसर्पन्ति अन्ये च वित्तचिन्तकाः  ॥ ८६.२४ ॥

अन्येऽपि च वदन्त्येवं कथं तीर्थेषु गम्यते  ।

क्षुधया पीड्यते भार्या ह्यपत्यानि तथैव च  ॥ ८६.२५ ॥

मोहजाले निपतिताः पापाचाराश्च ये नराः  ।

तेभ्यो रक्षन्ति तत्तीर्थं देवस्य च गणाः शुभम्  ॥ ८६.२६ ॥

पुण्या जनाः स्थिरा ये च स्नानं तेषां च जायते  ।

पयोष्ण्यां देवनद्यां च भोगवत्यां विशेषतः  ॥ ८६.२७ ॥

एतच्च सङ्गमं पुण्यं यथा वेण्यां सितासिते  ।

दृष्ट्वा तीर्थं तु ते सर्वे गीर्वाणा हृष्टमानसाः  ॥ ८६.२८ ॥

देवस्य सन्निधो भूत्वा वर्णयन्ति परस्परम्  ।

इदं तीर्थं च देवेश गयातीर्थसमं विदुः  ॥ ८६.२९ ॥

गुह्याद्गुह्यतरं तीर्थं न भूतं न भविष्यति  ।

शूलपाणिं समभ्यर्च्य ब्रह्माद्याश्च सुरैः सह  ॥ ८६.३० ॥

ये गणाश्चैव गन्धर्वा यमो वरुणवासवौ  ।

नृत्यगीतैस्तथा स्तोत्रैः सर्वे चैव सुरासुराः  ॥ ८६.३१ ॥

देवेन भोदितो यत्र शूलाग्रेण नृपोत्तम  ।

त्रयो गर्तास्तु संजातास्तोयपूर्णा नराधिप  ॥ ८६.३२ ॥

आर्यावर्ता नरश्रेष्ठ महाकुलिशलाञ्छिताः  ।

सर्वपापक्षयकराः सर्वदुःखापहारकाः  ॥ ८६.३३ ॥

तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः  ।

दीक्षामन्त्रविहीनोऽपि मुच्यते भवबन्धनात् ॥ ८६.३४ ॥

यः पुनर्विधिवत्स्नात्वा मन्त्रैः पञ्चभिरेव च  ।

वेदोक्तैः पञ्चभिर्मन्त्रैः सहिरण्यैर्घटैस्तथा  ॥ ८६.३५ ॥

अक्षरैर्दशभिश्चैव पञ्चाक्षरैस्त्रिभिस्तथा  ।

पृथग्भूतैर्द्विजातीनां तीर्थं शस्तं नराधिप  ॥ ८६.३६ ॥

ब्रह्मक्षत्रविशां वापि शूद्रस्याथ स्त्रियास्तथा  ।

ध्यात्वा देवत्रयं राजन् स्नानं चैव यथाविधि  ॥ ८६.३७ ॥

दशाक्षरेण मन्त्रेण तोयं पिबति यो नरः  ।

केदारे च यथा पीतं तथा कुण्डे न संशयः  ॥ ८६.३८ ॥

पञ्चरेफसमायुक्तं क्षकाराक्षरभूषितम्  ।

ओंकारद्वयसंयुक्तमेतदत्रानुकीर्तनम्  ॥ ८६.३९ ॥

यस्तत्र कुरुते स्नानं विधियुक्तो जितेन्द्रिय  ।

तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः  ॥ ८६.४० ॥

कुलं तारयते विंशद्दशपूर्वान् दशापरान्  ।

गङ्गायां पञ्चतीर्थे च श्राद्धं वै कुरुते तु यः  ॥ ८६.४१ ॥

स तत्र फलमाप्नोति शूलभेदे न संशयः  ।

यस्तत्र विधिना युक्तो दानं दद्याच्च भक्तितः  ॥ ८६.४२ ॥

तदक्षयं फलं तत्र कृतस्य सुकृतोऽथवा  ।

गयाक्षेत्रे यथापुण्यं सर्वकार्येषु चैव हि  ॥ ८६.४३ ॥

शूलभेदे तथा पुण्यं स्नानदानादितर्पणैः  ।

भक्त्या च यो ददात्यत्र कांचनं गां महीं जलम्  ॥ ८६.४४ ॥

अन्नं कृषीभवं शय्यां वासांसि भूषणानि च  ।

अन्नादिभिर्धनैश्चैव गृहं पूर्णं च सर्वतः  ॥ ८६.४५ ॥

युग्ययुग्लाङ्गलं मुख्यं नवं चैव धुरन्धरौ  ।

दानान्येतानि यो दद्याद्ब्राह्मणे वेदपारगे  ॥ ८६.४६ ॥

श्रोत्रियं च कुलीनं च शुचिं च विजितेन्द्रियम्  ।

ज्ञात्वा दानं च यो दद्यात्तस्यान्तो नैव विद्यते  ॥ ८६.४७ ॥

त्रयोदशदिनेष्वेकं त्रयोदशगुणं भवेत् ॥ ८६.४८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदोत्पत्तिर्नाम षडशीतितमोऽध्यायः ॥

 

 

अध्याय ८७

 

मार्कण्डेय उवाच –

उत्तानपादो राजेन्द्र पृच्छति स्म महेश्वरम्  ।

सिद्धाश्च कीदृशा देव अपूज्याश्चैव कीदृशाः  ॥ ८७.१ ॥

श्राद्धे चैवाह्निके यज्ञे दाने चैव विशेषतः  ।

एतदाख्याहि मे देव कस्य दानं न दीयते  ॥ ८७.२ ॥

 

ईश्वर उवाच –

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः  ।

ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः  ॥ ८७.३ ॥

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा  ।

अवकीर्णः कुण्डगोलौ श्राद्धे दाने न शुद्ध्यति  ॥ ८७.४ ॥

माहिष्यो वृषलः स्तेनो वार्धक्योऽथ विशेषतः  ।

एते विप्राः सदा त्याज्याः पश्चान्मानं प्रशंसति  ॥ ८७.५ ॥

प्रतिग्रहं तु गृह्णाति कालज्ञानं विना द्विजः  ।

तस्य दानं न दातव्यं वृथा भवति निष्फलम्  ॥ ८७.६ ॥

दरिद्रान् देहि राजंस्त्वं मा समृद्धान् कदाचन  ।

व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधम्  ॥ ८७.७ ॥

 

उत्तानपाद उवाच –

विधिश्च कीदृशी देव कथं श्राद्धस्य च क्रिया  ।

दानं च दीयते येन तन्ममाख्यातुमर्हसि  ॥ ८७.८ ॥

 

देव उवाच –

श्राद्धं कृत्वा गृहे भक्त्या सुस्नातो विजितेन्द्रियः  ।

वाग्यतस्तर्पयेत्तावद्यावत्संख्यामलङ्घयन्  ॥ ८७.९ ॥

शूलभेदं ततो गत्वा स्नानं कृत्वा यथाविधि  ।

पञ्चस्थानेषु यः श्राद्धं हव्यकव्यादिभिश्चरेत् ॥ ८७.१० ॥

पिण्डदानं च य कुर्यात्पायसैर्मधुसर्पिषा  ।

तस्य तत्फलमाप्नोति तस्मिंस्तीर्थे न संशयः  ॥ ८७.११ ॥

उपानहौ च यो दद्याद्ब्राह्मणेभ्यो विशेषतः  ।

गच्छेद्विमानमारूढस्त्वमरैः परिवारितः  ॥ ८७.१२ ॥

उत्तमं च गृहं दद्यात्सप्तधान्यैश्च पूरितम्  ।

स स्वर्गलोके वसति काञ्चने भवनोत्तमे  ॥ ८७.१३ ॥

तिलधेनुं च यो दद्यात्सवत्सां विधिपूर्वकम्  ।

नाकपृष्ठे वसेत्तावद्यावदाहूतसंप्लवम्  ॥ ८७.१४ ॥

गृहे वा यदि वारण्ये तीर्थे वा कुपथेषु च  ।

तोयमन्नं च यो दद्याद्यमलोकं न पश्यति  ॥ ८७.१५ ॥

अक्षयं चान्नदानं च तोयभूमिस्तथैव च  ।

अन्नदानात्परं दानं न भूतो न भविष्यति  ॥ ८७.१६ ॥

 

उत्तानपाद उवाच –

कन्यादानं कथं देव कर्तव्यं कथयस्व तत् ।

प्रतिग्रहं तथा तोष्यं कन्योद्वाहमुपस्करम्  ॥ ८७.१७ ॥

दातव्यं कस्य वै दानं दत्तं भवति चाक्षयम्  ।

उत्तमं मध्यमं वापि कनीयांसं कथंचन  ॥ ८७.१८ ॥

राजसं तामसं वापि निःश्रेयसमथापि वा  ।

 

ईश्वर उवाच –

सर्वेषामेव दानानां कन्यादानं विशिष्यते  ॥ ८७.१९ ॥

यो दद्यात्परया भक्त्या अभिगम्य च यत्नतः  ।

कुलीनस्य स्वरूपस्य गुणज्ञस्य विशेषतः  ॥ ८७.२० ॥

सुलग्ने च मुहूर्ते च दद्यात्कन्यामलंकृताम्  ।

अश्वान्नागांश्च वासांसि यो दद्याच्चैव भक्तितः  ॥ ८७.२१ ॥

तस्य वासो भवेत्तत्र पदं यत्र निरामयम्  ।

येन सा दुहिता दत्ता प्राणेभ्योऽपि गरीयसी  ॥ ८७.२२ ॥

तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम्  ।

धनं कन्यार्थतः कल्प्यो न रोचयति दुर्मतिः  ॥ ८७.२३ ॥

स भवेत्कर्मचाण्डालः कोशकारो भवेन्मृतः  ।

कन्यार्थं याचते यस्तु स धनी निर्धनोऽपि वा  ॥ ८७.२४ ॥

अभोज्यो भवते मर्त्यः सर्ववस्तुषु वर्जितः  ।

गृहे तस्य च योऽश्नीयाज्जिह्वालम्पटको नृप  ॥ ८७.२५ ॥

चान्द्रायणेन शुद्धः स्यात्तप्तकृच्छ्रमथापि वा  ।

 

राजोवाच –

वित्तं न विद्यते यस्य कन्योद्वाहेऽवतिष्ठति  ॥ ८७.२६ ॥

कथं चोद्वाहनं कुर्यादेतदाचक्ष्व मे प्रभो  ।

 

देव उवाच –

स्ववित्तेनानुकर्तव्यं कन्योद्वाहनमेव च  ॥ ८७.२७ ॥

कन्या नाम समुच्चार्य न दोषो याचकस्य च  ।

अभिगम्योत्तमं दानमाहूतं चैव मध्यमम्  ॥ ८७.२८ ॥

अधमं प्रोच्यमानं तु सेवादानं च निष्फलम्  ।

असमर्थे न दातव्यं कन्यादानं तथैव च  ॥ ८७.२९ ॥

समर्थस्तारयेद्विद्वान् काष्ठं क्षिप्तं यथा जले  ।

यथा नौका तथा विद्वांस्तारयेत्परमं तटम्  ॥ ८७.३० ॥

आहिताग्निस्तु यो भूत्वा गृह्नञ्शूद्रप्रतिग्रहम्  ।

इह जन्मनि शूद्रत्वं मृतः श्वा चोपजायते  ॥ ८७.३१ ॥

वृथा क्लेशाश्च जायन्ते ब्राह्मणस्याग्निहोत्रिणः  ।

असत्प्रतिग्रहं गृह्णन्नापदं च विना द्विजः  ॥ ८७.३२ ॥

तत्सर्वं नाशयेत्तस्य भिन्ना नौका यथाम्भसि  ।

अतिक्लेशवशार्जितं विनाशयति तत्क्षणात् ॥ ८७.३३ ॥

एवं दुःखार्जितं पुण्यं शूद्रे गच्छति नान्यथा  ।

लक्षदाक्षिण्यलाभाय प्रदानं चापराधकम्  ॥ ८७.३४ ॥

कीर्तिपात्रेषु यद्दत्तं वृथा भवति पार्थिव  ॥ ८७.३५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे दानमहिमानुवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥

 

 

अध्याय ८८

 

उत्तानपाद उवाच –

कस्मिन् काले च क्रियते श्राद्धं दानं च शङ्कर  ।

तीर्थयात्रा कथं कार्या आतिथ्यं कथयस्व नः  ॥ ८८.१ ॥

 

शङ्कर उवाच –

पितुरर्थं यथा पुण्यं सार्वकालिकमुत्तमम्  ।

इदं तीर्थं तथा पुण्यं स्नानदानादितर्पणैः  ॥ ८८.२ ॥

विशेषेण च कुर्वन्ति श्राद्धं चतुर्युगादिषु  ।

मन्वन्तरादयो वत्स श्रूयतां च चतुर्दश  ॥ ८८.३ ॥

आश्विने नवमी शुक्ला द्वादशी कार्तिकस्य च  ।

तृतीया चैत्रमासे तु तथा भाद्रपदस्य च  ॥ ८८.४ ॥

आषाढदशमी तथा माघस्यैव चसप्तमी  ।

श्रावणस्याष्टमी कृष्णा तथाषाढी तु पूर्णिमा  ॥ ८८.५ ॥

फाल्गुनस्य अमावास्या पौषस्यैकादशी शुभा  ।

कार्त्तिकी फाल्गुनी चैत्री ज्यैष्ठी पञ्चदशी सिता  ॥ ८८.६ ॥

मन्वन्तरादयश्चैव ह्यनन्तफलदाः स्मृताः  ।

अयने तूत्तरे चैव दक्षिणे च तथैव हि  ॥ ८८.७ ॥

कार्त्तिक्यां च तथा माध्यां वैशाख्यां च तृतीयया  ।

चैत्र्यां चैव तथा षष्ठ्यां प्रौष्ठपद्यां तथैव च  ॥ ८८.८ ॥

श्राद्धकालाश्च ते सर्वे दत्तं भवति चाक्षयम्  ।

मधुमासे सिते पक्ष एकादश्यामुपोषितः  ॥ ८८.९ ॥

क्षपाजागरणं कुर्याद्विष्णोः पदसमीपतः  ।

दद्याद्दानं तथा शक्त्या हिरण्यं गोऽम्बराणि च  ॥ ८८.१० ॥

धूपं दीपं च नैवेद्यं स्रक्पुष्पचन्दनानि च  ।

अर्चां करोति यो विष्णोः कथां पौराणकीर्तनम्  ॥ ८८.११ ॥

ऋग्यजुःसामाथर्वाणां सूक्तं तज्जपति द्विजः  ।

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति  ॥ ८८.१२ ॥

प्रभाते कुरुते श्राद्धं द्विजान् भोज्य प्रयत्नतः  ।

ददेद्दानं यथा शक्त्या हिरण्यं गोऽम्बराणि च  ॥ ८८.१३ ॥

पितरस्तस्य तृप्यन्ति यावदाहूतसंप्लवम्  ।

श्राद्धदश्च वसेत्तत्र यत्र देवो जनार्दनः  ॥ ८८.१४ ॥

त्रयोदश्यां ततो गच्छेद्गुहावासीति तिष्ठति  ।

दृष्ट्वा मार्कण्डमीशानं सर्वपापैः प्रमुच्यते  ॥ ८८.१५ ॥

 

उत्तानपाद उवाच –

गुहामध्ये यथा देव लिङ्गं परमशोभनम्  ।

प्रतिष्ठा येन देवस्य तन्ममाख्यातुमर्हसि  ॥ ८८.१६ ॥

 

ईश्वर उवाच –

त्रिषु लोकेषु विख्यातं मार्कण्डेश्वरसंज्ञिकम्  ।

बृहद्रथान्तरं यच्च सामवेदं द्विजोत्तमः  ॥ ८८.१७ ॥

अथर्वाथर्वशीर्षाणि तथा हृच्च वृषाकपिम्  ।

शिवसंकल्पितं जप्त्वा मुच्यते सर्वपातकैः  ॥ ८८.१८ ॥

स याति परमं स्थानं यत्र देवो महेश्वरः  ।

पादशौचं तथा तस्य कुर्वते ये च भक्तितः  ॥ ८८.१९ ॥

गोदानेनैव यत्पुण्यं लभन्ते नाऽत्र संशयः  ।

ब्राह्मणान् भोजयेत्तत्र पायसैर्मधुसर्पिषा  ॥ ८८.२० ॥

एकेन भोजितेनापि सहस्रं तेन भोजितम्  ।

सुवर्णं रजतं वस्त्रं दद्याद्भक्त्या द्विजातिषु  ॥ ८८.२१ ॥

तेन तृप्यन्ति ते देवा मनुष्याः पितरस्तथा  ।

चन्द्रसूर्यग्रहे भक्त्या स्नानं कुर्वन्ति ये नराः  ॥ ८८.२२ ॥

देवार्चनं च यः कुर्याज्जपं होमं विशेषतः  ।

दह्याद्दानं यथाशक्त्या ब्राह्मणे वेदपारगे  ॥ ८८.२३ ॥

अश्वरत्नं गजरत्नं तूलापुरुषमेव च  ।

यो दद्याच्छकटं तत्र सप्तधान्यप्रपूरितम्  ॥ ८८.२४ ॥

युक्तं च लाङ्गलं दद्याद्युवानौ तु धुरन्धरौ  ।

गोभूतिलहिरण्यं च पात्रे दातव्यमीप्सितम्  ॥ ८८.२५ ॥

अपात्रे विदुषा किंचित्न देयं श्रेय इच्छता  ।

सर्वभूतानि चात्मैव यतो धारयते मही  ॥ ८८.२६ ॥

ततो विप्राय सा देया सर्वसस्यानुशालिनी  ।

अन्यच्च शृणु राजेन्द्र गोदानस्य च यत्फलम्  ॥ ८८.२७ ॥

यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते  ।

तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति  ॥ ८८.२८ ॥

येन केनाप्युपायेन ब्राह्मणाय समर्पयेत् ।

पृथ्वी दत्ता भवेत्तेन सशैलवनकानना  ॥ ८८.२९ ॥

तारयन्ती च सा दत्ता कुलानामेकविंशतिम्  ।

रौप्यखुरीं कांस्यदोहां सवत्सां च पयस्विनीम्  ॥ ८८.३० ॥

प्रयच्छन्ति जनाः पुण्या राहुग्रस्ते निशाकरे  ।

सर्वस्यैव तु दानस्य संख्या चास्ति नराधिप  ॥ ८८.३१ ॥

चन्द्रसूर्योपरागे च दानसंख्या न विद्यते  ।

यत्र गावः प्रदृश्यन्ते सर्वतीर्थानि तत्र वै  ॥ ८८.३२ ॥

तत्र यज्ञं विजानीयात्नात्र कार्या विचारणा  ।

पुनः स्मृत्वा तु तत्तीर्थं गमनं कुरुते नरः  ॥ ८८.३३ ॥

अथवा श्रूयते यस्तु रुद्रस्यानुचरो भवेत् ॥ ८८.३४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शूलभेदमहिमानुकथनं नामाष्टाशीतितमोऽध्यायः ॥

 

 

अध्याय ८९

 

ईश्वर उवाच –

अन्यच्चाख्यानकं वक्ष्ये पुरावृत्तं नराधिप  ।

सकुटुम्बो गतः स्वर्गमृषिर्दीर्घतपा महान्  ॥ ८९.१ ॥

 

शङ्कर उवाच –

काशिराजेति विख्यातश्चित्रसेनो महाबलः  ।

तस्य पुर्यां स वसते सर्वकामसमन्वितः  ॥ ८९.२ ॥

सा पुरी जनसम्पूर्णा नानारत्नोपशोभिता  ।

वाराणासीति विख्याता गङ्गातीरे समाश्रिता  ॥ ८९.३ ॥

इन्द्रप्रस्थसमप्रख्या गौरीगोकुलसंयुता  ।

बहुद्विजसमाकीर्णा वेदध्वनितनिःस्वना  ॥ ८९.४ ॥

वणिग्जनैर्बहुविधैः क्रयविक्रयसंयुतैः  ।

अट्टाट्टालैः प्रतोलीभिरुत्सवाद्यैस्तु मण्डिता  ॥ ८९.५ ॥

देवतायतनैर्दिव्यैरारामैरुपशोभिता  ।

नानापुष्पफलैर्रम्यैः कदलीषण्डमण्डिता  ॥ ८९.६ ॥

तस्या उत्तरदिग्भागे आरामश्चोत्तमः शुभः  ।

समन्दारवनं नाम त्रिषु लोकेषु विश्रुतम्  ॥ ८९.७ ॥

नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्  ।

बहुमन्दारसंयुक्तं तेन मन्दारकं वनम्  ॥ ८९.८ ॥

विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति  ।

तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः  ॥ ८९.९ ॥

स तिष्ठते सपत्नी कस्तिष्ठते पुत्रसंयुतः  ।

शुश्रूषयन्ति तं सर्वे सुताः पञ्च समीपगाः  ॥ ८९.१० ॥

तस्य पुत्रः कनीयांस्तु ऋष्यशृङ्गो महातपाः  ।

वेदाध्ययनसंयुक्तो ब्रह्मचारी गुणान्वितः  ॥ ८९.११ ॥

योगाभ्यासरतो नित्यं कन्दमूलफलाशनः  ।

तिष्ठते मृगरूपेण मृगमध्ये वसन् सदा  ॥ ८९.१२ ॥

दिनारम्भे दिनान्ते च मातापित्रग्रतः स्थितः  ।

अभिवादयते नित्यं भाक्तमानृषिपुत्रकः  ॥ ८९.१३ ॥

पुनर्जगाम तत्रैव कानने गिरिगह्वरे  ।

क्रीडन् बालमृगैः सार्धं राजबाणमृतस्तु सः  ॥ ८९.१४ ॥

 

राजोवाच –

आश्रमे वसतस्तत्र सुदीर्घतपसस्तदा  ।

सूनुस्तस्य कनीयांस्तु कथं मृत्युवशं गतः  ॥ ८९.१५ ॥

 

श्रीभगवानुवाच –

शृणुष्वैकमना भूत्वा कथां चित्रां महीपते  ।

श्रवणादेव तस्या हि सर्वपापैः प्रमुच्यते  ॥ ८९.१६ ॥

काशिराजो महाराजा महाबलपराक्रमः  ।

चित्रसेन इति ख्यातो वाराणस्यां वसत्यसौ  ॥ ८९.१७ ॥

एवं वसंस्तत्र राज्ये मन्त्रिणो वाक्यमब्रवीत् ।

मृगया च गमिष्यामि यूयं राज्ये प्रतिष्ठिताः  ॥ ८९.१८ ॥

गम्यतां मन्त्रिभिः प्रोक्तो गतोऽसौ वसुधाधिपः  ॥ ८९.१९ ॥

छत्रैश्छत्राणि दृश्यन्ते गच्छन्तं काननं प्रति  ।

रजस्तत्रोत्थितं भूरि गजवाजिपदाहतम्  ॥ ८९.२० ॥

तेनैवाच्छादितं सर्वं सादित्यं भूमिमण्डलम्  ।

न तत्र दृश्यते सूर्यो न काष्ठा न च चन्द्रमाः  ॥ ८९.२१ ॥

पादपाश्च न दृश्यन्ते गिरिसातूनि सर्वशः  ।

तत्रापि च महाराज मृगयूथमदृश्यत  ॥ ८९.२२ ॥

अधावन् पुरुषाः सर्वे सराजाराजपुत्रकाः  ।

वृन्दलोपोऽभवत्तेषां शीघ्रं जग्मुर्दिशो दश  ॥ ८९.२३ ॥

एकमार्गं गतो राजा चित्रसेनो महीपतिः  ।

एकाकी स गतस्तत्र यत्र यत्र च ते मृगाः  ॥ ८९.२४ ॥

प्रविष्टस्तु ततो दुर्गे कानने पक्षिवर्जिते  ।

वल्मीगुल्मलताकीर्णे प्रविष्टो नैव दृश्यते  ॥ ८९.२५ ॥

एकाक्यपश्यदात्मानं न चाश्वं न पदातिकान्  ।

न कोऽपि चात्र जानाति नाहं वेद्मि दिशो दश  ॥ ८९.२६ ॥

एवं कष्टं गतो राजा चित्रसेनो नराधिपः  ।

छायां समाश्रितस्तत्र विश्रम्य च पुनः पुनः  ॥ ८९.२७ ॥

क्षुत्तृषार्तो भ्रमन् दुर्गे कानने गिरिगह्वरे  ।

ततोऽपश्यत्सरो दिव्यं पद्मिनीषण्डमण्डितम्  ॥ ८९.२८ ॥

हंसकारण्डवाकीर्णं चक्रवाकोपकूजितम्  ।

सरो दृष्ट्वा तु राजेन्द्रः संप्रहृष्टतनूरुहः  ॥ ८९.२९ ॥

कुमुदानि गृहीत्वा तु तत्र स्नानं समाचरत् ।

तर्पयित्वा पितॄन् देवान्मनुष्यांश्च यथा विधि  ॥ ८९.३० ॥

पपौ पानीयममलं यथावत्समभीप्सितम्  ।

उत्तीर्य स जलात्तीरे दृष्ट्वा वृक्षं समीपतः  ॥ ८९.३१ ॥

चिन्तयाऽनुपविष्टोऽसौ किं तु कर्म करोम्यहम्  ।

ततश्छायाश्रितान् पश्यन् वनोद्देशे मृगान् बहून्  ॥ ८९.३२ ॥

केचित्पूर्वमुखास्तत्र अपरे दक्षिणामुखा  ।

वारुण्यभिमुखाः केचित्केचित्कौबेरमाश्रिताः  ॥ ८९.३३ ॥

केचिन्निद्रां प्रकुर्वन्ति ऊर्ध्वकर्णाः स्थिताः परे  ।

मृगमध्ये स्थितो योगी ऋष्यशृङ्गो महातपाः  ॥ ८९.३४ ॥

मृगान् दृष्ट्वा ततो राजा प्रहारार्थमचिन्तयत् ।

वधित्वा च मृगं चैकं भक्षयामि यदृच्छया  ॥ ८९.३५ ॥

स्वस्थावस्थो भविष्यामि मृगमांसस्य भक्षणात् ।

काशीं प्रति गमिष्यामि मार्गमन्वेषयंस्ततः  ॥ ८९.३६ ॥

विचिन्त्यैवं ततो राजा वृक्षमूलं समाश्रितः  ।

चापं धृत्वा कराग्रेण प्राक्षिपत्तच्छरं विभुः  ॥ ८९.३७ ॥

क्षिप्तमात्रे शरे तस्मिन् सर्वे नष्टा मृगास्ततः  ।

तेषां मध्ये स चैवेक ऋष्यशृङ्गो महातपाः  ॥ ८९.३८ ॥

शरेण विद्धः पतितः कृष्ण कृष्णेति चाब्रवीत् ।

हाहा शब्दं कृतं तेन केनाहं पातितोऽधुना  ॥ ८९.३९ ॥

कस्यैषा दुर्मतिर्जाता यया बुद्धिर्ममोपरि  ।

मृगमध्ये स्थितश्चाहं न किंचदपराद्धवान्  ॥ ८९.४० ॥

वाचां तां मानुषीं श्रुत्वा स राजा विस्मयान्वितः  ।

शीघ्रं गत्वा ततोऽपश्यद्ब्राह्मणं ब्रह्मवर्चसम्  ॥ ८९.४१ ॥

हा हा कष्टं कृतं मेऽद्य येनासौ घातितो मया  ।

 

ब्राह्मण उवाच –

न ते सिद्धिर्भवेत्किंचिन्मयि पञ्चत्वमागते  ॥ ८९.४२ ॥

तवैव विहिता हत्या मयि पञ्चत्वमागते  ।

जननी मे पिता वृद्धौ भ्रातरो हि तपस्विनः  ॥ ८९.४३ ॥

भ्रातृजाया मरिष्यन्ति मयि पञ्चत्वमागते  ।

एता हत्या भविष्यन्ति तव शुद्धिः कथं भवेत् ॥ ८९.४४ ॥

उपायं कथयिष्यामि कर्तुं त्वं यदि मन्यसे  ॥ ८९.४५ ॥

 

राजोवाच –

उपायः कथ्यतां मेऽद्य यस्ते मनसि वर्तते  ।

करिष्ये तदहं सर्वं प्रयत्नेन महामुने  ॥ ८९.४६ ॥

 

शृङ्ग्युवाच –

पृच्छामि त्वां कुतः को वा कथं त्वमिह चागतः  ।

ब्रह्मक्षत्रविशां मध्येऽन्त्यजः शूद्रोऽथवा पुनः  ॥ ८९.४७ ॥

 

राजोवाच –

नाहं विप्रो न वैश्योऽहं न शूद्रः क्षत्रियो ह्यहम्  ।

 

शृङ्ग्युवाच –

मां गृहीत्वाश्रमं पुण्यं यत्र तौ पितरौ मम  ॥ ८९.४८ ॥

आवेदयस्व दयस्व चात्मानं पुत्रपापिनमागतम्  ।

तौ दृष्ट्वा मां करिष्येते कारुण्यं च तवोपरि  ॥ ८९.४९ ॥

उपायं वा करिष्येते येन शान्तिर्भविष्यति  ।

तस्य तद्वचनं श्रुत्वा चित्रसेनो नृपोत्तमः  ॥ ८९.५० ॥

स्कन्धे कृत्वा च तं विप्रं जगामाश्रमकं प्रति  ।

न शक्नोति च तं वोढुं विश्रम्य च पुनः पुनः  ॥ ८९.५१ ॥

तावत्पश्यति तं विप्रं मूर्छितं विकलेन्द्रियम्  ।

मुमोच चित्रसेनस्तु छायां न्यग्रोधकस्य च  ॥ ८९.५२ ॥

विश्रामं च ततः कृत्वा वाचं कुर्वन्मुहुर्मुहुः  ।

पश्यतस्तस्य राजेन्द्र ऋष्यशृङ्गो महातपाः  ॥ ८९.५३ ॥

पञ्चत्वमगमच्छीघ्रं ध्यानयोगेन योगवित् ।

दाहयामास तं विप्रं विधिदृष्टेन कर्मणा  ॥ ८९.५४ ॥

स्नानं कृत्वा तु शोकार्तो रुरोद च मुमोह च  ।

ततश्चानन्तरं राजा उद्वेगं परमं गतः  ॥ ८९.५५ ॥

कथं यास्ये गृहानद्य वाराणस्यां हतो ह्यहम्  ।

ब्रह्महत्या समाविष्टो जुहोम्यग्नौ कलेवरम्  ॥ ८९.५६ ॥

अथवा ऋषिवाक्येन गच्छाम्येवाश्रमं प्रति  ।

कथयामि यथावृत्तं गत्वा तस्य महा ऋषेः  ॥ ८९.५७ ॥

एवं विचिन्त्य राजासौ जगामाश्रमसन्निधौ  ।

ऋष्यशृङ्गस्य चास्थीनि गृहीत्वा स नृपोत्तमः  ॥ ८९.५८ ॥

दृष्टिमार्गे स्थितस्तस्य ब्रह्मर्षेर्भावितात्मनः  ।

 

दीर्घतपा उवाच –

आगच्छ स्वागतं तेऽद्य आसने उपविश्यताम्  ॥ ८९.५९ ॥

दीर्घतपास्म्यहं तेऽद्य मधुपर्कः सविष्टरः  ।

 

राजोवाचा॒

अर्घस्यैव न योग्योऽहं महर्षेर्भावितात्मनः  ॥ ८९.६० ॥

मृगमध्ये स्थितो विप्र तव पुत्रो मया हतः  ।

पुत्रघ्नं शाधि मां विप्र तीव्रदण्डेन दण्डय  ॥ ८९.६१ ॥

मृगभ्रान्त्या हतो विप्र ऋष्यशृङ्गो महातपाः  ।

इति ज्ञात्वा च मां विप्र कुरुष्व च यथोचितम्  ॥ ८९.६२ ॥

माता तस्य वचः श्रुत्वा गृहान्निर्गत्य विह्वला  ।

हा हतास्मीत्युवाचाथ पतिता च महीतले  ॥ ८९.६३ ॥

विललाप सुदुःखार्ता पुत्रशोकेन पीडिता  ।

हा पुत्र पुत्रेति वदन् करुणं कुररी यथा  ॥ ८९.६४ ॥

श्रुत्यध्ययनसम्पूर्णो जपहोमपरायणः  ।

आगतं त्वां गृहद्वारे कदा पृच्छामि पुत्रक  ॥ ८९.६५ ॥

त्रिलोक्यामपि श्रूयते चन्दनं किल शीतलम्  ।

पुत्रगातपरिष्वङ्गश्चन्दनादपि शीतलः  ॥ ८९.६६ ॥

परिष्वजितुमिच्छामि त्वामहं पुत्रसुप्रियम्  ।

पञ्चत्वं च गमिष्यामि त्वद्विहीना सुदुःखिता  ॥ ८९.६७ ॥

एवं विलपती दीना पुत्रशोकेन पीडिता  ।

मूर्छिता विह्वला दीना निपपात महीतले  ॥ ८९.६८ ॥

भार्यां च पतितां दृष्ट्वा पुत्रशोकेन पीडितः  ।

चुकोप मुनिश्रेष्ठश्चित्रसेनं नृपं तदा  ॥ ८९.६९ ॥

 

दीर्घतपा उवाच –

याहि याहि महापाप मा मुखं दर्शयस्व मे  ।

किं त्वया घातितो विप्र ह्यकामाच्च सुतो मम  ॥ ८९.७० ॥

ब्रह्महत्या भविष्यन्ति बहवस्ते नराधिप  ।

सकुटुम्बस्य मे त्वं हि मृत्युरेवमुपागतः  ॥ ८९.७१ ॥

एवमुक्त्वा ततो विप्रो विचिन्त्य च पुनः पुनः  ।

क्रोधं परित्यज्य ततो मुनिमार्गं जगाम ह  ॥ ८९.७२ ॥

 

ऋषिरुवाच –

उद्वेगं त्यज भो राजन् दुरुक्तं गदितं मया  ।

पुत्रशोकाभिभूतेन दुःखमाप्तेन मानद  ॥ ८९.७३ ॥

किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः  ।

प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी  ॥ ८९.७४ ॥

अनेनैव प्रकारेण यत्त्वया लिखितं मम  ।

परं तव भविष्यन्ति विप्रहत्या न संशयः  ॥ ८९.७५ ॥

ब्रह्मक्षत्रविशां मध्ये शूद्रो वा चान्त्यजादिषु  ।

कस्त्वं कथय सत्यं मे कस्माच्च निहतः सुतः  ॥ ८९.७६ ॥

 

चित्रसेन उवाच –

विज्ञापयामि विप्रर्षे क्षन्तव्यं च ममोपरि  ।

नाहं विप्रोऽस्मि भो तात न शूद्रो नैव वैश्यजः  ॥ ८९.७७ ॥

नचापि चान्त्यजातीयः क्षत्रियोऽहं द्विजोत्तम  ।

काशिराजो मृगान् हन्तुमागतो वनमुत्तमम्  ॥ ८९.७८ ॥

भ्रमता पातितस्तत्र मृगरूपधरो मुनिः  ।

किं कर्तव्यं मया विप्र उपायं कथयस्व मे  ॥ ८९.७९ ॥

 

दीर्घतपा उवाच –

ब्रह्महत्या न शक्येत एकेन तरितुं विभो  ।

देशे काले यथाशक्त्या तच्छृणुष्व नराधिप  ॥ ८९.८० ॥

चत्वारो मे सुता राजन् सभार्या मातृपूर्वकाः  ।

मया सह न जीवन्ति ऋष्यशृङ्गस्य कारणे  ॥ ८९.८१ ॥

उपायं शोभनं तात कथयामि शृणुष्व भोः  ।

शक्यते यदि चेत्कर्तुं सुखोपायं नरेश्वर  ॥ ८९.८२ ॥

सकुटुम्बसमस्तान्नो दाहयस्वानले नृप  ।

अस्थीनि नर्मदातोये शूलभेदे विनिक्षिपेः  ॥ ८९.८३ ॥

नर्मदादक्षिणे कूले शूलभेदेति विश्रुतम्  ।

सर्वपापहरं तीर्थं सर्वतीर्थोत्तमोत्तमम्  ॥ ८९.८४ ॥

शुचिर्भूत्वा ममास्थीनि क्षिप त्वं शूलभेदके  ।

मुच्यते सर्वपापेभ्यो मम वाक्यात्न संशयः  ॥ ८९.८५ ॥

 

राजोवाच –

आदेशो दीयतां तात करिष्यामि न संशयः  ।

सर्वस्वमपि यत्किंचिद्राज्यं कोशः स्त्रियः सुताः  ॥ ८९.८६ ॥

तव दानं प्रयच्छामि विप्र मां त्वं प्रसीद च  ।

परस्परं विवदतोर्मुनिराज्ञोस्तदा नृप  ॥ ८९.८७ ॥

स्फुटित्वा हृदयं शीघ्रं मुनेर्भार्या मृता तदा  ।

पुत्रशोकसमाक्रान्ता निर्जीवा पतिता क्षितौ  ॥ ८९.८८ ॥

पुत्राश्च मातृशोकेन सर्वे पञ्चत्वमागताः  ।

स्नुषाश्चैव तु ताः सर्वा मृताश्च सह भर्तृभिः  ॥ ८९.८९ ॥

पञ्चत्वं तु गतान् सर्वान्मुनिमुख्यान्निरीक्ष्य तान्  ।

विप्राश्चाह्वानितास्तेन ते तत्राश्रमवासिनः  ॥ ८९.९० ॥

तेभ्यो निवेदयामास यथा वृत्तं नरोत्तमः  ।

संहतैस्तैरनुज्ञातः कथंचिद्दह्य यत्नतः  ॥ ८९.९१ ॥

देहं स्वं पावनं कृत्वास्थीनि प्रगृह्य यत्नतः  ।

याम्यां हि प्रस्थितो राजा पादचारी महीपतिः  ॥ ८९.९२ ॥

न शक्नोति यदा गन्तुं छायामाश्रित्य तिष्ठति  ।

विश्रम्य च पुनर्गच्छन् विश्रम्य च पुनः पुनः  ॥ ८९.९३ ॥

सचैलं कुरुते स्नानमस्थीन् वोढा पदे पदे  ।

विना जलं निराहारः सोऽगच्छद्दक्षिणामुखः  ॥ ८९.९४ ॥

अचिरेणैव कालेन स गतो नर्मदातटे  ।

आश्रमस्थान् द्विजान् सर्वान् पप्रच्छ राजसत्तमः  ॥ ८९.९५ ॥

कथ्यतां मे द्विजश्रेष्ठाः शूलभेदस्य मार्गकः  ॥ ८९.९६ ॥

 

विप्रा ऊचुः॒

नर्मदादक्षिणे कूले गतो द्रक्ष्यसि नान्यथा  ॥ ८९.९७ ॥

ऋषिवाक्येन वै राजा गतोऽथ हि नरेश्वरः  ।

स ददर्श ततस्तीर्थं बहुद्विजसमाकुलम्  ॥ ८९.९८ ॥

बहुद्रुमलताकीर्णं बहुपुष्पोपशोभितम्  ।

बहुमूलफलोपेतं बहुश्वापदशोभितम्  ॥ ८९.९९ ॥

ऋषिसङ्घैः समाकीर्णं नानाव्रतधरैः शुभैः  ।

एकपादस्थिताः केचिदपरे सूर्यवर्चसः  ॥ ८९.१०० ॥

एकदृष्टिस्थिताः केचिदूर्ध्वबाहुस्थिताः परे  ।

चान्द्रायणपरा केचित्केचित्पक्षोपवासिनः  ॥ ८९.१०१ ॥

मासोपवासिनः केचित्केचिदृतुमुपोषिताः  ।

शीर्णपर्णाशिनः केचित्केचिन्मारुतभोजनाः  ॥ ८९.१०२ ॥

योगाभ्यासरताः केचिद्ध्यायन्तः परमं पदम्  ।

गार्हस्थमास्थिताः केचित्केचिच्चैवाग्निहोत्रिणः  ॥ ८९.१०३ ॥

एवं विधान् द्विजान् दृष्ट्वा जानुभ्यामवनीं गतः  ।

प्रणम्य शिरसा राजन् राजा वचनमब्रवीत् ॥ ८९.१०४ ॥

कस्मिन् देशे तु तत्तीर्थं कथयध्वं द्विजोत्तमाः  ।

सर्वेषां वाञ्छितां सिद्धिं दद्याच्च फलमीप्सितम्  ॥ ८९.१०५ ॥

 

ऋषिरुवाच –

धन्वन्तरशतं गच्छ भृगुतुङ्गस्य मूर्धनि  ।

कुण्डं द्रक्ष्यसि विस्तीर्णं तोयपूर्णं सुशोभनम्  ॥ ८९.१०६ ॥

तेषां तद्वचनं श्रुत्वा गतः कुण्डस्य मूर्धनि  ।

दृष्ट्वा हि चैव तत्तीर्थं भ्रान्तिर्जाता नृपस्य हि  ॥ ८९.१०७ ॥

वीक्ष्य कुण्डं महाभागं गङ्गां चैव विशेषतः  ।

प्राचीं सरस्वतीं दृष्ट्वा भ्रान्तिर्जाता नृपस्य हि  ॥ ८९.१०८ ॥

ततो विस्मयमापन्नश्चिन्तयानो मुहुर्मुहुः  ।

आकाशसंस्थितं दृष्ट्वा सामिषं कुररं तथा  ॥ ८९.१०९ ॥

भ्रममाणं गृहीत्वा तं वध्यमानं निरामिषैः  ।

परस्परं हि युध्यन्ते सर्वे चामिषभक्षकाः  ॥ ८९.११० ॥

हतश्चञ्चुप्रहारैस्तु कुररः पतितोऽम्भसि  ।

शूलेन शूलिना यत्र भूभागं भेदितं पुरा  ॥ ८९.१११ ॥

तत्तीर्थस्य प्रभावेण स सद्यः पुरुषोऽभवत् ।

विमानस्थं तु तं दृष्ट्वा क्रौंच वै दिव्यरूपिणम्  ॥ ८९.११२ ॥

अप्सरोभिर्गीयमानं नृपस्तत्तीर्थमागतः  ।

अस्थीनि भूमौ निक्षिप्य स्नानं कृत्वा यथा विधि  ॥ ८९.११३ ॥

तिलमिश्रेण तोयेन तर्पयित्वेष्टदेवताः  ।

धृत्वास्थीनि ततो राजा निक्षिप्यान्तर्जले तथा  ॥ ८९.११४ ॥

क्षणमेकं ततो वीक्ष्य राजा ऊर्ध्वमुखः स्थितः  ।

तां ददर्श ततः सर्वान् देवमूर्तिधरान् शुभान्  ॥ ८९.११५ ॥

दिव्यवस्त्रैश्च संवीतान् दिव्याभरणभूषितान्  ।

विमानैः काञ्चनैर्दिव्यैरप्सरोगणसेवितैः  ॥ ८९.११६ ॥

पृथग्भूताश्च तान् सर्वान् विमानेषु व्यवस्थितान्  ।

उत्पततः समालोक्य स राजा हर्षितोऽभवत् ॥ ८९.११७ ॥

ऋषिर्विमानमारूढश्चित्रसेनमथाब्रवीत् ।

भो भोः साधु महाराज चित्रसेन महामते  ॥ ८९.११८ ॥

त्वत्प्रसादान्नृपश्रेष्ठ गतिर्दिव्या ममाद्य वै  ।

इदं च यत्त्वया किंचित्कृतं परमदुष्करम्  ॥ ८९.११९ ॥

स्वसुतोऽपि न शक्नोति पितॄणां कर्तुमीदृशम्  ।

मदीयवचनाद्राजन्निष्पापस्त्वं भविष्यसि  ॥ ८९.१२० ॥

यत्त्वं द्रक्ष्यसि राजेन्द्र कामिकं मनसेप्सितम्  ।

आशीर्वादं ततो दत्त्वा चित्रसेनाय धीमते  ॥ ८९.१२१ ॥

स्वर्गं जगाम स्वसुतैस्ततो दीर्घतपा मुनिः  ॥ ८९.१२२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे दीर्घतपाख्यानो नामैकोननवतितमोऽध्यायः ॥

 

 

अध्याय ९०

 

उत्तानपाद उवाच –

दृष्ट्वा तत्तीर्थमाहात्म्यं चित्रसेनो नरेश्वरः  ।

विपुलं तीक्ष्णधारं च कण्ठे चासि नृपोत्तम  ॥ ९०.१ ॥

देवान् सर्वान् हृदि ध्यायन् ब्रह्मविष्णुमहेश्वरान्  ।

विनिक्षिपन्नथात्मानौ प्रत्यक्षौ विष्णुशङ्करौ  ॥ ९०.२ ॥

करे धृत्वा तु राजानं रुद्रो वचनमब्रवीत् ।

 

हर उवाच –

प्राणत्यागं महाराज अकाले मा कुरुष्व ह  ॥ ९०.३ ॥

अद्यापि तु युवासि त्वं न युक्तं मरणं तव  ।

स्वस्थानं गच्छ वै शीघ्रं भोगान् भुङ्क्ष्व यथेप्सितान्  ॥ ९०.४ ॥

भुङ्क्ष्व निष्कण्टकं राज्यं नाकं शक्र इवापरः  ।

 

चित्रसेन उवाच –

न राज्यं कामये देव न पुत्रान्न च बान्धवान्  ॥ ९०.५ ॥

न भार्यां न च कोशं च न गाश्च न तुरङ्गमान्  ।

मुञ्चस्व मां महादेव अविघ्नं क्रियतां मम  ॥ ९०.६ ॥

स्वर्गप्राप्तिर्ममाद्यैव त्वत्प्रसादान्महेश्वर  ।

 

देव उवाच –

यस्याग्रतो भवेद्विष्णुर्ब्रह्मा रुद्रस्तथैव च  ॥ ९०.७ ॥

स्वर्गेण तस्य किं कार्यं गतोऽसौ किं करिष्यति  ।

तुष्टाव त्वां त्रयो देवा वृणीष्व वरमुत्तमम्  ॥ ९०.८ ॥

यथेप्सितं महाराज सत्यमेतन्न संशयः  ।

 

चित्रसेन उवाच –

यदि तुष्टास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः  ॥ ९०.९ ॥

अद्य प्रभृति युष्माभिः स्थातव्यमिह सर्वदा  ।

गयाशिरं यथा पुण्यं कृतं युष्माभिरेव च  ॥ ९०.१० ॥

तथैवेदं तु कर्तव्यं शूलभेदं च पावनम्  ।

यत्र यत्र स्थिता यूयं तत्र तत्र वसाम्यहम्  ॥ ९०.११ ॥

गणानामिह सर्वेषामवध्योऽहं सुरेश्वर  ।

 

ईश्वर उवाच –

अद्य प्रभृति तिष्ठाम शूलभेदे नरेश्वर  ॥ ९०.१२ ॥

कलांशेन त्रयो देवास्त्रिकालं निवसामहे  ।

नन्दिसंज्ञो गणश्च त्वं भविष्यसि न संशय  ॥ ९०.१३ ॥

भविष्यत्यग्रपूजा ते मत्समीपे सदा नृप  ।

प्रक्षिप्य च निजास्थीनि यथा दीर्घतपा ययौ  ॥ ९०.१४ ॥

सकुटुम्बो विमानस्थः स्वर्गे तिष्ठति तत्कुरु  ।

एवं देवा वरं दत्त्वा चित्रसेनाय पार्थिव  ॥ ९०.१५ ॥

कुण्डमूर्धनि यास्यामस्त्रयो देवास्तदा स्थिताः  ।

परस्परं वदन्त्येवमिदं तीर्थं तथा शुभम् ॥ ९०.१६ ॥

यथा गयाशिरं पुण्यं सर्वमासि च पठ्यते  ।

तथा रेवातटे पुण्यं शूलभेदं न संशयः  ॥ ९०.१७ ॥

 

ब्रह्मोवाच –

इदं तीर्थं महाराज यथापुण्यं गयाशिरः  ।

स्नात्वा चैवोदके तस्मिन्नरो निर्मलतां व्रजेत् ॥ ९०.१८ ॥

एकं गयाशिरं मुक्त्वा सर्वतीर्थानि शङ्कर  ।

शूलभेदस्य तीर्थस्य कलां नार्हन्ति षोडशीम्  ॥ ९०.१९ ॥

कुण्डस्य दक्षिणे भागे दशहस्तप्रमाणतः  ।

ऐन्द्रवारुणवायव्यां प्रमाणन्त्वेकविंशतिः  ॥ ९०.२० ॥

एतत्प्रमाणं तीर्थस्य पिण्डदानादिकर्मसु  ।

नराः पुण्याश्च ते सर्वे अत्र दानं कृतं च यैः  ॥ ९०.२१ ॥

विष्णुस्त्रिनेत्ररूपेण ब्रह्मरूपी पितामहः  ।

तस्मिंस्तीर्थे स्थिता नित्यं पूजां गृह्णन्ति भक्तितः  ॥ ९०.२२ ॥

जातं जातं निरीक्ष्यन्ते स्वपुत्रं हि पितामहाः  ।

कदा यास्यति पुत्रोऽसौ कदा दाता भविष्यति  ॥ ९०.२३ ॥

पञ्चस्थानेषु यः श्राद्धं कुरुते भक्तिमान्नरः  ।

स्वकुलानि तु सर्वाणि प्रेतभूतानि तारयेत् ॥ ९०.२४ ॥

एकविंशत्पितृपक्षे मातृपक्षैकविंशतिम्  ।

भार्याया एकादशैवेति सर्वाण्येतानि तारयेत् ॥ ९०.२५ ॥

द्विजदेवप्रसादेन पितॄणां च तथैव हि  ।

श्राद्धदो वसते तत्र यत्र देवो महेश्वरः  ॥ ९०.२६ ॥

आत्मनो घातका ये च गोघ्नाः स्त्रैणहताश्च ये  ।

दंष्ट्रिभिर्जलपातेन विद्युत्पातेन ये हताः  ॥ ९०.२७ ॥

न तेषामग्निसंस्कारो न शौचं नोदकक्रिया  ।

तत्र तीर्थे तु यः श्राद्धं तेषां कुर्यात्स्वभक्तितः  ॥ ९०.२८ ॥

मोक्षप्राप्तिर्भवेत्तेषां त्रिस्थानेषु न संशयः  ।

तृप्तिस्तु जायते तेषां वर्षमेकं न संशयः  ॥ ९०.२९ ॥

अजानता कृतं पापं बालभावेषु यत्कृतम्  ।

तत्सर्वं नश्यति क्षिप्रं सकृत्स्नानेन भूपते  ॥ ९०.३० ॥

रजकेन यथा धौतवस्त्रं निर्मलतां व्रजेत् ।

पापोपलिप्तस्तीर्थेऽस्मिन् स्नातो निर्मलतां व्रजेत् ॥ ९०.३१ ॥

संन्यासं कुरुते यस्तु तस्मिंस्तीर्थे नराधिप  ।

ध्यायमानो महादेवं स गच्छेत्परमं पदम्  ॥ ९०.३२ ॥

क्रीडित्वा च यथा कामं स्वेच्छया शिवमन्दिरे  ।

वेदवेदाङ्गतत्त्वज्ञो जायते विपुले कुले  ॥ ९०.३३ ॥

रूपवान् सुभगश्चैव सर्वव्याधिविवर्जितः  ।

सर्वधर्मसमोपेतः सर्वाचारसमन्वितः  ॥ ९०.३४ ॥

एतत्ते कथितं राजंस्तीर्थस्य फलमुत्तमम्  ।

तच्छ्रुत्वा मानवो नित्यं मुच्यते सर्वपातकैः  ॥ ९०.३५ ॥

यश्चैनं श्रावयेद्भक्त्या आख्यानं द्विजसन्निधौ  ।

श्राद्धे देवगृहे चैव पठेत्पर्वणि पर्वणि  ॥ ९०.३६ ॥

गीर्वाणास्तस्य तुष्यन्ति मनुष्याः पितृभिः सह  ।

पठतां शृण्वतां चैव नश्येद्वै पापसंचयः  ॥ ९०.३७ ॥

लिखित्वा तीर्थमाहात्म्यं ब्राह्मणेभ्यो ददाति यः  ।

जातिस्मरं स लभते प्राप्नोत्यभिमतं फलम्  ॥ ९०.३८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे चित्रसेनकथावर्णनो नाम नवतितमोऽध्यायः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!