रेवा खंड स्कंद पुराण 4

रेवा खंड स्कंद पुराण 91 to 116 last 

अध्याय ९१

 

राजोवाच –

अन्यच्च श्रोतुमिच्छामि केन गङ्गावतारिता  ।

रुद्रशीर्षस्थिता पुण्या देवी कथमिहागता  ॥ ९१.१ ॥

पुण्या देवशिलानाम तस्या माहात्म्यमुत्तमम्  ।

एतदाख्याहि मे सर्वं प्रसादात्पुरुषोत्तम  ॥ ९१.२ ॥

रुद्र उवाच –

शृणुष्वैकमना भूत्वा यथा गङ्गावतारिता  ।

पुरा देवी महाभाग ब्रह्माद्यैः सकलैः सुरैः  ॥ ९१.३ ॥

अभ्यर्थयज्जगन्नाथं देवदेवं जगद्गुरुम्  ।

घटमध्ये स्थिता गङ्गा मोचिता च सुभूतले  ॥ ९१.४ ॥

भारती च ततो मुक्ता रुद्रेण शिरसो भुवि  ।

नरास्तीर्थे तटे तस्याः स्नानं कुर्वन्ति भक्तितः  ॥ ९१.५ ॥

पिबन्ति च जलं नित्यं न ते यान्ति यमालयम्  ।

यत्र सा पतिता कुण्डे शूलभेदे नराधिप  ॥ ९१.६ ॥

देवनद्याः प्रतीच्यां च यत्र प्राची सरस्वती  ।

याम्यां च शूलभेदाख्यमस्ति तीर्थमनुत्तमम्  ॥ ९१.७ ॥

तत्रदेवशिला रम्या स्वयं देवेन निर्मिता  ।

तत्र स्नात्वा तु यो भक्त्या ब्राह्मणं भोजयेन्नृप  ॥ ९१.८ ॥

अल्पस्यैव तु दानस्य तस्य चान्तो न विद्यते  ।

 

उत्तानपाद उवाच –

कानि दानानि शस्तानि देवेश धरणीतले  ॥ ९१.९ ॥

यानि दत्त्वा नरो भक्त्या मुच्यते सर्वकिल्बिषैः  ।

देवशिलाया माहात्म्यं स्नानदानाद्धि यत्फलम्  ॥ ९१.१० ॥

व्रतोपवासनि यमैर्यत्प्राप्यं तद्वदस्व मे  ।

 

श्रीभगवानुवाच –

आसीत्पुरा महावीर्यश्चेदिनाथो महाबलः  ॥ ९१.११ ॥

वीरसेन इति ख्यातो मण्डलाधिपतीश्वरः  ।

तस्य राज्ये रिपुर्नास्ति न व्याधिर्न च तस्करः  ॥ ९१.१२ ॥

न चाधर्मोऽभवत्तत्र धर्म एव हि सर्वदा  ।

सदा मुदान्वितो राजा सभार्यो बहुपुत्रकः  ॥ ९१.१३ ॥

एका च दुहिता तस्य सुरूपा गिरिजा इव  ।

दृष्टा सा पितृमातृभ्यां बन्धुवर्गजनैः सह  ॥ ९१.१४ ॥

कृत्वा वैवाहिकं कार्यं काले प्राप्ते यथा विधि  ।

अनन्तरं चेदिपतिर्द्वादशाब्दे महेश्वरः  ॥ ९१.१५ ॥

ततस्तस्यास्तु यो भर्ता स मृत्युवशमागतः  ।

विधवां तां सुतां दृष्ट्वा राजा शोकसमन्वितः  ॥ ९१.१६ ॥

उवाच वचनं राजा स्वभार्यां दुःखपीडितः  ।

भद्रे दुःखमिदं जातं यावज्जीवं सुदुःसहम्  ॥ ९१.१७ ॥

नैषा रक्षयितुं शक्या रूपयौवनदर्पिता  ।

नोपायो विद्यते भार्य्ये भानुमत्याश्च रक्षणे  ॥ ९१.१८ ॥

परस्परं विवदतोस्तच्छ्रुत्वा कन्यकाऽब्रवीत् ।

 

भानुमत्युवाच –

न व्रीडामि तवाग्रेऽहं ज्वलन्ती दाहकेनच  ॥ ९१.१९ ॥

सत्यं नोत्पद्यते दोषो मदर्थे च नराधिप  ।

अद्य प्रभृत्यहं तात न वेषं धारये क्वचित् ॥ ९१.२० ॥

स्थूलवस्त्रैर्निजाङ्गानि परिधास्यामि संयता  ।

चरिष्यामि व्रतान् सर्वान् पुराणविहितानपि  ॥ ९१.२१ ॥

आत्मानं शोषयिष्यामि तोषयन्ती जनार्दनम्  ।

ममैषा वर्तते बुद्धिर्यदि त्वं तात मन्यसे  ॥ ९१.२२ ॥

भानुमत्या वचः श्रुत्वा राजा स्नेहार्दितोऽभवत् ।

तीर्थयात्रां समुद्दिश्य कोशं दत्त्वा च पुष्कलम्  ॥ ९१.२३ ॥

विसृज्य राजा स्वसुतां वृद्धान् कृत्वा तु रक्षणे  ।

पुरुषं सायुधं चान्यं ब्राह्मणं च पुरोहितम्  ॥ ९१.२४ ॥

अवगाह्य तटे ध्यातुं गङ्गायां सा नराधिप  ।

नित्यमापूजयद्विप्रान् गन्धमाल्यादिभूषणैः  ॥ ९१.२५ ॥

दासीदासप्रभृतयस्तस्या ये रक्षणे क्षमाः  ।

ततः पितुर्मतेनैव गङ्गातीरे समास्थिताः  ॥ ९१.२६ ॥

द्वादशाब्दानि सा तीरे गङ्गायाः समवस्थिता  ।

त्यक्त्वा गङ्गां क्वचिद्राजपुत्री काष्ठां तु दक्षिणाम्  ॥ ९१.२७ ॥

प्राप्ता सा सचिवैः सार्द्धं यत्र रेवा महानदी  ।

षण्मासं च स्थिता तत्र ओंकारेऽमरकण्टके  ॥ ९१.२८ ॥

नानाविधेषु तीर्थेषु तीर्थात्तीर्थं जगाम ह  ।

स्नात्वा स्नात्वा द्विजान् पूज्यभक्तियुक्ता ह्यधिष्ठिता  ॥ ९१.२९ ॥

वारुणीं च दिशं गत्वा देवनद्याश्च सङ्गमे  ।

ददर्श चाश्रमं पुण्यमृषिसङ्घैर्निषेवितम्  ॥ ९१.३० ॥

दृष्ट्वा ऋषिसमूहं सा प्रणिपत्येदमब्रवीत् ।

माहात्म्यं चास्य तीर्थस्य नाम चैवास्य कीर्तय  ॥ ९१.३१ ॥

 

ऋषिरुवाच –

चक्रतीर्थं तु विख्यातं चक्रं दत्तं पुरा हरेः  ।

महेश्वरेण तुष्टेन देवदेवेन शूलिना  ॥ ९१.३२ ॥

अत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः  ।

अनिवर्तिका गतिस्तस्य भविता नात्र संशयः  ॥ ९१.३३ ॥

द्वितीयेऽह्नि ततो गच्छेच्छूलभेदं तपस्विनि  ।

रात्रौ जागरणं कृत्वा पठेत्पौराणिकीं कथाम्  ॥ ९१.३४ ॥

विष्णुपूजां प्रकुर्वीत पुष्पदीपनिवेदनैः  ।

प्रभाते भोजयेद्विप्रान् दानं दद्यात्स्वभक्तितः  ॥ ९१.३५ ॥

चतुर्थेऽह्णि तथा गच्छेद्यत्र प्राची सरस्वती  ।

ब्रह्मदेवाद्विनिष्क्रान्ता पावनार्थं नराधिप  ॥ ९१.३६ ॥

तत्र स्नात्वा नरो गत्वा तर्पयेत्पितृदेवताः  ।

श्राद्धदस्तु वसेत्तत्र यत्र देवः पितामहः  ॥ ९१.३७ ॥

पञ्चमेऽह्णि ततो गच्छेल्लिङ्गं मार्कण्डसंज्ञितम्  ।

तत्र स्नात्वा तु यो भक्त्या अर्चयेत्पितृदेवताः  ॥ ९१.३८ ॥

श्राद्धं कृत्वा यथा न्यायमनिन्द्यान् पूजयेद्द्विजान्  ।

पितरस्तस्य तृप्यन्ति द्वादशाब्दं न संशयः  ॥ ९१.३९ ॥

सर्वदेवमयं स्थानं सर्वतीर्थमनुत्तमम्  ।

कोटितीर्थसमं स्थानं कोटिलिङ्गोत्तमोत्तमम्  ॥ ९१.४० ॥

त्रिरात्रं कुरुते यस्तु शुचिः स्नानं जितेन्द्रियः  ।

पक्षं मासं च षण्मासमब्दमेकं कदाचन  ॥ ९१.४१ ॥

न तस्य वसतिर्मर्त्ये नाके वासः सदाक्षयः  ।

नियमस्थस्तु मुच्येत त्रिजन्मजनितादघात् ॥ ९१.४२ ॥

विना पुमांसं या नारी द्वादशाब्द तु सुव्रता  ।

तिष्ठते साक्षयं कालं रुद्रलोके महीयते  ॥ ९१.४३ ॥

मुनेश्च वचनं श्रुत्वा मुदां परमिकां ययौ  ।

ततोऽवगाहते तीर्थमहर्निशमतन्द्रितम्  ॥ ९१.४४ ॥

दृष्ट्वा तीर्थप्रभावं तु राज्ञी वचनमब्रवीत् ।

श्रूयतां वचनं मेऽद्य ब्राह्मणाः सपुरोहिताः  ॥ ९१.४५ ॥

न त्यजामीदृशं स्थानं यावज्जीवाम्यहर्निशम्  ।

मात्रे पित्रे तथा भ्रात्रे सद्भिर्वाच्यमिदं वचः  ॥ ९१.४६ ॥

वर्तते शूलभेदे सा नियता व्रतचारिणी  ।

एकान्तरोपवासेन शनैर्मासमुपोषिता  ॥ ९१.४७ ॥

देवशिलास्थिता नित्यं ध्यायमाना तु केशवम्  ।

अहर्निशं स्थिता भूमौ दृष्टा राज्ञी शुभानना  ॥ ९१.४८ ॥

व्रतस्था नियताहारा नाम्ना भानुमती शुभा  ।

गतेषु द्विजमुख्येष्वाययौ शबरयुग्मकम्  ॥ ९१.४९ ॥

उवाच वचनं तत्र तां दृष्ट्वा शबराङ्गना  ।

नैवाऽस्याः सदृशी काचित्त्रिषु लोकेषु विश्रुता  ॥ ९१.५० ॥

साक्षादसौ देवकन्या ह्यवतीर्णा महीतले  ।

भार्याया वचनं श्रुत्वा शबरस्तामुवाच ह  ॥ ९१.५१ ॥

कमलानि यथा लाभं दत्त्वा त्वं भुङ्क्ष्व सत्वरम्  ।

मम चैवार्चने बुद्धिर्न भोक्तव्यं मयाऽद्य वै  ॥ ९१.५२ ॥

न मया वर्जितं भद्रे पापवृद्ध्याऽशुभं कृतम्  ।

 

शबर्युवाच –

न पूर्वं तु मया स्वामिन् भुक्तं तस्मिंस्तु वासरे  ॥ ९१.५३ ॥

भुक्तशेषं मया भुक्तं यावत्कालं स्मराम्यहम्  ।

भार्याया निश्चयं ज्ञात्वा स्नानं कर्तुं जगाम ह  ॥ ९१.५४ ॥

अर्धोत्तरीयवस्त्रेण स्नानं कृत्वा तु भक्तितः  ।

सर्वदेवं नमस्कृत्य गतो देवशिलां प्रति  ॥ ९१.५५ ॥

तस्थौ स शङ्कमानोऽपि ध्यायमानो जनार्दनम्  ।

कुमुदद्वयं शबर्या तु दासीहस्ते निवेदितम्  ॥ ९१.५६ ॥

दृष्ट्वा राज्ञी तथा पुष्पे दासीं चैव तदाब्रवीत् ।

त्वेदं पुष्पद्वयं लब्धं कथ्यतां तच्च साम्प्रतम्  ॥ ९१.५७ ॥

शीघ्रं गच्छावगच्छ त्वं पुष्पं चैवानयापरम्  ।

अनेन वसुना चैव कमलानि समानय  ॥ ९१.५८ ॥

भानुमत्या वचः श्रुत्वा गता सा शबरीं प्रति  ।

श्रीफलानि च पुष्पाणि बहून्यन्यानि देहि मे  ॥ ९१.५९ ॥

 

शबर्युवाच –

श्रीफलानि च दास्यामि पुष्पाणि च विशेषतः  ।

मूल्येन मे स्पृहा नास्ति गत्वा राज्ञीं निवेदय  ॥ ९१.६० ॥

गता दासी निवेद्याथ राज्ञी च स्वयमागता  ।

उवाच शबरं राज्ञी पुष्पं मूल्येन देहि मे  ॥ ९१.६१ ॥

 

शबर उवाच –

न मूल्यं कामये देवि फलपुष्पसमुद्भवम्  ।

श्रीफलानि च पुष्पाणि यथेष्टं मम गृह्यताम्  ॥ ९१.६२ ॥

अर्चां कुरु यथान्यायं वासुदेवं जगत्पतिम्  ।

 

राज्ञी उवाच –

विना मूल्यं न गृह्णामि कमलानि तवाधुना  ॥ ९१.६३ ॥

धान्यस्य खण्डिकामेकामेतां प्रति निगृह्यताम्  ॥ ९१.६४ ॥

 

शबर उवाच –

नाहारं चिन्तयाम्यद्य मुक्त्वा देवं वरानने  ॥ ९१.६५ ॥

देवकार्यं विना भद्रे नान्याबुद्धिः प्रवर्तते  ।

 

राज्ञी उवाच –

न त्वयान्नं परित्याज्यं सर्वमन्ने प्रतिष्ठितम्  ॥ ९१.६६ ॥

तस्मात्सर्वप्रयत्नेन ममान्नं प्रतिगृह्यताम्  ।

तपस्विनो महाभागा ये चारण्यनिवासिनः  ॥ ९१.६७ ॥

ते मद्द्वारे स्थिताः सर्वे याचन्ते तेऽन्नकाङ्क्षिणः  ।

 

शबर उवाच –

निषेधोऽधिकृतः पूर्वं मया सत्यं न संशयः  ॥ ९१.६८ ॥

सत्यमूलं जगत्सर्वं सत्ये चैव प्रतिष्ठितम्  ।

सत्येन तपते सूर्यः सत्येन द्योतते शशी  ॥ ९१.६९ ॥

सत्येन वायवोवान्ति धरा सत्ये प्रतिष्ठिता  ।

तस्मात्सर्वप्रयत्नेन सत्यं सत्यं न लोपयेत् ॥ ९१.७० ॥

 

राज्ञी उवाच –

आरामोपहृतं पुष्पमारण्यं पुष्पमेव च  ।

क्रीतं प्रहिग्रहाल्लब्धं पुष्पमेवं चतुर्विधम्  ॥ ९१.७१ ॥

उत्तमं फलमारण्यं गृहीत्वा स्वयमेव हि  ।

मध्यमं फलमाराम्यमधमं क्रीतमेव च  ॥ ९१.७२ ॥

प्रतिग्रहेण यल्लब्धं निष्फलं तद्विदुर्बुधाः  ।

 

पुरोहित उवाच –

गृहाण राज्ञि पुष्पाणि पूजां कुरु जनार्दने  ॥ ९१.७३ ॥

उपकारं प्रकुर्वन्ती पूजां चक्रे यथाविधि  ।

रात्रौ जागरणं कृत्वा कथा पौराणिकी श्रुता  ॥ ९१.७४ ॥

शबरस्तु ततो भार्यामिदं वचनमब्रवीत् ।

दीपार्थं गृह्यतां स्नेहो यथालाभेन सुन्दरि  ॥ ९१.७५ ॥

दत्त्वा दीपं ततः कृत्वा धूपं पूजां जनार्दने  ।

कृत्वा जागरणं रात्रौ ध्यायमानस्तु केशवम्  ॥ ९१.७६ ॥

ततः प्रभातसमये दृष्ट्वा स्नानोत्सुकंजनम्  ।

केचिच्च शूलभेदे तु देवनद्यां तथैव च  ॥ ९१.७७ ॥

सरस्वत्यां तथा केचिन्मार्कण्डेये तथा ह्रदे  ।

चक्रतीर्थे तथा केचित्स्नानं कुर्वन्ति भक्तितः  ॥ ९१.७८ ॥

शुचिभूतास्तु ते सर्वे जना देवशिलोपरि  ।

श्राद्धं कुर्वन्ति वै तत्र प्रयत्नेन द्विजर्षभाः  ॥ ९१.७९ ॥

तान् दृष्ट्वा शबरो बिल्वैः पिण्डं निर्वर्तयेत्ततः  ।

भानुमत्या तथा सक्तुपिण्डनिर्वपणं कृतम्  ॥ ९१.८० ॥

अनिन्द्य भोजयेद्विप्रं दम्भदोषविवर्जितम्  ।

हविष्येण तथा दध्ना शर्करामधुसर्पिषा  ॥ ९१.८१ ॥

पायसेन च गव्येन कृशरेण विशेषतः  ।

भोजयित्वा तथा राज्ञी दानं दत्त्वा यथाविधि  ॥ ९१.८२ ॥

पादुकोपानहौ छत्रं शय्या गोवृषमेव च  ।

विविधानि च दानानि हेमरत्नमयानि च  ॥ ९१.८३ ॥

तत्र तीर्थे महाराज कपिलां यः प्रयच्छति  ।

तेन दत्ता मही राजन् सशैलवनकानना  ॥ ९१.८४ ॥

 

उत्तानपाद उवाच –

तिलप्रदः प्रजा इष्टा दीपदश्चक्षुरुत्तमम्  ।

भूमिदः स्वर्गमाप्नोति दीर्घायुश्च हिरण्यदः  ॥ ९१.८५ ॥

गृहदो रोगरहितो रौप्यदो रूपमुत्तमम्  ।

वासोदश्चन्द्रलोकं तु अश्वदः सूर्यलोकभाक् ॥ ९१.८६ ॥

वृषदस्तु श्रियं पुण्यां गोदानात्तु त्रिविष्टपम्  ।

शय्यादानं च यो दद्यात्स स्वर्गमभयप्रदः  ॥ ९१.८७ ॥

धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम्  ।

सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते  ॥ ९१.८८ ॥

भार्यामश्वं महीं वासस्तिलकां च न सर्पिषम्  ।

ये नयेन हि भावेन दानं विप्राय यच्छति  ॥ ९१.८९ ॥

तेन तेन हि भावेन प्राप्नोति पदपूजितम्  ।

दृष्ट्वा दानानि सर्वाणि राज्ञ्या दत्तानि यानि च  ॥ ९१.९० ॥

उवाच शबरो भार्यां यच्छृणुष्व नराधिप  ।

 

शबर उवाच –

पुराणं पठितं भद्रे ब्राह्मणैर्वेदपारगैः  ॥ ९१.९१ ॥

श्रुतं च तन्मया सर्वं दानधर्मपरं शुभम्  ।

पूर्वजन्मार्जितं पापं स्नानदानव्रतेन च  ॥ ९१.९२ ॥

तत्सर्वं च क्षयं जातं मदीयेन प्रिये शृणु  ।

अत्र दत्तं हुतं तप्तं सर्वं भवति चाक्षयम्  ॥ ९१.९३ ॥

ते द्विजा भानुमत्या च शूलभेदं गतास्ततः  ।

ददृशुः शबरं कुण्डे शबर्या सह संस्थितम्  ॥ ९१.९४ ॥

ईशान्यां च ततो गत्वा भृगुपर्वतमूर्धनि  ।

मर्तुकामस्तथारूढो भार्यया सह पार्थिव  ॥ ९१.९५ ॥

 

राजपुत्र्युवाच –

तिष्ठ तिष्ठ महासत्त्व शृणुष्व वचनं मम  ।

किमर्थं त्यजसि प्राणानद्यापि च युवा भवान्  ॥ ९१.९६ ॥

किं सन्तापः समुद्वेगः किं दुःखं व्याधिरेव च  ।

शिशुश्च दृश्यतेऽद्यापि कारणं कथयस्व मे  ॥ ९१.९७ ॥

 

शबर उवाच –

कारणं नास्ति मे किंचिन्न दुःखं किंचिदेव हि  ।

संसारसारभूतत्वे नान्या बुद्धिः प्रवर्तते  ॥ ९१.९८ ॥

दुःखेन लभते यस्मान्मनुष्यत्वं वरानने  ।

मानुष्यं जन्म चासाद्य यो न धर्मं समाचरेत् ॥ ९१.९९ ॥

स गच्छेन्नरकं घोरमल्पदोषेण सुन्दरि  ।

तस्मात्पतितुमिच्छामि अस्मिंस्तीर्थे तपस्विनि  ॥ ९१.१०० ॥

 

राजपुत्र्युवाच –

अद्यापि वर्तते कालः स्वधर्मा विविधाः क्रियाः  ।

कृत्वा प्रकृतधर्माणि तत्र दानेन शुद्ध्यति  ॥ ९१.१०१ ॥

अहं दास्यामि ते धान्यं वासांसि द्रविणानि च  ।

नित्यं त्वमाचरेर्धर्मं ध्यायमानो जनार्दनम्  ॥ ९१.१०२ ॥

 

शबर उवाच –

न चाहं कामये देवि धान्यं वस्त्राणि चैव हि  ।

यः परस्यान्नमश्नाति स नरोऽश्नाति किल्बिषम्  ॥ ९१.१०३ ॥

 

राजपुत्र्युवाच –

कन्दमूलफलाहारो भुक्त्वा वै भक्ष्यमुत्तमम्  ।

अवगाह्य च तीर्थानि सर्वपापैः प्रमुच्यसे  ॥ ९१.१०४ ॥

ततो विमुक्तपापस्तु यः कश्चित्पुरुषः शुचिः  ।

कर्मणा तेन चैव त्वं गतिं सम्प्राप्स्यसे शुभाम्  ॥ ९१.१०५ ॥

 

शबर उवाच –

अत्र मध्ये मया त्यक्ताः प्राणा दृष्ट्वा हितं च यत् ।

सत्यन्न लोपये देवि इति मे निश्चिता मतिः  ॥ ९१.१०६ ॥

प्रसादः क्रियतां देवि क्षमस्व त्वं जनैः सह  ।

बद्धोत्तरीयवस्त्रेण आत्मानं च प्रयत्नतः  ॥ ९१.१०७ ॥

भार्यया सहितस्तत्र हरिं ध्यात्वा पपात ह  ।

नगार्धं पतितो यावद्गतजीवो नराधिप  ॥ ९१.१०८ ॥

तूष्णीं भूतं तु तं दृष्ट्वा कुण्डस्योपरि भूमिप  ।

त्रिमूर्तिगर्ते तत्काले शबरो भार्यया सह  ॥ ९१.१०९ ॥

दिव्यं विमानमारूढो गतश्च गतिमुत्तमाम् ॥ ९१.११० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शबरस्वर्गारोहणं नामैकनवतितमोऽध्यायः ॥

 

 

अध्याय ९२

 

राजोवाच –

ततस्तयापि देवेश भानुमत्या हि किंकृतम्  ।

एतन्मे संशयं देव कथयस्व प्रसादतः  ॥ ९२.१ ॥

 

हर उवाच –

चिन्तयित्वा तु सा राज्ञी गता कुण्डस्य सन्निधौ  ।

दृष्ट्वा तीर्थस्य माहात्म्यं राज्ञी हर्षेण पूरिता  ॥ ९२.२ ॥

विप्रान् बहून् समाहूय पूजयामास तत्क्षणात् ।

ददौ च विविधं दानं ब्राह्मणेभ्यो नराधिप  ॥ ९२.३ ॥

दत्त्वा च दक्षिणामेवं मधुमासे च भूमिप  ।

अमायां च ततो राज्ञी गता पर्वतमूर्धनि  ॥ ९२.४ ॥

नगशृङ्गं समारुह्य कृत्वा तु करसम्पुटम्  ।

विज्ञाप्य ब्राह्मणान् सर्वानिदं वचनमब्रवीत् ॥ ९२.५ ॥

मम माता पिता भ्राता तथाऽन्ये चैव बान्धवाः  ।

सर्वे क्षमन्तु ते सर्वैरिदं वाच्यं तदा वचः  ॥ ९२.६ ॥

इत्युक्त्वा शूलभेदे तु तपः कृत्वा सुदारुणम्  ।

विसृज्य चैवमात्मानं तस्मिंस्तीर्थे दिवंगता  ॥ ९२.७ ॥

 

ब्राह्मणा ऊचुः॒

सन्देशं कथयिष्यामस्त्वयोक्तं शोभनव्रते  ।

मातापित्रोश्च सुश्रोणि मा तेऽभूदत्र संशयः  ॥ ९२.८ ॥

ततो विसृज्य लोकं तु स्थिता पर्वतसन्निधौ  ।

अर्धोत्तरीयवस्त्रं तु गाढं कृत्वा पुनः पुनः  ॥ ९२.९ ॥

ततो विसृज्य चात्मानमेकचित्ता नराधिप  ।

नगार्द्धं पतिता यावत्तावद्दृष्टा सुरासुरैः  ॥ ९२.१० ॥

दिव्यं विमानमारुह्य कैलासं सा जगाम ह  ।

ततः सा पश्यतां तेषां जनानां त्रिदिवं गता  ॥ ९२.११ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे भानुमतीस्वर्गारोहणं नाम द्विनवतितमोऽध्यायः ॥

 

 

अध्याय ९३

 

देव उवाच –

ततः पुष्करिणीं गच्छेत्सर्वपापप्रणाशिनीम्  ।

श्रुत्वा तस्याः प्रभावं तु सर्वपापैः प्रमुच्यते  ॥ ९३.१ ॥

रेवाया उत्तरे कूले तीर्थं परमशोभनम्  ।

यत्रास्ते सर्वदा देवो दिव्यमूर्तिर्दिवाकरः  ॥ ९३.२ ॥

कुरुक्षेत्रं यथापुण्यं सर्वकामिकमुत्तमम्  ।

इदं तीर्थं तथा पुण्यं सर्वकामफलप्रदम्  ॥ ९३.३ ॥

कुरुक्षेत्रे यथा वृद्धिर्दानस्य जगतीपते  ।

पुष्करिण्यां तथा वृद्धिर्दानस्यापि न संशयः  ॥ ९३.४ ॥

यवमेकं तु यो दद्यात्सौवर्णं चात्र वै नृप  ।

पुष्करिण्यां तथा स्नानं सर्वं स्थानेश्वरे स्मृतम्  ॥ ९३.५ ॥

सूर्यग्रहे यथा शक्त्या दत्त्वा दानं यथा विधि  ।

हस्त्यश्वरथरत्नानि गृहं गाश्च धुरन्धरान्  ॥ ९३.६ ॥

सुवर्णं रजतं वापि ब्राह्मणेभ्यो ददाति यः  ।

त्रयोदशदिनं यावत्त्रयोदशगुणं भवेत् ॥ ९३.७ ॥

तिलमिश्रेण तोयेन तर्पयेत्पितृदेवताः  ।

द्वादशाब्दं भवेत्तृप्तिस्तत्र तीर्थे महीपते  ॥ ९३.८ ॥

यस्तत्र कुरुते श्राद्धं पायसैर्मधुसर्पिषा  ।

श्राद्धं मघादि ऋक्षेषु पितॄणां दत्तमक्षयम्  ॥ ९३.९ ॥

अक्षतैर्बदरैर्बिल्वैरिङ्गुदैर्वै तिलैः सह  ।

अक्षयं फलमाप्नोति तस्मिंस्तीर्थे न संशयः  ॥ ९३.१० ॥

तत्र स्नात्वा तु यो देवं पूजयेच्च दिवाकरम्  ।

स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितः  ॥ ९३.११ ॥

ऋचमेकां पठेद्यस्तु यजुषः साम्न एव च  ।

समग्रस्य स वेदस्य फलमाप्नोति वै द्विजः  ॥ ९३.१२ ॥

त्रिपुष्करं जपेन्मन्त्रं ध्यायमानो दिवाकरम्  ।

स गच्छेत्परमं लोकं त्रिदशैरपि वन्दितम्  ॥ ९३.१३ ॥

यस्तत्र विधिवत्प्राणांस्त्यजते नृपसत्तम  ।

स गच्छेत्परमं स्थानं यत्र देवो दिवाकरः  ॥ ९३.१४ ॥

 

मार्कण्डेय उवाच –

भूयोऽप्यन्यत्प्रवक्ष्यामि आदित्येश्वरमुत्तमम्  ।

सर्वदुःखहरं पार्थ सर्वविघ्नविनाशनम्  ॥ ९३.१५ ॥

अस्य तीर्थस्य चान्यानि तीर्थानि कुरुनन्दन  ।

न लभन्ते श्रियं नाके मर्त्ये पातालगोचरे  ॥ ९३.१६ ॥

कुरुक्षेत्रं यथा गङ्गा नैमिषं पुष्करं तथा  ।

वाराणसी च केदारं प्रयागो नृपनन्दन  ॥ ९३.१७ ॥

रवितीर्थस्य सर्वाणि कलां नार्हन्ति षोडशीम्  ।

रवितीर्थे च यद्दत्तं शृणुष्व कुरुनन्दन  ॥ ९३.१८ ॥

स्नेहार्थे कथयिष्यामि वार्धक्ये नास्ति पण्डितः  ।

शृण्वन्तु ऋषयः सर्वे तपोनिष्ठा महात्मानः  ॥ ९३.१९ ॥

श्रुतं मे रुद्रसान्निध्ये स्कन्दरुद्रगणैः सह  ।

पार्वत्या प्रार्थितः शम्भूरवितीर्थस्य यत्फलम्  ॥ ९३.२० ॥

शम्भुनापि तदाख्यातं गिरिजायाः पुरस्तदा  ।

तत्सर्वमेकचित्तेन रुद्रोद्गीतं श्रुतं मया  ॥ ९३.२१ ॥

दुर्भिक्षोपहता विप्रा नर्मदा तटमाश्रिताः  ।

उद्दालको वशिष्ठश्च माण्डव्यो गौतमस्तथा  ॥ ९३.२२ ॥

याज्ञवल्क्योऽथ शाण्डिल्यश्च्यवनो भार्गवस्तथा  ।

नाशके तुर्विभाण्डश्च बालखिल्यादयस्तथा  ॥ ९३.२३ ॥

शातातपोऽपि शङ्खश्च जैमिनिर्गोभिलस्तथा  ।

जैगीषव्यः शतानीक ऋषिसङ्घाः समागताः  ॥ ९३.२४ ॥

तीर्थयात्रा कृता तैस्तु नर्मदाया समन्ततः  ।

आदित्येशं समायाताः प्रसङ्गादृषिसत्तमाः  ॥ ९३.२५ ॥

वृक्षैस्संछादितं सर्वं धवैस्तिन्दुकपाटलैः  ।

जम्बीरैरर्जुनैः कुन्दैर्जटाकेसरकिंशुकैः  ॥ ९३.२६ ॥

पुन्नागनारिकेरैस्तु खदिरैः कल्पपादपैः  ।

अनेकश्वापदाकीर्णं मृगमालासमाकुलम्  ॥ ९३.२७ ॥

ऋक्षहस्तिसमायुक्तं चित्रकैश्च सुशोभितम्  ।

प्रविश्य ऋषयः सर्वे वने पुष्पफलाकुले  ॥ ९३.२८ ॥

वनान्ते च नारी शुभ्रा दृष्टा रक्ताम्बरान्विता  ।

रक्तमाल्या सुशोभाढ्या रस्तचन्दनचर्चिता  ॥ ९३.२९ ॥

रक्ताभरणसंयुक्ता शशिहस्ता भयावहा  ।

तस्याः समीपगो दृष्टः कृष्णजीमूतसन्निभः  ॥ ९३.३० ॥

महाकायो भीमवक्त्रः पाशहस्तो भयावहः  ।

अनाधृष्यो वयोवृद्ध आतुरः पिङ्गलोचनः  ॥ ९३.३१ ॥

दीर्घजिह्वः करालास्यस्तीक्ष्णादंष्ट्रो दुरासदः  ।

वृद्धां स्त्रियं कुरुश्रेष्ठ ते पश्यन् विप्रपुंगवाः  ॥ ९३.३२ ॥

ततः समीपगा वृद्धा स च वृद्धश्च भारत  ।

स्वाध्यायनिरतैर्विप्रैस्तौ पृष्टौ पापकर्मिणौ  ॥ ९३.३३ ॥

 

वृद्धावूचतुः॒

युष्माकं यमिनः सर्वे तिष्ठध्वं तीर्थमध्यतः  ।

शीघ्रं प्रविश्यतां सर्वे नर्मदा चैव सेव्यताम्  ॥ ९३.३४ ॥

तयोः श्रुत्वा तु वचनं ब्राह्मणाः शंसितव्रताः  ।

जग्मुस्ते नर्मदाकच्छं दृष्ट्वा रेवां द्विजोत्तमाः  ॥ ९३.३५ ॥

नताः केचित्स्तुवन्त्यन्ये जयदेवि नमोऽस्तु ते  ॥ ९३.३६ ॥

 

ऋषय ऊचुः॒

नमोऽस्तु ते सिद्धगणैर्निषेविते नमोऽस्तु ते सर्वपवित्रमङ्गले  ।

नमोऽस्तु ते विप्रसहस्रपूजिते  ।

नमोऽस्तु ते रुद्रसमुद्भवे परे  ॥ ९३.३७ ॥

नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते देवि वरे प्रसीद नः  ।

नमोऽस्तु ते शीतजले सुखप्रदे सरिद्वरे पापहरे दयान्विते  ॥ ९३.३८ ॥

अनेकभूताङ्गसुशोभिताङ्गे गन्धर्वयक्षोरगपाविताङ्गे  ।

महागजौघा महिषा वराहाः क्रीडन्ति तोये सुमहोर्मिमालैः  ॥ ९३.३९ ॥

नमामः सर्वे वरदे सुखप्रदेऽस्मान् पशुपाशबद्धान्  ।

पापैरनेकैः पशुपाशबद्धा भ्रमन्ति तावन्नरकेषु नित्यम्  ॥ ९३.४० ॥

यावत्तवाम्भो नहि संस्पृशन्ति स्पृष्टं करैश्चन्द्रमसो रवेश्च  ।

अनेकसंसारभयार्दितानां पापैरनेकैः परिवेष्टितानाम्  ॥ ९३.४१ ॥

गतिस्त्वमम्भोजसमानवक्त्रे द्वन्द्वैरनेकैरभिसंवृतानाम्  ।

नद्यस्तु पूज्या विमला भवन्ति  ।

त्वां देवि चासाद्य न संशयोऽत्र  ॥ ९३.४२ ॥

दुखातुराणामभयं ददासि देवैरनेकैरभिपूजितासि  ।

विण्मूत्रदेहार्णवमग्नदेहा भवन्ति तावन्नरकेषु मर्त्याः  ॥ ९३.४३ ॥

महानिलोद्धूततरङ्गभङ्गं जलं न यावत्तव संस्पृशन्ति  ।

म्लेच्छाः पुलिन्दास्त्वथ यातुधानाः पिबन्ति चाम्भस्तव देवि पुण्यम्  ॥ ९३.४४ ॥

तेऽपि प्रमुञ्चन्ति भयात्तु घोरात्किमत्र विप्रा भयपापभीताः  ।

घोरे युगेऽस्मिन् कलिनाम्न्यपुण्ये त्वं भ्राजसे कालजलौघपूर्णे  ॥ ९३.४५ ॥

देव्यत्र नक्षत्रपथेऽपि गङ्गा तव प्रसादाद्दिवि देव्यतिष्ठत् ।

काले यथेष्टं परिपालय त्वं यास्याम लोकं तव सुप्रसादात् ॥ ९३.४६ ॥

वयं तथा त्वं कुरु नः प्रसादं त्वामाश्रितास्त्वां शरणं गता वै  ।

गतिस्त्वमेवात्र पितेव पुत्रं त्वमादिदेव प्रभवे विचित्रे  ॥ ९३.४७ ॥

कालेऽप्यनावृष्टिभवं क्षयं च रक्षस्व (?)  ।

सर्वं जगतः स्वरूपम् …. ….  ॥ ९३.४८ ॥

एवं स्तुता महादेवी नर्मदा सरितां वरा  ।

प्रत्यक्षा सा पराभूता ब्राह्मणानां युधिष्ठिर  ॥ ९३.४९ ॥

 

नर्मदोवाच –

तुष्टाहं वरदा विप्रा दास्ये वो वाञ्छितं फलम्  ।

ततोऽवर्षन्महामेघा धान्यं च प्रचुरं तथा  ॥ ९३.५० ॥

कन्दमूलफलं शाकं सुखं सर्वसंश्रितम्  ।

 

मार्कण्डेय उवाच –

पठन्ति ये स्तोत्रमिदं नरेन्द्र शृण्वन्ति भक्त्या परयआ प्रपन्नाः  ॥ ९३.५१ ॥

तेभ्योऽन्तकाले सरिदुत्तमेयं गतिं विशद्धां नितरां ददाति  ।

प्रातः समुत्थाय समान एवं संकीर्तयेद्रुद्रमुमां च देवीम्  ॥ ९३.५२ ॥

पापानि सर्वाणि लयं ग्रयान्ति समाश्रयन्ते च महानुभावाः  ।

पापैस्तु मुक्ता दिवि मोदयन्ते शम्भोर्गिरा चैव तु नान्यथा च  ॥ ९३.५३ ॥

 

मार्कण्डेय उवाच –

दृष्टास्ते पुरुषा नान्या नर्मदातटमाश्रिताः  ।

स्नानदेवार्च्चनैर्युक्ताः पञ्चैव तु महाबलाः  ॥ ९३.५४ ॥

ते दृष्टा ब्राह्मणैः सर्वैर्वेदवेदाङ्गपारगैः  ।

 

विप्रा ऊचुः॒

दिनान्ते च स्त्रियोर्युग्मं दृष्टं रौद्रं भयावहम्  ॥ ९३.५५ ॥

त्रयो वृद्धाश्च पुरुषाः पाशहस्ता भयावहाः  ।

दुर्द्धरा दुर्निसंकाशा इतश्चेतश्च चञ्चलाः  ॥ ९३.५६ ॥

व्याहरन्ति भिया वाचा आकाङ्क्षा दर्शनस्य च  ।

अपरस्परिणस्सर्वे निरीक्षन्ते परस्परम्  ॥ ९३.५७ ॥

तेषु सङ्घेषु यत्प्रोक्तं तत्सर्वं कथयामि ते  ।

 

पुरुषा ऊचुः॒

तीर्थावगाहनं सर्वैः पूर्वपश्चिमदक्षिणे  ॥ ९३.५८ ॥

उत्तरे च कृतं भक्त्या न पापं तद्व्यपोहितम्  ।

निष्पापाश्चात्र सञ्जातास्तीर्थस्यास्य प्रभावतः  ॥ ९३.५९ ॥

शृण्वन्तु ऋषयः सर्वे अग्निज्वालोपमा द्विजाः  ।

पातकानि च घोराणि यान्यचिन्त्यानि देहिनाम्  ॥ ९३.६० ॥

पापिष्ठेन तु चानेन गरोर्दारा विदूषिताः  ।

हृतं चान्येन मित्रस्य सुवर्णं च तथा च वै  ॥ ९३.६१ ॥

ब्रह्महत्या कृता रौद्रा कृतं चान्येन पातकम्  ।

सुरापानं तु चाप्यस्य संजातं चान्यकामतः  ॥ ९३.६२ ॥

गोवधं पापमेतेन कृतमेकेन पापिना  ।

अकामतोऽपि सर्वेषां पातकानि नराधिप  ॥ ९३.६३ ॥

ब्राह्मणास्तांस्तु ते दृष्ट्वा पापिष्ठा गतकल्मषाः  ।

तीर्थस्यास्य प्रभावेण नर्मदायाः प्रभावतः  ॥ ९३.६४ ॥

न क्वाचित्पातकानां तु प्रवेशश्चात्र जायते  ।

एवं संचिन्त्य ते सर्वे पापिष्ठाश्च परस्परम्  ॥ ९३.६५ ॥

क्षिप्रमेव समुद्धृत्य विचिन्त्य हृदये हरिम्  ।

स्नात्वा रेवाजले पुण्ये तार्पित्वा पितृदेवताः  ॥ ९३.६६ ॥

नत्वा तु भास्करं देवं हृदि ध्यात्वा जनार्दनम्  ।

कृत्वा प्रदक्षिणां भक्त्या ज्वलिते जातवेदसि  ॥ ९३.६७ ॥

पतिताः पाण्डवश्रेष्ठ पापोद्विग्नाश्च पापिनः  ।

सात्त्विकीं कामनां कृत्वा त्यक्त्वा प्राणान् दिवङ्गताः  ॥ ९३.६८ ॥

निष्पापास्ते महाभागैर्नर्मदायोत्तरे तटे  ।

विमानस्थास्तदा दृष्टा ब्राह्मणैस्ते युधिष्ठिर  ॥ ९३.६९ ॥

आश्चर्यमतुलं दृष्टमृषिभिर्नर्मदातटे  ।

तदा प्रभृति ते सर्वे रागद्वेषविवर्जिताः  ॥ ९३.७० ॥

रवितीर्थं द्विजा हृष्टाः सेवन्ते मोक्षकाङ्क्षया  ॥ ९३.७१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डेऽर्कतीर्थमहिमानुवर्णनो नाम त्रिनवतितमोऽध्यायः ॥

 

 

अध्याय ९४

 

मार्कण्डेय उवाच –

तीर्थस्यास्य च यत्पुण्यं तच्छृणुष्व नराधिप  ।

पण्डितो वृद्धभावेन भक्त्या त्रातो नरेश्वर  ॥ ९४.१ ॥

उद्देशं कथयिष्यामि दृष्ट्वा वान्तरमेव च  ।

कुरुक्षेत्रं यथापूतं रवितीर्थं श्रुतं तथा  ॥ ९४.२ ॥

ईश्वरेण पुराख्यातं षण्मुखस्य युधिष्ठिर  ।

श्रुतं रुद्रगणैः सर्वैरहं तत्र समीपगः  ॥ ९४.३ ॥

मार्तण्डग्रहणे प्राप्ते ये व्रजन्ति षडानन  ।

रवितीर्थे कुरुक्षेत्रे तुल्यमेव फलं भवेत् ॥ ९४.४ ॥

स्नाने दाने तथा जाप्ये होमे चैव विशेषतः  ।

कुरुक्षेत्रे तथा पुण्यं नात्र कार्या विचारणा  ॥ ९४.५ ॥

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा  ।

रवितीर्थे विशेषेण रविपर्वणि भूमिप  ॥ ९४.६ ॥

तत्र सूर्यदिने भक्त्या व्यतीपाते च वैधृतौ  ।

संक्रमणे ग्रहणे वाऽपि ये व्रजन्ति जितेन्द्रियाः  ॥ ९४.७ ॥

कामक्रोधविनिर्मुक्ता रागद्वेषैस्तथैव च  ।

कथां च वैष्णवीं पार्थ वेदाध्ययनमेव च  ॥ ९४.८ ॥

ऋग्वेदं वा यजुर्वेदं सामवेदमथर्वणम्  ।

ऋचमेकां तु जप्त्वैव समस्तफलमाप्नुयुः  ॥ ९४.९ ॥

गायत्र्या च चतुर्वेदफलमाप्नोति मानवः  ।

प्रभाते पूजयेद्देवमन्नदानहिरण्मयैः  ॥ ९४.१० ॥

तत्र स्नात्वा द्विजे योग्ये कपिलां यः प्रयच्छति  ।

पृथिवी तेन वै दत्ता सशैलवनकानना  ॥ ९४.११ ॥

भूर्लोकश्च भुवर्लोको महर्लोको जनस्तथा  ।

तपः सत्य तथा लोकं पातालान्येकविंशतिः  ॥ ९४.१२ ॥

तेन दत्तं भवेत्सर्वं गोदानं येन वै कृतम्  ।

तेषामब्दकृतं पापं नश्येद्वै नात्र संशयः  ॥ ९४.१३ ॥

 

युधिष्ठिर उवाच –

पुण्या गतिः कथं तात एतत्कथय तत्त्वतः  ।

 

मार्कण्डेय उवाच –

पुरा कृतयुगस्यादौ ब्रह्मालोकपितामहः  ॥ ९४.१४ ॥

उत्पाद्य तथा सकलं भूतग्रामं चतुर्विधम्  ।

आकुला पृथिवी तेन संजाता पाण्डुनन्दन  ॥ ९४.१५ ॥

ततः पश्चाद्विचिन्त्येदं कथं लोको भविष्यति  ।

कथं स्वर्गं प्रयास्यन्ति मानवा भक्तिसंयुताः  ॥ ९४.१६ ॥

भानुश्चैव कथं प्रीतो लोकानां जायते भृशम्  ।

विरञ्चेश्चिन्त्यमानस्य अग्निकुण्डात्समुत्थिता  ॥ ९४.१७ ॥

ज्वलन्ती तेजसा पूर्णा घण्टा लुलितनिःस्वना  ।

दृष्ट्वा तां तु महाभागां कपिलां कुण्डमध्यगाम्  ॥ ९४.१८ ॥

ब्रह्मालोकगुरुस्तां तु प्रणम्येदमुवाच ह  ।

नमस्ते कापिले पुण्ये सर्वलोकेष्वनुत्तमे  ॥ ९४.१९ ॥

माङ्गल्ये मङ्गले देवि त्रिषु लोकेषु वन्दिते  ।

त्वं लक्ष्मीस्त्वं धृतिर्मेधा पवित्रा तु वरानने  ॥ ९४.२० ॥

उमादेवीति विख्याता त्वं शची नात्र संशयः  ।

वैष्णवी त्वं महादेवी ब्रह्माणी त्वं वरानने  ॥ ९४.२१ ॥

कुमारी त्वं महाभागे भक्तिः श्रद्धा तथैव च  ।

कालरात्री तु भूतानां कुमारी परमेश्वरी  ॥ ९४.२२ ॥

त्वं त्रुटिस्त्वं घटी चैव मुहूर्तक्षणमेव च  ।

संवत्सरर्तवो मासास्त्वं कालः पुरुषः सदा  ॥ ९४.२३ ॥

नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे  ।

एवं स्तुता तु सा तेन कपिला परमेष्ठिना  ॥ ९४.२४ ॥

तमुवाच महाभागा प्रहृष्टा परमेष्ठिनम्  ।

प्रसन्ना तव वाक्येन देवदेव जगद्गुरो  ॥ ९४.२५ ॥

 

ब्रह्मोवाच –

जगद्धिताय जनिता मया त्वं परमेश्वरि  ।

स्वर्गान्मर्त्यमितो याहि लोकानां हितकाम्यया  ॥ ९४.२६ ॥

सर्वदेवमयीं त्वां तु सर्वलोकमयीं तथा  ।

विधिना ये प्रदास्यन्ति तेषां वासस्त्रिविष्टपे  ॥ ९४.२७ ॥

एवमुक्ता ततः पुण्या कपिला परमेष्ठिना  ।

आजगाम भुवः पृष्ठे वन्द्यमाना सुरोत्तमैः  ॥ ९४.२८ ॥

पवित्रा वसुधा तेन संजाता पाण्डुनन्दन  ।

तस्या अङ्गेषु ये देवास्तान्मे निगदतः शृणु  ॥ ९४.२९ ॥

मुखे ह्यग्निः स्थितो देवो दन्तेषु च भुजङ्गमाः  ।

धाता विधाता चोष्ठौ च अश्विनौ कर्णसंस्थितौ  ॥ ९४.३० ॥

वज्रपाणिः स्थितः शृङ्गे शृङ्गमध्ये पितामहः  ।

कालो मध्यगतस्तात पाशभृद्वरुणस्तथा  ॥ ९४.३१ ॥

यमश्च भगवान् देव आस्यस्योपरि संस्थितः  ।

नाभिमध्ये स्थितश्छन्दो देवा जङ्घासु भारत  ॥ ९४.३२ ॥

वसुन्धरा स्थिता नाभ्यां पर्वताः सन्धिषु स्थिताः  ।

वृक्षा गुल्मानि वल्ल्यश्च सन्धिमार्गे व्यवस्थिताः  ॥ ९४.३३ ॥

ऋषयो रोमकूपेषु संस्थिताः पाण्डुनन्दन  ।

स्नायुस्थाः पितरः सर्वे प्रस्रवं सर्वतीर्थजम्  ॥ ९४.३४ ॥

सर्वेषां गोमयं श्रेष्ठं पवित्रं पापनाशनम्  ।

खुरेषु पन्नगाः सर्वे पुच्छाग्रे सूर्यरश्मयः  ॥ ९४.३५ ॥

एवं भूता तु कपिला सर्वदेवमयी किल  ।

ये ध्यायन्ति गृहे भक्त्या ते मुक्ता नात्र संशयः  ॥ ९४.३६ ॥

प्रातरुत्थाय यो भक्त्या नित्यं कुर्यात्प्रदक्षिणम्  ।

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा  ॥ ९४.३७ ॥

कपिलापञ्चगव्येन यः स्नापयति शङ्करम्  ।

विष्णुं वा जगदाधारं सूर्यं वा त्वन्यदैवतम्  ॥ ९४.३८ ॥

पञ्चामृतेन संस्नाप्य भक्त्या गव्येन पाण्डव  ।

अब्दं वा श्रोत्रिये नित्यं कपिलां यः प्रयच्छति  ॥ ९४.३९ ॥

तुल्यमेतत्फलं प्रोक्तं शङ्करेण युधिष्ठिर  ।

य प्रदास्यति विप्राय रवितीर्थे सुयन्त्रितः  ॥ ९४.४० ॥

कपिलां वाथ कृष्णां वा श्वेतां रक्तां च पाटलाम्  ।

क्षीरिणीं तरुणीं शुभ्रां सवत्सां वस्त्रसंयुताम्  ॥ ९४.४१ ॥

स्वर्णशृङ्गीं रौप्यखुरीं विष्णुरूपं द्विजं स्मरन्  ।

आत्मानं विष्णुरूपं च धेनुमादित्यरूपिणीम्  ॥ ९४.४२ ॥

यो ददाति महाबाहो तस्य वासस्त्रिविष्टपो  ।

ब्रह्महत्या विनिर्मुक्तः सुरापानं च दारुणम्  ॥ ९४.४३ ॥

गुर्वङ्गनागमः स्तेयो स्वामिद्रोहो गवां वधः  ।

मित्रविश्वासघातं च गुरुनिन्दासमुद्भवम्  ॥ ९४.४४ ॥

स्थितिर्नष्टे च वंशे च निर्माल्यस्यावलङ्घनम्  ।

कन्यागमागमश्चैव अभक्षस्य तु भक्षणम्  ॥ ९४.४५ ॥

वृषली गमनं रौद्रं कुरूपागमनोद्भवम्  ।

अग्निदं गरदं चैव कूटसाक्ष्यसमुद्भवम्  ॥ ९४.४६ ॥

तत्सर्वं नाशयेत्पापं धेनुर्दानेन पाण्डव  ।

सुरभिसंगमे पुण्ये निष्ठुते पापनाशने  ॥ ९४.४७ ॥

श्राद्धं प्रेतस्य यो भक्त्या दापयेत्कुन्तिनन्दन  ।

तस्य प्रीतो भवेत्सूर्यः सुप्रीतो भव एव च  ॥ ९४.४८ ॥

दानं यद्दीयते तत्र सूर्यमुद्दिश्य भक्तितः  ।

मित्रलोके सुखं याति नर्मदायाः प्रसादतः  ॥ ९४.४९ ॥

दधिच्छन्दे मधुच्छन्दे देवयाने सुखप्रदे  ।

भीमेश्वरे कुरुश्रेष्ठ समं पुण्यं प्रशस्यते  ॥ ९४.५० ॥

पृथिव्यां सागरान्तायां प्रख्यातं तीर्थपञ्चकम्  ।

ये न जानन्ति भूमिस्था ते मृता नात्र संशयः  ॥ ९४.५१ ॥

स्नानं देवार्चनं जाप्यं होमं ब्राह्मणपूजनम्  ।

भूमिदानेन वस्त्रेण अन्नदानेन भक्तितः  ॥ ९४.५२ ॥

उपानच्छत्रशयाना गृहदानेन पाण्डव  ।

ग्रामकन्याप्रदानेन गजदानहयेन च  ॥ ९४.५३ ॥

विद्याशकटदानेन सर्वेषामभयप्रदः  ।

स याति सर्वतीर्थानि रवितीर्थं युधिष्ठिर  ॥ ९४.५४ ॥

तीर्थयात्राप्रभावेण व्याधयो यान्ति संक्षयम्  ।

शत्रवो मित्रतां यान्ति विषं वा ह्यमृतायते  ॥ ९४.५५ ॥

ग्रहाः सर्वेऽभवन् प्रीताः प्रीतस्तस्य दिवाकरः  ।

तीर्थस्यास्य पयः पीत्वा यत्पुण्यं जायते नृणाम्  ॥ ९४.५६ ॥

अब्दमश्वत्थसेवायां कपिलायास्तु दानतः  ।

तत्फलं कथयिष्यामि भक्त्या तव महीपते  ॥ ९४.५७ ॥

पापाः सर्वे विलीयन्ते भिन्नपात्रे जलं यथा  ।

तीर्थस्याभिमुखं वृत्तं गच्छतां नात्र संशयः  ॥ ९४.५८ ॥

इह बाह्यान्तरं तीर्थं कथितं तव पार्थिव  ।

पापिष्ठानां कृतघ्नानां स्वामिमित्रविरोधिनाम्  ॥ ९४.५९ ॥

तीर्थाख्यानं शुभं तेषां गोपितव्यं सदा बुधैः  ॥ ९४.६० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे आदित्येश्वरतीर्थकीर्तनो नाम चतुर्नवतितमोऽध्यायः ॥

 

 

अध्याय ९५

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र करञ्जेश्वरमुत्तमम्  ।

यत्र ते निहतास्तात दानवास्तत्पदानुगैः  ॥ ९५.१ ॥

इन्द्राद्यैश्चैव संहृष्टैः स्तुतो यज्ञः सुबुद्धिभिः  ।

तेषां ये पुत्रपौत्राश्च पूर्ववैरमनुस्मरन्  ॥ ९५.२ ॥

तत्र स्थास्तु सुराः सर्वे स्थापयित्वा ह्युमापतिम्  ।

इन्द्रचन्द्रयमाः सूर्यः स्थापयित्वेष्टसिद्धये  ॥ ९५.३ ॥

हृष्टपुष्टाः सुराः सर्वे जग्मुराकाशसस्थिताः  ।

दानवानां महाभाग करोट्यः पतिता यतः  ॥ ९५.४ ॥

तदा प्रभृति तत्तीर्थं करोटीति महीपते  ।

विख्यातं भारते लोके भूपृष्ठे पाण्डुनन्दन  ॥ ९५.५ ॥

अष्टम्यां च चतुर्दश्यां शुभे पक्षे तु भक्तितः  ।

उपोष्य शूलिनश्चाग्रे रात्रौ कुर्वीत जागरम्  ॥ ९५.६ ॥

तत्कथालापसंयुक्तं वेदोद्गीतं तथैव च  ।

प्रभाते विमले प्राप्ते स्थाणुं सम्पूज्य यत्नतः  ॥ ९५.७ ॥

पञ्चामृतेन संस्नाप्य श्रीखण्डेनैव चार्चयेत् ।

शतपल्लवपुष्पैश्च पूजयेच्च प्रयत्नतः  ॥ ९५.८ ॥

बहुरूपं जपेन्मन्त्रं दक्षिणां तु प्रदाय च  ।

तत्फलं समवाप्नोति आदित्येश्वर नार्मदे  ॥ ९५.९ ॥

श्रुततीर्थप्रभावं वै यः पठेच्च नराधिप  ।

तत्सर्वं कथयिष्यामि भक्त्या तव महीपते  ॥ ९५.१० ॥

यथोक्तेन विधानेन नाभिमात्रे जले स्थितः  ।

श्राद्धं तत्रैव प्रेताय कारयेत जितेन्द्रियः  ॥ ९५.११ ॥

विविधैरग्रपाठैश्च वेदाध्ययनतत्परैः  ।

गोहिरण्येन सम्पूज्य वस्त्रताम्बूलभोजनैः  ॥ ९५.१२ ॥

भूषणैः पट्टदानैश्च ब्राह्मणं पाण्डुनन्दन  ।

तस्मिंस्तीर्थे तु सम्पूज्य कामिकं भोजनं ददेत् ॥ ९५.१३ ॥

भवेत्कोटिगणं तस्य नात्र कार्या विचारणा  ।

तत्र तीर्थे यथा भक्त्या त्यजेद्देहं च मानद  ॥ ९५.१४ ॥

तस्य तीर्थे भवेत्पुण्यं तच्छृणुष्व नराधिप  ।

यावदस्थिमनुष्यस्य तिष्ठते नर्मदाम्भसि  ॥ ९५.१५ ॥

तावद्वसति धर्मात्मा शिवलोके सुदुर्लभे  ।

ततः कालात्प्रच्युतश्च देवो मानुष्यतां गतः  ॥ ९५.१६ ॥

कोटिध्वजपतिः श्रीमान् जायते नात्र संशयः  ।

सर्वधर्मसमायुक्तो मेधावी जीवपुत्रकः  ॥ ९५.१७ ॥

विख्यातश्च धरापृष्ठे दीर्घायुर्मानवो भवेत् ।

इन्द्रचन्द्रयमैः रुद्रैरादित्यैर्वसुभिस्तथा  ॥ ९५.१८ ॥

विश्वेदेवैस्तथा सर्वैः स्थापितास्त्रिदशेश्वरः  ।

नर्मदोत्तरकूले तु लोकानां हितकाम्यया  ॥ ९५.१९ ॥

मानवः प्रेतमुद्दिश्य प्रासादं कारयेत्तु यः  ।

तस्मिन्नरवरश्रेष्ठः स सद्गतिमवाप्नुयात् ॥ ९५.२० ॥

न्यायोपार्जितद्रव्येण यः श्राद्धं कुरुतेऽत्र वै  ।

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश्च सत्कृताः  ॥ ९५.२१ ॥

तेऽपि यान्ति परे लोके शाङ्करे सुरपूजिते  ।

यः शृणोति नरो भक्त्या माहात्म्यं तीर्थजं नृप  ॥ ९५.२२ ॥

तस्य पापं प्रणश्येत षण्मासेन तु यत्कृतम्  ।

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र कुमारेश्वरमुत्तमम्  ॥ ९५.२३ ॥

प्रसिद्धं सर्वतीर्थानामगस्त्येश्वरमुत्तमम्  ।

षण्मुखेन तपस्तप्तं सर्वपातकनाशनम्  ॥ ९५.२४ ॥

स्नानं च परया भुक्त्या सिद्धिः प्राप्ता नराधिप  ।

देवसैन्याधिपो राजन् सर्वशत्रुविमर्दनः  ॥ ९५.२५ ॥

उग्रतेजा महात्मा च संजातस्तीर्थसेवनात् ।

तदा प्रभृति तत्तीर्थं विख्यातं नर्मदातटे  ॥ ९५.२६ ॥

तस्मिंस्तीर्थे तु यो भक्त्या एकचित्तो जितेन्द्रियः  ।

अष्टम्यां च चतुर्दश्यां कार्त्तिकस्य विशेषतः  ॥ ९५.२७ ॥

स्नापयेद्गिरिजानाथं दधिदुग्धेन सर्पिषा  ।

गीतं तत्र प्रकर्तव्यं पिण्डदानं यथाविधि  ॥ ९५.२८ ॥

ब्राह्मणैः श्रोत्रियैः पार्थ षट्कर्मनिरतैः सदा  ।

यत्किंचिद्दीयते तत्र अक्षयं पाण्डुनन्दन  ॥ ९५.२९ ॥

सर्वतीर्थात्परं तीर्थं निर्मितं शशिना नृप  ।

एतत्ते सर्वमाख्यातं कुमारेश्वरजं फलम्  ॥ ९५.३० ॥

कुमारदर्शनात्पुण्यं प्राप्यते पाण्डुनन्दन  ।

मृतः स्वर्गमवाप्नोति सत्यमीश्वरभाषितम्  ॥ ९५.३१ ॥

ततो गच्छेत्तु राजेन्द्र अगस्त्येश्वरमुत्तमम्  ।

तत्र सिद्धो महाभाग अगस्त्यो मुनिपुङ्गवः  ॥ ९५.३२ ॥

 

युधिष्ठिर उवाच –

कथं सिद्धो महाभाग अगस्त्यो मुनिपुङ्गवः  ।

कुम्भोद्भवो महाभाग मित्रावरुणसम्भवः  ॥ ९५.३३ ॥

नर्मदातटमाश्रित्य तत्सर्वं कथयस्व मे  ।

 

मार्कण्डेय उवाच –

महाप्रश्नो महाराज परिपृष्टश्च यस्त्वया  ॥ ९५.३४ ॥

तत्तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकमनाः सदा  ।

पुराकृतयुगे तात भारार्ता जगती स्थिता  ॥ ९५.३५ ॥

विज्ञप्तुकामा देवेशं नाकपृष्ठं गता नृप  ।

इन्द्राय कथयामास दैत्यभारार्दितं जगत् ॥ ९५.३६ ॥

 

इन्द्र उवाच –

ब्रह्मा च जगतः कर्ता तवैव मम सुन्दरि  ।

ब्रह्मलोकं गमिष्यामि मन्त्रिभिर्दैवतैः सह  ॥ ९५.३७ ॥

ततः सर्वे गतास्तत्र यत्रासौ कमलासनः  ।

 

बृहस्पतिरुवाच –

ब्रह्मन्निर्लम्बना जाता दैत्यभाराद्वसुन्धरा  ॥ ९५.३८ ॥

असहन्ती तु तं भारं याति देवी रसातलम्  ।

प्रतीकारं पृथिव्याश्च कुरुष्व जगतीपते  ॥ ९५.३९ ॥

सर्वसत्त्वोपकाराय सृष्टिस्त्वयि जगत्पते  ।

 

पितामह उवाच –

कर्ताऽस्मि सर्वजगतामयोनिकलशोद्भवः  ॥ ९५.४० ॥

अगस्त्यस्तपसां राशिः शक्तो दैत्यनिवारणे  ।

एकतः सर्वदेवानां बलं तेजश्च जायते  ॥ ९५.४१ ॥

एकतो ऋषिमुख्यस्य जायते नात्र संशयः  ।

ब्रह्मणो वचनं श्रुत्वा सर्वे देवाः सवासवाः  ॥ ९५.४२ ॥

तथैव कारणं चान्यत्कथयन्ति स्म भारत  ।

विज्ञातं देवदेवेश विश्वामित्रचिकीर्षितम्  ॥ ९५.४३ ॥

त्रिशङ्क्वर्थे च यज्ञोऽयं विश्वामित्रेण साधितः  ।

स्पर्धया च वशिष्ठस्य यज्ञाङ्गानि समासृजत् ॥ ९५.४४ ॥

स्पर्धया सृजताकाशं भूमिं चान्यां समासृजत् ।

यथा तु हिमवच्छैलः पूर्वापरमहोदधिम्  ॥ ९५.४५ ॥

व्याप्यैव संस्थितो भूम्यां देवकार्यार्थसाधकः  ।

तथासौ स्पर्धते विन्ध्यः स्पर्धया कौशिकस्य च  ॥ ९५.४६ ॥

तिष्ठन्ति देवकार्याणि कौशिकेन सुरेश्वर  ।

कार्यद्वयप्रतीकारं चिन्तय स्वजगद्गुरो  ॥ ९५.४७ ॥

 

ब्रह्मोवाच –

एकस्त्वस्य गुरुर्विप्रो ह्यगस्त्यो मुनिपुङ्गवः  ।

उत्पथे वर्तमानस्य कौशिकस्य दुरासदः  ॥ ९५.४८ ॥

अगस्त्यो मार्गभेत्ता वै भविष्यति न संशयः  ।

गुरुरात्मवतां शास्ता सर्वेषां वै न संशयः  ॥ ९५.४९ ॥

वर्धनं पर्वतस्यास्य देवमार्गप्रवर्तनम्  ।

शासः कौशिकविप्रस्य वसुधायां समन्ततः  ॥ ९५.५० ॥

क्षमः समस्तकार्याणां मित्रावरुणनन्दनः  ।

एवं तु निश्चयं कृत्वा देवाः सेन्द्रपितामहाः  ॥ ९५.५१ ॥

ययुर्वसुन्धरासार्धं हिमवन्तं नगेश्वरम्  ।

ददृशुस्ते स्थितं विप्रं ध्यायमानं च योगिनम्  ॥ ९५.५२ ॥

सुदृढं निश्चलध्यानं मोक्षमार्गनियामकम्  ।

तंदृष्ट्वा स्तोतुमारब्धाः सेन्द्रचन्द्राः सवारुणाः  ॥ ९५.५३ ॥

 

देवा ऊचुः॒

जयमिच्छस्व देवानां भगवन् कलशोद्भव  ।

प्रसादसुमुखो भूत्वा देवानां भयमागतम्  ॥ ९५.५४ ॥

 

अगस्त्य उवाच –

किं कार्यं तु समुत्पन्नं येन दूरं समागताः  ।

एकान्तवासिनं नित्यं तं मां यूयं सुराश्च भोः  ॥ ९५.५५ ॥

उच्यतां यन्मया कार्यं तत्सर्वं करवाण्यहम्  ।

ततो मन्दानिलोद्धूतकमलाकरशोभिना  ॥ ९५.५६ ॥

गुरुं नेत्रसहस्रेण प्रेरयामास वृत्रहा  ।

 

वाक्पतिरुवाच –

त्वया पूर्वं महाभाग देवकार्यार्थसिद्धये  ॥ ९५.५७ ॥

समुद्राः कर्षिताः सर्वे ईश्वरेण यथा जगत् ।

विध्वस्तास्त्रिदशाः सर्वे दानवैर्बलदर्पितैः  ॥ ९५.५८ ॥

जिता देवास्तु ते सर्वे दानवेभ्यः पराङ्मुखाः  ।

तेषां वरापहाराय समुद्राः शोषिताः पुरा  ॥ ९५.५९ ॥

साम्प्रतं दुःखिता धात्री पश्येमां भूतधारिणीम्  ।

दैत्यभारेण दुःखार्ता भूमिर्जाता रसातलम्  ॥ ९५.६० ॥

गन्तव्यं दक्षिणामाशां तपोराशे द्विजोत्तम  ।

नर्मदोदधिमर्यादां कुरु पुण्यां महाद्विज  ॥ ९५.६१ ॥

वृद्धिं विन्ध्यनगस्यापि देवकार्यं समुद्धर  ।

कौशिकोऽथ कनीयांस्ते य उन्मार्गप्रवर्तकः  ॥ ९५.६२ ॥

 

अगस्त्य उवाच –

देवकार्यं करिष्यामि सुखं तिष्ठ वसुन्धरे  ।

गच्छामि दक्षिणामाशां शक्तः शिष्यस्य वारणे  ॥ ९५.६३ ॥

वर्धनं पर्वतस्यास्य वारयामि न संशयः  ।

 

देवा ऊचुः॒

याम्यां गत्वा सुरैः सार्धं द्रष्टव्यो यं न संशयः  ॥ ९५.६४ ॥

सिंहस्थे भास्करे विप्र येन यास्यन्ति भक्तितः  ।

नश्यते च धनं धान्यं तेषां सौख्यं न संशयः  ॥ ९५.६५ ॥

अधिकाराय देवानां स च दृष्टो भविष्यति  ।

तत्प्रतिज्ञाय गीर्वाणाः समं वसुधया गताः  ॥ ९५.६६ ॥

अगस्त्यं तपसां राशिं निर्गच्छन्तः समन्ततः  ।

अगस्त्यपदविक्षेपाच्चलिता च वसुन्धरा  ॥ ९५.६७ ॥

मनोवेगेन सम्प्राप्तः कौशिको यत्र तापसः  ।

कौशिकोऽपि गुरुं दृष्ट्वा साष्टाङ्गं प्रणिपत्य च  ॥ ९५.६८ ॥

धन्येऽहं मुनिशार्दूलप्रीतोऽहं तव दर्शनात् ।

अर्घपात्रं समादाय दध्यक्षतसमन्वितम्  ॥ ९५.६९ ॥

दूर्वा च चन्दनं पूज्यभक्त्या पात्रे समाहितम्  ।

गुरुपादपरिक्षिप्त उवाच मधुरं तदा  ॥ ९५.७० ॥

आदेशो दीयतां तात तव प्रेष्यो द्विजोत्तम  ।

 

अगस्त्य उवाच –

देवकार्यविघातं च कौशिक त्वं विसर्जय  ॥ ९५.७१ ॥

देवकार्यविसृष्टेन कर्मणा न प्रवर्तसे  ।

यदि ते निश्चला भक्तिर्विश्वामित्र ममोपरि  ॥ ९५.७२ ॥

तदा त्वं वर्जयेः सर्वमुन्मार्गस्य प्रवर्तनम्  ।

 

विश्वामित्र उवाच –

गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम्  ॥ ९५.७३ ॥

इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः  ।

स्पर्धया च वशिष्ठस्य त्रिशङ्कुर्मे सुयाचितः  ॥ ९५.७४ ॥

अद्य प्रभृति तत्सर्वं त्यक्तमेव द्विजोत्तम  ।

इत्युक्तः प्रययौ शीघ्रं रेवातीरं सुदुर्लभम्  ॥ ९५.७५ ॥

उत्तरं तटमासाद्य तपस्तत्र समारभत् ।

नर्मदा त्रिषु लोकेषु पवित्रा पापनाशिनी  ॥ ९५.७६ ॥

निश्चयं परमं कृत्वा मित्रावरुणनन्दनः  ।

शिलातले निविष्टस्तु चचार विपुलं तपः  ॥ ९५.७७ ॥

वायुभक्षः सदा कालं कुम्भयोनिर्महातपाः  ।

ज्ञातो भक्तियुतः श्रेष्ठ ईश्वरेण युधिष्ठिर  ॥ ९५.७८ ॥

प्रत्यक्षो द्वादशे वर्षे सङ्गतः पार्वतीपतिः  ।

 

ईश्वर उवाच –

साधु साधु मुनिश्रेष्ठ तपसा द्योतितं नभः  ॥ ९५.७९ ॥

निश्चयं तव तुष्टोऽस्मि मित्रावरुणनन्दन  ।

वर्षायुतसहस्रेण नान्येषां वरदो ह्यहम्  ॥ ९५.८० ॥

 

अगस्त्य उवाच –

संसारपल्वलातीतसृष्टिजन्मविवर्जित  ।

दुर्लक्ष्यासुरसङ्घानां प्रमथेश नमोऽस्तु ते  ॥ ९५.८१ ॥

नन्दिस्कन्दगणा देवा वृथा क्लिश्यन्ति मोहिताः  ।

सनत्कुमारमुख्याश्च ऋषयः शंसितव्रताः  ॥ ९५.८२ ॥

त्वद्रूपं ते न जानन्ति शम्भो नाथ नमोऽस्तु ते  ।

ब्रह्माद्या देवताः सर्वे ध्यायन्ति त्वामहर्निशम्  ॥ ९५.८३ ॥

नैते पश्यन्ति त्वद्रूपं धातर्देव नमोऽस्तु ते  ।

 

ईश्वर उवाच –

प्रसन्नस्तव विप्रेन्द्र ऊर्ध्वरेतस्त्वयोनिज  ॥ ९५.८४ ॥

तव भक्तिगृहीतोऽहं प्रसन्न उमया सह  ।

 

अगस्त्य उवाच –

यदि तुष्टोऽसि देवेश यदि देयो वरो मम  ॥ ९५.८५ ॥

प्रत्यक्षो भव तीर्थेऽस्मिन् यदि सत्यं वरप्रदः  ।

अन्तर्जले सदाकालं धर्माध्यक्षो महेश्वर  ॥ ९५.८६ ॥

शिलायां भव नित्यं च नर्मदायोत्तरे तटे  ।

देवकार्यस्य कर्ताहं त्वत्प्रसादाज्जगत्पते  ॥ ९५.८७ ॥

तथेति चोक्त्वा वृषवाहनोऽपि जगाम कैलासनगं नगेशः  ।

अयोनिजो योगबलेन युक्तः प्रविद्यया लिङ्गबलाच्छिवस्य  ॥ ९५.८८ ॥

जगाम दक्षिणामाशां सुरसङ्घैरभिष्टुतः  ।

तपोवनं यथापुण्यं देवदानवसेवितम्  ॥ ९५.८९ ॥

प्रविष्टो मुनिशार्दूलः पवित्रं देवकम्बलम्  ।

निश्चला सुषमादेवी संस्थिता धरणी तथा  ॥ ९५.९० ॥

पुष्पाणि ववृषुर्देवा जयशब्दं पुनः पुनः  ।

 

युधिष्ठिर उवाच –

तस्य तीर्थस्य यत्पुण्यं कथ्यतां मुनिसुव्रत  ॥ ९५.९१ ॥

आदिमध्यावसाने च ब्राह्मणैः सह बान्धवैः  ।

पितॄणां सर्वतीर्थानां सर्वसत्त्वोपकारकम्  ॥ ९५.९२ ॥

 

मार्कण्डेय उवाच –

पितॄन्मोक्षदं प्रोक्तं सर्वकाले जनाधिप  ।

शिवाख्यां कार्त्तिके मासि कृष्णपक्षे चतुर्दशीम्  ॥ ९५.९३ ॥

उपोष्य यो नरो भक्त्या कामक्रोधविवर्जितः  ।

शमीतरुं समास्थाय रात्रौ कुर्वीत जागरम्  ॥ ९५.९४ ॥

तत्कथालापसंयुक्तो धर्माख्यानैर्द्विजैः सह  ।

गवां घृतेन देवेशं रात्रौ च स्नापयेत्पुनः  ॥ ९५.९५ ॥

घटेनैव घटार्धेन तदर्धेन स्वशक्तितः  ।

घृतेन बोधयेद्दीपं घृतं विप्राय दापयेत् ॥ ९५.९६ ॥

पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम्  ।

प्रभाते पूजयेद्विप्रान् स्वदारनिरतान् सदा  ॥ ९५.९७ ॥

वेदाभ्यसनशीलांश्च परदारविवर्जितान्  ।

शूद्रसेवारता नित्यं धूर्तकर्मरता जनाः  ॥ ९५.९८ ॥

पतिताः कूटसाक्ष्येण प्रतिग्रहरताः सदा  ।

वेदद्वेषणशीलाश्च कुब्जाश्च विकलाः सदा  ॥ ९५.९९ ॥

हीनातिरिक्तगात्रा ये द्विजाः श्राद्धे विवर्जिताः  ।

वेदोक्तेन विशुद्धाङ्गाः पूज्या नित्यं युधिष्ठिर  ॥ ९५.१०० ॥

भूमिदानेन वस्त्रेण कन्यादानैर्विशेषतः  ।

श्राद्धकालेषु योगेषु भर्तव्या भक्तितत्परैः  ॥ ९५.१०१ ॥

गोदानं तत्र कर्तव्यं श्रेयोऽर्थमात्मनस्तथा  ।

सवत्सां क्षीरिणीं शुभ्रां पुष्टां वै शीलसंयुताम्  ॥ ९५.१०२ ॥

कम्बलं परया भक्त्या पादुकोपानहौ तथा  ।

हिरण्यरुक्मिणीं कन्थां ताम्बूलं भोजनं तथा  ॥ ९५.१०३ ॥

घण्टाभरणशोभाढ्यां वस्त्रयुग्मावगुण्ठिताम्  ।

स्वर्णशृङ्गीं रौप्यखुरीं कांस्यदोहेन संयुताम्  ॥ ९५.१०४ ॥

उच्चार्य परया भक्त्या यावदाहूतसंप्लवम्  ।

सर्व कोटिगुणं पार्थ शुभं वा यदि वाशुभम्  ॥ ९५.१०५ ॥

तीर्थाख्यानं च यो भक्त्या पठते शृणुतेऽथवा  ।

मुच्यते सर्वपापेभ्यः शिवलोके वसत्यपि  ॥ ९५.१०६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डेऽगस्त्यतीर्थवर्णनो नाम पञ्चनवतितमोऽध्यायः ॥

 

 

अध्याय ९६

 

मार्कण्डेय उवाच –

अथानन्देश्वरं गच्छेत्सर्वदेवनमस्कृतम्  ।

रुद्रस्य परमानन्दो यत्र जातो युधिष्ठिर  ॥ ९६.१ ॥

तत्तीर्थं कथयिष्यामि सूर्यपापक्षयं करम्  ।

 

युधिष्ठिर उवाच –

आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम  ॥ ९६.२ ॥

कथयस्व महाभाग संक्षेपान्मुनिसत्तम  ।

 

मार्कण्डेय उवाच –

कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम्  ॥ ९६.३ ॥

दानवानां वधं कृत्वा देवदेवश्च शङ्करः  ।

पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः  ॥ ९६.४ ॥

आनन्दं परमं प्राप्य ननर्त वृषवाहनः  ।

भैरवं रूपमासाद्य गौरी चार्द्धाङ्गधारिता  ॥ ९६.५ ॥

भूतवेतालकङ्कालैर्भैरवैर्भैरवो वृतः  ।

नर्मदायोत्तरे तीरे दक्षिणे पाण्डुनन्दन  ॥ ९६.६ ॥

तुष्टैर्मरुद्गणैस्तत्र स्थापितः कमलासनः  ।

तदा प्रभृति वै देव आनन्देश्वर उच्यते  ॥ ९६.७ ॥

अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप  ।

विधिं स्नात्वार्चयेद्देवां सुगन्धेन विलेपयेत् ॥ ९६.८ ॥

ब्राह्मणान् पूजयेत्तत्र यथाशक्त्या युधिष्ठिर  ।

गोदानं तत्र कर्तव्यं वस्त्रदानं तथैव च  ॥ ९६.९ ॥

वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् ।

इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा  ॥ ९६.१० ॥

प्रेतानां कारयेच्छ्राद्धमानन्देश्वरतीर्थके  ।

प्रेता आनन्दिताः स्युस्ते यावदाहूत सम्प्लवम्  ॥ ९६.११ ॥

सन्ततिर्धनसौख्यं च सप्तजन्मनि जायते  ।

आनन्दश्च भवेत्तेषां जन्म जन्म युधिष्ठिर  ॥ ९६.१२ ॥

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र मातृतीर्थमनुत्तमम्  ।

सङ्गमस्य समीपस्थं नर्मदादक्षिणे तटे  ॥ ९६.१३ ॥

मातरस्तत्र राजेन्द्र संजाता नर्मदातटे  ।

उमया याचितस्तत्र व्यालयज्ञोपवीतकः  ॥ ९६.१४ ॥

उवाच योगिनीवृन्दं कष्टं कष्टं न शोभनम्  ।

उवाच वरदश्चास्मि योगिवृन्दवरप्रदः  ॥ ९६.१५ ॥

 

योगिन्य ऊचुः॒

अजेयाः सर्वदेवानां त्वत्प्रसादान्महेश्वर  ।

तीर्थानामभिसंख्याने प्रख्याता वसुधातले  ॥ ९६.१६ ॥

एवं भवतु योगिन्यस्तत्रैवान्तरधीयत  ॥ ९६.१७ ॥

 

मार्कण्डेय उवाच –

तस्मिंस्तीर्थे तु यो मर्त्यो नवम्यां विजितेन्द्रियः  ।

उपोष्य परया भक्त्या पूजयेन्मातृमण्डलम्  ॥ ९६.१८ ॥

तस्य ता मातरः प्रीताः प्रीतोऽयं वृषवाहनः  ।

बन्ध्याया मृतवत्साया अपुत्राया युधिष्ठिर  ॥ ९६.१९ ॥

स्नपनं चारभेत्तत्र मन्त्रज्ञैर्ब्राह्मणोत्तमैः  ।

सहिरण्येन कुम्भेन पञ्चरत्नफलान्वितम्  ॥ ९६.२० ॥

स्नापयेत्पुत्रकामा च कांस्यपात्रेण मन्त्रतः  ।

पुत्रान् सा लभते नारी वीर्ययुक्तान् गुणान्वितान्  ॥ ९६.२१ ॥

यं यं काममभिध्यायेत्तं तं सा लभते नृप  ।

मातृतीर्थात्परं तीर्थं नास्त्यन्यत्पाण्डुनन्दन  ॥ ९६.२२ ॥

तस्यैवानन्तरं तात जलमध्येश्वरं परम्  ।

लिङ्गेश्वरमिति ख्यातं सुरासुरनमस्कृतम्  ॥ ९६.२३ ॥

 

युधिष्ठिर उवाच –

अत्यक्ता सा तु रेवा या कथं त्यक्ता च शम्भुना  ।

जलमध्ये हि तिष्ठेत शूलपाणिः पिनाकधृक् ॥ ९६.२४ ॥

तदहं श्रोतुमिच्छामि तव वाक्याद्द्विजोत्तम  ।

 

मार्कण्डेय उवाच –

आश्चर्यभूता लोकेऽस्मिन् प्रतिष्ठा पाण्डुनन्दन  ॥ ९६.२५ ॥

पण्डितो वृद्धभावेन कथयामि नृपोत्तम  ।

आदौ कृतयुगे तात दानवो बलदर्पितः  ॥ ९६.२६ ॥

कालबाष्प इति प्रोक्तो दुर्जयो देवदानवैः  ।

तपश्चचार विपुलं नर्मदाया जले शुभे  ॥ ९६.२७ ॥

आराधयन्महादेवमुग्रेण तपसा भृशम्  ।

ततस्तुतोष भगवान् सपत्नीको महेश्वरः  ॥ ९६.२८ ॥

 

ईश्वर उवाच –

भो भो वत्स वरं ब्रूहि तुष्टोऽहं तव भक्तितः  ।

देवस्य वचनं श्रुत्वा कालबाष्पोऽब्रवीद्वचः  ॥ ९६.२९ ॥

देवाश्चैव मया भग्नाः प्रसादात्तव शूलिनः  ।

संग्रामे च विषण्णोऽहं तस्मादाराधनं कृतम्  ॥ ९६.३० ॥

हस्तं शिरसि यस्यैव दास्यामि च महेश्वर  ।

न स जीवेत्पुमांल्लोके वरमेतं ददस्व मे  ॥ ९६.३१ ॥

 

ईश्वर उवाच –

यत्तेऽभिलषितं दैत्य तत्तथैव भविष्यति  ।

इति श्रुत्वा वचो दैत्यः शम्भुमेवाभिदुद्रुवे  ॥ ९६.३२ ॥

हस्तं ते मूर्ध्नि दास्यामि न तत्सत्यं वचस्तव  ।

रुद्रः पलायितस्तेन केशवं शरणं गतः  ॥ ९६.३३ ॥

निवेद्य केशवं सर्वं तस्मिन्नेव न्यलीयत  ।

 

केशव उवाच –

हन्म्यहं तं महादेव दुष्टं दैत्यजनेश्वरम्  ॥ ९६.३४ ॥

हस्तं शिरसि तस्यैव दापयामि महेश्वर  ।

ततस्त्वरितमापन्नः प्रविष्टो नमदातटे  ॥ ९६.३५ ॥

कृष्णः स्त्रीवेषधारी च दैत्यसंमुखमागतः  ।

द्वात्रिंशल्लक्षणोपेता नियुक्ता कामसायकैः  ॥ ९६.३६ ॥

मधुमाथवके शम्भुं ध्यात्वा सर्वत्र कैशवी  ।

वनं बभ्राम सर्वत्र सुशीला वटपादपम्  ॥ ९६.३७ ॥

क्षोभयन्तीव चित्तानि सा रेमे धर्मनन्दन  ।

रिङ्गमाणश्च दैत्योऽसौ कालबाष्पः सुदुर्जनः  ॥ ९६.३८ ॥

प्रविष्टः स वने रम्ये यत्र सा शुभलोचना  ।

अहं भवामि ते भर्ता दुर्जयो देवदानवैः  ॥ ९६.३९ ॥

त्रैलोक्यस्वामिनी त्वं च प्रसीद मम सुन्दरि  ।

 

श्रीकृष्ण उवाच –

यदि मां मन्यसे भार्यां प्रत्ययश्च भवेन्मम  ॥ ९६.४० ॥

 

दानव उवाच –

स्वयं भवामि तन्वङ्गि शपथं मम साधनम्  ।

तदहं च करिष्यामि इति मे सत्यभाषितम्  ॥ ९६.४१ ॥

 

स्त्र्युवाच –

कुरुष्व त्वं महाभाग शिरो हस्ते प्रदीयताम्  ।

 

मार्कण्डेय उवाच –

कामान्धेनैव राजेन्द्र निक्षिप्तो मस्तके करः  ॥ ९६.४२ ॥

तत्क्षणादभवद्भस्म दग्धस्तृणचयो यथा  ।

केशवस्योपरि तदा पुष्पवृष्टिः पपात ह  ॥ ९६.४३ ॥

गताः सर्वे दिवं देवाः स्वस्थानं विगतज्वराः  ।

क्षौराब्धिमगमद्विष्णुः कालबाष्पे निपातिते  ॥ ९६.४४ ॥

य इदं शृणुयाद्भक्त्या चरितं दानवस्य च  ।

श्राद्धं तत्रैव यः कुर्यात्कामक्रोधविवर्जितः  ॥ ९६.४५ ॥

उद्धृतास्तेन सर्वे वै नरकाच्च पितामहाः  ।

क्षेत्रे तस्मिंस्तु यो दद्याद्ब्राह्मणे वेदपारगे  ॥ ९६.४६ ॥

तस्य दानफलं सर्वं कुरुक्षेत्राद्विशिष्यते  ।

स्पर्शते य इदं लिङ्गं शङ्करेण च निर्मितम्  ॥ ९६.४७ ॥

स्पर्शमात्रो मनुष्यस्तु रुद्रवासोऽभिजायते  ।

एतस्मात्कारणाद्राजंल्लोकपालाश्च देवताः  ॥ ९६.४८ ॥

दुर्गादेवी तथा चैव मधुहन्ता चतुर्भुजः  ।

दानवाद्याश्च सर्वेऽपि रक्षणे चेश्वरस्य च  ॥ ९६.४९ ॥

रक्षन्ते च सदाकालं गृहव्यापाररूपतः  ।

पुत्रभ्रातृसमा भूत्वा स्वामिसम्बन्धरूपिणः  ॥ ९६.५० ॥

लिङ्गेश्वरं तु राजेन्द्र देवैरद्याऽपि रक्ष्यते  ॥ ९६.५१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे भस्मासुरवधो नाम षण्णवतितमोऽध्यायः ॥

 

 

अध्याय ९७

 

मार्कण्डेय उवाच –

ततो गच्छेच्च राजेन्द्र धनदं तीर्थमुत्तमम्  ।

नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्  ॥ ९७.१ ॥

सर्वतीर्थफलं तत्र प्राप्यते नात्र संशयः  ।

चैत्रमासे त्रयोदश्यां शुक्लपक्षे जितेन्द्रियः  ॥ ९७.२ ॥

उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम्  ।

पञ्चामृतेन राजेन्द्र स्नापयेद्वरदं विभुम्  ॥ ९७.३ ॥

पूजयेद्भक्तियुक्तेन गीतवाद्यं प्रदापयेत् ।

प्रभाते पूजयेद्विप्रानात्मनः श्रेय इच्छता  ॥ ९७.४ ॥

प्रतिग्रहाविमुक्ताश्च विद्यासिद्धान्तवादिनः  ।

भर्तव्या हि प्रियैर्भक्त्या परिवादविवर्जिताः  ॥ ९७.५ ॥

पूजयेद्गोहिरण्येन वस्त्रालंकरणेन च  ।

हस्त्यश्वरथदानेन सर्वपापक्षयो भवेत् ॥ ९७.६ ॥

त्रिजन्मजनितं पापं धनदस्य प्रभावतः  ।

स्वर्गदं दुर्विनीतानां विनीतानां च मुक्तिदम्  ॥ ९७.७ ॥

धनवान् स नरव्याघ्र भवेज्जन्मनि जन्मनि  ।

कुलीनत्वं स्वरूपत्वं दुःखं नास्ति निरन्तरम्  ॥ ९७.८ ॥

व्याधेस्तु न भयं तेषां नन्देद्धनदसेवनात् ।

धनस्य च यस्तीर्थे विद्यां वै प्रददाति हि  ॥ ९७.९ ॥

स याति भास्करं लोकं सर्वदुःखविवर्जितः  ।

 

मार्कण्डेय उवाच –

अहं ते कथयिष्यामि चेतिहासं पुरातनम्  ॥ ९७.१० ॥

द्वे भार्य्ये कश्यपस्यास्तां सर्वलोकेष्वनुत्तमे  ।

गरुत्मान् विनतापुत्रः कद्रूपुत्रोरगाः स्मृताः  ॥ ९७.११ ॥

सन्तोषेण द्वयं तात तिष्ठतः काश्यपे गृहे  ।

कद्र्वास्तु भगिनी तत्र इष्टा च विनता तथा  ॥ ९७.१२ ॥

क्रीडेद्विनतया सार्धं कश्यपोऽपि प्रजापतिः  ।

ततस्त्वेकदिने पार्थ आश्रमस्था सुशोभना  ॥ ९७.१३ ॥

उच्चैःश्रवोहयं दृष्ट्वा अतिवेगं नभःस्थितम्  ।

पश्य पश्य च तन्वङ्गि अश्वं सर्वत्र पाण्डुरम्  ॥ ९७.१४ ॥

धावमानमविश्रान्तं जवेन मानसोपमम्  ।

 

कद्रूरुवाच –

कथमेतत्तु तन्वङ्गि कृष्णं जल्पसि पाण्डुरम्  ॥ ९७.१५ ॥

असत्यं भाषितं भद्रे यमलोकं गमिष्यसि  ।

 

विनतोवाच –

सत्यानृते तु वचने पणोऽयं मेऽस्तु तेऽधुना  ॥ ९७.१६ ॥

सहस्रं चैव वर्षाणामज्ञात्वा दास्यतां व्रजेत् ।

असत्या यदि मे वाणी कृष्ण उच्चैःश्रवाहयः  ॥ ९७.१७ ॥

तदाहं त्वद्गृहे दासी सर्वदैव भवामि हि  ।

यदि तूच्चैःश्रवाः श्वेतो दासी त्वं मद्गृहे पुनः  ॥ ९७.१८ ॥

एवं परस्परं द्वाभ्यां दासीयमब्रवीदिति  ।

स्वाश्रमं हि गता कद्रू रात्रौ चिन्तातुरा स्थिता  ॥ ९७.१९ ॥

श्वेतवर्णं तु कथितं श्यामं तमश्वकं तदा  ।

पुत्राणां कथितं पार्थ पणश्चैव कृतो मया  ॥ ९७.२० ॥

श्रुतं सर्वैस्तथा वाक्यं सर्पैर्मातृपणस्तदा  ।

जाता दासी न सन्देहः श्वेतो भास्करवाहनः  ॥ ९७.२१ ॥

 

कद्रूरुवाच –

यथाहं न भवे दासी तत्कार्यं च विचिन्त्यताम्  ।

उच्चैःश्रवो रोमकूपे विशध्वं यूयमेव च  ॥ ९७.२२ ॥

एकं मुहूर्तं तिष्ठध्वं यावत्कृष्णः प्रदृश्यते  ।

क्षणेनैकेन भवतां दासी सा भवते मम  ॥ ९७.२३ ॥

दासीत्वे या तु तन्वङ्गी विनता सत्यगार्विता  ।

ततः स्वस्थानगाः सर्वे भवन्तु सुखिनः सदा  ॥ ९७.२४ ॥

 

सर्पा ऊचुः॒

यथा त्वं जननी चैव सर्वेषां भुवि पन्नगी  ।

तथा सापि विशेषण वञ्चितव्या न मातृवत् ॥ ९७.२५ ॥

ततः सा तेन वाक्येन क्रुद्धा कालानलोपमा  ।

मम वाक्यमकुर्वाणा ये केचिद्भुवि पन्नगाः  ॥ ९७.२६ ॥

हव्यवाहमुखं सर्वे यास्यन्तीत्यविचारिणः  ।

तेन वाक्येन भीतास्ते हयरोमसुवेष्टिताः  ॥ ९७.२७ ॥

नष्टाः केचिद्दिशो दिव्याः कद्रूशापभयान्विताः  ।

केचिद्गङ्गाजले नष्टाः केचिन्नष्टाः सरस्वतीम्  ॥ ९७.२८ ॥

केचिन्महोदधिं नीताः प्रविष्टा विन्ध्यकन्दरे  ।

आश्रित्य नर्मदातोयं मणिनागोत्तमो नृप  ॥ ९७.२९ ॥

चचार विपुलं भक्त्या उत्तरे नर्मदातटे  ।

मातृशापधरो नागः प्रविष्टो नर्मदाजले  ॥ ९७.३० ॥

त्वत्प्रसादेन भो नाथ मातृशापं तराम्यहम्  ।

हव्यवाहमुखं यस्मात्प्रयामि न जगत्पते  ॥ ९७.३१ ॥

 

ईश्वर उवाच –

हव्यवाहमुखं वत्स न यास्यसि ममाज्ञया  ।

मम लोकनिवासोऽपि तव पुत्र भविष्यति  ॥ ९७.३२ ॥

 

मणिनाग उवाच –

अस्मिन् स्थाने महादेव स्थीयतामंशभागतः  ।

सहस्रांशेन भागेन स्थीयतां नर्मदाजले  ॥ ९७.३३ ॥

उपकाराय लोकानां मम नाम्ना च शङ्कर  ।

 

ईश्वर उवाच –

स्थापय स्वपरं लिङ्गमाज्ञया मम पन्नग  ॥ ९७.३४ ॥

इत्युक्त्वान्तर्दधे देवस्तदैव शिवया सह  ।

तत्र तीर्थे तु ये भक्त्या शुचयो यतमानसाः  ॥ ९७.३५ ॥

पञ्चम्यां च चतुर्दश्यामष्टम्यां शुक्लपक्षके  ।

अर्चयन्ति सदा पार्थ नोपसर्पन्ति ते यमम्  ॥ ९७.३६ ॥

दध्ना च मधुना चैव घृतेन क्षीरतो जनाः  ।

स्नापयन्ति विरूपाक्षमुमादेहार्धधारिणम्  ॥ ९७.३७ ॥

कामाङ्गदहनं देवं महासुरनिषूदनम्  ।

संस्नापयन्ति ये भक्त्या पश्यन्ति परमं पदम्  ॥ ९७.३८ ॥

षट्कर्मनिरतास्तात शूद्रप्रणयवर्जिताः  ।

तेऽपि यान्ति परं लोकं सर्वपापविवर्जिताः  ॥ ९७.३९ ॥

व्रात्यांश्च दुर्धरान् षण्ढान् वार्धक्यांश्च कृषीवलान्  ।

भिन्नदृष्टिकरान् विप्रान् कश्चिन्नैव च पूजयेत् ॥ ९७.४० ॥

वृषली मन्दिरे यस्य महिषं यस्तु वाहयेत् ।

ते विप्रा दूरतस्त्याज्या व्रते श्राद्धे नृपेश्वर  ॥ ९७.४१ ॥

काणाः कुण्डाश्च गोलाश्च वैद्याश्चैव विवर्जिताः  ।

नैते पूज्या द्विजाः पार्थ मणिनागेश्वरे शुभे  ॥ ९७.४२ ॥

यदीच्छेदूर्ध्वगमनां पितृणामात्मनस्तथा  ।

सर्वाङ्गरुचिराङ्गाश्च सदा पूज्या द्विजास्तु वै  ॥ ९७.४३ ॥

स याति परमं लोकं यावदाहूतसम्प्लवम्  ।

ततः स्वर्गाच्च्युतः सोऽपि जायते विपुले कुले  ॥ ९७.४४ ॥

मणिनागेश्वरं देवं यः पश्यति नराधिप  ।

धेनुं शय्यां तथा छत्रं कन्यां दासीं सुभक्तितः  ॥ ९७.४५ ॥

पात्रे दद्यात्तु राजेन्द्र यदीच्छेच्छ्रेय आत्मनः  ।

सुरभीणि च पुष्पाणि गन्धवस्त्राणि दापयेत् ॥ ९७.४६ ॥

दीपं धान्यं गृहं शुभ्रं सर्वोपस्करसंयुतम्  ।

ददते ये नरा भक्त्या ते व्रजन्ति त्रिविष्टपम्  ॥ ९७.४७ ॥

मणिनागे नृप स्वर्णपन्नगो यः प्रदीयते  ॥ ९७.४८ ॥

पातकानि प्रलीयन्त आमपात्रे जलं यथा  ।

नर्मदातोयसंसिद्धं भोज्यं विप्राय दीयते  ॥ ९७.४९ ॥

तेऽपि पापैर्विनिर्मुक्ताः क्रीडन्ते दैवतैः सह  ।

त्यागिनो भोगसंयुक्ता धर्माख्यानरताः सदा  ॥ ९७.५० ॥

देवद्विजगुरोर्भक्तास्तीर्थसेवापरायणाः  ।

मातापितृस्वामिभक्ताः क्रोधद्रोहविवर्जिताः  ॥ ९७.५१ ॥

एतैः सर्वैर्गुणैर्युक्ता ये नराः पाण्डुनन्दन  ।

जायन्ते स्वर्गकामाश्च स्वर्गे वासो भविष्यति  ॥ ९७.५२ ॥

सर्वतीर्थवरं तीर्थं मणिनागं नृपोत्तम  ।

तीर्थाख्यानमिदं पुण्यं यः पठेच्छृणुयादपि  ॥ ९७.५३ ॥

सोऽपि पापविनिर्मुक्तः शिवलोके महीयते  ।

न विषं क्रमते तेषां विचरन्ति यथेच्छया  ॥ ९७.५४ ॥

भाद्रपद्यां च यः षष्ठ्यां भाद्रे स्नायाच्च दर्शके  ।

तस्य पुण्यफलावाप्तिराख्यानकथनेन तु  ॥ ९७.५५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मणिनागतीर्थवर्णनो नाम सप्तनवतितमोऽध्यायः ॥

 

 

अध्याय ९८

 

मार्कण्डेय उवाच –

दक्षिणे नर्मदातीरे तीर्थं परमशोभनम्  ।

सर्वपापहरं पुण्यं गोपालेश्वरमुत्तमम्  ॥ ९८.१ ॥

गोदेहान्निःसृतं लिङ्गं पुण्यं भूमितले नृप  ।

 

युधिष्ठिर उवाच –

गोदेहात्निःसृतं कस्माल्लिङ्गं पापक्षयं करम्  ॥ ९८.२ ॥

दक्षिणे नर्मदा तीरे मणिनागसमीपतः  ।

संक्षेपात्कथ्यतां विप्र गोपालेश्वरमुत्तमम्  ॥ ९८.३ ॥

 

मार्कण्डेय उवाच –

कामधेनुस्तपस्तत्र पुत्रार्थं च चकार ह  ।

ध्यायती परया भक्त्या देवदेवं महेश्वरम्  ॥ ९८.४ ॥

तुष्टस्तस्या जगन्नाथः कपिलाया महेश्वरः  ।

निःसृतो देहमध्यात्तु अक्षयः परमेश्वरः  ॥ ९८.५ ॥

 

महेश्वर उवाच –

तुष्टो देवि जगन्मातः कपिले परमेश्वरि  ।

आराधनं कृतं कस्माद्वद देवि वरानने  ॥ ९८.६ ॥

 

सुरभिरुवाच –

लोकानामुपकाराय सृष्टाहं परमेष्ठिना  ।

लोके कार्यं हि सर्वं वै मत्प्रसादात्प्रसिध्यति  ॥ ९८.७ ॥

लोकाः सर्वे प्रपश्यन्ति त्वत्पसादात्त्रिशूलिनम्  ।

तीर्थे त्वं भव भोः शम्भो लोकानां हितकाम्यया  ॥ ९८.८ ॥

 

मार्कण्डेय उवाच –

तदा प्रभृतितत्तीर्थं विख्यातं वसुधातले  ।

स्नानेनैकेन राजेन्द्र सर्वपापं व्यपोहति  ॥ ९८.९ ॥

गोपालेशे तु गोदानं यस्तु भक्त्या प्रदापयेत् ।

योग्ये द्विजोत्तमे देया योग्या धेनुः सकाञ्चनी  ॥ ९८.१० ॥

सवस्त्रा तरुणी शुभ्रा क्षीरिणी वृषसंयुता  ।

कृष्णपक्षे चतुर्दश्यामष्टम्यां वा युधिष्ठिर  ॥ ९८.११ ॥

सर्वेषु चैव मासेषु कार्त्तिके च विशेषतः  ।

दापयेत्परया भक्त्या द्विजे स्वाध्यायतत्परे  ॥ ९८.१२ ॥

विधिना च प्रदास्यन्ति विधिना प्रतिगृह्णते  ।

उभयोः पुण्यकर्माणि प्रेक्षकाः पुण्यभाजनाः  ॥ ९८.१३ ॥

पिण्डदानं प्रकर्तव्यं प्रेतानां भावसंयुतैः  ।

पिण्डेनैकेन राजेन्द्र प्रेता यान्ति परां गतिम्  ॥ ९८.१४ ॥

भक्त्या प्रणामं रुद्रस्य ये कुर्वन्ति दिने दिने  ।

तेषां पापं प्रलीयेत भिन्नपात्रे जलं यथा  ॥ ९८.१५ ॥

तस्मिंस्तीर्थे तु यो राजन् वृषं चैव समुत्सृजेत् ।

 

युधिष्ठिर उवाच –

वृषोत्सर्गे कृते तात यत्फलं भवते नृणाम्  ॥ ९८.१६ ॥

तत्सर्वं कथयस्वाद्य प्रयत्नेन द्विजोत्तम  ।

 

मार्कण्डेय उवाच –

सर्वलक्षणसम्पन्ने वृषे चैव तु यत्फलम्  ॥ ९८.१७ ॥

तदहं सम्प्रवक्ष्यामि शृणु त्वं धर्मनन्दन  ।

कार्त्तिके चैव वैशाखे पौर्णमास्यां नराधिप  ॥ ९८.१८ ॥

रुद्रस्य सन्निधौ भूत्वा शुचिः स्नात्वा जितेन्द्रियः  ।

वृषोत्सर्गं तथा राजन् कारयेद्धरप्रीतये  ॥ ९८.१९ ॥

स्थाने स्थित्वा पवित्रे तु चतस्रो वत्सिकाः शुभाः  ।

वृषभाय च मुञ्चेत सर्वलक्षणसंयुताः  ॥ ९८.२० ॥

प्रीयतां च महादेवो ब्रह्माविष्णुस्तथा परे  ।

वृषभे रोमसंख्या तु सर्वाङ्गेषु नराधिप  ॥ ९८.२१ ॥

तावद्वर्षप्रमाणं तु शिवलोके महीयते  ।

शिवलोके उषित्वा तु पश्चान्मर्त्ये च जायते  ॥ ९८.२२ ॥

कुले महति सम्भूतो धनधान्यसमाकुले  ।

सुरूपे रूपवांश्चैव विद्याढ्ये सत्यवादिनाम्  ॥ ९८.२३ ॥

गोपालेश्वरकं पुण्यं मयाख्यातं युधिष्ठिर  ।

गोदेहात्निःसृतं लिङ्गं नर्मदादक्षिणे तटे  ॥ ९८.२४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे गोपालेश्वरमहिमानुवर्णनो नामाष्टनवतितमोऽध्यायः ॥

 

 

अध्याय ९९

 

मार्कण्डेय उवाच –

नर्मदायोत्तरे कूले तीर्थं परमशोभनम्  ।

सर्वपापहरं पुण्यं नाम्ना वै गौतमेश्वरम्  ॥ ९९.१ ॥

स्थापितं गौतमेनैव लोकानां हितकाम्यया  ।

स्वर्गसोपानरूपेण तीर्थं पुंसां युधिष्ठिर  ॥ ९९.२ ॥

गच्छ त्वं परया भक्त्या यत्र देवो जगद्गुरुः  ।

पातकानां विनाशाय स्वर्गवासाप्तये नृप  ॥ ९९.३ ॥

सौख्यस्य वर्धनं लिङ्गं जयदं दुःखनाशनम्  ।

पिण्डदानेन चैकेन कुलानां उद्धरेत्त्रयम्  ॥ ९९.४ ॥

यत्किंचिद्दीयते भक्त्या स्वल्पं वा यदि वा बहु  ।

तत्सर्वं शतसाहस्रमाज्ञया गौतमस्य च  ॥ ९९.५ ॥

तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम्  ।

 

मार्कण्डेय उवाच –

दक्षिणे नर्मदाकूले तीर्थं परमशोभनम्  ॥ ९९.६ ॥

शङ्खचूडेश्वरं तत्र प्रसिद्धं भूमिमण्डले  ।

शङ्खचूडेश्वरस्तत्र संस्थितः पाण्डुनन्दन  ॥ ९९.७ ॥

वैनतेयभयात्पार्थ संस्थितो नर्मदातटे  ।

तत्र तीर्थे तु यो भक्त्या शुचिर्भूत्वा समाहितः  ॥ ९९.८ ॥

स्नापयेच्छङ्खचूडं तु क्षौद्रेण दधिसर्पिषा  ।

रात्रौ जागरणं कृत्वा देवस्याग्रे नराधिप  ॥ ९९.९ ॥

दधिभक्तेन सम्पूज्य ब्राह्मणान् छंसितव्रतान्  ।

गोदानं च तथा देयं सर्वपापक्षयं करम्  ॥ ९९.१० ॥

तस्मिंस्तीर्थे तु यः पार्थ सर्पदष्टोऽपि नश्यति  ।

सोऽपि याति परं लोकं शङ्खचूडस्य चाज्ञया  ॥ ९९.११ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे शङ्खचूडतीर्थमहिमानुवर्णनो नाम नवनवतितमोऽध्यायः ॥

 

 

अध्याय १००

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र पराशरवरोत्तमम्  ।

पराशरो महात्मा च नर्मदायास्तटे शुभे  ॥ १००.१ ॥

तपश्चचार विपुलं पुत्रार्थं पाण्डुनन्दन  ।

हिमाचलसुता गौरी लक्ष्मीनारायणान्विता  ॥ १००.२ ॥

तोषिता परया भक्त्या नर्मदायोत्तरे तटे  ।

पराशरेण ऋषिणा तस्य तुष्टा वरं ददौ  ॥ १००.३ ॥

 

देव्युवाच –

भो भो ऋषिवरश्रेष्ठ तुष्टाहं तव भक्तितः  ।

वरं याचस्व विप्रेन्द्र पराशरमहामते  ॥ १००.४ ॥

 

पराशर उवाच –

यदि तुष्टासि मे देवि यदि देयो वरो मम  ।

पुत्रो मे दीयतां शीघ्रं सर्वशास्त्रविशारदः  ॥ १००.५ ॥

तीर्थं चात्र भवेद्देवि सन्निधानं वरेण तु  ।

लोकोपकारहेत्वर्थं स्थीयतां गिरिनन्दिनि  ॥ १००.६ ॥

पराशराभिधानेन नर्मदादक्षिणे तटे  ।

पराशरवचः श्रुत्वा देवी हिमवतः सुता  ॥ १००.७ ॥

एवं भवतु ते विप्र इत्युक्त्वान्तरधीयत  ।

पराशरो महात्मा च स्थापयामास पार्वतीम्  ॥ १००.८ ॥

शङ्करं स्थापयामास सुरासुरनमस्कृतम्  ।

अर्चितं सर्वदेवानां दानवानां दुरासदम्  ॥ १००.९ ॥

पराशरो महात्मा च कृतार्थो विगतज्वरः  ।

तस्मिंस्तीर्थे तु यो भक्त्या शुचिः प्रयतमानसः  ॥ १००.१० ॥

मासे चैत्रे च विख्याते श्रावणे नृपनन्दन  ।

मासि मार्गशिरे चैव शुक्लपक्षे तु सर्वदा  ॥ १००.११ ॥

शङ्करं पाण्डवश्रेष्ठ गिरिजां पूजयेत्तथा  ।

अष्टम्यां च चतुर्दश्यां सूर्यपर्वणि सर्वदा  ॥ १००.१२ ॥

स्त्रियो वा पुरुषा वापि कामक्रोधविवर्जिताः  ।

तत्र गत्वा शूचौ स्थाने नर्मदादक्षिणे तटे  ॥ १००.१३ ॥

उपोष्य परया भक्त्या व्रतं कुर्युर्महामुने  ।

रात्रौ जागरणं कृत्वा दीपदानं स्वशक्तितः  ॥ १००.१४ ॥

सपत्नीकानुत्तमांश्च शीलश्रद्धासमन्वितान्  ।

पूजयेद्ब्राह्मणान् पार्थ अन्नदानहिरण्मयैः  ॥ १००.१५ ॥

वस्त्रेण च्छत्रदानेन शय्या ताम्बूलभोजनैः  ।

श्राद्धं कार्यं नृपश्रेष्ठ आमश्राद्धं प्रशस्यते  ॥ १००.१६ ॥

आमं चतुर्गुणं प्रोक्तं ब्राह्मणानां युधिष्ठिर  ।

वेदोक्तेन विधानेन द्विजाः पूज्याः प्रयत्नतः  ॥ १००.१७ ॥

हस्तमात्रकुशैश्चैव तिलैश्च वाञ्च्छितैर्नृप  ।

विप्रं चोदङ्मुखं चैव आत्मानं दक्षिणामुखम्  ॥ १००.१८ ॥

आमं दर्भेषु निःक्षिप्य इत्युच्चार्य द्विजाग्रतः  ।

प्रेता यान्तु परं लोकं तीर्थस्यास्य प्रभावतः  ॥ १००.१९ ॥

पापं मे प्रशमं यातु यातु वृद्धिः सदा शुभम्  ।

वृद्धिं यातु सदा वंशो ज्ञातिवर्गो द्विजोत्तम  ॥ १००.२० ॥

एवमुच्चार्य विप्रेन्द्रं देयं पराशराश्रमे  ।

गोभूनीलहिरण्यानि अन्नं वस्त्रं च शक्तितः  ॥ १००.२१ ॥

दातव्यं पाण्डवश्रेष्ठ पराशरवराश्रमे  ।

यः शृणोति नरो भक्त्या सोऽपि पापैः प्रमुच्यते  ॥ १००.२२ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे पराशरतीर्थमहिमानुवर्णनो नाम शततमोऽध्यायः ॥

 

 

अध्याय १०१

 

मार्कण्डेय उवाच –

भीमेश्वरं ततो गच्छेत्सर्वपापक्षयंकरम्  ।

सेव्यते ऋषिसङ्घैश्च भीमव्रतधरैरपि  ॥ १०१.१ ॥

तत्र तीर्थे तु यः स्नात्वा सोपवासो जितेन्द्रियः  ।

जपंश्चैकाक्षरं मन्त्रमूर्ध्वबाहुर्दिवाकरम्  ॥ १०१.२ ॥

तस्य जन्मार्जितं पापं तत्क्षणादेव नश्यति  ।

सप्तजन्मार्जितं पापं गायत्र्या नश्यते ध्रुवम्  ॥ १०१.३ ॥

दशभिर्जन्मजनितं शतेन च पुराकृतम्  ।

त्रिजन्मना सहस्रेण गायत्री हन्ति किल्बिषम्  ॥ १०१.४ ॥

वैदिकं लौकिकं चापि जाप्यं जप्तं जनेश्वर  ।

तत्क्षणाद्दहते पापं तृणं च ज्वलनो यथा  ॥ १०१.५ ॥

तदेव बलमाश्रित्य कदाचित्पापमाचरेत् ।

अज्ञानात्तस्य तत्क्षिप्रं न फलं हि कदाचन  ॥ १०१.६ ॥

तत्र तीर्थे तु गोदानं शक्तिमात्रेण दापयेत् ।

तदक्षयं फलं सर्वं जायते पाण्डुनन्दन  ॥ १०१.७ ॥

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र नारदेश्वरमुत्तमम्  ।

तीर्थानां परमं तीर्थं निर्मितं नारदेन तु  ॥ १०१.८ ॥

 

युधिष्ठिर उवाच –

नारदेन मुनिश्रेष्ठ कस्य तीर्थं विनिर्मितम्  ।

एतदाख्याहि मे सर्व प्रसन्नो यदि सत्तम  ॥ १०१.९ ॥

 

मार्कण्डेय उवाच –

परमेष्ठिसुतश्चापि नारदो भगवानृषिः  ।

नर्मदायोतरे कूले तपस्तेपे पुराकृते  ॥ १०१.१० ॥

नवनाडीनिरोधेन काष्ठावस्थां गतेन च  ।

तोषितः श्रीमहादेवो नारदेन युधिष्ठिर  ॥ १०१.११ ॥

 

ईश्वर उवाच –

तुष्टोऽहं तव विप्रेन्द्र योगीश्वर अयोनिज  ।

वरं प्रार्थय हे देव यत्ते मनसि वर्तते  ॥ १०१.१२ ॥

 

नारद उवाच –

त्वत्प्रसादेन भो देव योगश्चैव प्रसिध्यतु  ।

 

ईश्वर उवाच –

योगो भवतु भक्तिस्ते सर्वकालं ममैव तु  ॥ १०१.१३ ॥

स्वेच्छाचारो भवे गच्छ स्वर्गपातालगोचरे  ।

मर्त्ये च भ्रमसे योगिन्न केनापि निवार्यसे  ॥ १०१.१४ ॥

सप्तस्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः  ।

मम प्रियकरं दिव्यं नृत्यं गीतं च योगिना  ॥ १०१.१५ ॥

कलिं च पश्यसे नित्यं देवदानवकिन्नरैः  ।

त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद्भविष्यति  ॥ १०१.१६ ॥

इत्युक्त्वान्तर्दधे देवो नारदस्तत्र लिङ्गिनम्  ।

स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम्  ॥ १०१.१७ ॥

 

मार्कण्डेय उवाच –

पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु  ।

तस्मिंस्तीर्थे नरश्रेष्ठ नागच्छेद्विजितेन्द्रियः  ॥ १०१.१८ ॥

मासि भाद्रपदे रम्ये कृष्णपक्षे चतुर्दशीम्  ।

उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम्  ॥ १०१.१९ ॥

छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणम्  ।

शस्त्रेण निहता ये तु तेषां श्राद्धं प्रदापयेत् ॥ १०१.२० ॥

यान्ति ते परमं लोकं पिण्डदानप्रभावतः  ।

कपिला चैव दातव्या तत्र देशे नराधिप  ॥ १०१.२१ ॥

अस्य श्राद्धप्रभावेण ब्राह्मणानां नराधिप  ।

नर्मदातोयपानस्य न्यायार्जितधनस्य च  ॥ १०१.२२ ॥

एतेषां च प्रभावेण प्रेता यान्तु परां गतिम्  ।

इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः  ॥ १०१.२३ ॥

हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत् ।

विद्यादानेन चैकेन अक्षया गतिराप्यते  ॥ १०१.२४ ॥

तस्मिंस्तीर्थे तु राजेन्द्र यो दद्यादग्रजन्मने  ।

कांचनं स तिलं चैव स गच्छेच्च त्रिविष्टपम्  ॥ १०१.२५ ॥

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र तीर्थद्वयमनुत्तमम्  ।

दधिछन्दं मधुछन्दं सर्वपापक्षयं करम्  ॥ १०१.२६ ॥

दधिच्छन्दे नरः स्नात्वा यो दद्याच्च द्विजे दधि  ।

उपतिष्ठति तस्यैतत्सप्तजन्मसु भारत  ॥ १०१.२७ ॥

न व्याधिर्न जरा तस्य न शोको न च मत्सरः  ।

दशचन्द्रशतं यावज्जायते विपुले कुले  ॥ १०१.२८ ॥

मधुच्छन्दे तु मधुना मिश्रितं च तिलोदकम्  ।

न च वैवस्वतं देवं पश्यते सप्तजन्मसु  ॥ १०१.२९ ॥

मधुना सह मिश्रं च तिलं यस्तु प्रयच्छति  ।

तस्य पुत्रस्य पौत्रस्य दारिद्र्यं नैव जायते  ॥ १०१.३० ॥

मधुना सह संमिश्रं तिलं यस्तु प्रयच्छति  ।

मधुना सह संमिश्रं यस्तु पिण्डं प्रदापयेत् ॥ १०१.३१ ॥

तस्मिंस्तीर्थे तु यः स्नात्वा विधिवद्दक्षिणामुखः  ।

पिता पितामहश्चैव तथैव प्रपितामहः  ॥ १०१.३२ ॥

षोडशाब्दानि तुष्यन्ति नात्र कार्या विचारणा  ।

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र नन्दितीर्थमनुत्तमम्  ॥ १०१.३३ ॥

यत्र सिद्धश्च वै नन्दी तत्सर्वं कथयाम्यहम्  ।

नर्मदां पुरतः कृत्वा पुरा नन्दी महेश्वरम्  ॥ १०१.३४ ॥

तपस्तप्तं जपंश्चैव तीर्थात्तीर्थं जगाम ह  ।

दधिच्छन्दं मधुच्छन्दं यावत्त्यक्त्वा च गच्छति  ॥ १०१.३५ ॥

ततस्तुष्टो महादेवो नन्दिनं तमुवाच ह  ।

 

महेश्वर उवाच –

भो भोः प्रसन्नो नन्दीश वरं वृणु यथेप्सितम्  ॥ १०१.३६ ॥

तपसा तेन तुष्टोऽहं तीर्थयात्राकृतेन च  ।

 

नन्द्युवाच –

न चाहं कामये वित्तं न चाहं कुलसन्ततिम्  ॥ १०१.३७ ॥

मुक्तिं न कामये चान्यद्देवेश चरणाम्बुजम्  ।

कृमिकीटपतङ्गेषु तिर्यग्योनिगतेषु च  ॥ १०१.३८ ॥

जन्मजन्मनि यास्यामि त्वद्भक्तिरचला च मे  ।

तथेति चोक्तो देवेन परमेशेन नन्दिकः  ॥ १०१.३९ ॥

गृहीत्वा तं करे शीघ्रं जगाम निलयं हरः  ।

तस्मिंस्तीर्थे तु यः स्नात्वा भक्त्या त्र्यक्षं प्रपूजयेत् ॥ १०१.४० ॥

अग्निष्टोमे च यत्पुण्यं फलं प्राप्नोति मानवः  ।

तत्र तीर्थे महापुण्ये प्राणत्यागं करोति यः  ॥ १०१.४१ ॥

शिवस्यानुचरो भूत्वा मोदते कल्पमक्षयम्  ।

ततः कालेन महता जायते विपुले कुले  ॥ १०१.४२ ॥

वेदवेदाङ्गतत्त्वज्ञे जीवेच्च शरदां शतम्  ।

एतत्ते कथितं पार्थ सर्वतुष्टिप्रदं शुभम्  ॥ १०१.४३ ॥

दुर्लभं सत्यसंज्ञस्य सर्वपापक्षयं करम्  ॥ १०१.४४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे नन्दितीर्थवर्णनो नामैकशततमोऽध्यायः ॥

 

 

अध्याय १०२

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र वरुणेश्वरमुत्तमम्  ।

यत्र सिद्धः पुरा देवो वरुणो नृपसत्तम  ॥ १०२.१ ॥

पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः  ।

आराध्य गिरिजानाथं ततः सिद्धिं गता जनाः  ॥ १०२.२ ॥

तत्र तीर्थे नरः स्नात्वा संतर्प्य पितृदेवताः  ।

पूजयेच्छङ्करं भक्त्या स गच्छेत्परमं पदम्  ॥ १०२.३ ॥

कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम्  ।

अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु  ॥ १०२.४ ॥

यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके  ।

तत्फलं समवाप्नोति नात्र कार्या विचारणा  ॥ १०२.५ ॥

सर्वेषामेव दानानामन्नदानमनुत्तमम्  ।

यद्यत्प्रीतिकरं चैव तोयं च नृपसत्तम  ॥ १०२.६ ॥

तत्र तीर्थे मृतानां च नराणां भावितात्मनाम्  ।

वारुणे च पुरे वासो यावदाहूत सम्प्लवम्  ॥ १०२.७ ॥

भुक्त्वा तत्र बहुं कालं मर्त्यलोकेऽभिजायते  ।

अन्नदानप्रदो नित्यं जीवेच्च शरदां शतम्  ॥ १०२.८ ॥

 

मार्कण्डेय उवाच –

ततो गच्छेच्च राजेन्द्र अग्नितीर्थमनुत्तमम्  ।

यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः  ॥ १०२.९ ॥

सर्वभक्षीकृतो यश्च दण्डके मुनिना पुरा  ।

नर्मदातटमाश्रित्य पूतो जातो हुताशनः  ॥ १०२.१० ॥

तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम्  ।

उमया सहित भक्त्या सर्वपापैः प्रमुच्यते  ॥ १०२.११ ॥

तत्र तीर्थे नरः स्नात्वा दत्ते वै कांचनं नृप  ।

ब्राह्मणेभ्यो जलं दत्त्वा लभते वार्बुदं फलम्  ॥ १०२.१२ ॥

दधिच्छन्दे मधुच्छन्दे नन्दीशे वारुणे तथा  ।

आग्नेये तत्फलं तात स्नात्वा मुच्येत किल्बिषैः  ॥ १०२.१३ ॥

ते वन्द्या मानुषे लोके धन्याश्चाप्तमनोरथाः  ।

यैर्हि दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम्  ॥ १०२.१४ ॥

स्वर्गलोकमवापुस्ते यावदिन्द्राश्चतुर्दश  ।

ततः स्वर्गाच्च्युताश्चापि राजानः सन्ति धार्मिकाः  ॥ १०२.१५ ॥

सर्वपापविनिर्मुक्ता भुञ्जते तेऽचलां महीम्  ।

आखण्डलप्रतापोऽयं नर्मदातटसेवने  ॥ १०२.१६ ॥

गङ्गाकनखले पुण्या कुरुक्षेत्रे सरस्वती  ।

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा  ॥ १०२.१७ ॥

रेवातीरं वसेन्नित्यं तोयं यस्तु सदा पिबेत् ।

स्नातोऽसौ सर्वतीर्थेषु सोमपानं दिने दिने  ॥ १०२.१८ ॥

गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च  ।

कल्पान्ते संक्षयं यान्ति न मृतैका च नर्मदा  ॥ १०२.१९ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे तीर्थपञ्चकवर्णनो नाम द्व्यधिकशततमोऽध्यायः ॥

 

 

अध्याय १०३

 

युधिष्ठिर उवाच –

हनूमदीश्वरन्नाम कथं जातं महामते  ।

ब्रह्महत्याहरं तीर्थं रेवायादक्षिणे तटे  ॥ १०३.१ ॥

 

मार्कण्डेय उवाच –

साधु पृष्टं महाबाहो सोमवंशविभूषण  ।

गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया  ॥ १०३.२ ॥

तव स्नेहात्प्रवक्ष्यामि पीडितो वार्धकेन तु  ।

जातं पूर्वं महायुद्धं रामरावणयोरपि  ॥ १०३.३ ॥

पुलस्त्यो ब्रह्मणः पुत्रस्तस्य वै विश्रवाः सुतः  ।

रावणस्तस्य संजातो दशग्रीवोऽपि राक्षसः  ॥ १०३.४ ॥

त्रैलोक्यविजयी जातः प्रसादाच्छूलिनस्तथा  ।

गीर्वाणा निर्जिताः सर्वे रामस्य गृहिणी हृता  ॥ १०३.५ ॥

यद्भ्राता कुम्भकर्णो वै सीता सा वनमाश्रिता  ।

विभीषणेन पापोऽयं मन्दस्त्यक्तो विचार्य च  ॥ १०३.६ ॥

स जितः कार्तवीर्येण स जितो जामदग्निना  ।

स हतो रामचन्द्रेण तस्य राज्यं हृतं तथा  ॥ १०३.७ ॥

ततो रामेण रक्षोऽपि जितः संख्ये महाबलः  ।

वनं भग्नं हतो रक्षो गत्वा वायुसुतेन वै  ॥ १०३.८ ॥

रावणस्य सुतः संख्ये हतश्चाक्षकुमारकः  ।

एवं रामायणे जाते सीता मोक्षे कृते ततः  ॥ १०३.९ ॥

अयोध्यायां गते रामे हनूमाश्च महाबलः  ।

कैलासं हि गतः पार्थ प्रणामार्थं महेश्वरे  ॥ १०३.१० ॥

तिष्ठ तिष्ठेति चोक्तो वै नन्दिना वानरोत्तमः  ।

ब्रह्महत्यायुतस्त्वं हि राक्षसानां वधेन हि  ॥ १०३.११ ॥

भैरवस्यासनं पुण्यं न गन्ताऽसि महाबल  ।

 

हनुमानुवाच –

नन्दिंस्त्वं हि वरं यच्छ पातकस्योपशान्तये  ॥ १०३.१२ ॥

भूत्वा निष्पातकोऽहं वै प्रणमामि महेश्वरम्  ।

 

नन्द्युवाच –

रुद्रदेहोद्भवा पुण्या नर्मदा सरितां वरा  ॥ १०३.१३ ॥

श्रवणाज्जन्मचरितं कीर्तनाद्द्विगुणं व्रजेत् ।

सप्तजन्मार्जितं पापं नश्येद्रेवावगाहनात् ॥ १०३.१४ ॥

तस्मात्तीरे वस त्वं च रेवासङ्गमदक्षिणे  ।

ध्यायमानो विरूपाक्षं त्रिशूलकरसंस्थितम्  ॥ १०३.१५ ॥

जटामुकुटसंकाशं व्यालयज्ञोपवीतकम्  ।

उमार्धाङ्गधरं देवं गोराजासनसंस्थितम्  ॥ १०३.१६ ॥

वत्सरान् सुबहून् यावद्ध्यायतस्तस्य तत्र वै  ।

तत्र तुष्टो महादेव आगतः सह भार्यया  ॥ १०३.१७ ॥

उवाच मधुरां वाणीं मेघगम्भीरया गिरा  ।

साधु वत्स त्वया चात्र कष्टं तपसि संस्थितम्  ॥ १०३.१८ ॥

हनूमांश्च हरं दृष्ट्वा उमार्धाङ्गधरं स्थितम्  ।

साष्टाङ्गं प्रणतो भूत्वा जयदेव नमोऽस्तु ते  ॥ १०३.१९ ॥

जय चान्धकघाताय बाणासुरविमर्दिने  ।

जय भूतपनाथाय जय भैरवभूषण  ॥ १०३.२० ॥

जय कामविनाशाय गङ्गां शिरसि धारिणे  ।

एवं स्तुतो महादेवो वरदो वानरस्य च  ॥ १०३.२१ ॥

 

ईश्वर उवाच –

वरं प्रार्थय त्वं वत्स प्रार्थितं रभसं वद  ।

 

हनुमानुवाच –

ब्रह्मरक्षोवधाज्जाता ब्रह्महत्या महेश्वर  ॥ १०३.२२ ॥

निष्पापोऽहं भवेयं वै युष्मत्सम्भाषणेन च  ।

 

ईश्वर उवाच –

नर्मदातीर्थं माहात्म्यध्यानयोगप्रभावतः  ॥ १०३.२३ ॥

मन्मूर्तिदर्शनात्सद्यो निष्पापो नात्र संशयः  ।

इत्युक्त्वान्तर्दधे देव उमासार्धं त्रिलोचनः  ॥ १०३.२४ ॥

हनुमदीश्वरं तत्र स्थापयामास भक्तितः  ।

आत्मयोगबलेनैव ब्रह्मचर्यप्रभावतः  ॥ १०३.२५ ॥

ईश्वरस्य प्रभावेण कामदं स्थापितं शिवम्  ।

अच्छेद्यमप्रतर्क्यं च विनाशोत्पत्तिवर्जितम्  ॥ १०३.२६ ॥

 

मार्कण्डेय उवाच –

हनुमदीश्वरे तत्र प्रत्ययं यत्पुराभवत् ।

यद्वृत्तं द्वापरस्यादौ त्रेतान्ते च नरेश्वरा  ॥ १०३.२७ ॥

सुपर्णो नाम राजर्षिर्बभूव वसुधातले  ।

तस्य राज्ये सदा सौख्यं दीर्घायुर्मानवः सदा  ॥ १०३.२८ ॥

शतबाहुर्बभूवास्य पुत्रो भीमपराक्रमः  ।

आसक्तः स सदाकालं जपध्याने नरेश्वर  ॥ १०३.२९ ॥

क्रीडते पृथिवीं सर्वां पर्वतांश्च वनानि च  ।

वधार्थं मृगयूथानामागतो विन्ध्यपर्वते  ॥ १०३.३० ॥

मृगजातिसमाकीर्णे हस्तिजातिसमाश्रिते  ।

हस्तिचित्रकशोभाढ्ये मृगवाराहसंकुले  ॥ १०३.३१ ॥

क्रीडित्वा च ततो राजा चासने संस्थितः स च  ।

वनमध्ये तदा दृष्ट्वा भ्रमन्तं पिङ्गलं द्विजम्  ॥ १०३.३२ ॥

 

राजोवाच –

एको वने वने कस्माद्भ्रमसे पुस्तिकाकरः  ।

इतश्चेतो निरीक्षंस्त्वं कथयस्व द्विजोत्तम  ॥ १०३.३३ ॥

 

ब्राह्मण उवाच –

कान्यकुब्जात्समायातः प्रेषितो राजकन्यया  ।

 

राजोवाच –

कथयस्व प्रसादेन कस्मात्कार्याद्वद प्रभो  ॥ १०३.३४ ॥

 

ब्राह्मण उवाच –

शिखण्डी चैव राजा वै कान्यकुब्जं बुभुक्षते  ।

अपुत्रः स महीपालः कन्या जाता मनोरथैः  ॥ १०३.३५ ॥

हे नृप

जातिस्मरा शुभाचारा नर्मदायाः प्रभावतः  ।

पित्रोक्ता सा च कन्या वै विवाहाय प्रकल्पिता  ॥ १०३.३६ ॥

असारे चाद्य संसारे कन्यादानं ददाम्यहम्  ।

 

कन्योवाचा॒

यस्मिन् काले ह्यहं लिप्से तस्मिन् काले प्रदीयताम्  ॥ १०३.३७ ॥

पुत्रीवाक्येन राजासौ विस्मयाविष्टचेतनः  ।

 

शिखण्ड्युवाच –

कथ्यतां मे महाभागे भाषितं हि त्वया कथम्  ॥ १०३.३८ ॥

पितृवाक्येन सा वाला शिरसावनता भुवि  ।

कथयामास यद्वृत्तं हनुमदीश्वरे नृप  ॥ १०३.३९ ॥

कलापिन्यस्म्यहं तात स्थिता भर्तृसहानुगा  ।

उरङ्गमेश सान्निध्ये रेवाया उत्तरे तटे  ॥ १०३.४० ॥

हनुमतो वने पुण्ये क्रीडामि स्म यदृच्छया  ।

भर्तृयुक्ता तत्र गुह्ये वञ्जुले सरले द्रुमे  ॥ १०३.४१ ॥

आगता लुब्धकास्तत्र क्षुधार्ता वनमुत्तमम्  ।

भर्तृकोपयुतैः पापैर्हताहं पतिना सह  ॥ १०३.४२ ॥

ग्रीवां निमोटयामासुर्भक्षणोत्पाटनं कृतम्  ।

हुताशनमुखे ते तु हसन्तश्चाशु लुब्धकाः  ॥ १०३.४३ ॥

भर्जयित्वा ततो मांसं भक्षयित्वा यथेच्छया  ।

सुप्ताः स्वस्थेन्द्रिया रात्रौ विगता शर्वरी क्षयम्  ॥ १०३.४४ ॥

तन्मांसशेषं जुष्टं वै जम्बुकैर्गृध्रवायसैः  ।

मच्छरीरोद्भवं चास्थि स्नायुमांसेन संयुतम्  ॥ १०३.४५ ॥

गृहीत्वा पत्रिणैकेन आकाशात्पतता तदा  ।

सामिषं पक्षिणं दृष्ट्वा पक्षिणोऽन्ये समागताः  ॥ १०३.४६ ॥

दृष्ट्वा पक्षिसमूहं तु अस्थिखण्डं व्यसर्जयत् ।

विहगानां समस्तानां धावतां चापि पश्यताम्  ॥ १०३.४७ ॥

पतितं नर्मदातोये हनुमदीश्वरे नृप  ।

मदीयमस्थिखण्डं च पतितं नर्मदाजले  ॥ १०३.४८ ॥

तस्य तीर्थप्रभावेण जाताहं क्षत्रिये कुले  ।

भूप कन्याप्यहं जाता सम्पूर्णशशिवन्मुखी  ॥ १०३.४९ ॥

जातिस्मरा नरेन्द्रास्मि जाताहं क्षत्रिये कुले  ।

एतत्ते सर्वमाख्यातं कारणं नृपसत्तम  ॥ १०३.५० ॥

मदर्थं विषमस्थाने शकुन्तमृगजातिषु  ।

यदि प्रेषयसे तात कमपि नर्मदाजले  ॥ १०३.५१ ॥

तस्याहं कथयिष्यामि स्थानचिह्नं समग्रकम्  ।

कन्याया वचनं श्रुत्वा शिखण्डी ह्याह मां नृप  ॥ १०३.५२ ॥

ग्रामविंशं च दास्यामि गच्छ त्वं नर्मदातटे  ।

प्रेक्षणं मे प्रतिज्ञातमलक्ष्याऽपीडितेन तु  ॥ १०३.५३ ॥

गच्छ त्वं नर्मदां पुण्यां सर्वपापक्षयंकरीम्  ।

अग्रजां सोमनाथस्य हनुमदीश्वरे शुभे  ॥ १०३.५४ ॥

अर्धक्रोशे तु रेवाया विस्तीर्णे वटपादपैः  ।

कदम्बकवनैश्चैव संप्रधाने वनस्य च  ॥ १०३.५५ ॥

न्यग्रोधवटसान्निध्ये अस्थिलक्ष्यं प्रदृश्यते  ।

मृत्तिकामस्थिसंगृह्य गच्छ रेवान् द्विजोत्तम  ॥ १०३.५६ ॥

आश्विनस्य सिते पक्षे त्रिपुरारितिथौ स्थिते  ।

स्नापय शूलिनं भक्त्या रात्रौ कुरु च जागरम्  ॥ १०३.५७ ॥

प्रभाते क्षिप्यतां शीघ्रं नाभिमात्रे जले स्थितः  ।

इत्युच्चार्य द्विजश्रेष्ठ सुगतिस्तस्य जायते  ॥ १०३.५८ ॥

अस्थि क्षिप्त्वा पुनः स्नानं कर्तव्यमघनाशनम्  ।

कथितं कन्यया यच्च तत्सर्वं पुस्तके कृतम्  ॥ १०३.५९ ॥

आगतोऽहं नृपश्रेष्ठ तस्मिंस्तीर्थे महालये  ।

साभिज्ञानं ततो दृष्ट्वा गृहीत्वास्थि नृपोत्तम  ॥ १०३.६० ॥

पूर्वोक्तेन विधानेन निक्षिप्तं नर्मदाजले  ।

पुष्पवृष्टिः पपाताथ साधु साध्विति ब्राह्मण  ॥ १०३.६१ ॥

विमानं तु ततो दिव्यं दृष्टं हनुमदीश्वरे  ।

ततो ब्राह्मणराजानौ गृहीत्वानशनं स्थितौ  ॥ १०३.६२ ॥

आत्मानं शोषयित्वा च ईश्वराराधने रतौ  ।

एवं सन्ध्यायतो देवं शतबाहुर्द्विजोत्तमः  ॥ १०३.६३ ॥

मासार्धात्तु मृतो राजा शतबाहुर्महामतिः  ।

किङ्किणीजालशोभाढ्यं विमानं तत्र चागतम्  ॥ १०३.६४ ॥

साधु साधु नृपश्रेष्ठ विमानारोहणं कुरु  ।

 

राजोवाच –

ऊर्ध्वमार्गं न गच्छामि विप्रो यावन्न संस्थितः  ॥ १०३.६५ ॥

उपदेशप्रदो मह्यं गरुरूपो द्विजोत्तमः  ।

 

देवा ऊचुः॒

हनुमदीश्वरे राजन्ये मृताः सन्ति मानवाः  ॥ १०३.६६ ॥

ते यान्ति शिवलोकं वै सर्वपापक्षयं करम्  ।

नैव पापक्षयश्चास्य ब्राह्मणस्य नरेश्वर  ॥ १०३.६७ ॥

गृहं च गृहिणी वित्तं ब्राह्मणस्य प्रवर्तते  ।

शतबाहुस्ततो विप्रं भाषयामास भक्तितः  ॥ १०३.६८ ॥

त्यज मूलमधर्मस्य लोभमेकं द्विजोत्तम  ।

इत्युक्त्वा प्रययौ राजा स्वर्गं स्वर्गिजनैः सह  ॥ १०३.६९ ॥

दिनैः कैश्चिद्गतो विप्रः स्वर्गं सुकृतिभिः सह  ।

वाहिन्याः काशिराजस्य पुत्र्याः तीर्थप्रभावतः  ॥ १०३.७० ॥

आत्मनः कन्यया दत्ते पूर्वजन्मार्जितं तपः  ।

अष्टम्यां च चतुर्दश्यां सर्वकालं मुनीश्वर  ॥ १०३.७१ ॥

विशेषादाश्विने मासे कृष्णपक्षे चतुर्दशी  ।

स्नापयेदीश्वरं भक्त्या क्षौद्रक्षीरेण सर्पिषा  ॥ १०३.७२ ॥

दध्ना च खण्डयुक्तेन तिलतोयेन वा पुनः  ।

श्रीखण्डेन सुगन्धेन चार्चयेत्तं महेश्वरम्  ॥ १०३.७३ ॥

ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूतनम्  ।

श्राद्धं यः कारयेत्तत्र ब्राह्मणैर्वेदपारगैः  ॥ १०३.७४ ॥

सर्वलक्षणसम्पूर्णैः कुलीनैर्गृहपालकैः  ।

तर्पयेद्ब्राह्मणं भक्त्या अन्नवस्त्रहिरण्यकैः  ॥ १०३.७५ ॥

नरकस्था दिवं यान्ति इत्युच्चार्य द्विजातयः  ।

स्वर्गस्थाः परमं लोकमित्युक्त्वा प्रणमेद्द्विजान्  ॥ १०३.७६ ॥

पतितान् वर्जयेद्विप्रान् वृषली यस्य मन्दिरे  ।

स्ववृषं तु परित्यज्य वृषैरन्यैर्वृषायते  ॥ १०३.७७ ॥

वृषलीं तां विदुर्देवा न शूद्रा वृषली भवेत् ।

ब्रह्महत्या सुरापानं गुरुदारनिषेवणम्  ॥ १०३.७८ ॥

सुवर्णहरणं तस्य मित्रद्रोहभवं तथा  ।

नश्यन्ति पातकाः सर्वे इत्येवं शङ्करोऽब्रवीत् ॥ १०३.७९ ॥

वाक्प्रलापेन किं वत्स बहुनोक्तेन किं तु वा  ।

सर्वपापसमोपेतो दद्याद्दानं द्विजोत्तमे  ॥ १०३.८० ॥

सर्वदेवमयी धेनुः सर्वदेवात्मिका स्थिता  ।

शृङ्गाग्रेषु महीपाल शक्रो वसति नित्यशः  ॥ १०३.८१ ॥

हरि स्कन्धे शिरो ब्रह्मा ललाटे वृषवाहनः  ।

चन्द्रार्कौ लोचने ज्ञेयौ जिह्वायां तु सरस्वती  ॥ १०३.८२ ॥

मरुद्गणाः सदा साध्यास्तस्याङ्गानि नरेश्वर  ।

ओंकारश्चतुरो वेदाः सषडङ्गपदक्रमाः  ॥ १०३.८३ ॥

ऋषयो रोमकूपेषु अस्थिख्याता महानगाः  ।

दण्डहस्तो महाकायः कृष्णो महिषवाहनः  ॥ १०३.८४ ॥

पृष्ठभागस्थितो नित्यं शुभाशुभनिरीक्षकः  ।

चत्वारः सागराः पुण्याः क्षीरधाराः स्तनेषु च  ॥ १०३.८५ ॥

विष्णुदेहोद्भवा गङ्गा दर्शनात्पापहारिणी  ।

एवं या संस्थिता यस्मात्तस्मादेषा सदा बुधैः  ॥ १०३.८६ ॥

लक्ष्मीश्च गोमये यस्याः पवित्रा सर्वमङ्गला  ।

गोमयाल्लेपनं तस्मात्कर्तव्यं पाण्डुनन्दन  ॥ १०३.८७ ॥

गन्धर्वाप्सरसो गङ्गा गोखुरेषु च संस्थिताः  ।

अश्विनौ कर्णयोर्नित्यं वर्तेते रविपुत्रकौ  ॥ १०३.८८ ॥

पृथिव्यां सागरान्तायां यानि तीर्थानि पाण्डव  ।

तानि सर्वाणि प्राप्तानि गवां पादेषु नित्यशः  ॥ १०३.८९ ॥

 

युधिष्ठिर उवाच –

सर्वतीर्थसमा गावो गीर्वाणैः समलंकृताः  ।

एतत्कथय मे तात कस्माद्गोषु समाश्रिताः  ॥ १०३.९० ॥

 

मार्कण्डेय उवाच –

सर्वदेवमयो विष्णुर्गावो विष्णुशरीरजाः  ।

देयास्तस्मात्सदा वन्द्याः कल्पिता विबुधैर्जनैः  ॥ १०३.९१ ॥

श्वेता वा कपिला वापि क्षीरिणी पाण्डुनन्दन  ।

सर्वासां क्षीरिणीर्गावः श्वेतवस्त्रावगुण्ठिताः  ॥ १०३.९२ ॥

कांस्यदोहनिका देयाः स्वर्णशृङ्गीर्विभूषिताः  ।

हनूमदीश्वरस्याग्रे भक्त्या विप्रेषु दापयेत् ॥ १०३.९३ ॥

निसर्गस्थेन सा देया स्वर्गमात्मन इच्छता  ।

असमर्थो यमस्तेषां विष्णुलोकं प्रयान्ति ते  ॥ १०३.९४ ॥

विष्णुलोकच्युतः सोऽपि प्रयाति द्विजमन्दिरम्  ।

तत्रैव जायते पुत्रो विद्वान् वनसमन्वितः  ॥ १०३.९५ ॥

सर्वपापहरं तीर्थं हनुमदीश्वरं शुभम्  ।

शृणोति मुच्यते पापाद्वर्णसङ्करसम्भवात् ॥ १०३.९६ ॥

दर्शे संचिन्तयेद्यस्तु मुच्यते नात्र संशयः  ॥ १०३.९७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे हनुमदीश्वरवर्णनो नाम त्र्यधिकशततमोऽध्यायः ॥

 

 

अध्याय १०४

 

मार्कण्डेय उवाच –

आश्चर्यं कथितं तात यदभून्नर्मदातटे  ।

सोमनाथस्यतीर्थं हि वाराणस्या समं नृप  ॥ १०४.१ ॥

 

युधिष्ठिर उवाच –

निमग्नो दुःखसंसारे हृतराज्यो द्विजोत्तम  ।

युष्मद्वाणी जलैः स्नातो निर्दुःखोऽहं सबान्धवः  ॥ १०४.२ ॥

 

मार्कण्डेय उवाच –

साधु साधु महाबाहो सोमवंश विभूषण  ।

पृष्टं ते दुर्लभं तीर्थं गुह्याद्गुह्यतरं यथा  ॥ १०४.३ ॥

आदौ पितामहस्तात समस्तस्य जनस्य च  ।

मनसा तस्य संजाता ऋषयो दश पुङ्गवाः  ॥ १०४.४ ॥

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः  ।

प्रचेताश्च वशिष्ठश्च भृगुर्नारद एव च  ॥ १०४.५ ॥

जज्ञे प्रचेतसो दक्षो महातेजाः प्रजापतिः  ।

दक्षस्यापि सुता जाताः पञ्चाशत्कन्यकाः किल  ॥ १०४.६ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश  ।

तथैव च महाभाग सप्तविंशतिमिन्दवे  ॥ १०४.७ ॥

तासां हि रोहिणी चन्द्रस्याभीष्टा साभवत्तदा  ।

तस्याश्च कारणं कृत्वा शप्तो दक्षेण चन्द्रमाः  ॥ १०४.८ ॥

क्षयरोग्यभवच्चन्द्रो विवक्षायाः प्रजापतेः  ।

दक्षशापप्रभावेण निस्तेजाः शर्वरीपतिः  ॥ १०४.९ ॥

गतः पितामहं सोमो वेपमानः प्रणम्य च  ।

ब्रह्मयोने नमस्तुभ्यं वेदगर्भ नमोऽस्तु ते  ॥ १०४.१० ॥

 

ब्रह्मोवाच –

सर्वत्र दुर्लभा रेवा त्रिषु स्थानेषु भारत  ।

ओंकारे च भृगुक्षेत्रे नर्मदा ह्युरगेश्वरे  ॥ १०४.११ ॥

काष्ठवत्संस्थितः सोमो ध्यायते परमेश्वरम्  ।

यावद्वर्षशतं पूर्णं तावत्तुष्टो महेश्वरः  ॥ १०४.१२ ॥

प्रेत्यक्षः सोमनाथस्य वृषासन उमार्धगः  ।

साष्टाङ्गं प्रणतो भूत्वा जय देव नमोऽस्तु ते  ॥ १०४.१३ ॥

जय शङ्कर पापकृतान्त नमो जय ईश्वर नाथ नमोऽस्तु नमः  ।

जय वासुकिभूषण भूतपते जय शूलकपालधराय नमः  ॥ १०४.१४ ॥

जय अन्धकदेहविनाश नमो जय दानवदेहवधाय नमः  ।

जय निष्कलसकलकलाय नमो जय कालकलादमनाय नमः  ॥ १०४.१५ ॥

जय नीलकण्ठ उमापते जय सूक्ष्मनिरञ्जनशब्द नमः  ।

जय आद्य अनाद्य अनन्त नमो जय पाणिपिनाकत्रिशूल नमः  ॥ १०४.१६ ॥

एवं स्तुतो महादेवः सोमनाथेन पाण्डव  ।

तुष्टस्तस्य नृपश्रेष्ठ उमया सह शङ्करः  ॥ १०४.१७ ॥

 

ईश्वर उवाच –

वरं वरय भद्रं ते यत्ते मनसि वर्तते  ।

 

सोम उवाच –

दक्षशापेन दग्धोऽहं क्षीणदेहो महेश्वर  ॥ १०४.१८ ॥

पापप्रशमनं देव कुरु सर्वं ममैव तु  ।

 

महेश्वर उवाच –

भवद्भक्तिगृहीतोऽहं तूष्टश्चैवोमया सह  ॥ १०४.१९ ॥

निष्पापः सोमनाथस्य संजातस्तीर्थसेवनात् ।

इत्युक्त्वान्तर्दधे देवः सोमो ध्यात्वा क्षणं नृप  ॥ १०४.२० ॥

स्थापयामास लिङ्गं तु सिद्धिदं प्राणिनां भुवि  ।

सर्वदुःखहरं देवं ब्रह्महत्याविनाशनम्  ॥ १०४.२१ ॥

 

मार्कण्डेय उवाच –

सोमनाथप्रभावं च संक्षेपात्कथयामि ते  ।

शम्बरो नाम राजाभूत्तस्य पुत्रस्त्रिलोचनः  ॥ १०४.२२ ॥

त्रिलोचनसुतः कण्ठः पापनिष्ठो महाधमः  ।

वने विभ्रमतस्तस्य मृगयूथं त्वदृश्यत  ॥ १०४.२३ ॥

मृगयूथं हतं सर्वं त्रिलोचनसुतेन च  ।

मृगरूपी द्विजो मध्ये विचरन्निर्जने वने  ॥ १०४.२४ ॥

तदा हतस्तु शस्त्रेण कण्ठेन ऋषिसत्तमः  ।

ब्रह्महत्यायुतः कण्ठो निस्तेजा व्यचरन्महीम्  ॥ १०४.२५ ॥

विचरन्नपि संप्राप्तो नर्मदानागसंगमे  ।

कदम्बपाटलाकीर्णे बिल्वनारङ्गशोभिते  ॥ १०४.२६ ॥

चिञ्चिनी चम्पकोपेते अगस्तितरुशोभिते  ।

उन्मत्तभृङ्गसंयुक्ते तथा सर्वत्र शोभिते  ॥ १०४.२७ ॥

चित्रकैर्मृगमार्जारैः सिंहैः सर्वत्र शूकरैः  ।

शशकैर्गवयैर्युक्ते शिखण्डिरवनादिते  ॥ १०४.२८ ॥

प्रविष्टस्तद्वने कण्ठस्तृषार्तः श्रमकर्षितः  ।

स्नातो रेवाजले पुण्ये सङ्गमे पापनाशने  ॥ १०४.२९ ॥

पत्राणि च विचित्राणि भक्षयन् सह किङ्करैः  ।

सुप्तः पादपछायायां श्रान्तो मृगवधेन च  ॥ १०४.३० ॥

आनर्च परया भक्त्या सोमनाथं युधिष्ठिर  ।

पीत्वा तोयं कण्ठमात्रं सर्वपापक्षयंकरम्  ॥ १०४.३१ ॥

तावत्तीर्थवरे विप्रः स्नानार्थं संगमं प्रति  ।

मार्गगो ब्राह्मणो भूयस्ततस्तद्गतमानसः  ॥ १०४.३२ ॥

मार्गे वृक्षे समारूढा स्त्री चैका च भयङ्करी  ।

उवाच ब्राह्मणं सा हि तिष्ठ तिष्ठ द्विजोत्तम  ॥ १०४.३३ ॥

त्रस्तो निरीक्षते यावद्दिशः सर्वा नरेश्वर  ।

तावद्वृक्ष समारूढां स्त्रियं रक्ताम्बरावृताम्  ॥ १०४.३४ ॥

रक्तपुष्पधरां वालां रक्तचन्दनचर्चिताम्  ।

रक्ताभरणशोभाढ्यां पाशहस्तां ददर्श ह  ॥ १०४.३५ ॥

 

स्त्र्युवाच –

सन्देशं शृणु मे विप्र यदि गच्छसि संगमम्  ।

मद्भर्ता तिष्ठते तत्र शीघ्रमेव विसर्जय  ॥ १०४.३६ ॥

एकाकिनी च ते भार्या तिष्ठते वनमध्यगा  ।

इत्याकर्ण्य गतो विप्रः सङ्गमं सुरदुर्लभम्  ॥ १०४.३७ ॥

वृक्षछायास्थितं कण्ठं ब्राह्मणो हि ददर्श ह  ।

 

ब्राह्मण उवाच –

वनान्ते च मया दृष्टा बाला कमललोचना  ॥ १०४.३८ ॥

रक्ताम्बरधरा तन्वी रक्तचन्दनर्चर्चिता  ।

रक्तमाल्या सुशोभाढ्या पाशहस्ता मृगेक्षणा  ॥ १०४.३९ ॥

वृक्षारूढावदद्वाक्यं भर्तारं प्रेषयस्व माम्  ।

 

कण्ठ उवाच –

कस्मिन् स्थाने तु विप्रेन्द्र तिष्ठते मृगलोचना  ॥ १०४.४० ॥

कस्य सा केन कार्येण एतत्सर्वं वद हि मे  ।

 

ब्राह्मण उवाच –

संगमादर्धक्रोशे च उद्यानान्ते प्रशोभिते  ॥ १०४.४१ ॥

तत्र तिष्ठति सा नारी सोत्कण्ठितमना विभो  ।

ततो भृत्यमुवाचेदं कण्ठो राजा युधिष्ठिर  ॥ १०४.४२ ॥

पृच्छ त्वं गच्छ का चासि आगता क्व गमिष्यसि  ।

ततः क्षिप्रं गतस्तत्र यत्र नारी स्थिताभवत् ॥ १०४.४३ ॥

वृक्षस्थां ददृशे बालामुवाच नृपसत्तम  ।

त्वां राजा पृच्छते बाले कासि त्वं क्व गमिष्यसि  ॥ १०४.४४ ॥

 

स्त्र्युवाच –

गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम्  ।

इह प्रच्छन्नपापानां शास्ता वैवस्वतो यमः  ॥ १०४.४५ ॥

ब्रह्महत्यास्य संजाता मृगरूपद्विजोद्वधात् ।

मया युक्तोऽपि राजासौ मुक्तस्तीर्थप्रभावतः  ॥ १०४.४६ ॥

अत्रार्धक्रोशमात्रं वै ब्रह्महत्या न संविशेत् ।

सोमनाथप्रभावाच्च तीर्थं वाराणसीसमम्  ॥ १०४.४७ ॥

गच्छ त्वं प्रेषयेः कण्ठं शीघ्रमेव न संशयः  ।

समस्तं कथयामास तद्वृत्तान्तं नृपं प्रति  ॥ १०४.४८ ॥

तस्य वाक्येन राजासौ पपात धरणीतले  ।

 

भृत्य उवाच –

कस्मात्त्वं शोचसे नाथ पूर्वजातं शूभाशुभम्  ॥ १०४.४९ ॥

इत्याकर्ण्य वचस्तस्य स राजा त्विदमब्रवीत् ।

प्राणत्यागं करोम्यत्र सोमनाथ समीपतः  ॥ १०४.५० ॥

शीघ्रमानीयतां वह्णिरिन्धनानि बहून्यपि  ।

आनीतं तत्क्षणात्सर्वं भृत्यैः स्वैर्वशवर्तिभिः  ॥ १०४.५१ ॥

स्नानं कृत्वा शुभे तोये संगमे पापनाशने  ।

अर्चित्वा परया भक्त्या सोमनाथं नरेश्वर  ॥ १०४.५२ ॥

त्रिःप्रदक्षिणकं कृत्वा ज्वलिते जातवेदसि  ।

प्रविष्टः कण्ठराजस्तु हृदि कृत्वा जनार्दनम्  ॥ १०४.५३ ॥

पीताम्बरधरं देवं महामुकुटधारिणम्  ।

विष्णोर्ध्यानेन चात्रैव सुगतिर्मे भवत्विति  ॥ १०४.५४ ॥

पपात पुष्पवृष्टिश्च साधु साधु नृपात्मज  ।

आश्चर्यमतुलं दृष्ट्वा निरीक्ष च परस्परम्  ॥ १०४.५५ ॥

हुतं तैः पावके भृत्यैर्हृदि ध्यात्वा गदाधरम्  ।

विमानस्था दिवं सर्वे सङ्गताः पाण्डुनन्दन  ॥ १०४.५६ ॥

 

मार्कण्डेय उवाच –

सोमनाथप्रभावोऽयं शृणुष्वैकमना नृप  ।

अष्टम्यां च चतुर्दश्यां सर्वकाले शुभे दिने  ॥ १०४.५७ ॥

विशेषाच्छुक्लपक्षे च सूर्यवारेण सप्तमी  ।

उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम्  ॥ १०४.५८ ॥

पञ्चामृतेन गव्येन स्नापयेत्परमेश्वरम्  ।

श्रीखण्डलेपनं कुर्यात्पुष्पधूपादिकं तथा  ॥ १०४.५९ ॥

घृतेन बोधयेद्दीपं गीतं नृत्यं च कारयेत् ।

सोमवारेण चाष्टम्यां प्रभाते पूजयेद्द्विजम्  ॥ १०४.६० ॥

आत्मवन्तं जितक्रोधं द्विजनिन्दाविवर्जितम्  ।

सर्वाङ्गरुचिरं शान्तं स्वदारपरिपालकम्  ॥ १०४.६१ ॥

गायत्रीं पठमानं च विकर्मरहितं सदा  ।

पुनर्भूर्वृषली शूद्री वर्तते यस्य मन्दिरे  ॥ १०४.६२ ॥

हीनाङ्गास्त्वतिरिक्ताङ्गा येषां पूर्वापरे न हि  ।

व्रते श्राद्धे तथा दाने द्विजा वर्ज्याः सदा बुधैः  ॥ १०४.६३ ॥

पुंश्चली तरुणी भार्या द्विजः स्वाध्यायवर्जितः  ।

आत्मना सह दातारमधो नयति पाण्डव  ॥ १०४.६४ ॥

शाल्मली नौकया तुल्याः स्वधर्मनिरता द्विजाः  ।

दातारं चैवमात्मानं तारयन्ति तरन्ति च  ॥ १०४.६५ ॥

श्राद्धं सोमेश्वरे पार्थ यः कुर्यादुत मानवः  ।

पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम्  ॥ १०४.६६ ॥

अन्नं वस्त्रं हिरण्यं च यो दद्यादग्रजन्मने  ।

स याति शाङ्करं लोकमिति मे सत्यभाषितम्  ॥ १०४.६७ ॥

हयं यो वै ददात्यत्र सम्पूर्णाभरणान्वितम्  ।

रक्तं वा पीतवर्णं वा सर्वलक्षणलक्षितम्  ॥ १०४.६८ ॥

कुङ्कुमेन विलिप्ताङ्गमप्रजं च ददेदिति  ।

स्रग्दामभूषितं कण्ठे सितवस्त्रावगुण्ठितम्  ॥ १०४.६९ ॥

अङ्घ्रिराधीयतां स्कन्धे मदीयं हयमारुह  ।

आरूढे ब्राह्मणे भूयो भास्करः प्रीयतामिति  ॥ १०४.७० ॥

स याति शाङ्करं लोकं सर्वपापविवर्जितः  ।

तस्माल्लोकाच्च्युतश्चापि राजा भवति धार्मिकः  ॥ १०४.७१ ॥

तस्य वंशे सदा राज्यं न नश्यति कदाचन  ।

दीर्घायुर्जायते पुत्रो भार्या च वशवर्तिनी  ॥ १०४.७२ ॥

जीवेद्वर्षशतं साग्रं सर्वदुःखविवर्जितः  ।

सोमस्य चोपरागे तु यो गच्छेद्विजितेन्द्रियः  ॥ १०४.७३ ॥

सोपवासो जितक्रोधो गां तु दद्याद्द्विजन्मने  ।

सवत्सां क्षीरसंयुक्तां श्वेतवर्णां बलान्विताम्  ॥ १०४.७४ ॥

शबलीं पीतवर्णां वा धूम्रां वा नीलकन्धराम्  ।

कपिलां वा सवस्त्रां वा घण्टाभरणभूषिताम्  ॥ १०४.७५ ॥

रौप्यखुरां कांस्यदोहां स्वर्णशृङ्गीं नरेश्वर  ।

श्वेतया वर्धते वंशो रक्ता सौभाग्यवर्धिनी  ॥ १०४.७६ ॥

शबली ताम्रवर्णा च दुःखघ्ना च प्रकीर्तिता  ।

कपिला तु हरेत्पापं त्रिजन्मभिरुपार्जितम्  ॥ १०४.७७ ॥

तस्य लोकमवाप्नोति मान्धातुश्च जनेश्वर  ।

पक्षान्ते च व्यतीपाते वैधृतौ रविसंक्रमे  ॥ १०४.७८ ॥

दिनक्षये गजच्छाया ग्रहणे भास्करस्य च  ।

ये व्रजन्ति विशुद्धाङ्गा वैरञ्च्ये सुरदुर्लभे  ॥ १०४.७९ ॥

मातृहा गुरुहा यो हि आत्महा तु विशेषतः  ।

द्रुपदाद्यं जपेन्नित्यं प्राणायामं तथा नृप  ॥ १०४.८० ॥

गायत्रीं वैष्णवीं चैव सौरीं शैवीं यदृच्छया  ।

सोऽपि पापैः प्रमुच्येत इत्येवं शङ्करोऽब्रवीत् ॥ १०४.८१ ॥

यः कुर्यात्सोमनाथस्य तत्र कर्ता प्रदक्षिणम्  ।

प्रदक्षिणीकृतं तेन जम्बूद्वीपं नरेश्वर  ॥ १०४.८२ ॥

ब्रह्महत्या सुरापानं गुरुदारनिषेवणम्  ।

भ्रूणहा शुध्यते तत्र एवमेव न संशयः  ॥ १०४.८३ ॥

तीर्थाख्यानमिदं पुण्यं यः शृणोति जितेन्द्रियः  ।

व्याधितो राजरोगेन अतुलां श्रियमाप्नुयात् ॥ १०४.८४ ॥

पुत्रार्थी लभते पुत्रं निष्कामः स्वर्गमाप्नुयात् ।

मुच्यते सर्वपापेभ्यस्तीर्थं श्रुत्वा वरं नृप  ॥ १०४.८५ ॥

एतत्ते सर्वमाख्यातं सोमनाथस्य यत्फलम्  ॥ १०४.८६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे सोमनाथतीर्थमहिमानुवर्णनो नाम चतुरधिकशततमोऽध्यायः ॥

 

 

अध्याय १०५

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र पिङ्गलावर्तकं नृप  ।

सङ्गमस्य समीपस्थं रेवाया उत्तरे तटे  ॥ १०५.१ ॥

हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः  ।

 

युधिष्ठिर उवाच –

हव्यवाहेन विप्रेन्द्र स्थापितश्चेश्वरः कथम्  ॥ १०५.२ ॥

 

मार्कण्डेय उवाच –

रेतसा यदि रुद्रेण तर्पितो हव्यवाहनः  ।

प्राप्तो रुद्रेण सौम्येन देहं प्राप्य जगाम सः  ॥ १०५.३ ॥

हव्यवाहमुखे क्षिप्ते रुद्रेणामिततेजसा  ।

रुद्रस्य तेजसा दग्धः तीर्थयात्रां करोति सः  ॥ १०५.४ ॥

चचार परया भक्त्या ध्यानमुग्रं हुताशनः  ।

वायुभक्षः शतं साग्रं यावदासीथुताशनः  ॥ १०५.५ ॥

तावत्तुष्टो महादेवो हुताशनमुवाच ह  ।

हव्यवाह वरं ब्रूहि यत्ते मनसि वर्तते  ॥ १०५.६ ॥

 

हुताशन उवाच –

नमस्ते सर्वलोकेश उग्ररूप नमोऽस्तु ते  ।

युष्मद्रेतेन संप्लुष्टः कुब्जो जातो महेश्वर  ॥ १०५.७ ॥

शरीरार्तो ह्यहं कृष्णः संस्थितो नर्मदातटे  ।

इत्युक्त्वान्तर्दधे देवो नीरुजस्त्वं भविष्यसि  ॥ १०५.८ ॥

हव्यवाहेन राजेन्द्र स्थापितः पिङ्गलेश्वरः  ।

जितक्रोधोऽपि यस्तत्र उपवासं समाचरेत् ॥ १०५.९ ॥

अतिरात्रफलं तत्र अन्ते रुद्रमवाप्नुयात् ।

गुणान्विताय दीनाय कपिलां तत्र भारत  ॥ १०५.१० ॥

अलंकृत्वा सवस्त्रां च सवत्सां रूपसंयुताम्  ।

यः प्रयच्छति विप्राय स गच्छेत्परमं पदम्  ॥ १०५.११ ॥

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम्  ।

स्थापितं ह्यृषिसङ्घैश्च ब्रह्मवंशोद्भवैर्द्विजैः  ॥ १०५.१२ ॥

ऋणमोचनविख्यातं रेवातटसमाश्रितम्  ।

षण्मासं मनुजो भक्त्या तत्र यस्तर्पयेत्पितॄन्  ॥ १०५.१३ ॥

दिव्यैः पित्र्यैर्मनुष्यैश्च ऋणैरात्मकृतैः सह  ।

मुच्यते तत्क्षणात्सोऽथ स्नात्वा वै नर्मदाजले  ॥ १०५.१४ ॥

प्रत्यक्षं पातकं तत्र दृश्यते चैव रूपि च  ।

तत्र तीर्थे तु यो राजन्नेकचित्तो जितेन्द्रियः  ॥ १०५.१५ ॥

स्नानं दानं नरो धीमान् कारयेद्भक्तितत्परः  ।

ऋणत्रयविमुक्तस्तु वीर्यवान्मोदते दिवि  ॥ १०५.१६ ॥

 

मार्कण्डेय उवाच –

तस्यैवानन्तरं पार्थ कपिलातीर्थमुत्तमम्  ।

स्थापितं कपिलेनैव सर्वपापप्रणाशनम्  ॥ १०५.१७ ॥

अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर  ।

स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा  ॥ १०५.१८ ॥

मधुना खण्डयुक्तेन दध्यक्षतफलेन च  ।

कपिलेशं नृपश्रेष्ठ निशीथे तं जगत्प्रभुम्  ॥ १०५.१९ ॥

श्रीखण्डेन सुगन्धेन गुण्ठयेच्च महेश्वरम्  ।

ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपनन्दन  ॥ १०५.२० ॥

अर्चयन्ति जितक्रोधा न ते यान्ति यमालयम्  ।

असिपत्रवनं घोरं यमवल्लीं सुदारुणाम्  ॥ १०५.२१ ॥

ते व्रजन्ति सुखं पार्थ कपिलेशे सुपूजिते  ।

स्नात्वा रेवाजले पुण्ये पूजयेद्ब्राह्मणं शुभम्  ॥ १०५.२२ ॥

गोप्रदानेन वस्त्रेण अन्नेन किल भारता  ।

छत्रशय्याप्रदानेन भूमौ राजा भवेत्तु सः  ॥ १०५.२३ ॥

नीरोगस्तीव्रतेजाश्च जीवत्पुत्रः प्रियंवदः  ।

शत्रवो मित्रतां यान्ति जायते नात्र संशयः  ॥ १०५.२४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे कपिलेश्वरमहिमानुवर्णनो नाम पञ्चाधिकशतमोऽध्यायः ॥

 

 

अध्याय १०६

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र पूतकेश्वरमुत्तमम्  ।

नर्मदादक्षिणे कूले सर्वपापक्षयंकरम्  ॥ १०६.१ ॥

सुस्थापितः शिवस्तत्र लोकानां हितकाम्यया  ।

यस्तत्र मनुजः शम्भुं पूजयेत्पाण्डुनन्दन  ॥ १०६.२ ॥

सर्वान् कामानवाप्नोति न स याति यमालयम्  ।

कृष्णाष्टम्यां चतुर्दश्यां सर्वकामा नराधिप  ॥ १०६.३ ॥

येऽर्चयन्ति महाकालं न ते यान्ति यमालयम्  ॥ १०६.४ ॥

जलशायीति नाम्ना वै विख्यातं वसुधातले  ।

दानवानां वधं कृत्वा सुप्तस्तत्र जनार्दनः  ॥ १०६.५ ॥

चक्रं च क्षालितं तत्र देवदेवेन शौरिणा  ।

सुदर्शनं च निष्पापं रेवातोयप्रभावतः  ॥ १०६.६ ॥

 

युधिष्ठिर उवाच –

चक्रतीर्थं समाचक्ष्व ऋषिसङ्घैर्निषेवितम्  ।

विष्णोः प्रभावमतुलं रेवायाश्चैव यत्फलम्  ॥ १०६.७ ॥

 

मार्कण्डेय उवाच –

साधु साधु महाभाग विष्णुना च युधिष्ठिर  ।

गृह्याद्गुह्यतरं तीर्थं निर्मितं चक्रिणा स्वयम्  ॥ १०६.८ ॥

तत्तेऽहं सम्प्रवक्ष्यामि कथां पापप्रणाशिनीम्  ।

आसीत्पुरा महादैत्यो नलमेघ इति श्रुतः  ॥ १०६.९ ॥

तेन देवा जिताः सर्वे हृतराज्या नराधिप  ।

नलमेघभयात्पार्थ विष्णुरुद्राः सवासवाः  ॥ १०६.१० ॥

यमस्कन्दजलेशाग्निवायवो वै धनेश्वरः  ।

वसुवाक्पतिसिद्धाश्च प्रचेताश्च पितामहः  ॥ १०६.११ ॥

गता देवाः परं लोकं विष्णुरुद्रनमस्कृतम्  ।

स्तुवन्ति विविधैः स्तोत्रैर्वागीशप्रमुखा सुराः  ॥ १०६.१२ ॥

नमः शिवमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने  ।

गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे  ॥ १०६.१३ ॥

इन्द्रादिप्रमुखान् देवान् विवर्णानवनीपते  ।

प्रसादाभिमुखो देवः प्रत्युवाच दिवौकसः  ॥ १०६.१४ ॥

स्वागतं सुरसङ्घाश्च कान्तिर्नष्टा पुरातनी  ।

हिमप्लुष्टप्रभाणीव ज्योतिषां च मुखानि वै  ॥ १०६.१५ ॥

प्रसभादर्चिषामेतदनुद्गीर्णं सुरायुधम्  ।

वृत्रस्य हन्तुः कुलिशं कुण्ठितश्रीव लक्षते  ॥ १०६.१६ ॥

किंचायमरिदुर्वारः पाणौ पाशः प्रचेतसः  ।

मन्त्रोपहृतवीर्यस्य फणिनो दैन्यमागतः  ॥ १०६.१७ ॥

कुबेरस्य मनः शल्यं शंसतीव पराभवम्  ।

अपविद्धाङ्गदो बाहुर्भग्नशाख इव द्रुमः  ॥ १०६.१८ ॥

यमोऽपि व्यलिखद्भूमिं दण्डेनापि हतत्विषा  ।

कुरु तस्मै नमो देहनिर्विण्णो याति लाघवम्  ॥ १०६.१९ ॥

अमी च द्वादशादित्याः प्रतापक्षयशीतलाः  ।

चित्रन्यस्ता इव गताः प्रकामालोकनीयताम्  ॥ १०६.२० ॥

मयि सृष्टिश्च लोकानां रक्षा युष्मास्ववस्थिता  ।

ततो मन्दानिलोद्भूतकमलाकरशोभिना  ॥ १०६.२१ ॥

गुरुनेत्रसहस्रेण प्रेरयामास वृत्रहा  ।

सद्विनेत्रो हरस्त्र्यक्षः सहस्रनयनाधिकौ  ॥ १०६.२२ ॥

वाचस्पतिरुवाचेदं प्राञ्जलिर्हंसवाहनम्  ।

युष्मद्वंशोद्भवस्तात नलमेघो महाबलः  ॥ १०६.२३ ॥

तेन देवगणाः सर्वे निरस्ता दानवेन च  ।

नलमेघो न वध्योऽतश्चलितेन मया सुरैः  ॥ १०६.२४ ॥

विना माधवदेवेन साध्यो भवति नैव हि  ।

शङ्खपद्मगदापाणे जय चक्रधर प्रभो  ॥ १०६.२५ ॥

इति देवस्तुतिं श्रुत्वा प्रबुद्धो जलशायिकः  ।

उवाच मधुरां वाणीं मेघगम्भीरया गिरा  ॥ १०६.२६ ॥

किमर्थं बोधितो ब्रह्मन् समस्तैश्च सुरासुरैः  ।

 

ब्रह्मोवाच –

नलमेघभयेनेह सम्प्राप्तास्तव मन्दिरम्  ॥ १०६.२७ ॥

न वध्यः कस्यचित्पापो नलमेघो जनार्दन  ।

तव हस्तेन दुष्टात्मा मृत्युं प्राप्स्यति नान्यथा  ॥ १०६.२८ ॥

 

जनार्दन उवाच –

स्वस्थानं यान्तु गीर्वाणा वधिष्यामि महाबलम्  ।

स्थानं शंसन्तु मे देवा वसते यत्र दुर्मतिः  ॥ १०६.२९ ॥

 

देवा ऊचुः॒

हिमालयगुहां कृष्ण वसते दानवेश्वरः  ।

चतुर्विंशत्सहस्रैस्तु कन्याभिस्तु समावृतः  ॥ १०६.३० ॥

तुरङ्गैः स्यन्दनैश्चैव संख्या तेषां न विद्यते  ।

भवनानि विचित्राणि असंख्यानि बहून्यपि  ॥ १०६.३१ ॥

द्विरदाः पर्वताकारा हयाश्च द्विरदोपमाः  ।

महाबलोऽवसत्तत्र गीर्वाणभयदायकः  ॥ १०६.३२ ॥

श्रुत्वा देवो वचस्तेषां देवानामातुरात्मनाम्  ।

गरुडं चिन्तयामास शत्रुसङ्घविदारणम्  ॥ १०६.३३ ॥

चक्रं करेण संगृह्य गदां शङ्खं ततः प्रभुः  ।

शार्ङ्गं च मुशलं सीरं गृहीत्वा हि जनार्दनः  ॥ १०६.३४ ॥

आरूढः पक्षिराजं तु वधार्थं दानवस्य च  ।

दानवस्य गृहे पार्थ उत्पाता घोरदर्शनाः  ॥ १०६.३५ ॥

गोमायुर्गृहमध्ये तु कपोतो गृहमाविशत् ।

विना वातेन तस्यैव ध्वजदण्डं पपात ह  ॥ १०६.३६ ॥

सर्पमूषकयोर्बुद्धं तथा केशरिनागयोः  ।

उन्मार्गाः सरितस्तत्र वहन्ते चक्रमाश्रिताः  ॥ १०६.३७ ॥

अकाले तरुपुष्पाणि दृश्यन्ते तत्र पर्वते  ।

ततः प्राप्तो जगन्नाथो हिमवन्तं नगेश्वरम्  ॥ १०६.३८ ॥

पाञ्चजन्यं च कृष्णेन पूरितं पुरसन्निधौ  ।

पाञ्चजन्यस्य शब्देन आरूढो दानवेश्वरः  ॥ १०६.३९ ॥

 

नलमेघ उवाच –

कोऽयं मृत्युवशं प्राप्तस्त्वज्ञानेन समावृतः  ।

धुन्धुमार व्रज शीघ्रं स्वसैन्यपरिवारितः  ॥ १०६.४० ॥

बलादानय तं बद्ध्वा ममाग्रे बलशालिनम्  ।

 

धुन्धुमार उवाच –

आनयामि न सन्देहः सुरपक्षांश्च साम्प्रतम्  ॥ १०६.४१ ॥

स्यन्दनैश्च समायुक्तो गजवाजिभटैः सह  ।

दृष्टस्तातो जगद्योनिः सुपर्णस्थो महाबलः  ॥ १०६.४२ ॥

गृह्यतां गृह्यतामेष इत्युक्तास्ते च किङ्कराः  ।

चतुर्दिक्षु च वर्तन्ते किङ्कराः केशवस्य च  ॥ १०६.४३ ॥

सुपर्णेनाग्निबाणेन हन्यन्ते शलभा इव  ।

धुन्धुमारोऽपि कृष्णेन शरघातेन ताडितः  ॥ १०६.४४ ॥

हतो वक्षस्थलोपान्ते पतितः स्यन्दनोपरि  ।

हाहाकारं ततः सर्वे दानवाश्चक्रुरुद्यताः  ॥ १०६.४५ ॥

नलमेघस्ततः क्रुद्धो रथारूढो विनिर्गतः  ।

ददर्श केशवं पार्थ शङ्खचक्रगदाधरम्  ॥ १०६.४६ ॥

 

नलमेघ उवाच –

हन्यतां दानवाः कृष्णो निहतो येन दानवः  ।

हत्वा च मे चमूमुख्यमधुना च क्व यास्यति  ॥ १०६.४७ ॥

इत्युक्त्वा दानवः पार्थ धर्षयामास सायकैः  ।

दानवस्य शरांस्तत्र छेदयामास केशवः  ॥ १०६.४८ ॥

गरुत्मान् भक्षयामास तत्सैन्यमतिभीषणम्  ।

कृष्णेन द्विगुणास्तत्र प्रेषिता हि शिलीमुखाः  ॥ १०६.४९ ॥

द्विगुणाद्द्विगुणीकृत्य प्रेषयामास दानवः  ।

तेऽपि चाष्टगुणाः कृष्णं छादयामासुरोजसा  ॥ १०६.५० ॥

ततः क्रुद्धेन देवेन आग्नेयं प्रेषितं तदा  ।

वारुणं प्रतिवायव्यं नलमेघो व्यसर्जयत् ॥ १०६.५१ ॥

नारसिंहं नृसिंहोऽयं प्रेषयामास पाण्डव  ।

नारसिंहं ततो दृष्ट्वा नलमेघो महाबलः  ॥ १०६.५२ ॥

उत्तीर्णः स्यन्दनाच्छीघ्रं खड्गं गृह्य करेण तु  ।

प्रेषयामास कृष्णाय तं हन्तुं बलवत्तरः  ॥ १०६.५३ ॥

क्रुद्धोऽथ दानवः पार्थ आगतः केशवं प्रति  ।

खड्गेन घातयामास गदापाणिं जनार्दनम्  ॥ १०६.५४ ॥

मण्डलाग्रं ततो गृह्य केशवो हृष्टमानसः  ।

हतो वक्षस्थले दैत्यो नलमेघो महाबलः  ॥ १०६.५५ ॥

जनार्दनं तदा दैत्यो नाराचेन जघान ह  ।

जनार्दनस्ततः क्रुद्धो नलमेघं मृधे नृप  ॥ १०६.५६ ॥

अमोघं चक्रमादाय शिरस्तस्य न्यपातयत् ।

पतता शिरसा तस्य वसुधा च प्रकम्पिता  ॥ १०६.५७ ॥

समुद्राः क्षुभिताः पार्थ भयादुन्मार्गगामिनः  ।

पुष्पवष्टिं ततो देवा ववृषुः केशवोपरि  ॥ १०६.५८ ॥

अवध्यः सुरसङ्घानां स हतः केशवेन तु  ।

स्वस्थानश्च गतो देवो नलमेघे निपातिते  ॥ १०६.५९ ॥

जनार्दनोऽपि कौन्तेय नर्मदातटमाश्रितः  ।

लक्ष्मीसमन्वितः कृष्णो विलीनो नर्मदातटे  ॥ १०६.६० ॥

चक्रं विमोचितं पापक्षालनाय मलान्वितम्  ।

पतितं नर्मदातोये जलशायि समन्वितम्  ॥ १०६.६१ ॥

निर्धूतकल्मषं जातं नर्मदायाः प्रभावतः  ।

नलमेघवधोत्पन्नं यत्पापं मनुजाधिप  ॥ १०६.६२ ॥

तत्सर्वं क्षालितं शीघ्रं रेवायाम्भसि भारत  ।

तदा प्रभृति लोकेऽस्मिन् जलशायी महीतले  ॥ १०६.६३ ॥

चक्रतीर्थं वदन्त्यन्ये अनेकाघौघनाशनम्  ॥ १०६.६४ ॥

तत्तीर्थस्य प्रभावं वै शृणुष्वैकमना नृप  ।

नागानां च यथानन्तो गीर्वाणानां जनार्दन  ॥ १०६.६५ ॥

मासानां मार्गशीर्षोऽपि नदीपुण्या हि नर्मदा  ।

मासि मार्गे सिते पक्षे एकादश्यां शुभे दिने  ॥ १०६.६६ ॥

गत्वा ये मनुजास्तत्र कामक्रोधविवर्जिताः  ।

स्नापयन्ति श्रियः कान्तं नागपर्यङ्कशायिनम्  ॥ १०६.६७ ॥

राजेन्द्र परया भक्त्या क्षौद्रसागरसर्पिषा  ।

गुडेन तोयमिश्रेण जगद्योनिं जनार्दनम्  ॥ १०६.६८ ॥

स्नाप्यमानाश्च पश्यन्ति ये लोकागतपातकाः  ।

ते यान्ति परमं लोकं सुरासुरनमस्कृतम्  ॥ १०६.६९ ॥

घृतेन बोधयेद्दीपमथवा तैलमिश्रितम्  ।

रात्रौ जागरणं कृत्वा देवः स्यान्नात्र संशयः  ॥ १०६.७० ॥

कथां च वैष्णवीं भक्त्या ये शृण्वन्ति नरोत्तमाः  ।

ब्रह्महत्यादिपापेभ्यो मुच्यन्ते नात्र संशयः  ॥ १०६.७१ ॥

ये कुर्वन्ति प्रदक्षिणं जलशायि जगद्गुरुम्  ।

प्रदक्षिणीकृतं तेन जम्बूद्वीपं नरेश्वर  ॥ १०६.७२ ॥

ततः प्रभाते विमले पितॄन् संतर्प्य यत्नतः  ।

श्राद्धं वै ब्राह्मणैस्तत्र पूज्यैः पाण्डवसत्तम  ॥ १०६.७३ ॥

स्वदारनिरतैः शान्तैः परदारविवर्जितैः  ।

वेदाभ्यसनशीलैश्च स्वकर्मनिरतैः शुभैः  ॥ १०६.७४ ॥

नित्यं सज्जनशीलैश्च त्रिसन्ध्यापरिपालकैः  ।

तादृशैः कारयेच्छ्राद्धमिच्छेयुः श्रेय आत्मनाम्  ॥ १०६.७५ ॥

ते धन्या मानुषे लोके पुण्याश्चैवात्र मानुषाः  ।

ये वसन्ति सदा कालं पदे ब्रह्माश्रये ह्रदे  ॥ १०६.७६ ॥

जलशायिनं च पश्यन्ति प्रत्यक्षं सुरनायकम्  ।

पक्षोपवासं ये केचिद्व्रतं चान्द्रायणं शुभम्  ॥ १०६.७७ ॥

मासोपवासमुग्रं च तथान्यत्परमं व्रतम्  ।

तत्र तीर्थे तु यः पार्थ कुर्यात्स्वर्गमवाप्नुयात् ॥ १०६.७८ ॥

अतः परं प्रवक्ष्यामि तिलधेनोस्तु यत्फलम्  ।

तथा यस्मिन् यथा देयं दानं तस्य श्रुतं फलम्  ॥ १०६.७९ ॥

एतत्कथान्तरे पुण्ये मुनीन्द्रैः पापनाशनम्  ।

श्रुतं हि नैमिषारण्ये नारदाद्यैरनेकधा  ॥ १०६.८० ॥

इदमाख्यानमायुष्यं पुण्यं कीर्तिविवर्धनम्  ।

विप्राणां श्रावयेद्यस्तु सर्वं तत्फलमाप्नुयात् ॥ १०६.८१ ॥

बहूनां न प्रदेयानि गोगृहं शयनं किल  ।

विभक्तदक्षिणा ह्येषा दातारं नोपतिष्ठति  ॥ १०६.८२ ॥

एकस्मै सा प्रदातव्या बहूनां न युधिष्ठिर  ।

सा च विक्रयमापन्ना दहेदासप्तमं कुलम्  ॥ १०६.८३ ॥

तिलाः श्वेतास्तथा कृष्णास्तिलाः प्रोक्ताश्च वर्णतः  ।

तिलानां च प्रमाणानि धेनोर्वत्सस्य कारयेत् ॥ १०६.८४ ॥

दातव्या वत्सकेनाथ बहूनां कामिनां न तु  ।

यस्मिन् देशे च यन्मानं तिलानां च विचारतः  ॥ १०६.८५ ॥

तेन मानेन सा कार्या अक्षयं फलमिच्छता  ।

अर्चनीया प्रयत्नेन गन्धपुष्पाक्षतैर्विभो  ॥ १०६.८६ ॥

नासायां सर्वगन्धाश्च जिह्वायां षड्रसा धृताः  ।

मुक्ताफलानि वा दन्तजङ्घापुच्छेषु योजयेत् ॥ १०६.८७ ॥

कुक्षौ कार्पासकं देयं नाभ्यां पद्मं सकाञ्चनम्  ।

ओष्ठे मधुघृतं दद्यात्कुर्यात्सर्पिश्च रोमके  ॥ १०६.८८ ॥

कम्बले कम्बलं दद्याल्ललाटे ताम्रभाजनम्  ।

स्कन्धे तु शकला देया लोहदण्डं च सङ्कटे  ॥ १०६.८९ ॥

गुडं चैव गुदे दद्याच्छ्रोण्यां मधुघृते तथा  ।

यवसे पायसं दद्याद्घृतक्षौद्रसमन्वितम्  ॥ १०६.९० ॥

स्वर्णशृङ्गी रौप्यखुरी मुक्तालाङ्गुलभूषणा  ।

वस्त्रं सदन्नं दातव्यं कांस्यपात्रसुदोहना  ॥ १०६.९१ ॥

यत्तु बालकृतं पापं यद्वा कृतमजानता  ।

वाचा कृतं कर्मकृतं मनसा यच्च चिन्तितम्  ॥ १०६.९२ ॥

जलमात्रे ष्ठीवने च मुशले वा विलङ्घिते  ।

वृषलीगमने चैव गुरुदारनिषेवणे  ॥ १०६.९३ ॥

कन्यायां गमने चैव सुव्रर्णस्तेय एव च  ।

सुरापानं च यच्चापि तिलधेनुः पुनाति हि  ॥ १०६.९४ ॥

अहोरात्रोपवासेन विधिवत्सा मयोदिता  ।

यासौ यमपुरे चैव नदी वैतरणी स्मृता  ॥ १०६.९५ ॥

बालुकायाः स्थले चैव पच्यते यत्र दुष्कृती  ।

अवीचिनरकोपेतौ यौ वै युगलपर्वतौ  ॥ १०६.९६ ॥

यत्र लोहमुखाः काका यत्र स्थानं भयानकम्  ।

असिपत्रवनं यत्र तप्तं च बालुकम्  ॥ १०६.९७ ॥

तत्सुखेन व्यतिक्रम्य धर्मराजाऽश्रमं व्रजेत् ।

धर्मराजस्तु तं दृष्ट्वा सूनृतं वाक्यमब्रवीत् ॥ १०६.९८ ॥

वितानं विततं योग्यं मणिरलविभूषितम्  ।

अत्रागच्छ नृपश्रेष्ठ गच्छ त्वं परमां गतिम्  ॥ १०६.९९ ॥

मा च पापरते दानं न तद्दानं परं हितम्  ।

मा विकाले विरूपे च न व्यङ्गे तु तथैव च  ॥ १०६.१०० ॥

अवेदविदुषे चैव ब्राह्मणे मदविक्लवे  ।

मित्रघ्ने च कृतघ्ने च व्रतहीने तथैव च  ॥ १०६.१०१ ॥

वेदान्तगाय दातव्या तस्य तत्त्वं विजानते  ।

वेदान्तगे तु सा देया श्रोत्रियेऽभूतबालका  ॥ १०६.१०२ ॥

सर्वाङ्गरुचिरे देया पवित्रे च प्रियंवदे  ।

पौर्णमास्याममावास्यां कार्तिक्यां चापि भारत  ॥ १०६.१०३ ॥

वैशाख्यां मार्गशीर्षे च ग्रहणे चन्द्रसूर्ययोः  ।

अयने विषुवे चैव व्यतीपाते च सर्वथा  ॥ १०६.१०४ ॥

षडशीतिमुखे चैव गजछायासु सर्वदा  ।

एष ते कथितः कल्पस्तिलधेनोर्मयानघ  ॥ १०६.१०५ ॥

भित्त्वा च भास्करं लोकं हरिलोकं व्रजन्ति ते  ।

एतत्ते सर्वमाख्यातं चक्रतीर्थफलं नृप  ॥ १०६.१०६ ॥

श्रवणात्कीर्तनाद्वाऽपि गोसहस्रफलं लभेत् ॥ १०६.१०७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रतीर्थमाहात्म्यवर्णनो नाम षडधिकशततमोऽध्यायः ॥

 

 

अध्याय १०७

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम्  ।

चन्द्रादित्यं नृपश्रेष्ठ स्थापितं चण्डमुण्डयोः  ॥ १०७.१ ॥

आसीत्पुरा महाभागौ चण्डमुण्डौ तु दानवौ  ।

तपश्च चेरतुस्तत्र नर्मदायां युधिष्ठिर  ॥ १०७.२ ॥

ध्यायतो भास्करं देवं तमो नाशं जगद्गुरुम्  ।

ताभ्यां च तोषितः सोऽपि सहस्रांशुरुवाच ह  ॥ १०७.३ ॥

साधुसाध्विति तौ पार्थ नर्मदायास्तटे शूभे  ।

चण्डमुण्डौ वरं ब्रूतं विशिष्टं मनसेप्सितम्  ॥ १०७.४ ॥

 

चण्डमुण्डावूचतुः॒

अजेयौ चैव देवेश सर्वेषां देवतानृणाम्  ।

रोगैश्चेव परित्यक्तौ सविकाशं दिवाकर  ॥ १०७.५ ॥

तत्तथेति शुभं वाक्यं भास्करस्ताववीदत् ।

ततश्चान्तर्दधे भानुर्दानवाभ्यां च भास्करम्  ॥ १०७.६ ॥

स्थापितं परया भक्त्या पूजयेद्यो जितेन्द्रियः  ।

गीर्वाणता मनुष्यस्य प्राप्ता तत्रैव वर्तते  ॥ १०७.७ ॥

वसते भास्करे लोके वैरञ्चे देवसन्निधौ  ।

घृतेन बोधयेद्दीपं षष्ठ्यां षष्ठ्यां नरेश्वर  ॥ १०७.८ ॥

मुच्यते सर्वपापेभ्यो मृतो याति पुरं रवेः  ।

चन्द्रादित्यमिति ख्यातं तत्र तीर्थं नरोत्तम  ॥ १०७.९ ॥

विजयन्ते सदा कालं चन्द्रादित्यं व्रजन्ति ये  ॥ १०७.१० ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे चन्द्रादित्येश्वरमहिमानुवर्णनो नाम सप्ताधिकशततमोऽध्यायः ॥

 

 

अध्याय १०८

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र यमहासमनुत्तमम्  ।

सर्वपापहरं पार्थ रेवायास्तटमाश्रितम्  ॥ १०८.१ ॥

 

युधिष्ठिर उवाच –

यमहासं कथं जातं पृथिव्यां मुनिपुङ्गव  ।

एतत्सर्वं समाख्याहि मम कौतूहलं परम्  ॥ १०८.२ ॥

 

मार्कण्डेय उवाच –

साधु साधु महाभाग पृष्टं ते धर्मनन्दन  ।

स्नानार्थं नर्मदायां तु आगतस्ते पिता पुरा  ॥ १०८.३ ॥

रजकेन यथा धौतं निर्मलं वसनं भवेत् ।

तथैव पश्यता राजन् रेवाजलमनुत्तमम्  ॥ १०८.४ ॥

हास्यं कृतं यमेनाथ उत्थितं लिङ्गमुत्तमम्  ।

ततस्तदा हि राजेन्द्र वागुवाचाऽशरीरिणी  ॥ १०८.५ ॥

यमहासमिदं तीर्थं ख्यातिं यास्यति सर्वदा  ।

स्नापयित्वा शिवं तत्र यमः स्वर्गं जगाम ह  ॥ १०८.६ ॥

यमहासे तु राजेन्द्र जितक्रोधो जितेन्द्रियः  ।

विशेषादाश्विने मासि कृष्णपक्षे चतुर्दशीम्  ॥ १०८.७ ॥

उपोष्य परया भक्त्या सर्वपापैः प्रमुच्यते  ।

रात्रौ जागरणं कृत्वा दीपं देवस्य बोधयेत् ॥ १०८.८ ॥

घृतेन चैव राजेन्द्र शृणु तस्यैव यत्फलम्  ।

मुच्यते सर्वपापैस्तु अगम्यागमनोद्भवैः  ॥ १०८.९ ॥

अभक्ष्यभक्षणैः पापैः पापैर्वा पेयसम्भवैः  ।

अवाह्यवाहनेयच्च अद्रोह्य द्रोहणे तथा  ॥ १०८.१० ॥

स्नानमात्रेण तच्चैव नश्येत्पापमनेकधा  ।

यमलोकं न पश्येच्च न त्यजेत्पाण्डुनन्दन  ॥ १०८.११ ॥

बहूनां परमं गुप्तं तीर्थं भूम्यां नृपात्मज  ।

तदक्षयफलं तेषां यमहासे प्रदायिनाम्  ॥ १०८.१२ ॥

अमावास्यां जितक्रोधो यस्तु पूजयते द्विजान्  ।

भूमिदानेन यो भक्त्या तिलदानेन भारत  ॥ १०८.१३ ॥

कृष्णाजिनप्रदानेन तिलधेनुप्रदानतः  ।

वसुभे वृद्धियोगे च ये प्रदास्यन्ति भक्तितः  ॥ १०८.१४ ॥

ओदनं वारि धूर्वाहं हयं चापि महाबलम्  ।

कन्यां वस्त्रमजां गां वै महिषीमथवाश्विनीम्  ॥ १०८.१५ ॥

ये यच्छन्ति नृपश्रेष्ठ नोपसर्पन्ति ते यमम्  ।

यमोऽपि भवति प्रीतो जन्मजन्म युधिष्ठिर  ॥ १०८.१६ ॥

यमस्य वाहनं स्त्रीं च महिषीं तत्र भारत  ।

तस्य दानेन सततं यमः प्रीतो भवेन्नृप  ॥ १०८.१७ ॥

न स याति यमे लोके यदि पापैः समाश्रितः  ।

एतस्मात्कारणात्पार्थ महिषीदानं उत्तमम्  ॥ १०८.१८ ॥

और्णवस्त्रद्वयं कार्यं लोहवर्णं च वेष्टितम्  ।

दापयेद्धर्मराजाय प्रीयतां मे द्विजोत्तम  ॥ १०८.१९ ॥

अनेनैव तु दानेन यमः प्रीतोऽस्तु मे सदा  ।

इत्युच्चार्य द्विजस्याग्रे यमलोकं भयावहम्  ॥ १०८.२० ॥

असिपत्रवने घोरे यमवल्ली सुदारुणा  ।

रौद्रा वैतरणी चेति कुम्भीपाकः सुदारुणः  ॥ १०८.२१ ॥

कालसूत्रं महाभीमं तथा यमलपर्वतौ  ।

क्रकचं तैलयन्त्रं च स्थाने गृध्राः सुदारुणाः  ॥ १०८.२२ ॥

अनिश्वासो महारौद्रो भीषणो रौरवस्तथा  ।

एते घोराश्च नरकाः श्रूयन्ते द्विजसत्तम  ॥ १०८.२३ ॥

तत्प्रसादेन ते सौम्यास्तीर्थस्यास्य प्रभावतः  ।

दानस्यास्य प्रभावेण यमहासप्रभावतः  ॥ १०८.२४ ॥

यमलोकं न वै याति नरकं नैव पश्यति  ॥ १०८.२५ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे यमहासमहिमानुवर्णनो नामाष्टाधिकशततमोऽध्यायः ॥

 

 

अध्याय १०९

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र कोटीश्वरमनुत्तमम्  ।

ऋषिकोटिः समायाता तत्र वै कुरुनन्दन  ॥ १०९.१ ॥

कृष्णद्वैपायनस्तत्र मोक्षार्थं मुनिपुङ्गवः  ।

मन्त्रयित्वा द्विजैः सर्वैर्वेदमण्डलपारगैः  ॥ १०९.२ ॥

पञ्चामृतेन गव्येन तिलमिश्रेण तत्पर  ।

पितृणां तर्पणं कृत्वा पिण्डदानं यथाविधि  ॥ १०९.३ ॥

श्रावणस्य तु मासस्य पूर्णिमायां विशेषतः  ।

प्राप्यते चाक्षया तृप्तिर्यावदाहूतसम्प्लवम्  ॥ १०९.४ ॥

पितॄणां परमं गुह्यं रेवाजलमुपाश्रितम्  ।

मोक्षदं सर्वभूतानां निर्मितं मुनिपुङ्गवैः  ॥ १०९.५ ॥

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र व्यासतीर्थमनुत्तमम्  ।

दुर्लभं मनुजैः पार्थ अन्तरिक्षे व्यवस्थितम्  ॥ १०९.६ ॥

 

युधिष्ठिर उवाच –

कस्माद्वै व्यासतीर्थं तु अन्तरिक्षे व्यवस्थितम्  ।

एतदाचक्ष्व संक्षेपान्न च ग्रन्थस्य विस्तरः  ॥ १०९.७ ॥

 

मार्कण्डेय उवाच –

साधु साधु महाबाहो धर्मवान् गुरुवत्सलः  ।

स्वधर्मनिरतः पार्थ तीर्थयात्राकृतादरः  ॥ १०९.८ ॥

दुर्लभं सर्वजन्तूनां व्यासतीर्थं नरेश्वर  ।

धर्षितो वृद्धभावेन वैकल्येन नराधिप  ॥ १०९.९ ॥

गतचेतास्तु सञ्जातस्तथा भोः पाण्डुनन्दन  ।

गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया  ॥ १०९.१० ॥

कालस्तत्रैव राजेन्द्र न वसेद्वासवाज्ञया  ।

अन्तरिक्षे च संजातं रेवायाश्चेष्टितं यतः  ॥ १०९.११ ॥

विरञ्चिर्नैव शक्नोति रेवाया गुणकीर्तनम्  ।

व्यासतीर्थं विशेषेण श्रुतमात्रं वदाम्यहम्  ॥ १०९.१२ ॥

प्रत्यक्षः प्रत्ययो यत्र दृश्यते हि कलौ युगे  ।

विहङ्गो गच्छते नैव भित्त्वा शूलं सुदारुणम्  ॥ १०९.१३ ॥

तस्योत्पत्तिं समासेन कथयामि नृपात्मज  ।

आसीत्पूर्वं महाराज ऋषिश्चैव पराशरः  ॥ १०९.१४ ॥

तेन चोग्रं तपस्तप्तं गङ्गाम्भसि तु भारत  ।

प्राणायामेन चातिष्ठत्प्रविष्टो जाह्नवीजले  ॥ १०९.१५ ॥

पूर्णे च द्वादशे वर्षे निष्क्रान्तो जलमध्यतः  ।

भिक्षार्थे चागतो ग्रामं नावि तत्रैव तिष्ठती  ॥ १०९.१६ ॥

तत्र दृष्टा परोत्सृष्टा बाला तेन मनोरमा  ।

तां च दृष्ट्वा स कामार्त उवाच मधुराक्षरम्  ॥ १०९.१७ ॥

मां रमस्वाद्य त्वं कासि कामुकं मृगलोचने  ।

नावारूढे नदीतीरे मम चित्तप्रमाथिनी  ॥ १०९.१८ ॥

एवमुक्ता तु सा तेन प्रणम्य ऋषिसत्तमम्  ।

नावं रक्षाम्यहं विप्र जानामि स्वामिनं न तु  ॥ १०९.१९ ॥

ममेदं च वयो ब्रह्मञ्च्छेषं त्वं ज्ञातुमर्हसि  ।

एवमुक्तस्तया सोऽपि क्षणं ध्यात्वाब्रवीदिदम्  ॥ १०९.२० ॥

अहं ज्ञानबलाद्भद्रे जानामि तव सम्भवम्  ।

कैवर्तपुत्रिका न त्वं राजपुत्री हि सुन्दरी  ॥ १०९.२१ ॥

 

कन्योवाच –

कः पिता कथ्यतां ब्रह्मन् कस्याहमुदरोद्भवा  ।

कस्मिन् वंशे प्रजाताहं कैवर्ततनया कथम्  ॥ १०९.२२ ॥

 

पराशर उवाच –

कथयामि च ते तातं यं त्वं मां परिपृच्छसि  ।

वसु नामा च राजाभूत्सोमवंशे प्रतापवान्  ॥ १०९.२३ ॥

जम्बूद्वीपाधिपो भद्रे शत्रुसंत्रासनस्तथा  ।

शतानि सप्त भार्याणां पुत्राणां तु दशैव हि  ॥ १०९.२४ ॥

धर्मेण पालिता लोकाः शिवपूजारतः सदा  ।

म्लेच्छास्तस्य विरोधेन शाकद्वीपनिवासिनः  ॥ १०९.२५ ॥

तेषां च साधनार्थाय गतोल्लङ्घ्य महोदधिम्  ।

संयुक्तः पुत्रभृत्यैश्च पौरुषे महति स्थितः  ॥ १०९.२६ ॥

सग्रामस्तैः समारब्धश्चार्वङ्गि वसुना सह  ।

जिता म्लेच्छाः समस्ताश्च वसुना ह्यवनीभृता  ॥ १०९.२७ ॥

करदास्ते कृतास्तेन सभृत्यबलवाहनाः  ।

प्रधाना तस्य महिषी तव माता मृगेक्षणा  ॥ १०९.२८ ॥

प्रवासस्थे च भूपाले संजाता च रजस्वला  ।

नारीणां तु सदा काले मन्मथो ह्यधिको भवेत् ॥ १०९.२९ ॥

विशेषेण ऋतौ काले भिद्यते कामसायकैः  ।

मन्मथेन तु संतप्ताचिन्तयत्सा शुभेक्षणा  ॥ १०९.३० ॥

दूतं सम्प्रेषयाम्यद्य वसुराजसमीपतः  ।

व्याहृतः सत्वरो दूतो गच्छ त्वं नृपसन्निधौ  ॥ १०९.३१ ॥

 

दूत उवाच –

परराज्ये वसुर्देवि गतो राजा द्विडन्तकृत् ।

तत्र गन्तुं न शक्येत जलयन्त्रैर्विना शुभे  ॥ १०९.३२ ॥

जलयानानि सर्वाणि नेयानि च परे तटे  ।

तस्य वाक्येन सा नारी विषण्णा मदपीडिता  ॥ १०९.३३ ॥

राज्ञीं दृष्ट्वा सखी ब्रूते कस्मात्त्वं परिखिद्यसे  ।

लेखोऽयं प्रेष्यतां देवि शुकहस्ते यथा तथा  ॥ १०९.३४ ॥

समुद्रं लङ्घयित्वा तु शकुन्तो याति सुन्दरि  ।

व्याहृतो लेखकस्तत्र लिख लेखंऽममाज्ञया  ॥ १०९.३५ ॥

त्वां विना पट्टराज्ञी सा वसुराज न जीवति  ।

ऋतुकालश्च सम्प्राप्तः समस्तं चावधार्यताम्  ॥ १०९.३६ ॥

लिखितो भूर्जपत्रे च वृत्तः स लेखकेन तु  ।

शूकः पञ्जरमध्यस्थ आनीतस्तत्र सन्निधौ  ॥ १०९.३७ ॥

राज्ञी उवाच तं तत्र गृह्यलेखं शुक व्रज  ।

गतः पक्षी ततः शीघ्रं वसुराजसमीपतः  ॥ १०९.३८ ॥

क्षिप्तो लेखः शुकेनैव सत्यभामा विसर्जितः  ।

लेखार्थं चिन्तयामास वीर्यं गृह्य नरेश्वरः  ॥ १०९.३९ ॥

अमोघपुटिकां कृत्वा प्रतिलोकेन विश्रुतः  ।

शूकस्य चार्पयामास गच्छ राज्ञी समीपतः  ॥ १०९.४० ॥

वसुराजं प्रणम्याथ बीजं गृह्य पपात ह  ।

समुद्रोपरि संप्राप्तः शुको याति यथेच्छया  ॥ १०९.४१ ॥

सामिषं च शुकं ज्ञात्वा श्येनस्तत्रापि धावितः  ।

हतश्चञ्चुप्रहारेण शुकः श्येनेन भारत  ॥ १०९.४२ ॥

मूर्छापन्नस्य तद्वीर्य पतितं जलमध्यतः  ।

मत्स्येन गिलितं तत्र तद्वीर्यं पार्थिवस्य च  ॥ १०९.४३ ॥

दाशैर्मत्स्यो गहीतश्च आनीतः स्वगृहं प्रति  ।

यावत्तं पाटयामासूर्यमलं ददृशे तदा  ॥ १०९.४४ ॥

शशिमण्डलसङ्काशं सूर्यतेजः समप्रभम्  ।

दृष्ट्वा ते धर्षिताः सर्वे कैवर्ता जाह्नवीतटे  ॥ १०९.४५ ॥

हर्षितास्ते गताः सर्वे प्रधानस्य च मन्दिरम्  ।

पुत्रं राज्ञे प्रदायैव पुत्रीं च प्रत्यपालयत् ॥ १०९.४६ ॥

तत्त्वं देवि वरारोहे कैवर्तकन्यका नहि  ।

ततः सा चिन्तयामास पराशरवचस्तदा  ॥ १०९.४७ ॥

एवमुक्ता तु सा तेन दत्त्वात्मानं नरेश्वर  ।

उवाच साध्वी भो ब्रह्मन्मत्स्यगन्धो निवर्त्यताम्  ॥ १०९.४८ ॥

ततस्तेन तु सा बाला दिव्यगन्धाभिवासिता  ।

कृता योगबलेनैव ज्वालयित्वा विभावसुम्  ॥ १०९.४९ ॥

कृत्वा प्रदक्षिणं वह्नेरुद्धृता तेन सा तदा  ।

ज्वलमानस्य मध्ये तु कामस्थानानि सोऽस्पृशत् ॥ १०९.५० ॥

ज्ञात्वा कामोत्सुकं विप्रं भीता सा नृपनन्दन  ।

उवाच सहसा बाला दिवा च लोकसन्निधौ  ॥ १०९.५१ ॥

ततस्तेन क्षणं ध्याता पूरयन्ती दिगम्बरम्  ।

आगता तामसी तात यया व्याप्तं समन्ततः  ॥ १०९.५२ ॥

ततः सविस्मयं तेन रहोबाला मृगेक्षणा  ।

कामेनैव हि तप्तेन स्त्रीसौख्यं क्रीडता तदा  ॥ १०९.५३ ॥

ततस्तेन मुहूर्तेनापत्यभारेण पीडिता  ।

बालकं तत्र जटिलं सुभगं दण्डधारकम्  ॥ १०९.५४ ॥

कमण्डलुधरं शान्तं मेखलाकटिभूषणम्  ।

धृतोपवीतकं स्कन्धे विष्णुमायाविवार्जितम्  ॥ १०९.५५ ॥

माता हि शङ्किता तत्र दृष्ट्वा पुत्रस्य चापलम्  ।

वेपमाना ततो बाला गता सा शरणं मुनेः  ॥ १०९.५६ ॥

रक्ष रक्ष मुनिश्रेष्ठ पराशर महामुने  ।

जातमत्यद्भुतं विप्रं कौपीनाम्बरमेखलम्  ॥ १०९.५७ ॥

दण्डहस्तं जटायुक्तमुत्तरीयविभूषितम्  ।

 

पराशर उवाच –

मा भैषीस्त्वं सुतो जातः कन्यैव त्वं भविष्यसि  ॥ १०९.५८ ॥

नाम्ना सत्यवती चेति द्वितीया गन्धयोजना  ।

शन्तनुर्नाम राजा वै स ते भर्ता भविष्यति  ॥ १०९.५९ ॥

प्रथमा महिषी तस्य सोमवंशविभूषणा  ।

गच्छ त्वं स्वाश्रमं भद्रे पूर्वरूपेण संस्थिता  ॥ १०९.६० ॥

मा वैकल्यं कुरुष्वेदं दृष्टं ज्ञानस्य मे बलम्  ।

इत्युक्त्वा प्रययौ विप्रः सा बाला स्थलमाश्रिता  ॥ १०९.६१ ॥

नत्वा पुत्रं पराभक्त्या साष्टाङ्गं प्रणयेन च  ।

तं प्रयान्तमथालोक्य सत्यवत्यब्रवीत्सुतम्  ॥ १०९.६२ ॥

कामो देयस्त्वयाभीष्टः स्नेहो वै यदि मातरि  ।

किमप्युपादिश त्वं मां येन सिद्धिमवाप्नुयाम्  ॥ १०९.६३ ॥

 

व्यास उवाच –

ईश्वराराधने यत्नं कुरुष्व त्वं सदाम्बिके  ।

ततः सा पुत्रवाक्येन विषण्णा पाण्डुनन्दन  ॥ १०९.६४ ॥

 

योजनगन्धोवाच –

त्वद्वियोगादहं पुत्र पञ्चत्वं यामि नान्यथा  ।

नास्ति पुत्रसमः स्नेहो नास्ति भ्रातृसमं बलम्  ॥ १०९.६५ ॥

 

पुत्र उवाच –

मा विषादं कुरुं त्वं हि सत्यं वै पितृभाषितम्  ।

आपत्काले त्वयाहं वै स्मर्तव्यः कार्यसिद्धये  ॥ १०९.६६ ॥

आपदस्तारयिष्यामि क्षम्यतां मातरात्मजे  ।

इत्युक्त्वा तु ययौ व्यासः कन्या साऽपि पितुर्गृहम्  ॥ १०९.६७ ॥

पराशरसुतस्तत्र निषण्णो वनमध्यतः  ।

त्रेतायुगावसाने तु द्वापरादौ नरेश्वर  ॥ १०९.६८ ॥

व्यासो विरञ्चये जात आख्यातो नारदेन च  ।

ऋषिर्महानुभावस्तु पुत्रः पाराशरस्य च  ॥ १०९.६९ ॥

कैवर्तकन्यकाजातो जानीहि जाह्नवी तटे  ।

वाक्योक्त्या नारदस्यैव आगताः सुरसत्तमाः  ॥ १०९.७० ॥

भानुः पितामहः शक्र ऋषिसङ्घैः समावृतः  ।

आशीर्वादं पृथग्दत्त्वा साधु साध्विति भाषितः  ॥ १०९.७१ ॥

पितामहेन बालोऽसौ जातमकर्मादि संस्कृतः  ।

द्वैपायनो द्वीपजन्मा पाराशर्यः पराशरात् ॥ १०९.७२ ॥

कृष्णगात्रात्कृष्णनामा हव्यादातुर्विशिष्यति  ।

विरञ्चिनाभिषिक्तोऽसौ ऋषिसङ्घैः पुनः पुनः  ॥ १०९.७३ ॥

व्यासस्त्वं सर्वलोकानामित्युक्त्वा प्रययुः पुनः  ।

तीर्थयात्रा समारब्धा कृष्णद्वैपायनेन तु  ॥ १०९.७४ ॥

गङ्गावगाहिता तेन केदारं पुष्करं तथा  ।

गया च नैमिषं तीर्थं कुरुक्षेत्रे सरस्वती  ॥ १०९.७५ ॥

उज्जयिन्यां महाकालं सोमनाथं ययौ ततः  ।

पृथिव्यां सागरान्तायां स्नातो व्यासो महामुनिः  ॥ १०९.७६ ॥

अटन् वै नर्मदां प्राप्तो रुद्रदेहोद्भवां नदीम्  ।

साह्लादं नर्मदां दृष्ट्वा चित्तं विश्राम्यपार्थिव  ॥ १०९.७७ ॥

तपश्चचार विपुलं नर्मदातटमाश्रितः  ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः  ॥ १०९.७८ ॥

सार्द्रवासास्तु हेमन्ते ध्यायमानो महेश्वरम्  ।

सृष्टिसंहारकर्तारमच्छेद्यं च सदाशिवम्  ॥ १०९.७९ ॥

नित्यं सिद्धेश्वरं लिङ्गं पूजयन् पाण्डुनन्दन  ।

अर्चनात्सिद्धलिङ्गस्य ध्यानयोगप्रभावतः  ॥ १०९.८० ॥

प्रत्यक्ष ईश्वरो जातः कृष्णद्वैपायनस्य तु  ।

तोषितोऽहं त्वया विप्र वरं प्रार्थय शोभनम्  ॥ १०९.८१ ॥

 

व्यास उवाच –

यदि तुष्टोऽसि मे देव यदि देयो वरो मम  ।

प्रत्यक्षो नर्मदातीरे स्वयं भवाद्य मे विभो  ॥ १०९.८२ ॥

अतीतानागतज्ञानं त्वत्प्रसादान्महेश्वर  ।

 

ईश्वर उवाच –

एवं भवतु ते विप्र मत्पसादात्न संशयः  ॥ १०९.८३ ॥

त्वया भक्तिगृहीतोऽहं प्रत्यक्षो नर्मदातटे  ।

इत्युक्त्वा प्रययौ देवः कैलासं नगमुत्तमम्  ॥ १०९.८४ ॥

पत्नीसंग्रहणं जातं पुत्रो जातो यदास्य च  ।

देवैरध्यासितः सर्वैः सेन्द्रब्रह्मपुरोगमैः  ॥ १०९.८५ ॥

पुत्रजन्मततोज्ञात्वा आगता ऋषिसत्तमाः  ।

तीर्थयात्राप्रसङ्गेन पराशरपुरोगमाः  ॥ १०९.८६ ॥

मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः  ।

यमापस्तम्बसंवर्ता कात्यायनबृहस्पती  ॥ १०९.८७ ॥

एवमादि सहस्राणि लक्षकोटिरनेकधा  ।

व्यासाश्रमे शुभे पुण्ये प्राप्ताः सर्वे द्विजोत्तमाः  ॥ १०९.८८ ॥

दृष्ट्वा व्यासस्तु विप्रेन्द्रानभ्युत्थाय कृतोद्यमः  ।

पितृपूर्वं प्रणम्यादौ तेषां वार्तां प्रदापयन्  ॥ १०९.८९ ॥

कृताञ्जलिपुटो भूत्वा इदं वाक्यमुवाच ह  ।

उद्धृतं तु ममानन्दं युष्मत्सम्भाषदर्शनात् ॥ १०९.९० ॥

आरण्यानि च शाकानि फलान्यारण्यकानि च  ।

तानि दास्यामि सर्वेषां युष्माकं पितृपूर्वकम्  ॥ १०९.९१ ॥

नियमैः संयुतान् सर्वान् प्रत्येकं प्रणनाम च  ।

ततस्तं प्रणतं दृष्ट्वा तत्र द्वैपायनं द्विजम्  ॥ १०९.९२ ॥

वर्धयित्वा जयाशीर्भिस्ततो वीक्ष परस्परम्  ।

पराशरः समस्तैश्च वीक्षितो मुनिपुङ्गवैः  ॥ १०९.९३ ॥

उत्तरं दीयतां तात कृष्णद्वैपायनस्य च  ।

एवमुक्तस्तु तैः सर्वैर्भगवांश्च पराशरः  ॥ १०९.९४ ॥

उवाच स्वात्मजं व्यासमृषिभिर्यच्चिकीर्षितम्  ।

नेच्छन्ति दक्षिणे कूले व्रतभङ्गभयात्सुत  ॥ १०९.९५ ॥

परं वै भोक्तुकामाश्च तव श्रद्धाविशेषतः  ।

 

व्यास उवाच –

करोमि भवतां युक्तमत्रैव स्थीयतां क्षणम्  ॥ १०९.९६ ॥

यावदासाद्य सरितं करोमि विधिपूर्वकम्  ।

एवमुक्त्वा शुचिर्भूत्वा नर्मदातटमाश्रितः  ॥ १०९.९७ ॥

स्तोत्रं जगाद सहसा तं निबोध जनेश्वर  ॥ १०९.९८ ॥

 

व्यास उवाच –

जय देवि नमो वरदे शिवदे जय पापविमर्दिनि शूलकरे  ।

जय भैरवदेहविलीनकरे जय देवि पितामहसन्नमिते  ॥ १०९.९९ ॥

जय भास्करशक्रसदानमिते जय षण्मुखतातसुते वरदे  ।

जय देवशरीरसमूहमये जय सागरगामिनि भूमिसुते  ॥ १०९.१०० ॥

जय जय लोकसमस्तकृताभरणे जय दुःखदरिद्रविनाशकरे  ।

जय पुत्र कलत्रविवृद्धिकरे जय देवि सुदर्शनपापहरे  ॥ १०९.१०१ ॥

एतद्व्यासकृत स्तोत्रं यः पठेच्छिवसन्निधौ  ।

गृहे वा शुद्धभावेन कामक्रोधविवर्जितः  ।

व्यासस्तस्य भवेत्प्रीतः प्रीतोऽयं वृषवाहनः  ॥ १०९.१०२ ॥

स्तुता च नर्मदादेवी ततो वचनमब्रवीत् ।

 

नर्मदोवाच –

स्तुतिवादेन तुष्टास्मि भो भो व्यासमहामुने  ॥ १०९.१०३ ॥

यमिच्छसि वरं सम्यक्तं ते सर्वं ददाम्यहम्  ।

 

व्यास उवाच –

यदि तुष्टासि मे देवि यदि देयो वरो मम  ॥ १०९.१०४ ॥

आतिथ्यमुत्तरे कूले मम दातुं त्वमर्हसि  ।

 

नर्मदोवाच –

अयुक्तं चिन्तितं व्यास अमार्गे त्वं प्रवर्तसे  ॥ १०९.१०५ ॥

इन्द्रचन्द्रयमाः शक्ता उन्मार्गेण न वाहितुम्  ।

अन्यं याचस्व हे वत्स यत्किंचिद्भुवि दुर्लभम्  ॥ १०९.१०६ ॥

एव श्रुत्वा वचो देव्या व्यासो मूर्च्छां गतस्तदा  ।

वृथा क्लेशश्च संजातः पतितो धरणीतले  ॥ १०९.१०७ ॥

धरणी कम्पिता सर्वा सशैलवनकानना  ।

मूर्छापन्नं ततो व्यासं ज्ञात्वा देवाः पराशरम्  ॥ १०९.१०८ ॥

आयाता देवताः सर्वे हाहाकारं प्रकुर्वतः  ।

उत्थापयन्तस्ते व्यासमूचुश्च सरितां वराम्  ॥ १०९.१०९ ॥

ब्राह्मणार्थं तु संक्लिष्टा नामहेतोः सरिद्वरे  ।

गवार्थे ब्राह्मणार्थे च प्राणान् परित्यजेत् ॥ १०९.११० ॥

एवं सा नर्मदा प्रोक्ता ब्रह्माद्यैश्च सुरैर्द्रुतम्  ।

विकूलतां वै प्रददौ समन्ताद्रेवाभिषिक्तः स जलेन पूतः  ॥ १०९.१११ ॥

सचेतनः सत्यवती सुतोऽयं ननाम देवैः सह नर्मदान्तैः  ।

 

व्यास उवाच –

तीर्थं समस्तं त्वयि देवतानां फलं प्रदिष्टं मम मन्दभाग्यम्  ॥ १०९.११२ ॥

 

नर्मदोवाच –

यतो यतो व्यासमहानुभाव सुमेरुनाम्नो धरणीधरस्य  ।

विन्ध्यस्य चान्यस्य च ते हि मार्गं यास्यामि वै धर्मधरस्य धन्या  ॥ १०९.११३ ॥

एवमुक्तो महातेजा व्यासः सत्यवतीयुतः  ।

दक्षिणे चालयामास स्वाश्रमान्मुनिपुङ्गवान्  ॥ १०९.११४ ॥

दण्डहस्तो महातेजा हुङ्कारैर्नृपनन्दन  ।

व्यासहुङ्कारभीता च चलिता रुद्रनन्दिनी  ॥ १०९.११५ ॥

दण्डेन दर्शयन्मार्गं देवी तत्र प्रवर्तिता  ।

व्यासमार्गगतां देवीं दृष्ट्वा चेन्द्रपुरोगमाः  ॥ १०९.११६ ॥

पुष्पवृष्टिं ददुर्व्यासे स्तुतिं कुर्वन्ति किन्नराः  ।

प्रफुल्लनयना जाताः पराशरमुखा द्विजाः  ॥ १०९.११७ ॥

किं कुर्मोऽत्र महिम्ना ते कर्मणा ते वरं जिताः  ।

 

व्यास उवाच –

तपः कृत्वा सुविपुलं दानं दत्त्वा महत्फलम्  ॥ १०९.११८ ॥

एतदेव नरैः कार्यं साधूनां परितोषणम्  ।

सुविभक्ता महाभागा अनुग्राह्यस्य सम्प्रति  ॥ १०९.११९ ॥

तस्मान्ममाश्रमे पुण्ये स्थीयतां नात्र संशयः  ।

आतिथ्यं शाकपर्णैश्च उदकेन विमिश्रितैः  ॥ १०९.१२० ॥

प्रतिपन्नं समस्तैश्च पराशरमुखैर्द्विजैः  ।

श्रयध्वमाश्रमं पुण्यं नर्मदायोत्तरे तटे  ॥ १०९.१२१ ॥

 

मार्कण्डेय उवाच –

स्नानतर्पणकृत्यानि कृतानि च द्विजोत्तमैः  ।

व्यासकुण्डं ततो गत्वा होमं सम्यगकारयन्  ॥ १०९.१२२ ॥

श्रीफलैर्बिल्वपत्रैश्च ध्यानयुक्ताश्च जुह्वति  ।

गौतमो भृगुमाण्डव्यौ नारदो लोमशस्तथा  ॥ १०९.१२३ ॥

पराशरस्तथा शङ्खः कौशिकश्च्यवनो मुनिः  ।

पिप्पलादो वशिष्ठश्च नाशिकेतुर्महातपाः  ॥ १०९.१२४ ॥

विश्वामित्रो ह्यगस्त्यश्च उद्दालकयमौ तथा  ।

शाण्डिल्यो जैमिनिः काव्यो याज्ञवल्क्योशनाङ्गिराः  ॥ १०९.१२५ ॥

अत्रिः शातातपश्चैव भरतो मुद्गलस्तथा  ।

वात्स्यायनो महातेजाः संवर्तः शक्तिरेव च  ॥ १०९.१२६ ॥

जातूकर्णो भरद्वाजो बालखिल्यादयस्तथा  ।

एकचित्ता द्विजा राजन्मन्त्रतन्त्रं प्रकुर्वतः  ॥ १०९.१२७ ॥

ततः समुत्थितं लिङ्गं ज्वलत्कालानलप्रभम्  ।

साष्टाङ्गं प्रणतो व्यासो देवं दृष्ट्वा त्रिलोचनम्  ॥ १०९.१२८ ॥

आशीर्वादं पुनर्विप्रा दत्त्वा व्यासं तदा ययुः  ।

ततः प्रभृति तत्त्वज्ञ तीर्थं ख्यातं तु पाण्डव  ॥ १०९.१२९ ॥

स्नानदानविधानं च यस्मिन् काले प्रतिष्ठितम्  ।

कथयामि समस्तं ते भ्रातॄणां चैव पाण्डव  ॥ १०९.१३० ॥

कार्त्तिकस्यासिते पक्षे चतुर्दश्यां नृपोत्तम  ।

उपोष्य यो नरो भक्त्या रात्रौ कुर्वीत जागरम्  ॥ १०९.१३१ ॥

स्नापयेदीश्वरं भक्त्या क्षौद्रेण क्षीरसर्पिषा  ॥ १०९.१३२ ॥

दध्ना च खण्डयुक्तेन कुशतोयेन वा पुनः  ।

श्रीखण्डेन सुगन्धेन पूजयेत महेश्वरम्  ॥ १०९.१३३ ॥

ततः सुगन्धपुष्पैश्च बिल्वपत्रैश्च पूजयेत् ।

कुमुदेन च कुन्देन कुशपुष्पाक्षतादिभिः  ॥ १०९.१३४ ॥

उन्मत्तपुष्पैश्च रसैः सौम्यैश्चैवाप्यनुत्तमैः  ।

अर्चयेत्परया भक्त्या द्वीपेश्वरमनुत्तमम्  ॥ १०९.१३५ ॥

मन्दारादिकपुष्पैश्च पूजयेत्परमेश्वरम्  ।

गुडमण्डप्रदानेन पातकं दिवसार्जितम्  ॥ १०९.१३६ ॥

मासार्जितं च नश्येत गुडमण्डशतेन च  ।

षण्मासं च सहस्रेण अर्काब्दं द्विगुणेन तु  ॥ १०९.१३७ ॥

आजन्मजनितं पापमयुतेन प्रणश्यति  ।

पौर्णमास्यां नृपश्रेष्ठ स्नानं कुर्वीत भक्तितः  ॥ १०९.१३८ ॥

मन्त्रोक्तेन विधानेन कृत्वा पापक्षयंकरम्  ।

वारुणं च तथा ज्ञेयं सर्वपापक्षयं करम्  ॥ १०९.१३९ ॥

देवान् पितॄन्मनुष्यांश्च विधिवत्तर्पयेन्नृप  ।

ऋचमेकां जपेत्स्नातः सामवेदफलं लभेत् ॥ १०९.१४० ॥

यजुर्वेदमथर्वाणं गायत्र्या सर्वमाप्नुयात् ।

जपेदष्टाक्षरं मन्त्रं सौरं वा शैवमेव च  ॥ १०९.१४१ ॥

अथवा वैष्णवं मन्त्रं द्वादशाक्षरमेव च  ।

पूजयेद्ब्राह्मणान् भक्त्या सर्वलक्षणलक्षितान्  ॥ १०९.१४२ ॥

स्वधर्मनिरतान् विप्रान् दम्भलोभविवर्जितान्  ।

हीनाङ्गानधिकाङ्गांश्च पतिताञ्छूद्रसेवितान्  ॥ १०९.१४३ ॥

शूद्रान्नेन च संयुक्ता वृषली यस्य मन्दिरे  ।

पौनर्भवास्तथा दुष्टा गुरुनिन्दापरायणाः  ॥ १०९.१४४ ॥

वेदाध्ययनहीनाश्च हेतुकाः काकवृत्तयः  ।

ईदृशान् वर्जयेच्छ्राद्धे दाने चैव व्रते तथा  ॥ १०९.१४५ ॥

गायत्री पाठमात्रेण वरं विप्रः सुपण्डितः  ।

नायं भृतचतुर्विद्यः सर्वाशीसर्वविक्रयी  ॥ १०९.१४६ ॥

ईदृशान् वर्जयेच्छ्राद्धे व्रते दाने हिरण्मये  ।

उपानहौ च वस्त्रं च शय्यां वा छत्रमासनम्  ॥ १०९.१४७ ॥

यो दद्याद्ब्राह्मणे भक्त्या सोऽपि स्वर्गे महीयते  ।

प्रत्यक्षा सुरभी तत्र तिलधेनुस्तथा मता  ॥ १०९.१४८ ॥

तिलधेनुप्रदातारः स्वस्वदातार एव च  ।

कृष्णाजिनप्रदातारो दातारः कुञ्जरस्य च  ॥ १०९.१४९ ॥

कन्याविद्याप्रदातारोऽक्षयं लोकमवाप्नुयुः  ।

धूर्वहौ दक्षिणायुक्तौ धान्योपस्करसंयुतौ  ॥ १०९.१५० ॥

दापयेत्सर्वकामाय इति मे सत्यभाषितम्  ।

सूत्रेण वेष्टयेदीशमथवा जगतीरुहम्  ॥ १०९.१५१ ॥

मन्दिरं परया भक्त्या अथवा परमेश्वरम्  ।

अथ प्रदक्षिणा कार्या विना शूद्रेण मानवैः  ॥ १०९.१५२ ॥

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्च भवेन्नृप  ।

कुशः क्रौञ्चस्तथा शाकः पुष्करश्चेति सप्तमः  ॥ १०९.१५३ ॥

सप्तसागरपर्यन्ता वेष्टिता तेन भारत  ।

द्वीपेश्वरे तु राजेन्द्र वृषोत्सर्गो जितेन्द्रियैः  ॥ १०९.१५४ ॥

वृषस्य मोक्षणे नैव ऐश्वरं लोकमाप्नुयात् ।

यस्तु वै पाण्डुरो वक्त्रे ललाटे चरणे तथा  ॥ १०९.१५५ ॥

लाङ्गूले च मुखे शुभ्रः स वै नाकस्य दर्शनः  ।

नीलोऽयमीदृशः प्रोक्तो दद्याद्द्वीपेश्वरे शूभे  ॥ १०९.१५६ ॥

पामरास्तेऽप्यसंख्याता नाके गच्छन्ति पार्थिव  ।

सौरे चण्डेश्वरे लोके पुरे वै चक्रपाणिनः  ॥ १०९.१५७ ॥

स भुङ्क्ते स्वेच्छया लोकं व्यासतीर्थप्रभावतः  ।

सपत्नीकांस्ततो विप्रान् पूजयेत्तत्र भक्तितः  ॥ १०९.१५८ ॥

सितरत्नानि वस्त्राणि प्रदद्यादग्रजन्मने  ।

कृत्वा प्रदक्षिणायुग्मं प्रीयतां मे जगद्गुरुः  ॥ १०९.१५९ ॥

नास्ति विप्रसमो बन्धुरिह लोके परत्र च  ।

यमलोके महाघोरे पतितं योऽभिरक्षति  ॥ १०९.१६० ॥

पुरुषाः परया भक्त्या वेदशास्त्रार्थचिन्तकाः  ।

द्वीपेश्वरं महादेवं संस्मरन्ति गृहे स्थिताः  ॥ १०९.१६१ ॥

तेषां न जायते शोको न हानिर्न च दुष्कृतम्  ।

प्रथमं पूजयेत्तत्र लिङ्गं सिद्धेश्वरं नृप  ॥ १०९.१६२ ॥

यत्र सिद्धो महाभागः सत्यवत्याश्च नन्दनः  ।

अस्यैवार्चनतः सिद्धः पाराशर्यो मुनिस्ततः  ॥ १०९.१६३ ॥

तस्मिंस्तीर्थे तु ये राजन् प्राणत्यागं प्रकुर्वते  ।

ते यान्ति परमं लोकं नात्र कार्या विचारणा  ॥ १०९.१६४ ॥

समा सहस्राणि मृतो जले हि यो वै निमग्नः पतने च षोडश  ।

महाहवे षष्टिरशीतिगोगृहे त्वनाशके भारत चाक्षया गतिः  ॥ १०९.१६५ ॥

अथ योगेन तेनैव प्राप्यते चाक्षया गतिः  ।

सूर्यलोकं ततो गत्वा शिवलोकं व्रजन्ति ते  ॥ १०९.१६६ ॥

पितापितामहश्चैव तथैव प्रपितामहः  ।

अनुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम्  ॥ १०९.१६७ ॥

तिष्ठते चैव गोत्रेषु यो दद्याच्च तिलोदकम्  ।

कार्तिक्यां च तथा माघ्यां वैशाख्यां च विशेषतः  ॥ १०९.१६८ ॥

स्वर्गं च ते प्रयान्त्यन्ते स्वस्वपुत्रप्रभावतः  ।

एतत्ते कथितं सर्वं द्वीपेश्वरफलं शुभम्  ॥ १०९.१६९ ॥

यः पठेत्प्रातरुत्थाय यः शृणोति नरो नृप  ।

सोऽपि पापैर्विनिर्मुक्तो मोदते शिवमन्दिरे  ॥ १०९.१७० ॥

ईश्वरं सर्वतीर्थानां निर्मितं ऋषिपुङ्गवैः  ।

कामदं सर्वजन्तूनां रेवायां च नृपोत्तम  ॥ १०९.१७१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे द्वीपेश्वरव्यासतीर्थवर्णनो नाम नवाधिकशततमोऽध्यायः ॥

 

 

अध्याय ११०

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र प्रभासेश्वरमुत्तमम्  ।

विख्यातां त्रिषु लोकेषु स्वर्गसोपानमुत्तमम्  ॥ ११०.१ ॥

 

युधिष्ठिर उवाच –

प्रभासं नाम तीर्थं तु यथाजातं महाफलम्  ।

स्वर्गसोपानमार्गं च संक्षेपात्कथयस्व मे  ॥ ११०.२ ॥

 

मार्कण्डेय उवाच –

दुर्भगा रविपत्नी च प्रभा नामेति विश्रुता  ।

तया चाराधितः शम्भुरुग्रेण तपसा पुरा  ॥ ११०.३ ॥

वायुभक्षा स्थिता वर्षं शिवध्यानपरायणा  ।

ततस्तुष्टो महादेवः प्रभां तां पाण्डुनन्दन  ॥ ११०.४ ॥

उवाच क्लिश्यते कस्माद्बाले त्वं ब्रूहि चेष्टितम्  ।

अहं च भास्करोपेतश्चान्तरं नैव विद्यते  ॥ ११०.५ ॥

 

प्रभोवाच –

नान्यो देवस्तथा शम्भो भर्ता पुष्यति न क्वचित् ।

सगुणो वापि चाख्यातो निर्गुणो द्रव्यवर्जितः  ॥ ११०.६ ॥

प्रियो वा यदि वा द्वेष्यः स्त्रीणां भर्ता हि देवता  ।

दुर्भगा त्वेन दग्धाहं लोकमध्ये महेश्वर  ॥ ११०.७ ॥

अलब्धसौख्या भर्तुश्च तेन क्लिश्ये महेश्वर  ।

 

देव उवाच –

वल्लभा भास्करस्य त्वं मत्प्रभावाद्भविष्यसि  ॥ ११०.८ ॥

 

पार्वत्युवाच –

वल्लभा तव वाक्येन भास्करे न भविष्यति  ।

वृथा क्लेशो भवेदेव प्रभायास्तत्र का कथा  ॥ ११०.९ ॥

देवीवाक्येन रुद्रेण ध्यातस्तिमिरनाशनः  ।

आगतो गगनाद्भानुर्नर्मदायोत्तरे तटे  ॥ ११०.१० ॥

 

भानुरुवाच –

कस्मादाह्वानितो देव अन्धकासुरनाशन  ।

 

देव उवाच –

प्रभां पालय हे भानो सन्तोषेण परेण च  ॥ ११०.११ ॥

प्रभाया मन्दिरे नित्यं स्थीयतां हिमनाशन  ।

एवं लब्धवरा देवात्प्रभा स्थाप्याह शङ्करम्  ॥ ११०.१२ ॥

स्वांशेन स्थीयतामत्र तीर्थमुन्मीलयानघ  ।

 

मार्कण्डेय उवाच –

सर्वदेवमयं लिङ्गं स्थापितं पाण्डुनन्दन  ॥ ११०.१३ ॥

प्रभासेश्वरनामेदं सर्वलोके च दुर्लभम्  ।

अन्यानि यानि तीर्थानि काले तेऽपि फलन्ति वै  ॥ ११०.१४ ॥

प्रभासंचापि राजेन्द्र सद्यः पुण्यफलप्रदम्  ।

माघमासे च सप्तम्यां विशेषफलदं भवेत् ॥ ११०.१५ ॥

अश्वं यो दापयेत्तत्र यथोक्तं ब्राह्मणे नृप  ।

इन्द्रस्य प्राप्यते लोकमथवा भास्करं व्रजेत् ॥ ११०.१६ ॥

दौर्भाग्यं नश्यते तत्र स्नानमात्रेण पाण्डव  ।

तत्र तीर्थे तु यो भक्त्या कन्यादानं प्रयच्छति  ॥ ११०.१७ ॥

ब्राह्मणाय विवाहार्थे दापेयत्पाण्डुनन्दन  ।

समानवयसे विप्रे कुलीने धनिने तथा  ॥ ११०.१८ ॥

यो ददाति महाराज महापातकसंयुतः  ।

तस्य पापं च नश्येत उदके लवणं यथा  ॥ ११०.१९ ॥

स्वामिद्रोहोद्भवं पापं यत्पापं स्तेयसम्भवम्  ।

कूटसाक्ष्यप्रदं पापं चाण्डालव्रतचारिणाम्  ॥ ११०.२० ॥

दाम्भिकं वृक्षकच्छेदमगम्यागमनोद्भवम्  ।

ग्रामकूटोद्भवं यच्च गरदं वा प्रवारकम्  ॥ ११०.२१ ॥

विद्याविक्रयणे यच्च संसर्गोद्भवपातकम्  ।

पत्नीद्रोहोद्भवं घोरं सर्वद्रोहोद्भवं नृप  ॥ ११०.२२ ॥

ब्रह्महत्या च यत्पापं यत्पापं भूमिहारिणः  ।

गोवधे चैव यत्पापं गुर्वग्निब्राह्मणेषु च  ॥ ११०.२३ ॥

जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्च भवेन्नृप  ।

कुशक्रौञ्चस्तथा शाकः पुष्करश्चैव सप्तमः  ॥ ११०.२४ ॥

तत्पापं विलयं याति कन्यादानेन पाण्डव  ।

भित्त्वाथ भास्करं लोकं शुभं व्रजेत् ॥ ११०.२५ ॥

क्रीडते रुद्रलोकस्थो यावदिन्द्राश्चतुर्दश  ।

सर्वपापक्षये जाते शिवो भवति भावतः  ॥ ११०.२६ ॥

तावद्भ्रमति तत्तीर्थं प्रभासं पाण्डुनन्दन  ।

सोऽश्वमेधफलं प्राप्य सत्यमीश्वरभाषितम्  ॥ ११०.२७ ॥

गोदानं च महत्पुण्यं सर्वपापक्षयंकरम्  ।

प्रत्यक्षं सुरभीं तत्र जलधेनुं तथादृतः  ॥ ११०.२८ ॥

तिलधेनुप्रदाता च अश्वदाता तथैव च  ।

कन्याविद्याप्रदाता च अक्षयं लोकमाप्नुयात् ॥ ११०.२९ ॥

भूरिवस्त्रां क्षीरयुक्तां धान्योपस्करसंयुताम्  ।

दापयेत्सर्वकामोऽथ सुरभीं नृपसत्तम  ॥ ११०.३० ॥

सप्तसागरपर्यन्ता वेष्टिता तेन भारत  ।

द्वीपेश्वरे तु राजेन्द्र वृषोत्सर्गं जितेन्द्रियैः  ॥ ११०.३१ ॥

सर्वकालं तु कर्तव्यं चतुर्दश्यां विशेषतः  ॥ ११०.३२ ॥

 

इति श्रीस्कन्दपुराणे प्रभासतीर्थमहिमानुवर्णनो नाम दशाधिकशततमोऽध्यायः ॥

 

 

अध्याय १११

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र नर्मदादक्षिणे तटे  ।

स्थापितं वासुकेर्नाम्ना अशेषाघौघनाशनम्  ॥ १११.१ ॥

 

युधिष्ठिर उवाच –

आः कस्मात्कारणात्तात स्थापितं दक्षिणे तटे  ।

तत्त्वं सर्वं ममाख्याहि त्वशेषं धर्मकारणम्  ॥ १११.२ ॥

 

मार्कण्डेय उवाच –

शृणु त्वं कुरुशार्दूल यः प्रश्नः क्रियते त्वया  ।

भैरवं रूपमास्थाय नृत्यं शम्भुश्चकार ह  ॥ १११.३ ॥

तच्छ्रमाज्जायते स्वेदो गङ्गातोयविमिश्रितः  ।

तत्रैव पन्नगः स्नातो हरतोयविमिश्रिते  ॥ १११.४ ॥

मन्दाकिनी ततः क्रुद्धा व्यालस्योपरि भारत  ।

अजगरत्वमाप्नोषि उरगं चाब्रवीत्तदा  ॥ १११.५ ॥

 

वासुकिरुवाच –

अनुग्राह्योऽस्म्यहं पापो भवत्या हरसम्भृते  ।

त्रैलोक्यपावनी पुण्या सरित्त्वं शुभलक्षणे  ॥ १११.६ ॥

संसारच्छेदनकरी आर्ता नामार्तिनाशिनी  ।

स्वर्गद्वारस्थिते देवि दयां कुरु ममोपरि  ॥ १११.७ ॥

 

गङ्गोवाच –

चर त्वं विपुलं नाग तपो वै शङ्करं प्रति  ।

ततस्तपश्चचारासावीश्वराराधनं परम्  ॥ १११.८ ॥

ततश्च ध्यायतो देवं दमयुक्तोऽभवत्स च  ।

ततो वर्षशते पूर्णे उपरुद्धो जगद्गुरुः  ॥ १११.९ ॥

आगत्य तत्समीपस्थः श्लक्ष्णां वाणीमुदाहरत् ।

वरं वरयतु श्रेष्ठं पन्नग त्वं महाबल  ॥ १११.१० ॥

 

पन्नग उवाच –

यदि तुष्टोऽसि मे देव वरं दातुं त्रिशूलभृत् ।

तदा मे दीयतां स्थानं स्वकीयं वृषवाहन  ॥ १११.११ ॥

 

ईश्वर उवाच –

प्रसन्नोऽहं महाबाहो रेवां गच्छ शुभां त्वरम्  ।

याम्ये चैव तटे पुण्ये स्नानं कृत्वा विधानतः  ॥ १११.१२ ॥

इत्युक्त्वाऽन्तर्दधे देवो वासुकिस्त्वरितान्वितः  ।

रूपेणाजगरेणाथ विवेश नर्मदाजले  ॥ १११.१३ ॥

मार्गेण तस्य तज्जातं जाह्नव्याः स्रोत उत्तमम्  ।

निर्धूतकल्मषः सर्पः स जातो नर्मदाजले  ॥ १११.१४ ॥

स्थापितश्चेश्वरस्तत्र नर्मदाया युधिष्ठिर  ।

तेन नागेश्वरो भूम्यां सर्वपापविनाशनः  ॥ १११.१५ ॥

अष्टम्यां च चतुर्दश्यां मधुना स्नापयेच्छिवम्  ।

विमुक्तः सर्वपापेभ्यो जायते ह्यनलो यथा  ॥ १११.१६ ॥

अपुत्रा ये नराः पार्थ स्नानं कुर्वन्ति संगमे  ।

ते लभन्ते शुभान् पुत्रान् कार्तवीर्योपमानपि  ॥ १११.१७ ॥

श्राद्धं तत्रैव ये भक्त्या उपवासपरायणाः  ।

कुर्वन्ति तारयन्ति स्वान्नरकान्नृपनन्दन  ॥ १११.१८ ॥

एवमाख्यातवानस्मि तव स्नेहाद्विशेषतः  ।

 

मार्कण्डेय उवाच –

ततो गच्छेच्च राजेन्द्र मार्कण्डेश्वरमुत्तमम्  ॥ १११.१९ ॥

नर्मदादक्षिणे कूले गीर्वाणैर्वन्दितं शुभम्  ।

गुह्याद्गुह्यतरं तीर्थं नाख्यातं कस्यचिन्मया  ॥ १११.२० ॥

स्थापितं च मया पुण्यं स्वर्गभोगं च मुक्तिदम्  ।

ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च  ॥ १११.२१ ॥

अन्यसूक्तं च यो ध्यायेद्द्रुपदं च जले जपेत् ।

सोऽपि घोरादघौघाच्च मुच्यते पाण्डुनन्दन  ॥ १११.२२ ॥

वाचिकैर्मानसैश्चापि कर्मजैरपि पाण्डव  ।

पञ्चेन्द्रियाण्यवष्टभ्य याम्यामाशां च संस्थितः  ॥ १११.२३ ॥

यो जपेत्सलिले भक्त्या इत्येवं शङ्करोऽब्रवीत् ।

श्राद्धं तत्रैव यो भक्त्या कुरुते नृपनन्दन  ॥ १११.२४ ॥

पितरस्तस्य वै तृप्ता यावदाहूतसम्प्लवम्  ।

आमलैर्बदरैर्बिल्वैरक्षतैर्वा जलेन वा  ॥ १११.२५ ॥

तर्पयेत्तत्र यः प्रेतान् प्रेता यान्ति शुभां गतिम्  ॥ १११.२६ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मार्कण्डेश्वरमहिमानुवर्णनो नामैकादशाधिकशततमोऽध्यायः ॥

 

 

अध्याय ११२

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम्  ।

उत्तरे नर्मदाकूले यज्ञवाटस्य मध्यतः  ॥ ११२.१ ॥

संकर्षणं च विख्यातं पृथिव्यां पापनाशनम्  ।

तपश्चीर्णं पुरा राजन्नर्मदायास्तटे शुभे  ॥ ११२.२ ॥

बलभद्रेण राजेन्द्र प्राणिनामुपकारकम्  ।

गीर्वाणैश्चैव तत्रैव सन्निधौ नृपनन्दन  ॥ ११२.३ ॥

उमया सहितः शम्भुः स्थितस्तत्रैव केशवः  ।

यस्तत्र स्नापयेद्भक्त्या जितक्रोधो जितेन्द्रियः  ॥ ११२.४ ॥

एकादश्यां सिते पक्षे मन्त्रेण स्नापयेच्छिवम्  ।

श्राद्धं तत्र च यो भक्त्या प्रेतानां वै प्रदापयेत् ॥ ११२.५ ॥

स याति परमं स्थानं बलभद्रवचो यथा  ।

ततो गच्छेच्च राजेन्द्र मन्मथेश्वरमुत्तमम्  ॥ ११२.६ ॥

स्नानमात्रो नरो राजन् यमलोकं न पश्यति  ।

अनपत्या तु या नारी स्नापयेत्पाण्डुनन्दन  ॥ ११२.७ ॥

पुत्रं सा लभते पार्थ सत्यवन्तं दृढव्रतम्  ।

तत्र स्नात्वा नरो राजन्मुनिः प्रयतमानसः  ॥ ११२.८ ॥

उपोष्य परया भक्त्या गोसहस्रफलं लभेत् ।

तत्र नृत्यं प्रकुर्वन्ति ये नरा भक्तिमानसाः  ॥ ११२.९ ॥

गीतवादित्रसंयुक्तं रात्रौ जागरणं शुभम्  ।

सहाम्बिको महादेवस्तुष्टो वै मन्मथेश्वरः  ॥ ११२.१० ॥

किं करिष्यति संरुष्टो यमस्तं न च पश्यति  ।

कामेन स्थापितं तत्र एतस्मात्कारणात्नृप  ॥ ११२.११ ॥

अन्नदानेन भो राजन् कीर्तितं फलमुत्तमम्  ।

सोपानं स्वर्गमार्गस्य पृथिव्यां मन्मथेश्वरः  ॥ ११२.१२ ॥

विशेषात्तत्र संख्यातं श्राद्धदानेन भारत  ।

अन्नदानेन भो राजन् कीर्तितं फलमुत्तमम्  ॥ ११२.१३ ॥

एतत्ते सर्वमाख्यातं तव भक्त्या तु भारत  ॥ ११२.१४ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे मन्मथेश्वरमहिमानुवर्णनोनाम द्वादशाधिकशततमोऽध्यायः ॥

 

 

अध्याय ११३

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र एरण्डीसङ्गमेश्वरम्  ।

प्रख्यातं सर्वलोकेषु ब्रह्महत्याप्रणाशनम्  ॥ ११३.१ ॥

 

युधिष्ठिर उवाच –

कारणं नैव जानेऽहं तत्सर्वं कथयस्व मे  ।

एवमुक्तस्तु धर्मात्मा धर्मपुत्रेण धीमता  ॥ ११३.२ ॥

कथयामास तत्सर्वमृषिसङ्घैः समावृतः  ।

 

मार्कण्डेय उवाच –

कथितं चोमया पूर्वं शम्भुना परमेष्ठिना  ॥ ११३.३ ॥

तत्तेऽहं सम्प्रवक्ष्यामि श्रूयतां भ्रातृभिः सह  ।

 

महेश्वर उवाच –

अत्रिर्नामाह्वयो देव मानसो ब्रह्मणः सुतः  ॥ ११३.४ ॥

अग्निहोत्ररतो नित्यं देवताऽतिथिपूजकः  ।

सोमः संस्थापितोऽत्रैव कृतो विप्रेण पर्वते  ॥ ११३.५ ॥

अनसूयेति नाम्ना वै तस्य भार्या गुणान्विता  ।

पतिव्रता पतिप्राणा पत्युः कार्यहिते रता  ॥ ११३.६ ॥

एवं जातः सदा कालो न पुत्रो न च पुत्रिका  ।

अपराह्णे महाबाहो सुखासीनौ तु तौ क्वचित् ॥ ११३.७ ॥

वदतः सुखदुःखानि दैवदत्तानि यानि च  ।

 

अत्रिरुवाच –

सौम्ये शुभे प्रिये कान्ते सुरूपे प्रियभाषिणि  ॥ ११३.८ ॥

पूर्णचन्द्रनिभाकारे प्रियकामे निरालसे  ।

न त्वया सदृशी लोके त्रैलोक्ये सचराचरे  ॥ ११३.९ ॥

पतिपुत्रप्रिया नारी सुहृज्जनहिते रता  ।

पुत्रेण लोकाज्जयति पुत्रेण परमा गतिः  ॥ ११३.१० ॥

नास्ति पुत्रसमो बन्धुः पृथिव्यां चैव दृश्यते  ।

असिपत्रवने घोरे पतन्तं योऽभिरक्षति  ॥ ११३.११ ॥

दुर्भिक्षेष्वपि दैन्यादौ वृद्धकालेऽपि पुत्रकः  ।

पुत्रं विना च किं भद्रे जीवितैः सधनैरपि  ॥ ११३.१२ ॥

व्याधिभिः परिभूतोऽपि निर्विण्णोऽपि यदा सुतः  ।

लोकलज्जानयत्रस्तः पवित्रं कर्तुमर्हति  ॥ ११३.१३ ॥

एतद्गुणसमायुक्तो निर्गुणः सगुणः सुतः  ।

पुत्रहीने कुतः सौख्यमिह लोके परत्र च  ॥ ११३.१४ ॥

अहश्च मध्यरात्रे च चिन्त्यमानश्च सर्वदा  ।

शुष्यन्ति मम गात्राणि ग्रीष्मे कुसरितो यथा  ॥ ११३.१५ ॥

 

अनसूयोवाच –

यत्त्वया सूचितं विप्र तत्सर्वं शोचयाम्यहम्  ।

तवोद्वेगकरं कार्यं तन्मे दहति चेतसि  ॥ ११३.१६ ॥

ये च पुत्रा भविष्यन्ति दीर्घायुर्गुणसंयुताः  ।

तत्कार्यं च समीक्षेऽहं येन तुष्टः प्रजापतिः  ॥ ११३.१७ ॥

 

अत्रिरुवाच –

तपस्तप्तं मया भद्रे जन्मप्रभृतिदुष्करम्  ।

व्रतोपवासैर्नियमैः शाकाहारेण सुन्दरि  ॥ ११३.१८ ॥

क्षीणं देहं तु पश्यामि अशक्तोऽहं शुभानने  ।

स्थातुं शोचामि चात्मानं रहस्यं कथितं मया  ॥ ११३.१९ ॥

 

अनसूयोवाच –

भर्तः पतिव्रता नारी पतिपुत्रविवर्द्धिनी  ।

त्रिवर्गसाधना सा च सेव्या सा विपुले जने  ॥ ११३.२० ॥

जपस्तपस्तीर्थयात्रा पुत्रेज्यामन्त्रसाधनम्  ।

वदन्ति गुरवः सर्वे यथोक्तं गुरुभाषितम्  ॥ ११३.२१ ॥

अनुज्ञाता च दुःखेऽहं तपस्तप्स्यामि दुष्करम्  ।

पुत्रार्थिनी बहुदिनान्यहं यामि सुरोत्तमम्  ॥ ११३.२२ ॥

 

अत्रिरुवाच –

साधु साधु महाप्राज्ञे मम सन्तोषकारिणि  ।

अनुज्ञाता मया भद्रे पुत्रार्थं तप आचर  ॥ ११३.२३ ॥

देवानां च मनुष्याणां पितॄणामनृणं कुरु  ।

न भार्या सदृशो बन्धुस्त्रिषु लोकेषु विद्यते  ॥ ११३.२४ ॥

नहि देवाः प्रशंसन्ति भार्यया रहितं सुखम्  ।

सम्मुखे सम्मुखा याति विलोमे च पराङ्मुखी  ॥ ११३.२५ ॥

तेन भार्या प्रशंसन्ति सदेवासुरमानुषाः  ।

महाव्रते महाप्रज्ञे सत्यरूपे शुभे क्षणे  ॥ ११३.२६ ॥

तपश्चरस्व शीघ्रं त्वं पुत्रार्थं च ममाज्ञया  ।

एतद्वाक्यावसाने सा साष्टाङ्गं प्रणताऽब्रवीत् ॥ ११३.२७ ॥

त्वत्प्रसादेन विप्रेन्द्र सर्वमेतदवाप्नुयाम्  ।

हंसलीलागतिर्यान्ती लोलाक्षी वरवर्णिनी  ॥ ११३.२८ ॥

विषमस्थानसूया तु प्राप्तासौ नर्मदां नदीम्  ।

सोमनाथेन तत्तुल्यं नात्र कार्या विचारणा  ॥ ११३.२९ ॥

ये स्मरन्ति दिवा रात्रौ योजनानां शतैरपि  ।

मुच्यन्ते सर्वपापेभ्यो रुद्रलोके वसन्ति ते  ॥ ११३.३० ॥

नर्मदायाः समीपे तु द्वे तटे द्वे च योजने  ।

प्रविशन्ती तपस्तत्र रेवायां वरवर्णिनी  ॥ ११३.३१ ॥

यस्या दर्शनमात्रेण नश्यते पापसंचयम्  ।

ततः तस्योत्तरे तीरे परे पर्णाशना शुभा  ॥ ११३.३२ ॥

नियमस्था विशालाक्षी शाकाहारेण सुन्दरी  ।

स्तुवन्ती तु ततो देवाञ्छुभैः स्तोत्रैश्च संयता  ॥ ११३.३३ ॥

ग्रीष्मेषु च महादेवी पञ्चाग्निं साधयेत्ततः  ।

वर्षाकाले सार्द्रवासाचरच्चान्द्रायणं व्रतम्  ॥ ११३.३४ ॥

हेमन्ते च ततः प्राप्ते तोयवासाभवत्ततः  ।

प्रातः स्नानं ततः सान्ध्यं कुर्याद्देवादितर्पणम्  ॥ ११३.३५ ॥

देवानामर्चनं कृत्वा होमं कृत्वा यथा विधि  ।

एवं वर्षशते प्राप्ते विष्णुरुद्रपितामहाः  ॥ ११३.३६ ॥

सम्प्राप्ता द्विजरूपेण एरण्ड्याः सङ्गमं प्रति  ।

संस्थिता अग्रतस्तस्या वेदमभ्युच्चरन्ति ते  ॥ ११३.३७ ॥

अनसूया जपं त्यक्त्वा निरीक्षन्ती मुहुर्मुहुः  ।

उत्थिता सा विशालाक्षी अर्घं दत्त्वा यथाविधि  ॥ ११३.३८ ॥

अद्य मे सफलं जन्म अद्य मे सफलं तपः  ।

दर्शनेन तु विप्राणां सर्वपापैः प्रमुच्यते  ॥ ११३.३९ ॥

प्रदक्षिणां ततः कृत्वा साष्टाङ्गं प्रणताऽब्रवीत् ।

कन्दमूलफलैर्दिव्यैरद्याहं तर्पयामि वः  ॥ ११३.४० ॥

 

विप्रा ऊचुः॒

तपसा तु विचित्रेण तव सत्येन सुव्रते  ।

तृप्ता वै सर्वकामैस्तु तपस्विन्याश्च दर्शनात् ॥ ११३.४१ ॥

अस्माकं कौतुकं जातं किमर्थं तप्यते त्वया  ।

स्वर्गमोक्षं तु रक्षार्थं तपस्तप्यसि दुष्करम्  ॥ ११३.४२ ॥

 

अनसूयोवाच –

तपसा सिध्यते स्वर्गस्तपसा परमा गतिः  ।

तपसा चैव भो विप्राः सर्वकाममवाप्नुयात् ॥ ११३.४३ ॥

 

ब्राह्मणा ऊचुः॒

तन्वी श्यामा विशालाक्षी स्निग्धाङ्गी रूपसंयुता  ।

हंसलीलागतिस्त्वं हि किं चात्मानं विशोषसि  ॥ ११३.४४ ॥

 

अनसूयोवाच –

युवत्वे च तपः कार्यं युवत्वे परमा गति  ।

युवत्वे च सुतोत्पत्तिर्वृद्धत्वे सर्वमप्रियम्  ॥ ११३.४५ ॥

 

विप्रा ऊचुः॒

साधु साधु महाप्राज्ञे वरं प्रार्थय सुव्रते  ।

यत्त्वया चाभिलषितं तत्सर्वं प्रददाम्यहम्  ॥ ११३.४६ ॥

अहं विष्णुरहं रुद्रो ह्यहं साक्षात्पितामहः  ।

गूढरूपधरा लोके स्वचिह्नैरुपलक्षिताः  ॥ ११३.४७ ॥

तस्या वाक्यावसाने तु स्वरूपं दर्शयन्ति ते  ।

स्वैः स्वै रूपैः स्थिता देवाः सूर्यकोटिसमप्रभाः  ॥ ११३.४८ ॥

चतुर्भुजो वासुदेवः शङ्खचक्रगदाधरः  ।

अतसीपुष्पवर्णस्तु पीतवासा जनार्दनः  ॥ ११३.४९ ॥

गरुत्मान् वाहनं यस्य श्रिया च सहितो हरिः  ।

प्रसन्नवदनः श्रीमाञ्छिवरूपो व्यवस्थितः  ॥ ११३.५० ॥

सितवासा महाभागश्चतुर्वदनसंयुतः  ।

हंसोपरिसमारूढो ह्यक्षमालाकरोऽनघ  ॥ ११३.५१ ॥

आगतो नर्मदातीरे ब्रह्मा लोकपितामहः  ।

वृषभं तु समारूढो दशबाहुसमन्वितः  ॥ ११३.५२ ॥

भस्मोद्धूलितगात्रस्तु पञ्चवक्त्रस्त्रिलोचनः  ।

जटामुकुटसंयुक्तश्चन्द्रार्धकृतशेखरः  ॥ ११३.५३ ॥

एतद्रूपधरो देवः सर्वव्यापी महेश्वरः  ।

अनसूया तु तत्रैव देवानां दर्शनात्परम्  ॥ ११३.५४ ॥

वेपमाना रहस्ये तु तान् पश्यन्ती मुहुर्मुहुः  ।

अहं ब्रह्मा ह्यहं विष्णुरहं रुद्रः प्रकीर्तितः  ॥ ११३.५५ ॥

आनन्दिता तु सा देवी दृष्ट्वैतान्महाव्रत  ।

 

अनसूयोवाच –

किं व्यापाराश्च के यूयं विष्णुरुद्रपितामहाः  ॥ ११३.५६ ॥

तदहं श्रोतुमिच्छामीमं प्रश्नं कथयन्तु ते  ।

 

ब्रह्मोवाच –

प्रावृट्कालो ह्यहं प्रोक्त आपश्चैव प्रकीर्तितः  ॥ ११३.५७ ॥

मेघरूपो ह्यहं प्रोक्तो वर्षामि वसुधातले  ।

अहं सर्वाणि भूतानि प्राक्सन्ध्या ह्युदिते रवौ  ॥ ११३.५८ ॥

एतस्मात्कारणाद्भावरहस्यं कथितं मया  ।

 

विष्णुरुवाच –

हेमन्तत्वाच्च विहितं विष्णुरूपं चराचरम्  ॥ ११३.५९ ॥

पालनीयं जगत्सर्वं विष्णोर्माहात्म्यमुत्तमम्  ।

 

रुद्र उवाच –

ग्रीष्मकालो ह्यहं प्रोक्तः सर्वभूतक्षयंकरः  ॥ ११३.६० ॥

शोषयामि जगत्सर्वं रुद्ररूपस्तपस्विनि  ।

एवं ब्रह्मा च विष्णुश्च रुद्रश्चैव महीपते  ॥ ११३.६१ ॥

तिस्रः सन्ध्यास्त्रयो देवास्त्रयः कालास्त्रयोऽग्नयः  ।

तथा ब्रह्मा च विष्णुश्च रुद्रश्चैकत्वमागताः  ॥ ११३.६२ ॥

वरं ददामि ते भद्रे यत्ते मनसि वर्तते  ।

 

अनसूयोवाच –

वन्ध्या लोकैरहं लोके ख्याप्यमाना च सर्वदा  ॥ ११३.६३ ॥

ब्रह्मा विष्णुश्च रुद्रश्च प्रसादात्सुमुखा यतः  ।

परितुष्टास्त्रयो देवा दुर्धर्षाऽपि ममोपरि  ॥ ११३.६४ ॥

अस्मिंस्तीर्थे तु सान्निध्यं वरं ददतु मेऽधुना  ।

 

देवा ऊचुः॒

एवं भवतु ते वाक्यं यत्त्वया प्रार्थितं शुभे  ॥ ११३.६५ ॥

प्रत्यक्षा वैष्णवी माया एरण्डी चैव नामतः  ।

 

अनसूयोवाच –

यदि तुष्टास्त्रयो देवा मम भक्तिप्रबोधिताः  ॥ ११३.६६ ॥

मम पुत्रा भवन्त्वत्र हरिरुद्रपितामहाः  ।

 

विष्णुरुवाच –

अर्थदाः पुत्रतां यान्ति न कदाचिच्छ्रुतं मया  ॥ ११३.६७ ॥

भद्रे ददामि तान् पुत्रान् देवतुल्यपराक्रमान्  ।

पितृतुल्यगुणोपेतान् सोमयाजि बहुश्रुतान्  ॥ ११३.६८ ॥

 

अनसूयोवाच –

ईप्सितं तु प्रदातव्यं यन्मया प्रार्थितं हरे  ।

नान्यथा तच्च कर्तव्यं निवसन्तु ममोदरे  ॥ ११३.६९ ॥

 

श्रीभगवानुवाच –

पूर्वं तु भृगुसंवादे गर्भवास उपार्जितः  ।

तस्याहं चैव पारं तु न च पश्यामि शोभने  ॥ ११३.७० ॥

स्मरमाणः पुरावृत्तं चिन्तयामि पुनः पुनः  ।

एवं संचिन्त्यमानौ हि पितामहमहेश्वरौ  ॥ ११३.७१ ॥

अयोनिजा भविष्यामस्तव पुत्राः सुशोभने  ।

योनिवासं च वै देवा नैव यान्ति वरानने  ॥ ११३.७२ ॥

इत्युक्त्वा च तया सार्धं प्रत्यक्षास्तेऽभवंस्तदा  ।

त्रयो देवा गताः पार्थ नर्मदायोत्तरे तटे  ॥ ११३.७३ ॥

प्राप्ता वरं तु सा देवी प्रियं माहेन्द्रपर्वते  ।

क्षीणदेहा च सा नारी शुष्कदेहा सुदारुणा  ॥ ११३.७४ ॥

कृतयज्ञोपवीता सा तपोनिष्ठा शुभेक्षणा  ।

शिलातले निषण्णा साऽपश्यत्कान्ता महाव्रतम्  ॥ ११३.७५ ॥

हृष्टा तुष्टा महादेवी तिष्ठ कान्तेति चाब्रवीत् ।

तां दृष्ट्वा स मुनिर्धीमान् पुनः कान्तामुवाच ह  ॥ ११३.७६ ॥

 

अत्रिरुवाच –

साधु साधु महाप्राज्ञे अनसूये महाव्रते  ।

असाध्यं सर्वनारीणां वरं प्राप्तासि दुर्लभम्  ॥ ११३.७७ ॥

 

अनसूयोवाच –

त्वत्प्रसादान्महर्षेऽहं वरं प्राप्ता च दुर्लभम्  ।

तेनाहं ते प्रयच्छामि पुत्रानृषितपोधनान्  ॥ ११३.७८ ॥

एवमुक्त्वा ततो देवी हर्षेण महता युता  ।

अलोकयत्तदा कान्तं तेनापि शुभदर्शना  ॥ ११३.७९ ॥

दर्शनादेव संजातं ललाटे मण्डलं शुभम्  ।

नवयोजनसाहस्ररश्मि जालसमावृतम्  ॥ ११३.८० ॥

कदम्बगोलकाकारं त्रिगणं परिमण्डलम्  ।

तस्य मध्ये तु देवेशः पुरुषो दिव्यरूपधृक् ॥ ११३.८१ ॥

हेमवर्णः स वै देवः सूर्यकोटिसमप्रभः  ।

पूर्वपुत्रोऽनसूयायाः साक्षाद्देवः पितामहः  ॥ ११३.८२ ॥

चन्द्रमा इति विख्यातः सोमः पुत्रो नृपात्मज  ।

इष्टः पुत्रो वरीयांस्तु कलाषोडशसंयुतः  ॥ ११३.८३ ॥

प्रतिपच्च द्वितीया च तृतीया च तथा नृप  ।

चतुर्थी पञ्चमी षष्ठी सप्तमी चाष्टमी तथा  ॥ ११३.८४ ॥

नवमी दशमी चैव तथा चैकादशी परा  ।

द्वादशी च त्रयोदशी चतुर्दशी ततः परम्  ॥ ११३.८५ ॥

ततः पञ्चदशी देवी पूर्णमासी प्रकीर्तिता  ।

अमावास्या तु विख्याता अथ सा षोडशी कला  ॥ ११३.८६ ॥

चतुर्विधस्य लोकस्य सूक्ष्मो भूत्वा वरानने  ।

आप्यायते जगत्सर्वं सोमोऽयं सचराचरम्  ॥ ११३.८७ ॥

सुरासुराश्च गन्धर्वा राक्षसाः पन्नगास्तथा  ।

पिशाचाश्च तथादित्याः पितरश्च पितामहः  ॥ ११३.८८ ॥

सर्वे तमुपजीवन्ति हुतं द्रव्यं तु तत्स्थितम्  ।

वनस्पतिगते सोमे यच्छिन्द्याच्च वनस्पतिम्  ॥ ११३.८९ ॥

भुङ्क्ते दुःखं च वै मूढो दहत्यब्दकृतं शुभम्  ।

वनस्पतिगते सोमे यो भक्षेद्दन्तधावनम्  ॥ ११३.९० ॥

चन्द्रमा भक्षितस्तेन पितृवंशस्तु घातितः  ।

अमावास्यां तु राजेन्द्र स्नानं कुर्याद्यथाविधि  ॥ ११३.९१ ॥

अब्दमेकं विशालाक्षि पितॄणां परमा गतिः  ।

हिरण्यं रजतं वस्त्रं यो ददति द्विजातिषु  ॥ ११३.९२ ॥

सर्वं लक्षगुणं राजंल्लभते नात्र संशयः  ।

एतद्गुणविशिष्टोऽसौ सोमरूपः प्रजापतिः  ॥ ११३.९३ ॥

संजातः प्रथमः पुत्रोऽनसूयायास्तु नन्दनः  ।

द्वितीयस्तु महाभाग दुर्वासा नाम नामतः  ॥ ११३.९४ ॥

सृष्टिसंहारकर्ता च स्वयं साक्षान्महेश्वरः  ।

इन्द्रोऽपि शापितस्तेन द्वितीयेन वरानने  ॥ ११३.९५ ॥

द्वितीयस्य तु पुत्रस्य सम्भवः कथितो मया  ।

दत्तात्रेयस्तु नाम्ना वै तृतीयो मधुसूदनः  ॥ ११३.९६ ॥

जगद्व्यापी जगन्नाथः स्वयं देवो जनार्दनः  ।

अवतीर्णो महाभागब्रह्मशम्भुसमन्वितः  ॥ ११३.९७ ॥

पुत्रप्राप्तिपदं तीर्थं नर्मदायोत्तरे तटे  ।

अनसूयाकृतं पार्थ सर्वपापक्षयं करम्  ॥ ११३.९८ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे एरण्डीतीर्थमहिमानुवर्णनो नाम त्रयोदशाधिकशततमोऽध्यायः ॥

 

 

अध्याय ११४

 

मार्कण्डेय उवाच –

एतस्यानन्तरं पार्थ सौवर्णं तीर्थमुत्तमम्  ।

विख्यातं त्रिषु लोकेषु सर्वपापक्षयंकरम्  ॥ ११४.१ ॥

रेवायां दुर्लभं स्नानं सङ्गमस्य समीपतः  ।

विभक्तं हस्तमात्रं च पुण्यक्षेत्रे नराधिप  ॥ ११४.२ ॥

सुवर्णशिलके स्नात्वा शान्तिं याति परां शुभाम्  ।

निर्मित्वा भास्करं देवं होतव्यं तु हुताशने  ॥ ११४.३ ॥

बिल्वेन घृतमिश्रेण बिल्वपत्रेण भूरिणा  ।

प्रीयतां हि जगन्नाथो व्याधिर्नश्यतु मे सदा  ॥ ११४.४ ॥

द्विजेभ्यश्चेत्प्रयुक्तं स्याद्यागस्य फलमाप्नुयात् ।

तत्र दानेन प्रीतात्मा मृतः स्वर्गमवाप्नुयात् ॥ ११४.५ ॥

शुक्लपक्षे तथाष्टम्यां सोपवासो जितेन्द्रियः  ।

यस्तत्र कुरुते श्राद्धं नृदेवभक्तितो नरः  ॥ ११४.६ ॥

समुद्धरेत्कुले तत्र दशपूर्वान् दशापरान्  ।

कांचनं वापि यो दद्याद्धेनुं चैव सुशोभनाम्  ॥ ११४.७ ॥

स याति परमं स्थानं यत्र देवो महेश्वरः  ।

पूजयित्वा शिवं तत्र शत्रूणां विजयो भवेत् ॥ ११४.८ ॥

पुत्रवान् गुणवांश्चैव सर्वव्याधि विवर्जितः  ।

इत्येवं कथितं राजन् सौवर्णं तीर्थमुत्तमम्  ॥ ११४.९ ॥

 

मार्कण्डेय उवाच –

एतस्मिन्नन्तरे तीर्थं करण्डेश्वरमुत्तमम्  ।

प्रख्यातं सर्वलोकेषु नर्मदायोत्तरे तटे  ॥ ११४.१० ॥

सर्वपापहरं प्रोक्तं सर्वदुःखघ्नमुत्तमम्  ।

ततो गच्छेच्च राजेन्द्र तीर्थं परमशोभनम्  ॥ ११४.११ ॥

सौभाग्यकरणं दिव्यं नराणां पापनाशनम्  ।

तत्र या दुर्भगा नारी नरो वा नृपनन्दन  ॥ ११४.१२ ॥

स्नात्वाऽर्चयेदुमां रुद्रं सौभाग्यं तस्य जायते  ।

तृतीयायामहोरात्रं सोपवासो जितेन्द्रियः  ॥ ११४.१३ ॥

निमन्त्रयेद्द्विजं तत्र सपत्नीकं सुरूपिणम्  ।

गन्धमाल्यैरलंकृत्य पुष्पधूपाधिवासितम्  ॥ ११४.१४ ॥

भोजयेत्पायसान्नेन कृशरेणाथ भक्तितः  ।

भोजयित्वा यथा न्यायं प्रदक्षिणमथाचरेत् ॥ ११४.१५ ॥

त्वं तु देवो महादेव सपत्नीको वृषध्वज  ।

यथा ते देव देवेश न वियोगः कदाचन  ॥ ११४.१६ ॥

सोमनाथाख्यकार्पण्यात्तं ध्यायामीह चिन्तयन्  ।

ज्येष्ठे शुक्ले तृतीयायां सौभाग्ये नर्मदाजले  ॥ ११४.१७ ॥

स्नात्वा दत्त्वा च सुभगा न प्रियेण वियुज्यते  ।

 

युधिष्ठिर उवाच –

न दौर्भाग्यं न दारिद्र्यं न शोको न च दुर्गतिः  ॥ ११४.१८ ॥

एतत्सर्वं भवेद्येन तत्सर्वं कथयस्व मे  ।

 

मार्कण्डेय उवाच –

दौर्भाग्यं दुर्गतिं चैव दारिद्र्यं शोकवर्धनम्  ॥ ११४.१९ ॥

वैधव्यं सप्तजन्मनि जायते न युधिष्ठिर  ।

कर्मणा येन पापानां क्षयस्तच्च वदामि ते  ॥ ११४.२० ॥

ज्येष्ठे मासे सिते पक्षे ततीयायां विशेषतः  ।

तत्र स्नात्वा तु यो भक्त्या पञ्चाग्निं साधयेत्तपः  ॥ ११४.२१ ॥

सोऽपि पापैरशेषैस्तु मुच्यते नात्र संशयः  ।

गुग्गुलुं दाहयेद्यस्तु गौरी शिवसमीपतः  ॥ ११४.२२ ॥

तस्मिन् कर्मणि विप्रस्य उक्तानि भवते ततः  ।

देहपाते कृते स्वर्गमित्येवं शङ्करोऽब्रवीत् ॥ ११४.२३ ॥

श्वेतैरक्तैस्तथा पीतैर्वस्त्रैश्च विविधैः शुभैः  ।

ब्राह्मणीर्ब्राह्मणांश्चैव पूजयित्वा यथाविधि  ॥ ११४.२४ ॥

पुष्पैर्नानाविधैश्चैव गन्धधूपैः सुशोभनैः  ।

कण्ठे सूत्रं समाधाय कुङ्कुमेन विलेपयेत् ॥ ११४.२५ ॥

कल्पयित्वा स्त्रियं गौरीं ब्राह्मणं शिवरूपिणम्  ।

ताभ्यां दद्यात्समादृत्य दानमुत्सृज्य वारिणा  ॥ ११४.२६ ॥

कर्णवेष्टं त्वङ्गदं च काञ्चनीं मुद्रिकां तथा  ।

सप्तधान्यं तथा देयं भोजनं नृपसत्तम  ॥ ११४.२७ ॥

अन्यानि चैव दानानि तस्मिंस्तीर्थे नरोत्तम  ।

सर्वदानैश्च यत्पुण्यं तत्पुण्यं त्रिगुणं भवेत् ॥ ११४.२८ ॥

तत्र साहस्रगुणितं नात्र कार्या विचारणा  ।

शङ्करेण समं तत्र भुङ्क्ते भोगाननुत्तमान्  ॥ ११४.२९ ॥

सौभाग्यं तस्य विपुलं जायते नात्र संशयः  ।

अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥ ११४.३० ॥

कामदं तीर्थराजं तु नर्मदायां व्यवस्थितम्  ॥ ११४.३१ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे सौभाग्यतीर्थमहिमानुवर्णनो नाम चतुर्दशाधिकशततमोऽध्यायः ॥

 

 

अध्याय ११५

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र भाण्डारं तीर्थमुत्तमम्  ।

दारिद्र्यभेदकरणं पुरुषांश्चैकविंशतिम्  ॥ ११५.१ ॥

धनदेन तपस्तप्तं प्रसन्नः पद्मसम्भवः  ।

तत्रैव स्वस्वदानेन प्राप्तं वित्तमनन्तकम्  ॥ ११५.२ ॥

तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति  ।

तस्य वित्तपरिच्छेदो न भवेच्च कदाचन  ॥ ११५.३ ॥

तस्यैवानन्तरं राजन् रोहिणीतीर्थमुत्तमम्  ।

विख्यातं त्रिषु लोकेषु सर्वपापहरं परम्  ॥ ११५.४ ॥

 

युधिष्ठिर उवाच –

रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम्  ।

श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि  ॥ ११५.५ ॥

 

मार्कण्डेय उवाच –

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे  ।

तस्योदरे शयानस्य देवदेवस्य पाण्डव  ॥ ११५.६ ॥

नाभ्यामभून्महत्पद्मं रविमण्डलसन्निभम्  ।

कीर्णकाकेसरयुतं पत्रैश्च समलंकृतम्  ॥ ११५.७ ॥

तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः  ।

किं करोमीति देवेश चिन्त्यमानः स्वदेहतः  ॥ ११५.८ ॥

भगवानभवत्तत्र मरीचिर्भरताधिप  ।

मरीचेः कश्यपो जातः सर्वसृष्टिकरस्ततः  ॥ ११५.९ ॥

दक्षस्यापि तदा जाताः पञ्चाशत्कन्यकास्तु वै  ।

ददौ स दश धर्माय कश्यपाय त्रयोदश  ॥ ११५.१० ॥

तथैव च पराः कन्याः सप्तविंशतिमिन्दवे  ।

रोहिणी नाम या तासां मध्ये ताराधिपानना  ॥ ११५.११ ॥

अभीष्टा सर्वनारीणां भर्तुश्चापि विशेषतः  ।

पुनः सा निश्चयीभूता तपसे भो नराधिप  ॥ ११५.१२ ॥

ततः सा नर्मदातीरे चचार विपुलं तपः  ।

एकरात्रं द्विरात्रं च षड्द्वादश तथापरैः  ॥ ११५.१३ ॥

पक्षमासोपवासैश्च कर्षयन्ती कलेवरम्  ।

आराधयन्ती सततं महिषासुरमार्दिनीम्  ॥ ११५.१४ ॥

स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिः स्मिता  ।

ततस्तुष्टा महाभागा देवी नारायणी नृप  ॥ ११५.१५ ॥

प्रसन्ना ते महाभागे व्रतेन नियमेन च  ।

ददामि ते न सन्देहो वरं वृणु यथेप्सितम्  ॥ ११५.१६ ॥

एवं श्रुत्वा तु वचनं रोहिणी शशिनः प्रिया  ।

वरं वव्रे ततो देवीमिदं वचनमब्रवीत् ॥ ११५.१७ ॥

सर्वासां च सपत्नीनामधिका शशिनः प्रिया  ।

यथा भवानि ह्यचिरात्त्वत्प्रसादात्तथा कुरु  ॥ ११५.१८ ॥

एवमस्त्विति सा प्रोक्ता भवान्या भक्तितत्परैः  ।

स्तूयमाना सुरगणैस्तत्रैवान्तरधीयत  ॥ ११५.१९ ॥

तदा प्रभृति सा देवी रोहिणी शशिनः प्रिया  ।

संजाता सर्वलोकस्य वल्लभा नृपसत्तम  ॥ ११५.२० ॥

तत्र तीर्थे तु या नारी नरो वा स्नाति भक्तितः  ।

वल्लभा भवते सा तु भर्तुर्वै रोहिणी यथा  ॥ ११५.२१ ॥

तत्र तीर्थेषु यः कश्चित्प्राणत्यागं करोति च  ।

सप्तजन्मनि तस्यैव वियोगो नैव जायते  ॥ ११५.२२ ॥

 

मार्कण्डेय उवाच –

ततो गच्छेत्तु राजेन्द्र चक्रतीर्थमनुत्तमम्  ।

सेनापुरेति विख्यातं सर्वपापक्षयकरम्  ॥ ११५.२३ ॥

सैनापत्येऽभिषिक्तेन देवदेवेन चक्रिणा  ।

अभिषिक्तो महासेनः स देवेन्द्रपुरोगमैः  ॥ ११५.२४ ॥

दानवस्य वधार्थाय विजयाय दिवौकसाम्  ।

भूमिदानेन विप्रेन्द्रांस्तर्पयित्वा यथा विधि  ॥ ११५.२५ ॥

शङ्खभेरीनिनादेन पटहानां च निःस्वनैः  ।

वीणाभिश्च मृदण्गैश्च झल्लरीकांस्यतालकैः  ॥ ११५.२६ ॥

तच्छ्रुत्वा निनदं घोरं दानवो बलदर्पितः  ।

सुराणामाविघातार्थमभिषेकस्य चाग्रतः  ॥ ११५.२७ ॥

हस्त्यश्वरथपत्त्याद्यैः परिपूर्णो रवाकुलैः  ॥ ११५.२८ ॥

ततस्तु तां रौद्रवस्य वाहिनीं शरैः सुशार्ङ्गोज्झितकैः सुतीक्ष्णैः  ।

विध्वस्य हस्त्यश्वरथान्महात्मा चक्रं विमुक्तं मधुघातिना च  ॥ ११५.२९ ॥

दृष्ट्वा तु भीषणं चक्रमभिव्याप्तं षडाननः  ।

त्यक्त्वा तत्राप्यवस्थानं चकार विपुलं तपः  ॥ ११५.३० ॥

चक्रं मुक्तं विनाशाय हरिणा लोकधारिणा  ।

विह्वलां दाहयामास पपात विमले जले  ॥ ११५.३१ ॥

निष्पापं तच्च संजातं नर्मदायाः प्रभावतः  ।

प्रावृट्काले शुभे पक्षे द्वादश्यां चैव भारत  ॥ ११५.३२ ॥

यश्च याति जितक्रोधश्चक्रतीर्थं हरिप्रियम्  ।

सोऽपि पापैः प्रमुच्येत यमं घोरं न पश्यति  ॥ ११५.३३ ॥

रात्रौ जागरणं कृत्वा दीपं देवस्य दापयेत् ।

कथां च वैष्णवीं तत्र देवदेवं समाहितः  ॥ ११५.३४ ॥

भीमव्रतं च पाराकं कृच्छ्रं चान्द्रायणं तथा  ।

व्रतं सान्तपनं देव त्रिरात्रव्रतकं भृशम्  ॥ ११५.३५ ॥

तरेद्वैतरणीमन्ते भीमं चक्रमहर्निशम्  ।

कूटशाल्मलिवृक्षांश्च कदाचिन्नैव पश्यति  ॥ ११५.३६ ॥

एतत्ते कथितं सर्वं चक्रतीर्थस्य यत्फलम्  ॥ ११५.३७ ॥

 

इति श्रीस्कन्दपुराणे रेवाखण्डे चक्रतीर्थमहिमानुवर्णनो नाम पञ्चदशाधिक शततमोऽध्यायः ॥

 

 

अध्याय ११६

 

मार्कण्डेय उवाच –

धूमपातं ततो गच्छेन्महापातकनाशनम्  ।

समीपे चक्रतीर्थस्या विष्णुना निर्मितं पुरा  ॥ ११६.१ ॥

मेकलां परमां देवीमिमां त्रैलोक्यपावनीम्  ।

कदाचित्पयसां राजा सान्तःपुरपरिच्छदः  ॥ ११६.२ ॥

शिष्टैरिष्टैर्बन्धुभिश्च अर्घपात्रेण संयुतैः  ।

हस्ताभरणसंयुक्तैः पुण्यैरमलकान्तिभिः  ॥ ११६.३ ॥

चन्द्रमण्डलमानैश्च युक्तैर्मुक्ताफलैस्तथा  ।

प्रवाललतिकाभिश्च इन्द्रनीलसमन्वितैः  ॥ ११६.४ ॥

अर्घं ददौ तदा तस्यै वरुणः सरितां पतिः  ।

गङ्गाद्याः सरितः सर्वास्तापी चापि पयोष्णिका  ॥ ११६.५ ॥

नन्दिनी नलिनी पुण्या सर्वमर्घं ददुस्तदा  ।

 

नर्मदोवाच –

मदीये सङ्गमे दिव्ये स्नात्वा सन्तर्पयन्ति ये  ॥ ११६.६ ॥

तस्य सप्तकुलोत्पन्नांस्तारयामि न संशयः  ।

जलाञ्जलिं ततो दत्त्वा समुद्रो वाक्यमब्रवीत् ॥ ११६.७ ॥

धन्योऽहं कृतकृत्योऽहं त्वया देवि वरानने  ।

समायातासि भद्रं ते मां चात्र पावनं कुरु  ॥ ११६.८ ॥

 

नर्मदोवाच –

पवित्रोऽसि महाभाग एकाकी त्वं महोदधे  ।

 

मार्कण्डेय उवाच –

एवं भगवती राजन्नर्मदा मेकला शुभा  ॥ ११६.९ ॥

पूजिता सागरेणापि शुभे सिंहासने स्थिता  ।

पाणिग्रहं गृहीता सा पुरुकुत्सेन भारत  ॥ ११६.१० ॥

पुरुकुत्सस्य भार्या सा गृहधर्मेण संयुता  ।

सदा वै वर्तते राजंस्तत्रैव सङ्गमे शुभे  ॥ ११६.११ ॥

पुष्पवृष्टिस्तदा ह्यासीत्त्रिदशानां महोत्सवे  ।

तत्र स्वयंवरश्चासीत्सरितः पृथिवीपते  ॥ ११६.१२ ॥

तत्र यः कुरुते श्राद्धं स्थानं च पितृतर्पणम्  ।

लक्षयज्ञफलं प्राप्य स मुक्तो नात्र संशयः  ॥ ११६.१३ ॥

एवं त्रैलोक्यपूज्या ते नर्मदा लोकपावनी  ।

तस्या माहात्म्यमतुलं कीर्तितं हि महाभुज  ॥ ११६.१४ ॥

भक्त्या श्रुत्वा महाभाग रुद्रलोके महीयते  ।

आदिमध्यावसानेषु रेवामाहात्म्यमुत्तमम्  ॥ ११६.१५ ॥

यः कश्चिच्छृणुयाद्भक्त्या तस्य स्याद्वाञ्छितं फलम्  ।

श्रुत्वा माहात्म्यमतुलं यो नरो हि जितेन्द्रियः  ॥ ११६.१६ ॥

दानं कुर्यात्तदा तस्य सर्वकामार्थसिद्धयः  ।

पुस्तकं पूजयित्वा तु धूपदीपकचन्दनैः  ॥ ११६.१७ ॥

दानं तत्र प्रकर्तव्यं ब्राह्मणांश्चापि पूजयेत् ।

श्रवणेन तु दानेन सुप्रीता नर्मदा भवेत् ॥ ११६.१८ ॥

तीर्थे तीर्थे च कथितं तत्पूर्वं पाण्डुनन्दन  ।

पुण्यं श्रुत्वा तु माहात्म्यं तद्दानेनैव पाण्डव  ॥ ११६.१९ ॥

एतस्मात्कारणाद्दानं श्रुत्वा दानं हि कारणम्  ।

तच्छ्रुत्वा राजशार्दूलो मार्कण्डेयस्य भाषितम्  ॥ ११६.२० ॥

अर्घं दत्त्वा यथान्यायं पूजयित्वा ऋषीन् सदा  ।

अश्वैर्गजैस्तथा रथैर्भ्रातृभिः सह धर्मराट् ॥ ११६.२१ ॥

तीर्थयात्रां चकाराशु नर्मदायां युधिष्ठिर  ।

उत्तरे दक्षिणे तीरे स्नानपानावगाहनम्  ॥ ११६.२२ ॥

इति श्रीस्कन्दपुराणे रेवाखण्डे युधिष्ठिरमार्कण्डेयसंवादे नर्मदाचरित्रवर्णनो नाम षोडशाधिकशततमोऽध्यायः ॥

 

इति श्रीस्कन्दपुराणस्य रेवाखण्डः ॥

 

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!