याज्ञवल्क्य स्मृति

[आचाराध्याय]

[१. उपोद्घातप्रकरणम्]

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयोऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मानशेषतः ॥ १.१ ॥

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन्मुनीन् ।
यस्मिन् देशे मृगः कृष्णस्तस्मिन् धर्मान्निबोधत ॥ १.२ ॥

पुराणन्यायमीमांसा- धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ १.३ ॥

मन्वत्रिविष्णुहारीत- याज्ञवल्क्योशनोऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ १.४ ॥

पराशरव्यासशङ्ख- लिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः ॥ १.५ ॥

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम् ॥ १.६ ॥

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ १.७ ॥

इज्याचारदमाहिंसा- दानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनात्मदर्शनम् ॥ १.८ ॥

चत्वारो वेदधर्मज्ञाः पर्षत्त्रैविद्यमेव वा ।
सा ब्रूते यं स धर्मः स्यादेको वाध्यात्मवित्तमः ॥ १.९ ॥

[२. ब्रह्मचारिप्रकरणम्]

ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः ॥ १.१० ॥

गर्भाधानमृतौ पुंसः सवनं स्पन्दनात्पुरा ।
षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥ १.११ ॥

अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १.१२ ॥
एवमेनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥ १.१३ ॥

गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे सैके विशामेके यथाकुलम् ॥ १.१४ ॥

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १.१५ ॥

दिवासंध्यासु कर्णस्थ- ब्रह्मसूत्रोदङ्मुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ १.१६ ॥

गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ १.१७ ॥

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥ १.१८ ॥

कनिष्ठादेशिन्यङ्गुष्ठ- मूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्म- देवतीर्थान्यनुक्रमात् ॥ १.१९ ॥

त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥ १.२० ॥

हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ।
शुध्येरन् स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ १.२१ ॥

स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥

गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ १.२३ ॥

प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ १.२४ ॥

संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥ १.२५ ॥

ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुवन् ।
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ १.२६ ॥

आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ १.२७ ॥

कृतज्ञाद्रोहिमेधावि- शुचिकल्यानसूयकाः ।
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥ १.२८ ॥

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
ब्राह्मणेषु चरेद्भैक्षमनिन्द्येष्वात्मवृत्तये ॥ १.२९ ॥

आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.३० ॥

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नमकुत्सयन् ॥ १.३१ ॥
ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि ।
ब्राह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥ १.३२ ॥

मधुमांसाञ्जनोच्छिष्ट- शुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लील- परिवादादि वर्जयेत् ॥ १.३३ ॥

स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥ १.३४ ॥

एकदेशमुपाध्याय ऋत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥ १.३५ ॥

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ॥ १.३६ ॥

आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।
ब्रह्मक्षत्रविशां कालौपनायनिकः परः ॥ १.३७ ॥

अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥ १.३८ ॥

मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ १.३९ ॥

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ १.४० ॥

मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ।
पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् ॥ १.४१ ॥

यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा ॥ १.४२ ॥

स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ १.४३ ॥

मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् ।
पितॄंश्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥ १.४४ ॥

वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः ।
इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥ १.४५ ॥

मांसक्षीरौदनमधु- तर्पणं स दिवौकसाम् ।
करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ १.४६ ॥

ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः ।
यं यं क्रतुमधीते च तस्य तस्याप्नुयात्फलम् ॥ १.४७ ॥

त्रिर्वित्तपूर्णपृथिवी- दानस्य फलमश्नुते ।
तपसश्च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥ १.४८ ॥

नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ १.४९ ॥

अनेन विधिना देहं सादयन् विजितेन्द्रियः ।
ब्रह्मलोकमवाप्नोति न चेहाजायते पुनः ॥ १.५० ॥
[३. विवाहप्रकरणम्]

गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा ॥ १.५१ ॥

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ।
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥ १.५२ ॥

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजान् ।
पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ १.५३ ॥

दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ।
स्फीतादपि न संचारि- रोगदोषसमन्वितात् ॥ १.५४ ॥

एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात्परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥ १.५५ ॥

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ।
नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ १.५६ ॥

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ १.५७ ॥

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ १.५८ ॥

यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ॥ १.५९ ॥

इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने ।
स कायः पावयेत्तज्जः षट्षड्वंश्यान् सहात्मना ॥ १.६० ॥

आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ।
राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ १.६१ ॥

पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् ।
वैश्या प्रतोदमादद्याद्वेदने त्वग्रजन्मनः ॥ १.६२ ॥

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ १.६३ ॥

अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ ।
गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् ॥ १.६४ ॥

सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ।
दत्तामपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् ॥ १.६५ ॥

अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तु त्यजन् दण्ड्यो दूषयंस्तु मृषा शतम् ॥ १.६६ ॥

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ १.६७ ॥

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ १.६८ ॥

आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ १.६९ ॥

हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् ।
परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ १.७० ॥

सोमः शौचं ददावासां गन्धर्वश्च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ १.७१ ॥

व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥ १.७२ ॥

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा ।
स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३ ॥

अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ १.७४ ॥

मृते जीवति वा पत्यौ या नान्यमुपगच्छति ।
सेह कीर्तिमवाप्नोति मोदते चोमया सह ॥ १.७५ ॥

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ १.७६ ॥

स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥ १.७७ ॥

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ १.७८ ॥

षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् ।
ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् ॥ १.७९ ॥

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ १.८० ॥

यथाकामी भवेद्वापि स्त्रीणां वरमनुस्मरन् ।
स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१ ॥

भर्तृभ्रातृपितृज्ञाति- श्वश्रूश्वशुरदेवरैः ।
बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ १.८२ ॥

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच्छ्वशुरयोः पाद- वन्दनं भर्तृतत्परा ॥ १.८३ ॥

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥ १.८४ ॥

रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः ॥ १.८५ ॥

पितृमातृसुतभ्रातृ- श्वश्रूश्वशुरमातुलैः ।
हीना न स्याद्विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८६ ॥

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८७ ॥

सत्यामन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ १.८८ ॥

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥ १.८९ ॥

[४. वर्णजातिविवेकप्रकरणम्]

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.९० ॥

विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ १.९१ ॥

वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥ १.९२ ॥

ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा ।
शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥

क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारमेव च ।
शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ १.९४ ॥

माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ १.९५ ॥

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ १.९६ ॥

[५. गृहस्थधर्मप्रकरणम्]

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९७ ॥

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ।
प्रातःसंध्यामुपासीत दन्तधावनपूर्वकम् ॥ १.९८ ॥

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन्मन्त्रान् समाहितः ।
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥ १.९९ ॥

उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान् पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥ १.१०० ॥

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०१ ॥

बलिकर्मस्वधाहोम- स्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्म- मनुष्याणां महामखाः ॥ १.१०२ ॥

देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डाल- वायसेभ्यश्च निक्षिपेत् ॥ १.१०३ ॥

अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान्न पचेदन्नमात्मने ॥ १.१०४ ॥

बालस्ववासिनीवृद्ध- गर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दंपत्योः शेषभोजनम् ॥ १.१०५ ॥

आपोशनेनोपरिष्टादधस्तादश्नता तथा ।
अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥ १.१०६ ॥

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥ १.१०७ ॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।
भोजयेच्चागतान् काले सखिसंबन्धिबान्धवान् ॥ १.१०८ ॥

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ १.१०९ ॥

प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ १.११० ॥

अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥ १.१११ ॥

परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।
वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ १.११२ ॥

अतिथिं श्रोत्रियं तृप्तमासीमन्तमनुव्रजेत् ।
अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ १.११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥ १.११४ ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ १.११५ ॥

विद्याकर्मवयोबन्धु- वित्तैर्मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानमर्हति ॥ १.११६ ॥

वृद्धभारिनृपस्नात- स्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्नातश्च भूपतेः ॥ १.११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ १.११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्य- पाशुपाल्यं विशः स्मृतम् ॥ १.११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग्भवेत् ।
शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन् ॥ १.१२० ॥

भार्यारतिः शुचिर्भृत्य- भर्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥ १.१२१ ॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥

वयोबुद्ध्यर्थवाग्वेष- श्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्मामशठां तथा ॥ १.१२३ ॥

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ १.१२४ ॥

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १.१२५ ॥

एषामसंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२६ ॥

चाण्डालो जायते यज्ञ- करणाच्छूद्रभिक्षितात् ।
यज्ञार्थं लब्धमददद्भासः काकोऽपि वा भवेत् ॥ १.१२७ ॥

कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा ।
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥ १.१२८ ॥

[६. स्नातकधर्मप्रकरणम्]

न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ।
न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा ॥ १.१२९ ॥

राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डि- बकवृत्तींश्च वर्जयेत् ॥ १.१३० ॥

शुक्लाम्बरधरो नीच- केशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १.१३१ ॥

न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥ १.१३२ ॥

दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देव- मृद्गोविप्रवनस्पतीन् ॥ १.१३३ ॥

न तु मेहेन्नदीछाया- वर्त्मगोष्ठाम्बुभस्मसु ।
न प्रत्यग्न्यर्कगोसोम- संध्याम्बुस्त्रीद्विजन्मनः ॥ १.१३४ ॥

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १.१३५ ॥

अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥ १.१३६ ॥

ष्ठीवनासृक्शकृन्मूत्र- रेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १.१३७ ॥

जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १.१३८ ॥

विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गार- कपालेषु च संस्थितिम् ॥ १.१३९ ॥

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १.१४० ॥

प्रतिग्रहे सूनिचक्रि- ध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १.१४१ ॥

अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १.१४२ ॥

पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥ १.१४३ ॥

त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १.१४४ ॥

[स्वाशाखाश्रोत्रिये ट्xत्]

संध्यागर्जितनिर्घात- भूकंपोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १.१४५ ॥

पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.१४६ ॥

पशुमण्डूकनकुल- श्वाहिमार्जारमूषकैः ।
कृतेऽनन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.१४७ ॥

श्वक्रोष्टृगर्दभोलूक- सामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्य- श्मशानपतितान्तिके ॥ १.१४८ ॥

देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते ॥ १.१४९ ॥

पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १.१५० ॥

खरोष्ट्रयानहस्त्यश्व- नौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान् विदुः ॥ १.१५१ ॥

देवर्त्विक्स्नातकाचार्य- राज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्र- ष्ठीवनोद्वर्तनादि च ॥ १.१५२ ॥

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियमाकाङ्क्षेन्न कंचिन्मर्मणि स्पृशेत् ॥ १.१५३ ॥

दूरादुच्छिष्टविण्मूत्र- पादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ्नित्यमाचारमाचरेत् ॥ १.१५४ ॥

गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १.१५५ ॥

कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ॥ १.१५६ ॥

मातृपित्रतिथिभ्रातृ- जामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्य- वैद्यसंश्रितबान्धवैः ॥ १.१५७ ॥

ऋत्विक्पुरोहितापत्य- भार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल्लोकाञ्जयेद्गृही ॥ १.१५८ ॥

पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।
स्नायान्नदीदेवखात- ह्रदप्रस्रवणेषु च ॥ १.१५९ ॥

परशय्यासनोद्यान- गृहयानानि वर्जयेत् ।
अदत्तान्यग्निहीनस्य नान्नमद्यादनापदि ॥ १.१६० ॥

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्य- गणिकागणदीक्षिणाम् ॥ १.१६१ ॥

चिकित्सकातुरक्रुद्ध- पुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्य- दाम्भिकोच्छिष्टभोजिनाम् ॥ १.१६२ ॥

अवीरास्त्रीस्वर्णकार- स्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मार- तन्तुवायश्ववृत्तिनाम् ॥ १.१६३ ॥

नृशंसराजरजक- कृतघ्नवधजीविनाम् ।
चैलधावसुराजीव- सहोपपतिवेश्मनाम् ॥ १.१६४ ॥

पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ १.१६५ ॥

शूद्रेषु दासगोपाल- कुलमित्रार्धसीरिणः ।
भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदयेत् ॥ १.१६६ ॥

[७. भक्ष्याभक्ष्यप्रकरणम्]

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १.१६७ ॥

उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १.१६८ ॥

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूम- यवगोरसविक्रियाः ॥ १.१६९ ॥

संधिन्यनिर्दशावत्सा- गोपयः परिवर्जयेत् ।
औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम् ॥ १.१७० ॥

देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस्तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १.१७१ ॥

क्रव्यादपक्षिदात्यूह- शुकप्रतुदटिट्टिभान् ।
सारसैकशफान् हंसान् सर्वांश्च ग्रामवासिनः ॥ १.१७२ ॥

कोयष्टिप्लवचक्राह्व- बलाकाबकविष्किरान् ।
वृथाकृसरसम्याव- पायसापूपशष्कुलीः ॥ १.१७३ ॥

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान् खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १.१७४ ॥
चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥ १.१७५ ॥

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७६ ॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः ।
शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १.१७७ ॥

तथा पाठीनराजीव- सशल्काश्च द्विजातिभिः ।
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १.१७८ ॥

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान् पितॄन् समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ १.१७९ ॥

वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥ १.१८० ॥

सर्वान् कामानवाप्नोति हयमेधफलं तथा ।
गृहेऽपि निवसन् विप्रो मुनिर्मांसविवर्जनात् ॥ १.१८१ ॥

[८. द्रव्यशुद्धिप्रकरणम्]

सौवर्णराजताब्जानामूर्ध्वपात्रग्रहाश्मनाम् ।
शाकरज्जुमूलफल- वासोविदलचर्मणाम् ॥ १.१८२ ॥

पात्राणां चमसानां च वारिणा शुद्धिरिष्यते ।
चरुस्रुक्स्रुवसस्नेह- पात्राण्युष्णेन वारिणा ॥ १.१८३ ॥

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ १.१८४ ॥

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८५ ॥

सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् ।
सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८६ ॥

सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८७ ॥

भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा ।
सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात् ॥ १.१८८ ॥

गोघ्रातेऽन्ने तथा केश- मक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९ ॥

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥ १.१९० ॥

अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् ।
वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ॥ १.१९१ ॥

शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डाल- क्रव्यादादिनिपातितम् ॥ १.१९२ ॥

रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १.१९३ ॥

अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः ।
पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९४ ॥

मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्त- सक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५ ॥

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १.१९६ ॥

रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १.१९७ ॥

[९. दानप्रकरणम्]

तपस्तप्त्वासृजद्ब्रह्मा ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १.१९८ ॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥ १.१९९ ॥

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥ १.२०० ॥

गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।
नापात्रे विदुषा किंचिदात्मनः श्रेय इच्छता ॥ १.२०१ ॥

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन् प्रदातारमधो नयत्यात्मानमेव च ॥ १.२०२ ॥

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ १.२०३ ॥

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ १.२०४ ॥

दातास्याः स्वर्गमाप्नोति वत्सरान् रोमसम्मितान् ।
कपिला चेत्तारयति भूयश्चासप्तमं कुलम् ॥ १.२०५ ॥

सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दातास्याः स्वर्गमाप्नोति पूर्वेण विधिना ददत् ॥ १.२०६ ॥

यावद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ १.२०७ ॥

यथाकथंचिद्दत्त्वा गां धेनुं वाधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥ १.२०८ ॥

श्रान्तसंवाहनं रोगि- परिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्ट- मार्जनं गोप्रदानवत् ॥ १.२०९ ॥
भूदीपांश्चान्नवस्त्राम्भस्- तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ १.२१० ॥

गृहधान्याभयोपानच्- छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ १.२११ ॥

सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद्ददत्समवाप्नोति ब्रह्मलोकमविच्युतम् ॥ १.२१२ ॥

प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥ १.२१३ ॥

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याखेयं न वारि च ॥ १.२१४ ॥

अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढ- पतितेभ्यस्तथा द्विषः ॥ १.२१५ ॥

देवातिथिअर्चनकृते गुरुभृत्यार्थमेव वा ।
सर्वतः प्रतिगृह्णीयादात्मवृत्त्यर्थमेव च ॥ १.२१६ ॥

[१०. श्राद्धप्रकरणम्]

अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥ १.२१७ ॥

व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः ॥ १.२१८ ॥

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥ १.२१९ ॥

स्वस्रीयर्त्विज्जामातृ- याज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्र- शिष्यसंबन्धिबान्धवाः ॥ १.२२० ॥

कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ॥ १.२२१ ॥

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ १.२२२ ॥

भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
मित्रध्रुक्पिशुनः सोम- विक्रयी परिविन्दकः ॥ १.२२३ ॥

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ १.२२४ ॥

निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान् शुचिः ।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥ १.२२५ ॥

अपराह्णे समभ्यर्च्य स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ १.२२६ ॥

युग्मान् दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ १.२२७ ॥

द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकमेव वा ।
मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् ॥ १.२२८ ॥

पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥ १.२२९ ॥

यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ १.२३० ॥

या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ १.२३१ ॥

तथाच्छादनदानं च करशौचार्थमम्बु च ।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणम् ॥ १.२३२ ॥

द्विगुणांस्तु कुशान् दत्त्वा ह्युषन्तस्त्वेत्यृचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥ १.२३३ ॥

अपहता इति तिलान् विकीर्य च समन्ततः ।
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ॥ १.२३४ ॥

दत्त्वा अर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥ १.२३५ ॥

अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ १.२३६ ॥

हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ १.२३७ ॥

दत्त्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ १.२३८ ॥

सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ १.२३९ ॥

अन्नमिष्तं हविष्यं च दद्यादक्रोधनोऽत्वरः ।
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ १.२४० ॥

अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च ।
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥ १.२४१ ॥

सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान् दद्याद्वै पितृयज्ञवत् ॥ १.२४२ ॥

मातामहानामप्येवं दद्यादाचमनं ततः ।
स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥ १.२४३ ॥

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४४ ॥

ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् ॥ १.२४५ ॥

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ १.२४६ ॥

इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ १.२४७ ॥

यस्मिंस्तु संस्रवाः पूर्वमर्घ्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥ १.२४८ ॥

प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥ १.२४९ ॥

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत दधि कर्कन्धु- मिश्रान् पिण्डान् यवैः क्रियाः ॥ १.२५० ॥

एकोद्दिष्टं देवहीनमेकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौकरण- रहितं ह्यपसव्यवत् ॥ १.२५१ ॥

उपतिष्ठतामक्षय्य- स्थाने विप्रविसर्जने ।
अभिरम्यतामिति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥ १.२५२ ॥

गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १.२५३ ॥

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत्सपिण्डीकरणमेकोद्दिष्टं स्त्रिया अपि ॥ १.२५४ ॥

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥ १.२५५ ॥

मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥ १.२५६ ॥

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५७ ॥

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ- शाकुनच्छागपार्षतैः ॥ १.२५८ ॥

ऐणरौरववाराह- शाशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥ १.२५९ ॥

खड्दामिषं महाशल्कं मधु मुन्यन्नमेव वा ।
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ १.२६० ॥

यद्ददाति गयास्थश्च सर्वमानन्त्यमश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ १.२६१ ॥

कन्यां कन्यावेदिनश्च पशून् वै सत्सुतानपि ।
द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥ १.२६२ ॥

ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥ १.२६३ ॥

प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ १.२६४ ॥
स्वर्गं ह्यपत्यमोजश्च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥ १.२६५ ॥

प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीत- शोकतां परमां गतिम् ॥ १.२६६ ॥

धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् ।
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥ १.२६७ ॥

कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् ।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥ १.२६८ ॥

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥ १.२६९ ॥

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ १.२७० ॥

[११. गणपतिकल्पप्रकरणम्]

विनायकः कर्मविघ्न- सिद्ध्यर्थं विनियोजितः ।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १.२७१ ॥

तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ १.२७२ ॥

काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ॥ १.२७३ ॥

व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः ।
विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ १.२७४ ॥

तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारमपत्यं गर्भमङ्गना ॥ १.२७५ ॥

आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ १.२७६ ॥

स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ १.२७७ ॥

सर्वाउषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ १.२७८ ॥

अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाध्रदात् ।
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निक्षिपेत् ॥ १.२७९ ॥

या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ १.२८० ॥

सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन त्वामभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ १.२८१ ॥

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ १.२८२ ॥

यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ॥ १.२८३ ॥

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान्मूर्धनि कुशान् सव्येन परिगृह्य च ॥ १.२८४ ॥

मितश्च सम्मितश्चैव तथा शालकटङ्कटौ ।
कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ॥ १.२८५ ॥

नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः ।
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ १.२८६ ॥

कृताकृतांस्तण्डुलांश्च पललौदनमेव च ।
मत्स्यान् पक्वांस्तथैवामान्मांसमेतावदेव तु ॥ १.२८७ ॥

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकापूपांस्तथैवोण्डेरकस्रजः ॥ १.२८८ ॥

दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः ॥ १.२८९ ॥

विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णमञ्जलिम् ॥ १.२९० ॥

रूपं देहि यशो देहि भगं भवति देहि मे ।
पुत्रान् देहि धनं देहि सर्वकामांश्च देहि मे ॥ १.२९१ ॥

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान् भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ १.२९२ ॥

एवं विनायकं पूज्य ग्रहांश्चैव विधानतः ।
कर्मणां फलमाप्नोति श्रियं चाप्नोत्यनुत्तमाम् ॥ १.२९३ ॥

आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ।
महागणपतेश्चैव कुर्वन् सिद्धिमवाप्नुयात् ॥ १.२९४ ॥

[१२. ग्रहशान्तिप्रकरणम्]

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि ॥ १.२९५ ॥

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ १.२९६ ॥

ताम्रकात्स्फटिकाद्रक्त- चन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥ १.२९७ ॥

स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ १.२९८ ॥

गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ १.२९९ ॥
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ १.३०० ॥

बृहस्पतेऽति यदर्यस्तथैवान्नात्परिस्रुतः ।
शं नो देवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा ॥ १.३०१ ॥

अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ १.३०२ ॥

एकैकस्य त्वष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ॥ १.३०३ ॥

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ १.३०४ ॥

दद्याद्ग्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ १.३०५ ॥

धेनुः शङ्खस्तथानड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ १.३०६ ॥

यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ १.३०७ ॥

ग्रहाधीना नरेन्द्राणामुच्छ्रायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥ १.३०८ ॥

ग्रहाणामिदमातिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ॥ १.३०८आ ॥

[१३. राजधर्मप्रकरणम्]

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ १.३०९ ॥

अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ १.३१० ॥

स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ १.३११ ॥

स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान् स्थिरान् शुचीन् ।
तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ १.३१२ ॥

पुरोहितं प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ १.३१३ ॥

श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव च र्त्विजः ।
यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥ १.३१४ ॥

भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ १.३१५ ॥

अस्कन्नमव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठमिहोच्यते ॥ १.३१६ ॥

अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ १.३१७ ॥

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपति- परिज्ञानाय पार्थिवः ॥ १.३१८ ॥

पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ १.३१९ ॥

प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ १.३२० ॥

रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ १.३२१ ॥

तत्र तत्र च निष्णातानध्यक्षान् कुशलान् शुचीन् ।
प्रकुर्यादायकर्मान्त- व्ययकर्मसु चोद्यतान् ॥ १.३२२ ॥

नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ १.३२३ ॥

य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ १.३२४ ॥

पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ १.३२५ ॥

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ १.३२६ ॥

कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ १.३२७ ॥

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येच्चारांस्ततो दूतान् प्रेषयेन्मन्त्रिसंगतः ॥ १.३२८ ॥

ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ १.३२९ ॥

संध्यामुपास्य शृणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥ १.३३० ॥

संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च ।
शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा ॥ १.३३१ ॥

प्रेषयेच्च ततश्चारान् स्वेष्वन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥ १.३३२ ॥

दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ १.३३३ ॥

ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ १.३३४ ॥

पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥ १.३३५ ॥

चाटतस्करदुर्वृत्त- महासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ १.३३६ ॥

अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥ १.३३७ ॥

ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून् सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥ १.३३८ ॥

उत्कोचजीविनो द्रव्य- हीनान् कृत्वा विवासयेत् ।
सद्दानमानसत्कारान् श्रोत्रियान् वासयेत्सदा ॥ १.३३९ ॥

अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥ १.३४० ॥

प्रजापीडनसंतापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश्चादग्ध्वा न निवर्तते ॥ १.३४१ ॥

य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ १.३४२ ॥

यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ १.३४३ ॥

मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात् ॥ १.३४४ ॥

अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥ १.३४५ ॥

उपायाः साम दानं च भेदो दण्डस्तथैव च ।
सम्यक्प्रयुक्ताः सिध्येयुर्दण्डस्त्वगतिका गतिः ॥ १.३४६ ॥

संधिं च विग्रहं यानमासनं संश्रयं तथा ।
द्वैधीभावं गुणानेतान् यथावत्परिकल्पयेत् ॥ १.३४७ ॥

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ १.३४८ ॥

दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता ।
तत्र दैवमभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ १.३४९ ॥

केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ १.३५० ॥

यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥ १.३५१ ॥

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ १.३५२ ॥

स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥ १.३५३ ॥
तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ १.३५४ ॥

स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता ॥ १.३५५ ॥

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ।
जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥ १.३५६ ॥

अधर्मदण्डनं स्वर्ग- कीर्तिलोकविनाशनम् ।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ १.३५७ ॥

अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ १.३५८ ॥

यो दण्ड्यान् दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ १.३५९ ॥

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ १.३६० ॥

कुलानि जातीः श्रेणीश्च गणान् जानपदानपि ।
स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि ॥ १.३६१ ॥

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ १.३६२ ॥

गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ १.३६३ ॥

पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ।
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ १.३६४ ॥

शतमानं तु दशभिर्धरणैः पलमेव तु ।
निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः ॥ १.३६५ ॥

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥ १.३६६ ॥

धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥ १.३६७ ॥

ज्ञात्वापराधं देशं च कालं बलमथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ १.३६८ ॥

[Eन्दोf थे आचाराध्याय]

[ईई. व्यवहाराध्याय]

[१. साधारणव्यवहारमातृकाप्रकरणम्]

व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ २.१ ॥

श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २.२ ॥

अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ २.३ ॥

रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् ॥ २.४ ॥

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ २.५ ॥

प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना ।
समामासतदर्धाहर्- नामजात्यादिचिह्नितम् ॥ २.६ ॥

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ।
ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् ॥ २.७ ॥

तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोऽन्यथा ।
चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥ २.८ ॥

[२. असाधारणव्यवहारमातृकाप्रकरणम्]

अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् ।
अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ २.९ ॥

कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च ।
उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥ २.१० ॥

निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥ २.११ ॥

साहसस्तेयपारुष्य- गोऽभिशापात्यये स्त्रियाम् ।
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ २.१२ ॥

देशाद्देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ २.१३ ॥

परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते ।
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि ॥ २.१४ ॥

स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः ।
अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ २.१५ ॥

संदिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् ।
न चाहूतो वदेत्किंचिद्धीनो दण्ड्यश्च स स्मृतः ॥ २.१६ ॥

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ २.१७ ॥

सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनमेव च ॥ २.१८ ॥
छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ।
भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ २.१९ ॥

निह्नुते लिखितं नैकमेकदेशे विभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः ॥ २.२० ॥

स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः ।
अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ २.२१ ॥

प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् ।
एषामन्यतमाभावे दिव्यान्यतममुच्यते ॥ २.२२ ॥

सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया ।
आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २.२३ ॥

पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २.२४ ॥

आधिसीमोपनिक्षेप- जडबालधनैर्विना ।
तथोपनिधिराजस्त्री- श्रोत्रियाणां धनैरपि ॥ २.२५ ॥

आध्यादीनां विहर्तारं धनिने दापयेद्धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ २.२६ ॥

आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् ।
आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २.२७ ॥

आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् ।
न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ २.२८ ॥

योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् ।
न तत्र कारणं भुक्तिरागमेन विनाकृता ॥ २.२९ ॥

नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ २.३० ॥

बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् ।
स्त्रीनक्तमन्तरागार- बहिःशत्रुकृतांस्तथा ॥ २.३१ ॥

मत्तोन्मत्तार्तव्यसनि- बालभीतादियोजितः ।
असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥ २.३२ ॥

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥ २.३३ ॥

राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्धं द्विजः पुनः ।
विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ २.३४ ॥

इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ २.३५ ॥

देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ २.३६ ॥

[३. ऋणादानप्रकरणम्]

अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रि- चतुष्पञ्चकमन्यथा ॥ २.३७ ॥

कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् ।
दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ २.३८ ॥

संततिस्तु पशुस्त्रीणां रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ २.३९ ॥

प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् ।
साध्यमानो नृपं गच्छन् दण्ड्यो दाप्यश्च तद्धनम् ॥ २.४० ॥

गृहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः ।
दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ॥ २.४१ ॥

राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम् ।
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥ २.४२ ॥

हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् ।
ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥ २.४३ ॥

दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं चेत्स्याद्वर्धते न ततः परम् ॥ २.४४ ॥

अविभक्तैः कुटुम्बार्थे यदृणं तु कृतं भवेत् ।
दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ २.४५ ॥

न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥ २.४६ ॥

सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥ २.४७ ॥

गोपशौण्डिकशैलूष- रजकव्याधयोषिताम् ।
ऋणं दद्यात्पतिस्तेषां यस्माद्वृत्तिस्तदाश्रया ॥ २.४८ ॥

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतम् ।
स्वयंकृतं वा यदृणं नान्यत्स्त्री दातुमर्हति ॥ २.४९ ॥

पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा ।
पुत्रपौत्रैरृणं देयं निह्नवे साक्षिभावितम् ॥ २.५० ॥

रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस्तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ २.५१ ॥

भ्रातॄणामथ दंपत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥ २.५२ ॥

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्यावितरस्य सुता अपि ॥ २.५३ ॥

दर्शनप्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः ॥ २.५४ ॥

बहवः स्युर्यदि स्वांशैर्दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ॥ २.५५ ॥

प्रतिभूर्दापितो यत्तु प्रकाशं धनिनो धनम् ।
द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत् ॥ २.५६ ॥

संततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा ॥ २.५७ ॥

आधिः प्रणश्येद्द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत्फलभोग्यो न नश्यति ॥ २.५८ ॥

गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते ।
नष्टो देयो विनष्टश्च दैवराजकृतादृते ॥ २.५९ ॥

आधेः स्वीकरणात्सिद्धी रक्ष्यमाणोऽप्यसारताम् ।
यातश्चेदन्य आधेयो धनभाग्वा धनी भवेत् ॥ २.६० ॥

चरित्रबन्धककृतं स वृद्ध्या दापयेद्धनम् ।
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ २.६१ ॥

उपस्थितस्य मोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुले न्यस्याधिमाप्नुयात् ॥ २.६२ ॥

तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः ।
विना धारणकाद्वापि विक्रीणीत ससाक्षिकम् ॥ २.६३ ॥

यदा तु द्विगुणीभूतमृणमाधौ तदा खलु ।
मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने ॥ २.६४ ॥

[४. उपनिधिप्रकरणम्]

वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् ॥ २.६५ ॥

न दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।
भ्रेषश्चेन्मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम् ॥ २.६६ ॥

आजीवन् स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।
याचितान्वाहितन्यास- निक्षेपादिष्वयं विधिः ॥ २.६७ ॥

[५. साक्षिप्रकरणम्]

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.६८ ॥

त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ २.६९ ॥

स्त्रीबालवृद्धकितव- मत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारिपाखण्डि- कूटकृद्विकलेन्द्रियाः ॥ २.७० ॥

पतिताप्तार्थसंबन्धि- सहायरिपुतस्कराः ।
साहसी दृष्टदोषश्च निर्धूताद्यास्त्वसाक्षिणः ॥ २.७१ ॥

उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् ।
सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ २.७२ ॥

साक्षिणः श्रावयेद्वादि- प्रतिवादिसमीपगान् ।
ये पातककृतां लोका महापातकिनां तथा ॥ २.७३ ॥

अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
स तान् सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ॥ २.७४ ॥

सुकृतं यत्त्वया किंचिज्जन्मान्तरशतैः कृतम् ।
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २.७५ ॥

अब्रुवन् हि नरः साक्ष्यमृणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः स्यात्षट्चत्वारिंशकेऽहनि ॥ २.७६ ॥

न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥ २.७७ ॥

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ २.७८ ॥

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥ २.७९ ॥

उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ २.८० ॥

पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादाद्द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ २.८१ ॥

यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः ।
स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ २.८२ ॥

वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ २.८३ ॥

[६. लेख्यप्रकरणम्]

यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत्कार्यं तस्मिन् धनिकपूर्वकम् ॥ २.८४ ॥

समामासतदर्धाहर्- नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीय- पितृनामादिचिह्नितम् ॥ २.८५ ॥

समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ॥ २.८६ ॥

साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ २.८७ ॥

उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना ।
लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ २.८८ ॥

विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् ।
तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥ २.८९ ॥

ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ २.९० ॥

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ २.९१ ॥

संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्न- संबन्धागमहेतुभिः ॥ २.९२ ॥

लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वा र्णिको धनम् ।
धनी वोपगतं दद्यात्स्वहस्तपरिचिह्नितम् ॥ २.९३ ॥

दत्त्वा र्णं पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत् ।
साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ २.९४ ॥

[७. दिव्यप्रकरणम्]

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये ।
महाभियोगेष्वेतानि शीर्षकस्थेऽभियोक्तरि ॥ २.९५ ॥

रुच्या वान्यतरः कुर्यादितरो वर्तयेच्छिरः ।
विनापि शीर्षकात्कुर्यान्नृपद्रोहेऽथ पातके ॥ २.९६ ॥

सचैलं स्नातमाहूय सूर्योदय उपोषितम् ।
कारयेत्सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ २.९७ ॥

तुला स्त्रीबालवृद्धान्ध- पङ्गुब्राह्मणरोगिणाम् ।
अग्निर्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ २.९८ ॥

नासहस्राद्धरेत्फालं न विषं न तुलां तथा ।
नृपार्थेष्वभिशापे च वहेयुः शुचयः सदा ॥ २.९९ ॥

तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ २.१०० ॥

त्वं तुले सत्यधामासि पुरा देवैर्विनिर्मिता ।
तत्सत्यं वद कल्याणि संशयान्मां विमोचय ॥ २.१०१ ॥

यद्यस्मि पापकृन्मातस्ततो मां त्वमधो नय ।
शुद्धश्चेद्गमयोर्ध्वं मां तुलामित्यभिमन्त्रयेत् ॥ २.१०२ ॥

करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥ २.१०३ ॥

त्वमग्ने सर्वभूतानामन्तश्चरसि पावक ।
साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ २.१०४ ॥

तस्येत्युक्तवतो लौहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत्पिण्डं हस्तयोरुभयोरपि ॥ २.१०५ ॥
स तमादाय सप्तैव मण्डलानि शनैर्व्रजेत् ।
षोडशाङ्गुलकं ज्ञेयं मण्डलं तावदन्तरम् ॥ २.१०६ ॥

मुक्त्वाग्निं मृदितव्रीहिरदग्धः शुद्धिमाप्नुयात् ।
अन्तरा पतिते पिण्डे संदेहे वा पुनर्हरेत् ॥ २.१०७ ॥

सत्येन माभिरक्ष त्वं वरुणेत्यभिशाप्य कम् ।
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं वशेत् ॥ २.१०८ ॥

समकालमिषुं मुक्तमानीयान्यो जवी नरः ।
गते तस्मिन्निमग्नाङ्गं पश्येच्चेच्छुद्धिमाप्नुयात् ॥ २.१०९ ॥

त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः ।
त्रायस्वास्मादभीशापात्सत्येन भव मेऽमृतम् ॥ २.११० ॥

एवमुक्त्वा विषं शार्ङ्गं भक्षयेद्धिमशैलजम् ।
यस्य वेगैर्विना जीर्येच्छुद्धिं तस्य विनिर्दिशेत् ॥ २.१११ ॥

देवानुग्रान् समभ्यर्च्य तत्स्नानोदकमाहरेत् ।
संस्राव्य पाययेत्तस्माज्जलं तु प्रसृतित्रयम् ॥ २.११२ ॥

अर्वाक्चतुर्दशादह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान्न संशयः ॥ २.११३ ॥

[८. दायविभागप्रकरणम्]

विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् ।
ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ २.११४ ॥

यदि कुर्यात्समानंशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ २.११५ ॥

शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया ।
न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ २.११६ ॥

विभजेरन् सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् ।
मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः ॥ २.११७ ॥

पितृद्रव्याविरोधेन यदन्यत्स्वयमर्जितम् ।
मैत्रमौद्वाहिकं चैव दायादानां न तद्भवेत् ॥ २.११८ ॥

क्रमादभ्यागतं द्रव्यं हृतमप्युद्धरेत्तु यः ।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥ २.११९ ॥

सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
अनेकपितृकाणां तु पितृतो भागकल्पना ॥ २.१२० ॥

भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ।
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ २.१२१ ॥

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।
दृश्याद्वा तद्विभागः स्यादायव्ययविशोधितात् ॥ २.१२२ ॥

पितृभ्यां यस्य तद्दत्तं तत्तस्यैव धनं भवेत् ।
पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥ २.१२३ ॥

असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
भगिन्यश्च निजादंशाद्दत्त्वांशं तु तुरीयकम् ॥ २.१२४ ॥

चतुस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजास्त्रिद्व्येकभागा विड्जास्तु द्व्येकभागिनः ॥ २.१२५ ॥

अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।
तत्पुनस्ते समैरंशैर्विभजेरन्निति स्थितिः ॥ २.१२६ ॥

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ २.१२७ ॥

औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेतरेण वा ॥ २.१२८ ॥

गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ २.१२९ ॥

अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ २.१३० ॥

क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः ।
दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ २.१३१ ॥

उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः ।
पिण्डदोऽंशहरश्चैषां पूर्वाभावे परः परः ॥ २.१३२ ॥

सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः ।
जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् ॥ २.१३३ ॥

मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् ।
अभ्रातृको हरेत्सर्वं दुहितॄणां सुतादृते ॥ २.१३४ ॥

पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा ।
तत्सुता गोत्रजा बन्धु- शिष्यसब्रह्मचारिणः ॥ २.१३५ ॥

एषामभावे पूर्वस्य धनभागुत्तरोत्तरः ।
स्वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ २.१३६ ॥

वानप्रस्थयतिब्रह्म- चारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्य- धर्मभ्रात्रेकतीर्थिनः ॥ २.१३७ ॥

संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः ।
दद्यादपहरेच्चांशं जातस्य च मृतस्य च ॥ २.१३८ ॥

अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् ।
असंसृष्ट्यपि वादद्यात्संसृष्टो नान्यमातृजः ॥ २.१३९ ॥

क्लीबोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः ।
अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर्निरंशकाः ॥ २.१४० ॥

औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः ।
सुताश्चैषां प्रभर्तव्या यावद्वै भर्तृसात्कृताः ॥ २.१४१ ॥

अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ २.१४२ ॥

पितृमातृपतिभ्रातृ- दत्तमध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ २.१४३ ॥

बन्धुदत्तं तथा शुल्कमन्वाधेयकमेव च ।
अतीतायामप्रजसि बान्धवास्तदवाप्नुयुः ॥ २.१४४ ॥

अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्ष्वपि ।
दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥ २.१४५ ॥

दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।
मृतायां दत्तमादद्यात्परिशोध्योभयव्ययम् ॥ २.१४६ ॥

दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ॥ २.१४७ ॥

अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्वर्धं प्रकल्पयेत् ॥ २.१४८ ॥

विभागनिह्नवे ज्ञाति- बन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ॥ २.१४९ ॥

[९. सीमाविवादप्रकरणम्]

सींनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ २.१५० ॥

नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिंनास्थि- चैत्याद्यैरुपलक्षिताम् ॥ २.१५१ ॥

सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ २.१५२ ॥

अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।
अभावे ज्ञातृचिह्नानां राजा सींनः प्रवर्तिता ॥ २.१५३ ॥

आरामायतनग्राम- निपानोद्यानवेश्मसु ।
एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ २.१५४ ॥

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ २.१५५ ॥

न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रोबहूदकः ॥ २.१५६ ॥

स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ २.१५७ ॥

फालाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ २.१५८ ॥
[१०. स्वामिपालविवादप्रकरणम्]

माषानष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस्तदर्धमजाविकम् ॥ २.१५९ ॥

भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणो दमः ।
सममेषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ २.१६० ॥

यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् ।
गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डमर्हति ॥ २.१६१ ॥

पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद्दण्डमर्हति ॥ २.१६२ ॥

महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ २.१६३ ॥

यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत्तथा ।
प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥ २.१६४ ॥

पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिनो द्रव्यमेव च ॥ २.१६५ ॥

ग्राम्येच्छया गोप्रचारो भूमिराजवशेन वा ।
द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ २.१६६ ॥

धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥ २.१६७ ॥

[११. अस्वामिविक्रयप्रकरणम्]

स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ २.१६८ ॥

नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेत् ॥ २.१६९ ॥

विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ॥ २.१७० ॥

आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ॥ २.१७१ ॥

हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ २.१७२ ॥

शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् ।
अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥ २.१७३ ॥

पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ २.१७४ ॥

[१२. दत्ताप्रदानिकप्रकरणम्]

स्वं कुटुम्बाविरोधेन देयं दारसुतादृते ।
नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥ २.१७५ ॥

प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः ॥ २.१७६ ॥

[१३. क्रीतानुशयप्रकरणम्]

दशैकपञ्चसप्ताह- मासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्री- दोह्यपुंसां परीक्षणम् ॥ २.१७७ ॥

अग्नौ सुवर्णमक्षीणं रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ २.१७८ ॥

शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके ।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ २.१७९ ॥

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिश्च कौशेये वाल्कलेषु च ॥ २.१८० ॥

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ २.१८१ ॥

[१४. अभ्युपेत्याशुश्रूषाप्रकरणम्]

बलाद्दासीकृतश्चौरैर्विक्रीतश्चापि मुच्यते ।
स्वामिप्राणप्रदो भक्त- त्यागात्तन्निष्क्रयादपि ॥ २.१८२ ॥

प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् ।
वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ २.१८३ ॥

कृतशिल्पोऽपि निवसेत्कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्त- भोजनस्तत्फलप्रदः ॥ २.१८४ ॥

[१५. संविद्व्यतिक्रमप्रकरणम्]

राजा कृत्वा पुरे स्थानं ब्राह्मणान्न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद्ब्रूयात्स्वधर्मः पाल्यतामिति ॥ २.१८५ ॥

निजधर्माविरोधेन यस्तु समयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ २.१८६ ॥

गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ २.१८७ ॥

कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् ।
यस्तत्र विपरीतः स्यात्स दाप्यः प्रथमं दमम् ॥ २.१८८ ॥

समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ २.१८९ ॥

समूहकार्यप्रहितो यल्लभेत तदर्पयेत् ।
एकादशगुणं दाप्यो यद्यसौ नार्पयेत्स्वयम् ॥ २.१९० ॥

धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ २.१९१ ॥

श्रेणिनैगमपाखण्ड- गणानामप्ययं विधिः ।
भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ॥ २.१९२ ॥

[१६. वेतनादानप्रकरणम्]

गृहीतवेतनः कर्म त्यजन् द्विगुणमावहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ २.१९३ ॥

दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता ॥ २.१९४ ॥

देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा ।
तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके ॥ २.१९५ ॥

यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥ २.१९६ ॥

अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ।
प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ॥ २.१९७ ॥

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिमर्धपथे सर्वां प्रदाप्यस्त्याजकोऽपि च ॥ २.१९८ ॥

[१७. द्यूतसमाह्वयप्रकरणम्]

ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् ॥ २.१९९ ॥

स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् ।
जितमुद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ २.२०० ॥

प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेदन्यथा न तु ॥ २.२०१ ॥

द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि ।
राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ॥ २.२०२ ॥

द्यूतमेकमुखं कार्यं तस्करज्ञानकारणात् ।
एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये ॥ २.२०३ ॥

[१८. वाक्पारुष्यप्रकरणम्]
सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् ॥ २.२०४ ॥

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २.२०५ ॥

अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु च ।
दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ २.२०६ ॥

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानामानुलोम्येन तस्मादर्धार्धहानितः ॥ २.२०७ ॥

बाहुग्रीवानेत्रसक्थि- विनाशे वाचिके दमः ।
सत्यस्तदर्धिकः पाद- नासाकर्णकरादिषु ॥ २.२०८ ॥

अशक्तस्तु वदन्नेवं दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २.२०९ ॥

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २.२१० ॥

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २.२११ ॥

[१९. दण्डपारुष्यप्रकरणम्]

असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च ।
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ॥ २.२१२ ॥

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूत- स्पर्शने द्विगुणस्ततः ॥ २.२१३ ॥

समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।
हीनेष्वर्धदमो मोह- मदादिभिरदण्डनम् ॥ २.२१४ ॥

विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ २.२१५ ॥

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २.२१६ ॥

पादकेशांशुककरोल्- लुञ्चनेषु पणान् दश ।
पीडाकर्षांशुकावेष्ट- पादाध्यासे शतं दमः ॥ २.२१७ ॥

शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः ।
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ २.२१८ ॥

करपाददतो भङ्गे छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ २.२१९ ॥

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥ २.२२० ॥

एकं घ्नतां बहूनां च यथोक्ताद्द्विगुणो दमः ।
कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ॥ २.२२१ ॥

दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ २.२२२ ॥

अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥ २.२२३ ॥

दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ २.२२४ ॥

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ २.२२५ ॥

लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषु द्विगुणो दमः ॥ २.२२६ ॥

प्ररोहिशाखिनां शाखा- स्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः ॥ २.२२७ ॥

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २.२२८ ॥

गुल्मगुच्छक्षुपलता- प्रतानौषधिवीरुधाम् ।
पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २.२२९ ॥

[२०. साहसप्रकरणम्]

सामान्यद्रव्यप्रसभ- हरणात्साहसं स्मृतम् ।
तन्मूल्याद्द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ २.२३० ॥

यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश्चैवमुक्त्वाहं दाता कारयेत्स चतुर्गुणम् ॥ २.२३१ ॥

अर्घ्याक्षेपातिक्रमकृद्भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ २.२३२ ॥

सामन्तकुलिकादीनामपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥ २.२३३ ॥

स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश्चोत्तमान् स्पृशेत् ॥ २.२३४ ॥

शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्नयोग्यो योग्यकर्मकृत् ॥ २.२३५ ॥

वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ २.२३६ ॥

पितृपुत्रस्वसृभातृ- दंपत्याचार्यशिष्यकाः ।
एषामपतितान्योन्य- त्यागी च शतदण्डभाक् ॥ २.२३७ ॥

वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ २.२३८ ॥
पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे च तयोर्यः स्यात्तस्याप्यष्टगुणो दमः ॥ २.२३९ ॥

तुलाशासनमानानां कूटकृन्नाणकस्य च ।
एभिश्च व्यवहर्ता यः स दाप्यो दममुत्तमम् ॥ २.२४० ॥

अकूटं कूटकं ब्रूते कूटं यश्चाप्यकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥ २.२४१ ॥

भिषङ्मिथ्याचरन् दण्ड्यस्तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राज- पुरुषेषूत्तमं दमम् ॥ २.२४२ ॥

अबन्ध्यं यश्च बध्नाति बद्धं यश्च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ॥ २.२४३ ॥

मानेन तुलया वापि योऽंशमष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ २.२४४ ॥

भेषजस्नेहलवण- गन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस्तु षोडश ॥ २.२४५ ॥

मृच्चर्ममणिसूत्रायः- काष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ २.२४६ ॥

समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २.२४७ ॥

भिन्ने पणे च पञ्चाशत्- पणे तु शतमुच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ २.२४८ ॥

संभूय कुर्वतामर्घं संबाधं कारुशिल्पिनाम् ।
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥ २.२४९ ॥

संभूय वणिजां पण्यमनर्घेणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ २.२५० ॥

राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निःस्रवस्तस्माद्वणिजां लाभकृत्स्मृतः ॥ २.२५१ ॥

स्वदेशपण्ये तु शतं वणिग्गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ २.२५२ ॥

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घोऽनुग्रहकृत्कार्यः क्रेतुर्विक्रेतुरेव च ॥ २.२५३ ॥

[२१. विक्रीयासंप्रदानप्रकरणम्]

गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥ २.२५४ ॥

विक्रीतमपि विक्रेयं पूर्वक्रेतर्यगृह्णति ।
हानिश्चेत्क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥ २.२५५ ॥

राजदैवोपघातेन पण्ये दोषमुपागते ।
हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥ २.२५६ ॥

अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद्यदि ।
विक्रीणीते दमस्तत्र मूल्यात्तु द्विगुणो भवेत् ॥ २.२५७ ॥

क्षयं वृद्धिं च वणिजा पण्यानामविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ २.२५८ ॥

[२२ संभूयसमुत्थानप्रकरणम्]

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ २.२५९ ॥

प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम् ।
स तद्दद्याद्विप्लवाच्च रक्षिताद्दशमांशभाक् ॥ २.२६० ॥

अर्घप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ २.२६१ ॥

मिथ्या वदन् परीमाणं शुल्कस्थानादपासरन् ।
दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयी ॥ २.२६२ ॥

तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥ २.२६३ ॥

देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।
ज्ञातयो वा हरेयुस्तद्- आगतास्तैर्विना नृपः ॥ २.२६४ ॥

जिह्मं त्यजेयुर्निर्लाभमशक्तोऽन्येन कारयेत् ।
अनेन विधिराख्यात ऋत्विक्कर्षककर्मिणाम् ॥ २.२६५ ॥

[२३ स्तेयप्रकरणम्]

ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ २.२६६ ॥

अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।
द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥ २.२६७ ॥

परद्रव्यगृहाणां च पृच्छका गूढचारिणः ।
निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥ २.२६८ ॥

गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् ।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २.२६९ ॥

चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः ।
सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥ २.२७० ॥

घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते ।
विवीतभर्तुस्तु पथि चौरोद्धर्तुरवीतके ॥ २.२७१ ॥

स्वसींनि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथ वा पुनः ॥ २.२७२ ॥

बन्दिग्राहांस्तथा वाजि- कुञ्जराणां च हारिणः ।
प्रसह्यघातिनश्चैव शूलानारोपयेन्नरान् ॥ २.२७३ ॥

उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।
कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २.२७४ ॥

क्षुद्रमध्यमहाद्रव्य- हरणे सारतो दमः ।
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २.२७५ ॥

भक्तावकाशाग्न्युदक- मन्त्रोपकरणव्ययान् ।
दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तमः ॥ २.२७६ ॥

शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ २.२७७ ॥

विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीमगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २.२७८ ॥

विषाग्निदां पतिगुरु- निजापत्यप्रमापणीम् ।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २.२७९ ॥

अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ २.२८० ॥

स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह ।
मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः ॥ २.२८१ ॥

क्षेत्रवेश्मवनग्राम- विवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ॥ २.२८२ ॥

[२४ स्त्रीसंग्रहणप्रकरणम्]

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश्चिह्नैः प्रतिपत्तौ द्वयोस्तथा ॥ २.२८३ ॥

नीवीस्तनप्रावरण- सक्थिकेशावमर्शनम् ।
अदेशकालसंभाषं सहैकासनमेव च ॥ २.२८४ ॥

स्त्री निषेधे शतं दद्याद्द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ॥ २.२८५ ॥

सजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ २.२८६ ॥

अलंकृतां हरन् कन्यामुत्तमं ह्यन्यथाधमम् ।
दण्डं दद्यात्सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ २.२८७ ॥

सकामास्वनुलोमासु न दोषस्त्वन्यथा दमः ।
दूषणे तु करच्छेद उत्तमायां वधस्तथा ॥ २.२८८ ॥

शतं स्त्रीदूषणे दद्याद्द्वे तु मिथ्याभिशंसने ।
पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ २.२८९ ॥
अवरुद्धासु दासीसु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ २.२९० ॥

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्यकामासौ चतुर्विंशतिकः पृथक् ॥ २.२९१ ॥

गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् ।
अगृहीते समं दाप्यः पुमानप्येवमेव हि ॥ २.२९२ ॥

अयोनौ गच्छतो योषां पुरुषं वाभिमेहतः ।
चतुर्विंशतिको दण्डस्तथा प्रव्रजितागमे ॥ २.२९३ ॥

अन्त्याभिगमने त्वङ्क्यः कुबन्धेन प्रवासयेत् ।
शूद्रस्तथान्त्य एव स्यादन्त्यस्यार्यागमे वधः ॥ २.२९४ ॥

[२५ प्रकीर्णकप्रकरणम्]

ऊनं वाभ्यधिकं वापि लिखेद्यो राजशासनम् ।
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥ २.२९५ ॥

अभक्ष्येण द्विजं दूष्यो दण्ड्य उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रमर्धिकम् ॥ २.२९६ ॥

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
त्र्यङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ २.२९७ ॥

चतुष्पादकृतो दोषो नापेहीति प्रजल्पतः ।
काष्ठलोष्टेषुपाषाण- बाहुयुग्यकृतस्तथा ॥ २.२९८ ॥

छिन्ननस्येन यानेन तथा भग्नयुगादिना ।
पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ २.२९९ ॥

शक्तोऽप्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद्विक्रुष्टे द्विगुणं तथा ॥ २.३०० ॥

जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ २.३०१ ॥

राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् ।
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ २.३०२ ॥

मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा ।
राजयानासनारोढुर्दण्ड उत्तमसाहसः ॥ २.३०३ ॥

द्विनेत्रभेदिनो राज- द्विष्टादेशकृतस्तथा ।
विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ २.३०४ ॥

दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद्द्विगुणं दमम् ॥ २.३०५ ॥

यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।
तमायान्तं पुनर्जित्वा दापयेद्द्विगुणं दमम् ॥ २.३०६ ॥

राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ २.३०७ ॥

[Eन्दोf थे व्यवहाराध्याय]

[ईईई. प्रायश्चित्ताध्यायह्]

[१. आशौचप्रकरणम्]

ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः ।
आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥ ३.१ ॥

यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना ।
स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् ॥ ३.२ ॥

सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः ।
अप नः शोशुचदघमनेन पितृदिङ्मुखाः ॥ ३.३ ॥

एवं मातामहाचार्य- प्रेतानामुदकक्रिया ।
कामोदकं सखिप्रत्ता- स्वस्रीयश्वशुरर्त्विजाम् ॥ ३.४ ॥

सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः ।
न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ॥ ३.५ ॥

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ३.६ ॥

कृतोदकान् समुत्तीर्णान्मृदुशाद्वलसंस्थितान् ।
स्नातानपवदेयुस्तानितिहासैः पुरातनैः ॥ ३.७ ॥

मानुष्ये कदलीस्तम्भ- निःसारे सारमार्गणम् ।
करोति यः स सम्मूढो जलबुद्बुदसंनिभे ॥ ३.८ ॥

पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः ।
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना ॥ ३.९ ॥

गन्त्री वसुमती नाशमुदधिर्दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ ३.१० ॥

श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ३.११ ॥

इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ ३.१२ ॥

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ ३.१३ ॥

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनामपि ।
इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् ॥ ३.१४ ॥

आचार्यपितृउपाध्यायान्निर्हृत्यापि व्रती व्रती ।
संकटान्नं च नाश्नीयान्न च तैः सह संवसेत् ॥ ३.१५ ॥

क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्क्षितौ ।
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ ३.१६ ॥

जलमेकाहमाकाशे स्थाप्यं क्षीरं च मृन्मये ।
वैतानाउपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् ॥ ३.१७ ॥

त्रिरात्रं दशरात्रं वा शावमाशौचमिष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥ ३.१८ ॥

पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद्ध्रुवम् ।
तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ ३.१९ ॥

अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति ।
गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥ ३.२० ॥

हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ।
प्रोषिते कालशेषः स्यात्पूर्णे दत्त्वोदकं शुचिः ॥ ३.२१ ॥

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ ३.२२ ॥

आदन्तजन्मनः सद्या अचूडान्नैशिकी स्मृता ।
त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परम् ॥ ३.२३ ॥

अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ।
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥ ३.२४ ॥

अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ।
निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ ३.२५ ॥

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक्शुचिः ॥ ३.२६ ॥

महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥ ३.२७ ॥

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारि- दातृब्रह्मविदां तथा ॥ ३.२८ ॥

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते ॥ ३.२९ ॥

उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् ।
अब्लिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् ॥ ३.३० ॥

कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ३.३१ ॥

अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् ।
शोध्यस्य मृच्च तोयं च संन्यासो वै द्विजन्मनाम् ॥ ३.३२ ॥

तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् ।
जपः प्रच्छन्नपानानां मनसः सत्यमुच्यते ॥ ३.३३ ॥

भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥ ३.३४ ॥
[२. आपद्धर्मप्रकरणम्]

क्षात्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ।
निस्तीर्य तामथात्मानं पावयित्वा न्यसेत्पथि ॥ ३.३५ ॥

फलोपलक्षौमसोम- मनुष्यापूपवीरुधः ।
तिलौदनरसक्षारान् दधि क्षीरं घृतं जलम् ॥ ३.३६ ॥

शस्त्रासवमधूच्छिष्टं मधु लाक्षा च बर्हिषः ।
मृच्चर्मपुष्पकुतप- केशतक्रविषक्षितिः ॥ ३.३७ ॥

कौशेयनीललवण- मांसैकशफसीसकान् ।
शकार्द्रौषधिपिण्याक- पशुगन्धांस्तथैव च ॥ ३.३८ ॥

वैश्यवृत्त्यापि जीवन्नो विक्रीणीत कदाचन ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥ ३.३९ ॥

लाक्षालवणमांसानि पतनीयानि विक्रये ।
पायो दधि च मद्यं च हीनवर्णकराणि तु ॥ ३.४० ॥

आपद्गतः संप्रगृह्णन् भुञ्जानो वा यतस्ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः ॥ ३.४१ ॥

कृषिः शिल्पं भृतिर्विद्या कुसीदं शकटं गिरिः ।
सेवानूपं नृपो भैक्षमापत्तौ जीवनानि तु ॥ ३.४२ ॥

बुभुक्षितस्त्र्यहं स्थित्वा धान्यमब्राह्मणाधरेत् ।
प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः ॥ ३.४३ ॥

तस्य वृत्तं कुलं शीलं श्रुतमध्ययनं तपः ।
ज्ञात्वा राजा कुटुम्बं च धर्म्यां वृत्तिं प्रकल्पयेत् ॥ ३.४४ ॥

[३. वानप्रस्थधर्मप्रकरणम्]

सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् ॥ ३.४५ ॥

अफालकृष्तेनाग्नींश्च पितॄन् देवातिथीनपि ।
भृत्यांश्च तर्पयेत्श्मश्रु- जटालोमभृदात्मवान् ॥ ३.४६ ॥

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात्कृतमाश्वयुजे त्यजेत् ॥ ३.४७ ॥

दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।
स्वाध्यायवान् दानशीलः सर्वसत्त्वहिते रतः ॥ ३.४८ ॥

दन्तोलूखलिकः काल- पक्वाशी वाश्मकुट्टकः ।
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात्तथा क्रियाः ॥ ३.४९ ॥

चान्द्रायणैर्नयेत्कालं कृच्छ्रैर्वा वर्तयेत्सदा ।
पक्षे गते वाप्यश्नीयान्मासे वाहनि वा गते ॥ ३.५० ॥

स्वप्याद्भूमौ शुची रात्रौ दिवा संप्रपदैर्नयेत् ।
स्थानासनविहारैर्वा योगाभ्यासेन वा तथा ॥ ३.५१ ॥

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् ॥ ३.५२ ॥

यः कण्टकैर्वितुदति चन्दनैर्यश्च लिंपति ।
अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च ॥ ३.५३ ॥

अग्नीन् वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षमाचरेत् ॥ ३.५४ ॥

ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः ।
वायुभक्षः प्रागुदीचीं गच्छेद्वावर्ष्मसंक्षयात् ॥ ३.५५ ॥

[४. यतिधर्मप्रकरणम्]

वनाद्गृहाद्वा कृत्वेष्टिं सार्ववेदसदक्षिणाम् ।
प्राजापत्यां तदन्ते तानग्नीनारोप्य चात्मनि ॥ ३.५६ ॥

अधीतवेदो जपकृत्पुत्रवानन्नदोऽग्निमान् ।
शक्त्या च यज्ञकृन्मोक्षे मनः कुर्यात्तु नान्यथा ॥ ३.५७ ॥

सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थी ग्राममाश्रयेत् ॥ ३.५८ ॥

अप्रमत्तश्चरेद्भैक्षं सायाह्नेऽनभिलक्षितः ।
रहिते भिक्षुकैर्ग्रामे यात्रामात्रमलोलुपः ॥ ३.५९ ॥

यतिपात्राणि मृद्वेणु- दार्वलाबुमयानि च ।
सलिलं शुद्धिरेतेषां गोवालैश्चावघर्षणम् ॥ ३.६० ॥

संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च ।
भयं हित्वा च भूतानाममृतीभवति द्विजः ॥ ३.६१ ॥

कर्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः ।
ज्ञानोत्पत्तिनिमित्तत्वात्स्वातन्त्र्यकरणाय च ॥ ३.६२ ॥

अवेक्ष्या गर्भवासाश्च कर्मजा गतयस्तथा ।
आधयो व्याधयः क्लेशा जरा रूपविपर्ययः ॥ ३.६३ ॥

भवो जातिसहस्रेषु प्रियाप्रियविपर्ययः ।
ध्यानयोगेन संपश्येत्सूक्ष्म आत्मात्मनि स्थितः ॥ ३.६४ ॥

नाश्रमः कारणं धर्मे क्रियमाणो भवेधि सः ।
अतो यदात्मनोऽपथ्यं परेषां न तदाचरेत् ॥ ३.६५ ॥

सत्यमस्तेयमक्रोधो ह्रीः शौचं धीर्धृतिर्दमः ।
संयतेन्द्रियता विद्या धर्मः सर्व उदाहृतः ॥ ३.६६ ॥

निःसरन्ति यथा लोह- पिण्डात्तप्तात्स्फुलिङ्गकाः ।
सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि ॥ ३.६७ ॥

तत्रात्मा हि स्वयं किंचित्कर्म किंचित्स्वभावतः ।
करोति किंचिदभ्यासाद्धर्माधर्मोभयात्मकम् ॥ ३.६८ ॥
निमित्तमक्षरः कर्ता बोद्धा गुणी वशी ।
अजः शरीरग्रहणात्स जात इति कीर्त्यते ॥ ३.६९ ॥

सर्गादौ स यथाकाशं वायुं ज्योतिर्जलं महीम् ।
सृजत्येकोत्तरगुणांस्तथादत्ते भवन्नपि ॥ ३.७० ॥

आहुत्याप्यायते सूर्यः सूर्याद्वृष्टिरथौषधिः ।
तदन्नं रसरूपेण शुक्रत्वमधिगच्छति ॥ ३.७१ ॥

स्त्रीपुंसयोस्तु संयोगे विशुद्धे शुक्रशोणिते ।
पञ्चधातून् स्वयं षष्ठ आदत्ते युगपत्प्रभुः ॥ ३.७२ ॥

इन्द्रियाणि मनः प्राणो ज्ञानमायुः सुखं धृतिः ।
धारणा प्रेरणं दुःखमिच्छाहंकार एव च ॥ ३.७३ ॥

प्रयत्न आकृतिर्वर्णः स्वरद्वेषौ भवाभवौ ।
तस्यैतदात्मजं सर्वमनादेरादिमिच्छतः ॥ ३.७४ ॥

प्रथमे मासि संक्लेद- भूतो धातुविमूर्च्छितः ।
मास्यर्बुदं द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः ॥ ३.७५ ॥

आकाशाल्लाघवं सौक्ष्म्यं शब्दं श्रोत्रं बलादिकम् ।
वायोश्च स्पर्शनं चेष्टां व्यूहनं रौक्ष्यमेव च ॥ ३.७६ ॥

पित्तात्तु दर्शनं पक्तिमौष्ण्यं रूपं प्रकाशिताम् ।
रसात्तु रसनं शैत्यं स्नेहं क्लेदं समार्दवम् ॥ ३.७७ ॥

भूमेर्गन्धं तथा घ्राणं गौरवं मूर्तिमेव च ।
आत्मा गृह्णात्यजः सर्वं तृतीये स्पन्दते ततः ॥ ३.७८ ॥

दौहृदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
वैरूप्यं मरणं वापि तस्मात्कार्यं प्रियं स्त्रियाः ॥ ३.७९ ॥

स्थैर्यं चतुर्थे त्वङ्गानां पञ्चमे शोणितोद्भवः ।
षष्ठे बलस्य वर्णस्य नखरोम्णां च संभवः ॥ ३.८० ॥

मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुशिरायुतः ।
सप्तमे चाष्टमे चैव त्वङ्मांसस्मृतिमानपि ॥ ३.८१ ॥

पुनर्धात्रीं पुनर्घर्ममोजस्तस्य प्रधावति ।
अष्टमे मास्यतो गर्भो जातः प्राणैर्वियुज्यते ॥ ३.८२ ॥

नवमे दशमे वापि प्रबलैः सूतिमारुतैः ।
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ ३.८३ ॥

तस्य षोढा शरीराणि शट्त्वचो धारयन्ति च ।
सडङ्गानि तथास्थ्नां च सह षष्ट्या शतत्रयम् ॥ ३.८४ ॥

स्थालैः सह चतुःषष्टिर्दन्ता वै विंशतिर्नखाः ।
पाणिपादशलाकाश्च तेषां स्थानचतुष्टयम् ॥ ३.८५ ॥

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयम् ।
चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु ॥ ३.८६ ॥

द्वे द्वे जानुकपोलोरु- फलकांससमुद्भवे ।
अक्षतालूषके श्रोणी- फलके च विनिर्दिशेत् ॥ ३.८७ ॥
भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।
ग्रीवा पञ्चदशास्थिः स्याज्जत्र्वेकैकं तथा हनुः ॥ ३.८८ ॥

तन्मूले द्वे ललाटाक्षि- गण्डे नासा घनास्थिका ।
पार्श्वकाः स्थालकैः सार्धमर्बुदैश्च द्विसप्ततिः ॥ ३.८९ ॥

द्वौ शङ्खकौ कपालानि चत्वारि शिरसस्तथा ।
उरः सप्तदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ ३.९० ॥

गन्धरूपरसस्पर्श- शब्दाश्च विषयाः स्मृताः ।
नासिका लोचने जिह्वा त्वक्श्रोत्रं च इन्द्रियाणि च ॥ ३.९१ ॥

हस्तौ पायुरुपस्थं च जिह्वा पादौ च पञ्च वै ।
कर्मेन्द्रियाणि जानीयान्मनश्चैवोभयात्मकम् ॥ ३.९२ ॥

नाभिरोजो गुदं शुक्रं शोणितं शङ्खकौ तथा ।
मूर्धांसकण्ठहृदयं प्राणस्यायतनानि तु ॥ ३.९३ ॥

वपा वसावहननं नाभिः क्लोम यकृत्प्लिहा ।
क्षुद्रान्त्रं वृक्ककौ बस्तिः पुरीषाधानमेव च ॥ ३.९४ ॥

आमाशयोऽथ हृदयं स्थूलान्त्रं गुद एव च ।
उदरं च गुदौ कोष्ठ्यौ विस्तारोऽयमुदाहृतः ॥ ३.९५ ॥

कनीनिके चाक्षिकूटे शष्कुली कर्णपत्रकौ ।
कर्णौ शङ्खौ भ्रुवौ दन्त- वेष्टावोष्ठौ ककुन्दरे ॥ ३.९६ ॥

वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातजौ स्तनौ ।
उपजिह्वास्फिजौ बाहू जङ्घोरुषु च पिण्डिका ॥ ३.९७ ॥

तालूदरं बस्तिशीर्षं चिबुके गलशुण्डिके ।
अवटश्चैवमेतानि स्थानान्यत्र शरीरके ॥ ३.९८ ॥

अक्षिकर्णचतुष्कं च पद्धस्तहृदयानि च ।
नव छिद्राणि तान्येव प्राणस्यायतनानि तु ॥ ३.९९ ॥

शिराः शतानि सप्तैव नव स्नायुशतानि च ।
धमनीनां शते द्वे तु पञ्च पेशीशतानि च ॥ ३.१०० ॥

एकोनत्रिंशल्लक्षाणि तथा नव शतानि च ।
षट्पञ्चाशच्च जानीत शिरा धमनिसंज्ञिताः ॥ ३.१०१ ॥

त्रयो लक्षास्तु विज्ञेयाः श्मश्रुकेशाः शरीरिणाम् ।
सप्तोत्तरं मर्मशतं द्वे च संधिशते तथा ॥ ३.१०२ ॥

रोम्णां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च ।
सप्तषष्टिस्तथा लक्षाः सार्धाः स्वेदायनैः सह ॥ ३.१०३ ॥

वायवीयैर्विगण्यन्ते विभक्ताः परमाणवः ।
यद्यप्येकोऽनुवेत्त्येषां भावनां चैव संस्थितिम् ॥ ३.१०४ ॥

रसस्य नव विज्ञेया जलस्याञ्जलयो दश ।
सप्तैव तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ ३.१०५ ॥

षट्श्लेष्मा पञ्च पित्तं तु चत्वारो मूत्रमेव च ।
वसा त्रयो द्वौ तु मेदो मज्जैकोर्ध्वं तु मस्तके ॥ ३.१०६ ॥
श्लेष्मौजसस्तावदेव रेतसस्तावदेव तु ।
इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ ॥ ३.१०७ ॥

द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ।
हिताहिता नाम नाड्यस्तासां मध्ये शशिप्रभम् ॥ ३.१०८ ॥

मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ।
स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥ ३.१०९ ॥

ज्ञेयं चारण्यकमहं यदादित्यादवाप्तवान् ।
योगशास्त्रं च मत्प्रोक्तं ज्ञेयं योगमभीप्सता ॥ ३.११० ॥

अनन्यविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रियम् ।
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ ३.१११ ॥

यथाविधानेन पठन् सामगायमविच्युतम् ।
सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति ॥ ३.११२ ॥

अपरान्तकमुल्लोप्यं मद्रकं प्रकरीं तथा ।
औवेणकं सरोबिन्दुमुत्तरं गीतकानि च ॥ ३.११३ ॥

ऋग्गाथा पाणिका दक्ष- विहिता ब्रह्मगीतिका ।
गेयमेतत्तदभ्यास- करणान्मोक्षसंज्ञितम् ॥ ३.११४ ॥

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥ ३.११५ ॥

गीतज्ञो यदि योगेन नाप्नोति परमं पदम् ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥ ३.११६ ॥

अनादिरात्मा कथितस्तस्यादिस्तु शरीरकम् ।
आत्मनस्तु जगत्सर्वं जगतश्चात्मसंभवः ॥ ३.११७ ॥

कथमेतद्विमुह्यामः सदेवासुरमानवम् ।
जगदुद्भूतमात्मा च कथं तस्मिन् वदस्व नः ॥ ३.११८ ॥

मोहजालमपास्येह पुरुषो दृश्यते हि यः ।
सहस्रकरपन्नेत्रः सूर्यवर्चाः सहस्रकः ॥ ३.११९ ॥

स आत्मा चैव यज्ञश्च विश्वरूपः प्रजापतिः ।
विराजः सोऽन्नरूपेण यज्ञत्वमुपगच्छति ॥ ३.१२० ॥

यो द्रव्यदेवतात्याग- संभूतो रस उत्तमः ।
देवान् संतर्प्य स रसो यजमानं फलेन च ॥ ३.१२१ ॥

संयोज्य वायुना सोमं नीयते रश्मिभिस्ततः ।
ऋग्यजुः सामविहितं सौरं धामोपनीयते ॥ ३.१२२ ॥

खमण्डलादसौ सूर्यः सृजत्यमृतमुत्तमम् ।
यज्जन्म सर्वभूतानामशनानशनात्मनाम् ॥ ३.१२३ ॥

तस्मादन्नात्पुनर्यज्ञः पुनरन्नं पुनः क्रतुः ।
एवमेतदनाद्यन्तं चक्रं संपरिवर्तते ॥ ३.१२४ ॥

अनादिरात्मा संभूतिर्विद्यते नान्तरात्मनः ।
समवायी तु पुरुषो मोहेच्छाद्वेषकर्मजः ॥ ३.१२५ ॥
सहस्रात्मा मया यो व आदिदेव उदाहृतः ।
मुखबाहूरुपज्जाः स्युस्तस्य वर्णा यथाक्रमम् ॥ ३.१२६ ॥

पृथिवी पादतस्तस्य शिरसो द्यौरजायत ।
नस्तः प्राणा दिशः श्रोत्रात्स्पर्शाद्वायुर्मुखाच्छिखी ॥ ३.१२७ ॥

मनसश्चन्द्रमा जातश्चक्षुषश्च दिवाकरः ।
जघनादन्तरिक्षं च जगच्च सचराचरम् ॥ ३.१२८ ॥

यद्येवं स कथं ब्रह्मन् पापयोनिषु जायते ।
ईश्वरः स कथं भावैरनिष्टैः संप्रयुज्यते ॥ ३.१२९ ॥

करणैरन्वितस्यापि पूर्वं ज्ञानं कथं च न ।
वेत्ति सर्वगतां कस्मात्सर्वगोऽपि न वेदनाम् ॥ ३.१३० ॥

अन्त्यपक्षिस्थावरतां मनोवाक्कायकर्मजैः ।
दोषैः प्रयाति जीवोऽयं भवं योनिशतेषु च ॥ ३.१३१ ॥

अनन्ताश्च यथा भावाः शरीरेषु शरीरिणाम् ।
रूपाण्यपि तथैवेह सर्वयोनिषु देहिनाम् ॥ ३.१३२ ॥

विपाकः कर्मणां प्रेत्य केषांचिदिह जायते ।
इह वामुत्र वैकेषां भावस्तत्र प्रयोजनम् ॥ ३.१३३ ॥

परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् ।
वितथाभिनिवेशी च जायतेऽन्यासु योनिषु ॥ ३.१३४ ॥

पुरुषोऽनृतवादी च पिशुनः परुषस्तथा ।
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ ३.१३५ ॥

अदत्तादाननिरतः परदारोपसेवकः ।
हिंसकश्चाविधानेन स्थावरेष्वभिजायते ॥ ३.१३६ ॥

आत्मज्ञः शौचवान् दान्तस्तपस्वी विजितेन्द्रियः ।
धर्मकृद्वेदविद्यावित्सात्त्विको देवयोनिताम् ॥ ३.१३७ ॥

असत्कार्यरतोऽधीर आरम्भी विषयी च यः ।
स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ३.१३८ ॥

निद्रालुः क्रूरकृल्लुब्धो नास्तिको याचकस्तथा ।
प्रमादवान् भिन्नवृत्तो भवेत्तिर्यक्षु तामसः ॥ ३.१३९ ॥

रजसा तमसा चैवं समाविष्टो भ्रमन्निह ।
भावैरनिष्टैः संयुक्तः संसारं प्रतिपद्यते ॥ ३.१४० ॥

मलिनो हि यथा आदर्शो रूपालोकस्य न क्षमः ।
तथाविपक्वकरण आत्मज्ञानस्य न क्षमः ॥ ३.१४१ ॥

कट्वेर्वारौ यथापक्वे मधुरः सन् रसोऽपि न ।
प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ॥ ३.१४२ ॥

सर्वाश्रयां निजे देहे देही विन्दति वेदनाम् ।
योगी मुक्तश्च सर्वासां यो न चाप्नोति वेदनाम् ॥ ३.१४३ ॥

आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ।
तथात्मा एको ह्यनेकश्च जलाधारेष्विवांशुमान् ॥ ३.१४४ ॥
ब्रह्मखानिलतेजांसि जलं भूश्चेति धातवः ।
इमे लोका एष चात्मा तस्माच्च सचराचरम् ॥ ३.१४५ ॥

मृद्दण्डचक्रसंयोगात्कुम्भकारो यथा घटम् ।
करोति तृणमृत्काष्ठैर्गृहं वा गृहकारकः ॥ ३.१४६ ॥

हेममात्रमुपादाय रूपं वा हेमकारकः ।
निजलालासमायोगात्कोशं वा कोशकारकः ॥ ३.१४७ ॥

कारणान्येवमादाय तासु तास्विह योनिषु ।
सृजत्यात्मानमात्मा च संभूय करणानि च ॥ ३.१४८ ॥

महाभूतानि सत्यानि यथात्मापि तथैव हि ।
कोऽन्यथैकेन नेत्रेण दृष्टमन्येन पश्यति ॥ ३.१४९ ॥

वाचं वा को विजानाति पुनः संश्रुत्य संश्रुताम् ।
अतीतार्थस्मृतिः कस्य को वा स्वप्नस्य कारकः ॥ ३.१५० ॥

जातिरूपवयोवृत्त- विद्यादिभिरहंकृतः ।
शब्दादिविषयोद्योगं कर्मणा मनसा गिरा ॥ ३.१५१ ॥

स संदिग्धमतिः कर्म- फलमस्ति न वेति वा ।
विप्लुतः सिद्धमात्मानमसिद्धोऽपि हि मन्यते ॥ ३.१५२ ॥

मम दाराः सुतामात्या अहमेषामिति स्थितिः ।
हिताहितेषु भावेषु विपरीतमतिः सदा ॥ ३.१५३ ॥

ज्ञेयज्ञे प्रकृतौ चैव विकारे चाविशेषवान् ।
अनाशकानलाघात- जलप्रपतनोद्यमी ॥ ३.१५४ ॥

एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् ।
कर्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ॥ ३.१५५ ॥

आचार्योपासनं वेद- शास्त्रार्थेषु विवेकिता ।
तत्कर्मणामनुष्ठानं सङ्गः सद्भिर्गिरः शुभाः ॥ ३.१५६ ॥

स्त्र्यालोकालम्भविगमः सर्वभूतात्मदर्शनम् ।
त्यागः परिग्रहाणां च जीर्णकाषायधारणम् ॥ ३.१५७ ॥

विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् ।
शरीरपरिसंख्यानं प्रवृत्तिष्वघदर्शनम् ॥ ३.१५८ ॥

नीरजस्तमसा सत्त्व- शुद्धिर्निःस्पृहता शमः ।
एतैरुपायैः संशुद्धः सत्त्वयोग्यमृती भवेत् ॥ ३.१५९ ॥

तत्त्वस्मृतेरुपस्थानात्सत्त्वयोगात्परिक्षयात् ।
कर्मणां संनिकर्षाच्च सतां योगः प्रवर्तते ॥ ३.१६० ॥

शरीरसंक्षये यस्य मनः सत्त्वस्थमीश्वरम् ।
अविप्लुतमतिः सम्यक्स जातिसंस्मरतामियात् ॥ ३.१६१ ॥

यथा हि भरतो वर्णैर्वर्णयत्यात्मनस्तनुम् ।
नानारूपाणि कुर्वाणस्तथात्मा कर्मजास्तनूः ॥ ३.१६२ ॥

कालकर्मात्मबीजानां दोषैर्मातुस्तथैव च ।
गर्भस्य वैकृतं दृष्टमङ्गहीनादि जन्मनः ॥ ३.१६३ ॥
अहंकारेण मनसा गत्या कर्मफलेन च ।
शरीरेण च नात्मायं मुक्तपूर्वः कथंचन ॥ ३.१६४ ॥

वर्त्याधारस्नेहयोगाद्यथा दीपस्य संस्थितिः ।
विक्रियापि च दृष्टैवमकाले प्राणसंक्षयः ॥ ३.१६५ ॥

अनन्ता रश्मयस्तस्य दीपवद्यः स्थितो हृदि ।
सितासिताः कर्बुरूपाः कपिला नीललोहिताः ॥ ३.१६६ ॥

ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलम् ।
ब्रह्मलोकमतिक्रम्य तेन याति परां गतिम् ॥ ३.१६७ ॥

यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितम् ।
तेन देवशरीराणि सधामानि प्रपद्यते ॥ ३.१६८ ॥

येऽनेकरूपाश्चाधस्ताद्रश्मयोऽस्य मृदुप्रभाः ।
इह कर्मोपभोगाय तैः संसरति सोऽवशः ॥ ३.१६९ ॥

वेदैः शास्त्रैः सविज्ञानैर्जन्मना मरणेन च ।
आर्त्या गत्या तथागत्या सत्येन ह्यनृतेन च ॥ ३.१७० ॥

श्रेयसा सुखदुःखाभ्यां कर्मभिश्च शुभाशुभैः ।
निमित्तशाकुनज्ञान- ग्रहसंयोगजैः फलैः ॥ ३.१७१ ॥

तारानक्षत्रसंचारैर्जागरैः स्वप्नजैरपि ।
आकाशपवनज्योतिर्- जलभूतिमिरैस्तथा ॥ ३.१७२ ॥

मन्वन्तरैर्युगप्राप्त्या मन्त्रौषधिफलैरपि ।
वित्तात्मानं वेद्यमानं कारणं जगतस्तथा ॥ ३.१७३ ॥

अहंकारः स्मृतिर्मेधा द्वेषो बुद्धिः सुखं धृतिः ।
इन्द्रियान्तरसंचार इच्छा धारणजीविते ॥ ३.१७४ ॥

स्वर्गः स्वप्नश्च भावानां प्रेरणं मनसो गतिः ।
निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम् ॥ ३.१७५ ॥

यत एतानि दृश्यन्ते लिङ्गानि परमात्मनः ।
तस्मादस्ति परो देहादात्मा सर्वग ईश्वरः ॥ ३.१७६ ॥

बुद्धीन्द्रियाणि सार्थानि मनः कर्मेन्द्रियाणि च ।
अहंकारश्च बुद्धिश्च पृथिव्यादीनि चैव हि ॥ ३.१७७ ॥

अव्यक्तमात्मा क्षेत्रज्ञः क्षेत्रस्यास्य निगद्यते ।
ईश्रवः सर्वभूतस्थः सन्नसन् सदसच्च यः ॥ ३.१७८ ॥

बुद्धेरुत्पत्तिरव्यक्तात्ततोऽहंकारसंभवः ।
तन्मात्रादीन्यहंकारादेकोत्तरगुणानि च ॥ ३.१७९ ॥

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।
यो यस्मान्निःसृतश्चैषां स तस्मिन्नेव लीयते ॥ ३.१८० ॥

यथात्मानं सृजत्यात्मा तथा वः कथितो मया ।
विपाकात्त्रिप्रकाराणां कर्मणामीश्वरोऽपि सन् ॥ ३.१८१ ॥

सत्त्वं रजस्तमश्चैव गुणास्तस्यैव कीर्तिताः ।
रजस्तमोभ्यामाविष्टश्चक्रवद्भ्राम्यते ह्यसौ ॥ ३.१८२ ॥
अनादिरादिमांश्चैव स एव पुरुषः परः ।
लिङ्गेन्द्रियग्राह्यरूपः सविकार उदाहृतः ॥ ३.१८३ ॥

पितृयानोऽजवीथ्याश्च यदगस्त्यस्य चान्तरम् ।
तेनाग्निहोत्रिणो यान्ति स्वर्गकामा दिवं प्रति ॥ ३.१८४ ॥

ये च दानपराः सम्यगष्टाभिश्च गुणैर्युताः ।
तेऽपि तेनैव मार्गेण सत्यव्रतपरायणाः ॥ ३.१८५ ॥

तत्राष्टाशीतिसाहस्र- मुनयो गृहमेधिनः ।
पुनरावर्तिनो बीज- भूता धर्मप्रवर्तकाः ॥ ३.१८६ ॥

सप्तर्षिनागवीथ्यन्तर्देवलोकं समाश्रिताः ।
तावन्त एव मुनयः सर्वारम्भविवर्जिताः ॥ ३.१८७ ॥

तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया ।
तत्र गत्वावतिष्ठन्ते यावदाभूतसंप्लवम् ॥ ३.१८८ ॥

यतो वेदाः पुराणानि विद्योपनिषदस्तथा ।
श्लोका सूत्राणि भाष्याणि यच्च किंचन वाङ्मयम् ॥ ३.१८९ ॥

वेदानुवचनं यज्ञो ब्रह्मचर्यं तपो दमः ।
श्रद्धोपवासः स्वातन्त्र्यमात्मनो ज्ञानहेतवः ॥ ३.१९० ॥

स ह्याश्रमैर्विजिज्ञास्यः समस्तैरेवमेव तु ।
द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश्च द्विजातिभिः ॥ ३.१९१ ॥

य एनमेवं विन्दन्ति य वारण्यकमाश्रिताः ।
उपासते द्विजाः सत्यं श्रद्धया परया युताः ॥ ३.१९२ ॥

क्रमात्ते संभवन्त्यर्चिरहः शुक्लं तथोत्तरम् ।
अयनं देवलोकं च सवितारं सवैद्युतम् ॥ ३.१९३ ॥

ततस्तान् पुरुषोऽभ्येत्य मानसो ब्रह्मलौकिकान् ।
करोति पुनरावृत्तिस्तेषामिह न विद्यते ॥ ३.१९४ ॥

यज्ञेन तपसा दानैर्ये हि स्वर्गजितो नराः ।
धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ॥ ३.१९५ ॥

पितृलोकं चन्द्रमसं वायुं वृष्टिं जलं महीम् ।
क्रमात्ते संभवन्तीह पुनरेव व्रजन्ति च ॥ ३.१९६ ॥

एतद्यो न विजानाति मार्गद्वितयमात्मवान् ।
दन्दशूकः पतङ्गो वा भवेत्कीटोऽथ वा कृमिः ॥ ३.१९७ ॥

ऊरुस्थोत्तानचरणः सव्ये न्यस्योत्तरं करम् ।
उत्तानं किंचिदुन्नाम्य मुखं विष्टभ्य चोरसा ॥ ३.१९८ ॥

निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तानसंस्पृशन् ।
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ॥ ३.१९९ ॥

संनिरुध्येन्द्रियग्रामं नातिनीचोच्छ्रितासनः ।
द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ॥ ३.२०० ॥

ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ।
धारयेत्तत्र चात्मानं धारणां धारयन् बुधः ॥ ३.२०१ ॥
अन्तर्धानं स्मृतिः कान्तिर्दृष्टिः श्रोत्रज्ञता तथा ।
निजं शरीरमुत्सृज्य परकायप्रवेशनम् ॥ ३.२०२ ॥

अर्थानां छन्दतः सृष्टिर्योगसिद्धेर्हि लक्षणम् ।
सिद्धे योगे त्यजन् देहममृतत्वाय कल्पते ॥ ३.२०३ ॥

अथ वाप्यभ्यसन् वेदं न्यस्तकर्मा वने वसन् ।
अयाचिताशी मितभुक्परां सिद्धिमवाप्नुयात् ॥ ३.२०४ ॥

न्यायागतधनस्तत्त्व- ज्ञाननिष्ठोऽतिथिप्रियः ।
श्राधकृत्सत्यवादी च गृहस्थोऽपि हि मुच्यते ॥ ३.२०५ ॥

[५. प्रायश्चित्तप्रकरणम्]

महापातकजान् घोरान्नरकान् प्राप्य दारुणान् ।
कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ॥ ३.२०६ ॥

मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ।
खरपुल्कसवेनानां सुरापो नात्र संशयः ॥ ३.२०७ ॥

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् ।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः ॥ ३.२०८ ॥

ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः ।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ ३.२०९ ॥

यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते ।
अन्नहर्तामयावी स्यान्मूको वागपहारकः ॥ ३.२१० ॥

धान्यमिश्रोऽतिरिक्ताञ्गः पिशुनः पूतिनासिकः ।
तैलहृत्तैलपायी स्यात्पूतिवक्त्रस्तु सूचकः ॥ ३.२११ ॥

परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ ३.२१२ ॥

हीनजातौ प्रजायेत पररत्नापहारकः ।
पत्रशाकं शिखी हत्वा गन्धान् छुच्छुन्दरी शुभान् ॥ ३.२१३ ॥

मूषको धान्यहारी स्याद्यानमुष्ट्रः कपिः फलम् ।
जलं प्लवः पयः काको गृहकारी ह्युपस्करम् ॥ ३.२१४ ॥

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा ।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः ॥ ३.२१५ ॥

प्रदर्शनार्थमेतत्तु मयोक्तं स्तेयकर्मणि ।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ ३.२१६ ॥

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात् ।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः ॥ ३.२१७ ॥

ततो निष्कल्मषीभूताः कुले महति भोगिनः ।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः ॥ ३.२१८ ॥

विहितस्याननुष्ठानान्निन्दितस्य च सेवनात् ।
अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति ॥ ३.२१९ ॥

तस्मात्तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये ।
एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति ॥ ३.२२० ॥

प्रायश्चित्तमकुर्वाणाः पापेषु निरता नराः ।
अपश्चात्तापिनः कष्टान्नरकान् यान्ति दारुणान् ॥ ३.२२१ ॥

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली ।
रौरवं कुड्मलं पूति- मृत्तिकं कालसूत्रकम् ॥ ३.२२२ ॥

संघातं लोहितोदं च सविषं संप्रपातनम् ।
महानरककाकोलं संजीवनमहापथम् ॥ ३.२२३ ॥

अवीचिमन्धतामिस्रं कुम्भीपाकं तथैव च ।
असिपत्रवनं चैव तापनं चैकविंशकम् ॥ ३.२२४ ॥

महापातकजैर्घोरैरुपपातकजैस्तथा ।
अन्विता यान्त्यचरित- प्रायश्चित्ता नराधमाः ॥ ३.२२५ ॥

प्रायश्चित्तैरपैत्येनो यदज्ञानकृतं भवेत् ।
कामतो व्यवहार्यस्तु वचनादिह जायते ॥ ३.२२६ ॥

ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः ।
एते महापातकिनो यश्च तैः सह संवसेत् ॥ ३.२२७ ॥

गुरूणामध्यधिक्षेपो वेदनिन्दा सुहृद्वधः ।
ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ ३.२२८ ॥

निषिद्धभक्षणं जैह्म्यमुत्कर्षे च वचोऽनृतम् ।
रजस्वलामुखास्वादः सुरापानसमानि तु ॥ ३.२२९ ॥

अश्वरत्नमनुष्यस्त्री- भूधेनुहरणं तथा ।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम् ॥ ३.२३० ॥

सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च ।
सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम् ॥ ३.२३१ ॥

पितुः स्वसारं मातुश्च मतुलानीं स्नुषामपि ।
मातुः सपत्नीं भगिनीमाचार्यतनयां तथा ॥ ३.२३२ ॥

आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः ।
लिङ्गं छित्त्वा वधस्तस्य सकामायाः स्त्रिया अपि ॥ ३.२३३ ॥

गोवधो व्रात्यता स्तेयमृणानां चानपाक्रिया ।
अनाहिताग्नितापण्य- विक्रयः परिदेवनम् ॥ ३.२३४ ॥

भृतादध्ययनादानं भृतकाध्यापनं तथा ।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया ॥ ३.२३५ ॥

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम् ।
नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः ॥ ३.२३६ ॥

धान्यकुप्यपशुस्तेयमयाज्यानां च याजनम् ।
पितृमातृसुतत्यागस्तडागारामविक्रयः ॥ ३.२३७ ॥

कन्यासंदूषणं चैव परिविन्दकयाजनम् ।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम् ॥ ३.२३८ ॥

आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम् ।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च ॥ ३.२३९ ॥

इन्धनार्थं द्रुमछेदः स्त्रीहिंसाउषधजीवनम् ।
हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः ॥ ३.२४० ॥

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम् ।
तथैवानाश्रमे वासः परान्नपरिपुष्टता ॥ ३.२४१ ॥

असच्छास्त्राधिगमनमाकरेष्वधिकारिता ।
भार्याया विक्रयश्चैषामेकैकमुपपातकम् ॥ ३.२४२ ॥

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिमाप्नुयात् ॥ ३.२४३ ॥

ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य च ।
तथाश्वमेधावभृथ- स्नानाद्वा शुद्धिमाप्नुयात् ॥ ३.२४४ ॥

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गामथापि वा ।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः ॥ ३.२४५ ॥

आनीय विप्रसर्वस्वं हृतं घातित एव वा ।
तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुध्यति ॥ ३.२४६ ॥

लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम् ।
मज्जान्तां जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम् ॥ ३.२४७ ॥

संग्रामे वा हतो लक्ष्य- भूतः शुद्धिमवाप्नुयात् ।
मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति ॥ ३.२४८ ॥

अरण्ये नियतो जप्त्वा त्रिर्वै वेदस्य संहिताम् ।
शुध्येत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम् ॥ ३.२४९ ॥

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिमवाप्नुयात् ।
आदातुश्च विशुद्ध्यर्थमिष्टैर्वैश्वानरी स्मृता ॥ ३.२५० ॥

यागस्थक्षत्रविड्घाती चरेद्ब्रह्महणि व्रतम् ।
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः ॥ ३.२५१ ॥

चरेद्व्रतमहत्वापि घातार्थं चेत्समागतः ।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ॥ ३.२५२ ॥

सुराम्बुघृतगोमूत्र- पयसामग्निसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥ ३.२५३ ॥

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत् ।
पिण्याकं वा कणान् वापि भक्षयेत्त्रिसमा निशि ॥ ३.२५४ ॥

अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रमेव च ।
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ३.२५५ ॥

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् ।
इहैव सा शुनी गृध्री सूकरी चोपजायते ॥ ३.२५६ ॥
ब्राह्मणस्वर्णहारी तु राज्ञे मुसलमर्पयेत् ।
स्वकर्म व्याख्यायंस्तेन हतो मुक्तोऽपि वाशुचिः ॥ ३.२५७ ॥

अनिवेद्य नृपे शुध्येत्सुरापव्रतमाचरन् ।
आत्मतुल्यं सुवर्णं वा दद्याद्वा विप्रतुष्टिकृत् ॥ ३.२५८ ॥

तप्तेऽयःशयने सार्धमायस्या योषिता स्वपेत् ।
गृहीत्वोत्कृत्य वृषणौ नैरृत्यां चोत्सृजेत्तनुम् ॥ ३.२५९ ॥

प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ॥ ३.२६० ॥

एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः ।
कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ॥ ३.२६१ ॥

चान्द्रायणं चरेत्सर्वानवकृष्टान्निहत्य तु ।
शूद्रोऽधिकारहीनोपि कालेनानेन शुध्यति ॥ ३.२६२ ॥

पञ्चगव्यं पिबेद्गोघ्नो मासमासीत संयतः ।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति ॥ ३.२६३ ॥

कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः ।
दद्यात्त्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः ॥ ३.२६४ ॥

उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा ।
पयसा वापि मासेन पराकेणाथ वा पुनः ॥ ३.२६५ ॥

ऋषभैकसहस्रा गा दद्यात्क्षत्रवधे पुमान् ।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत् ॥ ३.२६६ ॥

वैश्यहाब्दं चरेदेतद्दद्याद्वैकशतं गवाम् ।
षण्मासाच्छूद्रहाप्येतद्धेनुर्दद्याद्दशाथ वा ॥ ३.२६७ ॥

दुर्वृत्तब्रह्मविट्क्षत्र- शूद्रयोषाः प्रमाप्य तु ।
दृतिं धनुर्बस्तमविं क्रमाद्दद्याद्विशुद्धये ॥ ३.२६८ ॥

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।
अस्थिमतां सहस्रं तु तथानस्थिमतामनः ॥ ३.२६९ ॥

मार्जारगोधानकुल- मण्डूकांश्च पतत्रिणः ।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत् ॥ ३.२७० ॥

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः ।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः ॥ ३.२७१ ॥

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः ।
भासं च हत्वा दद्याद्गामक्रव्यादस्तु वत्सिकाम् ॥ ३.२७२ ॥

उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम् ।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम् ॥ ३.२७३ ॥

तित्तिरौ तु तिलद्रोणं गजादीनामशक्नुवन् ।
दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये ॥ ३.२७४ ॥

फलपुष्पान्नरसज- सत्त्वघाते घृताशनम् ।
किंचित्सास्थिवधे देयं प्राणायामस्त्वनस्थिके ॥ ३.२७५ ॥
वृक्षगुल्मलतावीरु- च्छेदने जप्यमृक्शतम् ।
स्यादोषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम् ॥ ३.२७६ ॥

पुंश्चलीवानरखरैर्दष्टश्वोष्ट्रादिवायसैः ।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति ॥ ३.२७७ ॥

यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत् ।
स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत् ॥ ३.२७८ ॥

मयि तेज इति छायां स्वां दृष्ट्वाम्बुगतां जपेत् ।
सावित्रीमशुचौ दृष्टे चापल्ये चानृतेऽपि च ॥ ३.२७९ ॥

अवकीर्णी भवेद्गत्वा ब्रह्मचारी तु योषितम् ।
गर्दभं पशुमालभ्य नैरृतं स विशुध्यति ॥ ३.२८० ॥

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रमनातुरः ।
कामावकीर्ण इत्याभ्यां जुहुयादाहुतिद्वयम् ॥ ३.२८१ ॥

उपस्थानं ततः कुर्यात्सं मा सिंचन्त्वनेन तु ।
मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च ॥ ३.२८२ ॥

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ।
कृच्छ्रत्रयं गुरुः कुर्यान्म्रियते प्रहितो यदि ॥ ३.२८३ ॥

क्रियमाणोपकारे तु मृते विप्रे न पातकम् ।
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च ॥ ३.२८३:१ ॥

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः ।
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन् ॥ ३.२८४ ॥

महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् ।
अब्भक्षो मासमासीत स जापी नियतेन्द्रियः ॥ ३.२८५ ॥

अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयमेव वा ।
निर्वपेत्तु पुरोडाशं वायव्यं पशुमेव वा ॥ ३.२८६ ॥

अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत् ।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति ॥ ३.२८७ ॥

त्रीन् कृच्छ्रानाचरेद्व्रात्य- याजकोऽभिचरन्नपि ।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम् ॥ ३.२८८ ॥

गोष्ठे वसन् ब्रह्मचारी मासमेकं पयोव्रतम् ।
गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात् ॥ ३.२८९ ॥

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः ।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम् ॥ ३.२९० ॥

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद्दिनम् ॥ ३.२९१ ॥

विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने ।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते ॥ ३.२९२ ॥

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः ।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ॥ ३.२९३ ॥
दाषीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः ।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ ३.२९४ ॥

चरितव्रत आयाते निनयेरन्नवं घटम् ।
जुगुप्सेरन्न चाप्येनं संवसेयुश्च सर्वशः ॥ ३.२९५ ॥

पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः ।
वासो गृहान्तके देयमन्नं वासः सरक्षणम् ॥ ३.२९६ ॥

नीचाभिगमनं गर्भ- पातनं भर्तृहिंसनम् ।
विशेषपतनीयानि स्त्रीमामेतान्यपि ध्रुवम् ॥ ३.२९७ ॥

शरणागतबालस्त्री- हिंसकान् संवसेन्न तु ।
चीर्णव्रतानपि सतः कृतघ्नसहितानिमान् ॥ ३.२९८ ॥

घटेऽपवर्जिते ज्ञाति- मध्यस्थो यवसं गवाम् ।
स दद्यात्प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया ॥ ३.२९९ ॥

विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् ।
[रहस्यप्रायश्चित्तम्]

अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३.३०० ॥

त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् ।
अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् ॥ ३.३०१ ॥

लोमभ्यः स्वाहेत्यथ वा दिवसं मारुताशनः ।
जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः ॥ ३.३०२ ॥

त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः ।
ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ ३.३०३ ॥

सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः ।
गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥ ३.३०४ ॥

प्राणायामशतं कार्यं सर्वपापापनुत्तये ।
उपपातकजातानामनादिष्टस्य चैव हि ॥ ३.३०५ ॥

ओंकाराभिष्टुतं सोम- सलिलं पावनं पिबेत् ।
कृत्वा हि रेतोविण्मूत्र- प्राशनं तु द्विजोत्तमः ॥ ३.३०६ ॥

निशायां वा दिवा वापि यदज्ञानकृतं भवेत् ।
त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ३.३०७ ॥

शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः ।
सर्वपापहरा ह्येते रुद्रैकादशिनी तथा ॥ ३.३०८ ॥

यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः ।
तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा ॥ ३.३०९ ॥

वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् ।
न स्पृशन्तीह पापानि महापातकजान्यपि ॥ ३.३१० ॥

वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक् ।
जप्त्वा सहस्रं गायत्र्याः शुध्येद्ब्रह्मवधादृते ॥ ३.३११ ॥

ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता ।
अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः ॥ ३.३१२ ॥

स्नानं मौनोपवासेज्या- स्वाध्यायोपस्थनिग्रहाः ।
नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ ३.३१३ ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् ॥ ३.३१४ ॥

पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः ।
सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ३.३१५ ॥

पर्णोदुम्बरराजीव- बिल्वपत्रकुशोदकैः ।
प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ ३.३१६ ॥

तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् ।
एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३.३१७ ॥

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः ॥ ३.३१८ ॥

यथाकथंचित्त्रिगुणः प्राजापत्योऽयमुच्यते ।
अयमेवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः ॥ ३.३१९ ॥

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् ।
द्वादशाहोपवासेन पराकः परिकीर्तितः ॥ ३.३२० ॥

पिण्याकाचामतक्राम्बु- सक्तूनां प्रतिवासरम् ।
एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयमुच्यते ॥ ३.३२१ ॥

एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् ।
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ॥ ३.३२२ ॥

तिथिवृद्ध्या चरेत्पिण्डान् शुक्ले शिख्यण्डसम्मितान् ।
एकैकं ह्रासयेत्कृष्ने पिण्डं चान्द्रायणं चरन् ॥ ३.३२३ ॥

यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् ।
मासेनैवोपभुञ्जीत चान्द्रायणमथापरम् ॥ ३.३२४ ॥

कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा ।
पवित्राणि जपेत्पिण्डान् गायत्र्या चाभिमन्त्रयेत् ॥ ३.३२५ ॥

अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन च ।
धर्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् ॥ ३.३२६ ॥

कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियमाप्नुयात् ।
यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः ॥ ३.३२७ ॥

श्रुत्वैतानृषयो धर्मान् याज्ञवल्क्येन भाषितान् ।
इदमूचुर्महात्मानं योगीन्द्रममितौजसम् ॥ ३.३२८ ॥

य इदं धारयिष्यन्ति धर्मशास्त्रमतन्द्रिताः ।
इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् ॥ ३.३२९ ॥

विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा ।
आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् ॥ ३.३३० ॥

श्लोकत्रयमपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति ।
पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः ॥ ३.३३१ ॥

ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् ।
वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् ॥ ३.३३२ ॥

य इदं श्रावयेद्विद्वान् द्विजान् पर्वसु पर्वसु ।
अश्वमेधफलं तस्य तद्भवाननुमन्यताम् ॥ ३.३३३ ॥

श्रुत्वैतद्याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम् ।
एवमस्त्विति होवाच नमस्कृत्य स्वयंभुवे ॥ ३.३३४ ॥

2 thoughts on “याज्ञवल्क्य स्मृति

  • June 6, 2022 at 9:33 pm
    Permalink

    याज्ञवल्क्य स्मृति को आपके साइट मे प्रकाशित करने से लोकोपकार बहुत हुआ हे आप से | लेकिन इस साइट का उपयोग तो अत्यन्त संकुचित हो गया है कि इस वाक्यों को हम कापि करने से मना किया है आप | इसके कारण इस साइट सप्रयोजनता को खो गया है | जब आप ने कापि करने का सौलभ्य निवेश करें तब ही इस साइट का पूर्ण प्रयोजन लोग पा सकें |

    Reply
    • June 6, 2022 at 9:55 pm
      Permalink

      जी धन्यवाद ..
      आपके इस सूचना का विचार कर कार्यान्वित करने का प्रयत्न किया जायेगा .. पहले कॉपी पेस्ट की सुविधा दी गयी थी. लेकीन कूछ विभाग मे रहे लेख पोस्ट के कारण ये सुविधा बंद करदीं गयी.
      लेकीन इस बारे मे जरूर विचार विमर्श कर कार्यान्वित होणे का प्रयास होगा..
      पुनः धन्यवाद …

      Reply

Leave a Reply to Shyam Joshi Cancel reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!